14017: स्वादिष्वसर्वनामस्थाने

Padacheda: सुँ-आदिषु | S | 7 | 3 |

असर्वनामस्थाने | S | 7 | 1 |

Sutrartha

असर्वनामस्थानसंज्ञके स्वादिप्रत्यये परे प्रकृतेः पदसंज्ञा भवति । यथा - राजन् + भ्याम् ।

व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति पदम् इति संज्ञा । सुप्तिङन्तं पदम् (1.4.14) इत्यतः स्वादिष्वसर्वनामस्थाने (1.4.17) इत्येतैः चतुर्भिः सूत्रैः इयं संज्ञा विधीयते । अस्य सूत्रसमूहस्य इदं अन्तिमं सूत्रम् । यः स्वादिप्रत्ययः सर्वनामसंज्ञकः नास्ति, तस्मिन् परे प्रातिपदिकस्य **पदम् इति संज्ञा भवति** - इति अस्य सूत्रस्य आशयः । <spacer> <hlb>स्वादिप्रत्ययाः</hlb> - अष्टाध्याय्यां चतुर्थे अध्याये, पञ्चमे अध्याये च प्रातिपदिकेभ्यः विहिताः प्रत्ययाः पाठिताः सन्ति । एतेषु प्रथमः प्रत्ययः स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप् (4.1.2) इत्यनेन विहितः “सुँ” इति अस्ति; तथा च अन्तिमः प्रत्ययः उरःप्रभृतिभ्यः कप् (5.4.151) इत्यनेन पाठितः “क्विप्”-प्रत्ययः अस्ति । एते सर्वेऽपि प्रत्ययाः स्वादिप्रत्ययाः इति नाम्ना ज्ञायन्ते । <spacer> <hlb>सर्वनामस्थानसंज्ञकप्रत्ययाः</hlb>- स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप् (4.1.2) इत्यस्मिन् सूत्रे विद्यमानाः केचन प्रत्ययाः सर्वनामसंज्ञकप्रत्ययाः नाम्ना ज्ञायन्ते । तदित्थम् -

<li>1. पुंलिङ्गशब्दात्, स्त्रीलिङ्गशब्दात् विहिताः सुँ, , जस्, अम्, औट् - एते पञ्च प्रत्ययाः सुडनपुंसकस्य (1.1.43) इति सूत्रेण सर्वनामस्थानसंज्ञकप्रत्ययाः भवन्ति । <li>2. नपुंसकलिङ्गशब्दात् विहितौ जस् तथा शस् एतौ प्रत्ययौ शि सर्वनामस्थानम् (1.1.42) इत्यनेन सर्वनामस्थानसंज्ञकौ भवतः ।

<spacer> एतान् सर्वनामसंज्ञकप्रत्ययान् विहाय अन्ये सर्वेऽपि स्वादिप्रत्ययाः असर्वनामस्थानसंज्ञकाः स्वादिप्रत्ययाः सन्ति । इत्युक्ते, सुँ, , जस्, अम्, औट् - इत्येतान् विहाय अन्यः कोऽपि स्वादिप्रत्ययः पुंलिङ्गशब्दात् स्त्रीलिङ्गशब्दात् वा विधीयते चेत् तस्य पुंलिङ्गशब्दस्य, स्त्रीलिङ्गशब्दस्य च पदम् इति संज्ञा भवति । एवमेव, जस् तथा शस् एतौ प्रत्ययौ विहाय अन्यः कोऽपि स्वादिप्रत्ययः नपुंसकलिङ्गशब्दात् विधीयते चेत् तस्य नपुंसकलिङ्गशब्दस्य पदम् इति संज्ञा भवति । <note>असर्वनामस्थानसंज्ञकाः स्वादिप्रत्ययाः स्वयं पदसंज्ञकाः न सन्ति, अपितु तेषु परेषु प्रातिपदिकस्य पदसंज्ञा भवति । </note>

उदाहरणानि

असर्वनामस्थानसंज्ञकप्रत्ययेषु परेषु प्रातिपदिकस्य पदसंज्ञायाः कानिचन उदाहरणानि एतानि - <listsp> <li>1. तृतीयाद्विवचनस्य “भ्याम्” प्रत्यये परे “पयस्” शब्दस्य प्रकृतसूत्रेण पदसंज्ञा भवति, अतएव प्रक्रियायाम् रुत्वम् उत्वं च कृत्वा इष्टं रूपं सिद्ध्यति —

पयस् + भ्याम् [तृतीयाद्विवचनस्य प्रत्ययः । अयं सर्वनामस्थानसंज्ञकप्रत्ययः नास्ति, अतः अस्मिन् प्रत्यये परे प्रकृतेः पदसंज्ञा भवति ।]
→ पयरुँ + भ्याम् [**पदान्ते विद्यमानस्य** सकारस्य **ससजुषो रुः** (8.2.66) इति रुत्वम् ।]
→ पयउ + भ्याम् [रुँ-इत्यस्य **हशि च** (6.1.114) इति उत्वम्]
→ पयोभ्याम् [**आद्गुणः** (6.1.87) इति गुणैकादेशः]

<li>2. “ब्रह्मणः भावः” अस्मिन् अर्थे “ब्रह्मन्” इति शब्दात् तस्य भावस्त्वतलौ (5.1.119) इति सूत्रेण “त्व” इति प्रत्ययः विधीयते । अस्मिन् प्रत्यये परे “ब्रह्मन्” शब्दस्य पदसंज्ञा भवति, अतः नकारस्य नलोपः प्रातिपदिकान्तस्य (8.2.7) इत्यनेन लोपः जायते —

ब्रह्मन् + त्व [ **तस्य भावस्त्वतलौ** (5.1.119) इति सूत्रेण त्व-प्रत्ययः । अयं सर्वनामस्थानसंज्ञकप्रत्ययः नास्ति, अतः अस्मिन् प्रत्यये परे प्रकृतेः पदसंज्ञा भवति ।]
→ ब्रह्म + त्व [**पदसंज्ञकस्य** प्रातिपदिकस्य अन्ते विद्यमानस्य नकारस्य **नलोपः प्रातिपदिकान्तस्य** (8.2.7) इत्यनेन लोपः ।]
→ ब्रह्मत्व

<li>3. “वाक् अस्य अस्ति” अस्मिन् अर्थे “वाक्”-शब्दात् तदस्यास्त्यस्मिन्निति मतुप् (5.2.94) इति सूत्रेण “मतुप्”-प्रत्ययः विधीयते । अस्मिन् प्रत्यये परे प्रकृतेः पदसंज्ञा भवति, अतएव “वाच्”-शब्दस्य चकारस्य कुत्वं सम्भवति । सम्पूर्णा प्रक्रिया इयम् —

वाक् अस्य अस्ति
= वाच् + मतुँप्  [**तदस्यास्त्यस्मिन्निति मतुप्** (5.2.94) इति सूत्रेण मतुप्-प्रत्ययः ।  अयं सर्वनामस्थानसंज्ञकप्रत्ययः नास्ति, अतः अस्मिन् प्रत्यये परे प्रकृतेः पदसंज्ञा भवति ।]
→ वाच् + वत् [**झयः** (8.2.10) इति सूत्रेण झय्-वर्णात् परस्य मतुँप्-प्रत्ययस्य मकारस्य वकारादेशः]
→ वाक् + वत् [**चोः कुः** (8.2.30) इति **पदान्ते** विद्यमानस्य चकारस्य कुत्वम् । ]
→ वाग् + वत् [**झलां जशोऽन्ते** (8.2.39) इति **पदान्ते** विद्यमानस्य ककारस्य जश्त्वे गकारः]
→ वाग्वत् ।

</listsp>

दलकृत्यम्

1. **स्वादिषु इति किमर्थम् ? ** यः प्रत्ययः स्वादिप्रत्ययः नास्ति (इत्युक्ते, चतुर्थाध्याये पञ्चमाध्याये वा पाठितः नास्ति) तस्य विषये प्रकृतसूत्रं न प्रवर्तते । यथा, तृतीयाध्याये यजयाचयतविच्छप्रच्छरक्षो नङ् (3.3.90) इति सूत्रेण पाठितः “नङ्” इति प्रत्ययः स्वादिप्रत्ययः नास्ति, अतः “याच् + नङ्” इत्यत्र “नङ्”-प्रत्यये परे प्रकृतेः (इत्युक्ते, “याच्” इति धातोः) पदसंज्ञा न भवति । यदि “याच्” धातोः पदसंज्ञा अभविष्यत्, तर्हि चोः कुः (8.2.30) इत्यनेन पदान्तचकारस्य अनिष्टं कुत्वम् अभविष्यत् । <spacer> 2. **असर्वनामस्थाने इति किमर्थम् ? ** यः प्रत्ययः सर्वनामस्थानसंज्ञकः अस्ति, तस्य पदसंज्ञा न भवति । यथा, “राजन् + औ” इत्यत्र प्रथमाद्विवचनस्य “औ” इति सर्वनामस्थानसंज्ञकप्रत्यये परे “राजन्”-शब्दस्य पदसंज्ञा न भवति । यदि अस्य शब्दस्य पदसंज्ञा अभविष्यत्, तर्हि नलोपः प्रातिपदिकान्तस्य (8.2.7) इत्यनेन “राजन्”-शब्दस्य नकारस्य अनिष्टः लोपः अभविष्यत् ।

**असर्वनामस्थाने इति पर्युदासः**

प्रकृतसूत्रे उपस्थिते असर्वनामस्थाने इति शब्दे विद्यमानः इति निषेधः पर्युदासः अस्ति । इत्युक्ते, अत्र पदार्थस्य निषेधं कृत्वा अन्यपदार्थस्य विधानं क्रियते । सामान्यभाषायाम्, यः पदार्थः सर्वनामसंज्ञकः नास्ति तस्मिन् परे प्रकृतेः पदसंज्ञा भवति - इति अत्र असर्वनामस्थाने इत्यस्य अर्थः स्वीक्रियते । यदि अत्र “प्रसज्यप्रतिषेधः” स्यात्, तर्हि - * प्रकृतेः सर्वत्र पदसंज्ञा भवति, स्वादिषु सर्वनामस्थानसंज्ञकेषु न भवति* - इति अनिष्टः अर्थः सिद्ध्येत् । एतादृशे अर्थे स्वीकृते, अस्वादिषु प्रत्ययेषु परेषु, किञ्च, प्रत्ययं विना अपि प्रकृतेः पदसंज्ञा अभविष्यत् ।

सुँ-प्रत्ययान्तस्य पदसंज्ञा भवत्येव

पुंलिङ्गप्रातिपदिकात्, स्त्रीलिङ्गप्रातिपदिकात् वा विहितः “सुँ” इति प्रत्ययः सर्वनामसंज्ञकः अस्ति, अतः अस्मिन् प्रत्यये परे प्रकृतेः पदसंज्ञा न भवति । परन्तु, “सुँ” इति सुप्-प्रत्ययः अस्ति, अतः “सुँ”-प्रत्ययान्तशब्दस्य पदसंज्ञा अवश्यं भवति । यथा, “मरुत्” इति प्रातिपदिकात् प्रथमैकवचनस्य सुँ-प्रत्यये कृते, “मरुत् + सुँ” इत्यत्र यद्यपि “मरुत्” इति प्रातिपदिकस्य पदसंज्ञा नास्ति, तथापि “मरुत् + सुँ” इति समूहस्य सुप्तिङन्तं पदम् (1.4.14) इति पदसंज्ञा अवश्यम् एव विद्यते । अग्रे प्रक्रियायाम् हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् ** (6.1.68) इति “सुँ”-प्रत्ययस्य लोपे कृते, “मरुत्” इति प्रकृतिमात्रम् अवशिष्यते । यद्यपि अस्याः प्रकृतेः पदसंज्ञा नास्ति, तथापि तत्र विद्यमानः लुप्तः सुँ-प्रत्ययः **प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इत्यस्य सामर्थ्यात् सुबन्तत्वम् (अतः पदत्वम् अपि) अवश्यम् एव विदधाति । अतएव “मरुत्”-शब्दस्य प्रथमैकवचनस्य रूपम् “मरुत्” इति अवश्यम् एव पदसंज्ञकम् अस्ति ।

बाध्यबाधकभावः

केषुचन विशिष्टेषु असर्वनामस्थानसंज्ञकेषु स्वादिप्रत्ययेषु परेषु यचि भम् (1.4.18) तथा च तसौ मत्वर्थे (1.4.19) इत्यनेन प्रकृतेः इति संज्ञा विधीयते । इयं संज्ञा एकसंज्ञाधिकारात् प्रकृतसूत्रेण उक्तां पदसंज्ञां बाधते, अतः भ**संज्ञकशब्दाः पदसंज्ञकाः नैव सन्ति । यथा, “शशिन् + टा” इत्यत्र “टा” इति असर्वनामस्थानसंज्ञके प्रत्यये परे “शशिन्” इति प्रातिपदिकस्य पदसंज्ञां बाधित्वा भसंज्ञा भवति । यदि अत्र “शशिन्” इति प्रातिपदिकस्य पदसंज्ञा अभविष्यत्, तर्हि **नलोपः प्रातिपदिकान्तस्य (8.2.7) इत्यनेन “शशिन्” इत्यस्य नकारस्य अनिष्टः लोपः अभविष्यत् ।

Sutrartha (English)

If a प्रत्यय which is not a सर्वनामस्थान and which is specified in the fourth or fifth chapter gets attached to an प्रकृति , the प्रकृति gets the term पद.

Vasu English Summary

When the affixes beginning with a सु (4.1.2) and ending in कप् (5.4.151) follow, not being सर्वनामस्थान (1.1.43) then that which precedes is called पद।

Vasu English Translation

When the affixes beginning with a सु (4.1.2) and ending in कप् (5.4.151) follow, not being सर्वनामस्थान (1.1.43) then that which precedes is called पद। The affixes beginning with su and ending with kap are meant by the above sutra. Thus the case-affix भ्याम् (Ins Dual) is an affix included in the above. Thus राजन् + भ्याम् = राजभ्याम्, राजभिः, राजत्वं, राजता, राजतरः, राजतमः The न is elided by being pada.

Why do we say ‘when not a Sarvanamasthana’? Observe राजन् + औ = राजानौ two kings. kings. राजानः kings. The न is not elided.

Bhashya

स्वादिष्वसर्वनामस्थाने (257) असर्वनामस्थान इत्युच्यते तत्र ते राजा तक्षा असर्वनामस्थान इति प्रतिषेधः प्रसज्येत। नाप्रतिषेधात् ॥ 1 ॥ नाऽयं प्रसज्यप्रतिषेधः - सर्वनामस्थाने नेति । किं तर्हि ? पर्युदासोऽयम् - यदन्यत्सर्वनामस्थानादिति । सर्वनामस्थानेऽव्यापारः । यदि केनचित्प्राप्नोति तेन भविष्यति । पूर्वेण च प्राप्नोति। अप्राप्तेर्वा ॥ 2 ॥ अथवाऽनन्तरा या प्राप्तिः सा प्रतिषिध्यते । कुत एतत् ? अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति । पूर्वा प्राप्तिरप्रतिषिद्धा, तया भविष्यति। ननु चेयं प्राप्तिः पूर्वां प्राप्तिं बाधते । नोत्सहते प्रतिषिद्धा सती बाधितुम् । योगविभागद्वा ॥ 3 ॥ अथ वा योगविभागः करिष्यते - स्वादिषु पूर्वं पदसंज्ञं भवति । ततः सर्वनामस्थानेऽयचिपूर्वं पदसंज्ञं भवति । ततः भम् भसंज्ञं च भवति यजादावसर्वनामस्थान इति। यदि तर्हि सावपि पदं भवति, एचः प्लुतविकारे पदान्तग्रहणं चोदितम्। इह माभूत् - भद्रं करोषि गौरिति । तस्मिन्क्रियमाणेऽपि प्राप्नोति । वाक्यपदयोरन्त्यस्येत्येवं तत् । भुवद्वद्भ्यो धारयद्वद्भ्यः पदसंज्ञा ॥ 4 ॥ एतयोः पदसंज्ञा वक्तव्या । भुवद्वद्भ्यः धारयद्वद्भ्यः ॥ 17 ॥

Kashika

स्वादिष्विति सुशब्दादेकवचनाद् (४.१.२) आरभ्य आ कपः (५.४.१५१) प्रत्यया गृह्यन्ते। स्वादिषु प्रत्ययेषु परतः सर्वनामस्थानवर्जितेषु पूर्वं पदसंज्ञं भवति। राजभ्याम्, राजभिः। राजत्वम्। राजता। राजतरः। राजतमः। असर्वनामस्थान इति किम्? राजानौ, राजानः॥

Siddhanta Kaumudi

कप्प्रत्ययवधिषु स्वादिष्वसर्वनामस्थानेषु परतः पूर्वं पदसंज्ञं स्यात् ॥

Laghu Siddhanta Kaumudi

कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं पदं स्यात्॥

Balamanorama

स्वादिष्वसर्वनामस्थाने - तदेतदाह — स्वादिपञ्चेति । स्वादिष्वस ।असर्वनामस्थाने॑इति बहुत्वेऽप्येकवचनमार्षम् । कप्प्रत्ययावधिष्विति । पञ्चमाध्यायान्ते विधीयमानकप्प्रत्ययोत्तरावधिकेष्वित्यर्थः । तत्र च व्याख्यानमेव शरणम् । एवं च दत्-असित्यत्र दत्शब्दस्य सुबन्तत्वाऽभावेन पदत्वाऽभावेऽप्यनेन सूत्रेण पदत्वात् ‘झलां जशोऽन्ते’ इति तकारस्य जश्त्वं स्यादित्याक्षेपः सूचितः ।

Tattvabodhini

स्वादिष्वसर्वनामस्थाने - स्वादिष्वसर्वनाम ।सु॑रत्र सप्तमीबहुवचनमिति न शङ्क्यम् , किंतुअसर्वनामस्थाने॑ इति पर्युदासात्प्रथमैकवचनमेव ।सुपी॑त्येव सिद्धे आदिग्रहणमधिकपरिग्रहार्थमित्याशयेनाह -कप्प्रत्ययावधिष्विति । नन्वेवं-राजे॑त्यत्र नलोपो न स्यात्प्रत्ययलक्षणेन सर्वनामस्थानपरतया पदत्वाऽभावात् । नैष दोषः । सौ परतःस्वादिषु॑ इत्यनेन पदत्वाऽसंभवेऽपि सुब्विशिष्टस्यसुप्तिङ्न्त॑मितित पदसंज्ञायां हल्ङ्यादिना सुलोपे एकदेशविकृतन्यायेन नकारान्तस्य पदत्वात् । यदि तुस्वादिषु॑ इतियोगेन स्वादिषु परेषु पूर्वं पदं भवतीति पूर्वस्य पदसंज्ञां विधाययचि भ॑मित्यत्रयची॑ति च्छित्त्वायजादौ सर्वनामस्थाने परतः पूर्वं पदं नेति निषिध्यते, तदा औजसादिषुपदसंज्ञाऽभावेऽपि सौ परतः पदत्वसंभवात्राजे॑त्यादौ नलोपे कार्ये न काप्यनुपपत्तिः ।

Padamanjari

स्वादिष्विति सुशब्दादेकवचनादिति। सप्तमीबहुवचनादारभ्य ग्रहणं न भवति; ठसर्वनामस्थानेऽ इति निषेधात्, यदि हि राजश्रित इत्यादौ सर्वनामस्थाने’सुबन्तम्’ इति प्राप्तायाः संज्ञायाः निषेधोऽभीष्टः स्यात्, तत्रैव ठसर्वनामस्थानेऽ इति ब्रूयात्। अथ राजवानित्यादावन्तर्वर्तिनिषेध इति चेद्, न; लुमता लुप्ते प्रत्ययलक्षणाभावात्,’तसौ मत्वर्थे’ इति पदसंज्ञाबाधनाय भसंज्ञाविधानाच्च। आ कप इति। यदि पुनः सप्तमीबहुवचनपर्यन्ता एकविंशतिः प्रत्यया गृह्यएरन्, तदा सुब्ग्रहणमेव कुर्याद्, अनुवर्तयेद्वा; ठसर्वनामस्थानेऽ इत्यनेन सम्बन्धात्सप्तम्या विपरिणामात् सिद्धम्। किमथ पुनरा कपः प्रत्यया गृह्यन्ते, यावता सुबन्तातद्धितोत्पतिः समर्थाधिकारात्, स्वार्थिका अपि सुबन्तादेव’घकालतनेषु’ इति लिङ्गत्, ततश्च राजत्वं राजतेत्यादावन्तर्वर्तिन्या विभक्त्या सुबन्तं पदमित्येव सिद्धम्? सत्यम्; भसंज्ञार्थं त्वा कपः प्रत्यया गृहीताः। राजत्वमित्यादि। सुबन्तत्वेऽपि। परत्वादनेन पदत्वं युक्तमित्येषामुपन्यासः। राजानौ, राजान इति। अत्रापदत्वान्नलोपाभावः, राजेत्यत्र तु प्रत्ययलक्षणेन निषेधो न भवति’न ङसिम्बुद्ध्योः’ इति लिङ्गान्नैतल्लिङ्गमुपपद्यते। हे वर्मन्निति नपुंसके लुमता लुप्ते सर्वनामस्थाने निषेधाभावादस्त्येव पदत्वमिति तत्रार्थवान् प्रतिषेधः। एवं तर्हि नायं प्रसज्यप्रतिषेधः- सर्वनामस्थाने नेति, किं तर्हि? पर्युदासोऽयम्-पदन्यत्सर्वनामस्थानदिति। सर्वनामस्थाने न विधिर्न प्रतिषेधः; यदि केनचित्प्राप्नोति, भवत्येव, पूर्वेण प्राप्नोति, अथ वा-अनन्तरा या प्राप्तिः सा प्रतिषिध्यते । कुतः पुनरेतद्? ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ। अथ वा-ठ्सर्वनामस्थानेऽ इत्यत्र यचीत्यपकृष्य सम्बध्यते, तेन यजादौ पदसंज्ञा निषिध्यते, न हलादाविति राजेत्याते, स्वादौ, एवं हि ठसर्वनामस्थानेऽ इति न वक्तव्यं भवति? उतरार्थ सुठ।ल्पि नपुंसके भसंज्ञा यथा स्यात्, साम्नी इत्यत्र मा भूद्। भसञ्ज्ञा’विभाषा ङिश्योः’ ईति वचनसामर्थ्यादेवाभस्याप्यल्लोपो भविष्यति। तत्रायमप्यर्थो यस्येत्यादौ’श्यां प्रतिषेधः’ इति न वक्तव्यं भवति; अभत्वादेव सिद्धम्। इह तर्हि सुपदी ब्राह्मणकुले इति पद्भावो न स्यादभत्वात्, इह च सामानि पश्येति भत्वादल्लोपः स्यादिति यथान्यासमेवास्तु॥

Nyaas

अत्र यदि सप्तमीबहुवचनादारभ्य आ कपः प्रत्यया गृह्रेरन्, तदा असर्वनामस्थाने इति प्रतिषेदं न कुर्यात्; प्राप्त्यभावात्। कृतश्चासावतोऽवसीयते प्रथमैकवचनादारभ्या कपः प्रत्ययाः स्वादयो गृह्रन्त इत्यत आह - स्वादिष्विति सुशब्दादेकवचनादारभ्य इति। राजत्वम्, राजता इति। तस्य भावस्त्वतलौ (5.1.119) । राजतरः इति। द्विवचनविभज्योपपदे तरबीयसुनौ (5.3.57) इति तरप्। राजतमः इति। अतिशायने (5.3.55) इत्यादिना तमप्।राजानौ,राजानः इति। अत्र पदसंज्ञाया अभावान्नलोपो न भवति। यद्येवम्, राजत्यत्रापि न स्यात्, प्रत्ययलक्षणेनासर्वनामस्थान इति पदसंज्ञाया अभावात्,नैष दोषः; आचार्यप्रवृत्तिज्र्ञापयति - भवति सौ परतः पदसंज्ञेति, यदयम् नङिसम्बुद्धयोः (8.2.8) इति प्रतिषेधं शास्ति। अत्र सम्बुद्धिशब्दोऽनर्थकः स्यात्, पदत्वाभावादेव नलोपस्याप्राप्तेः। अथ वा - असर्वनामस्थाने इति पर्युदासोऽयम्, न प्रसज्यप्रतिषेधः,तेन सर्वनामस्थानादन्यत्र पदसंज्ञा विधीयते; न तु सर्वनामस्थानं प्रतिषिध्यते। तेन तत्र पूर्वसूत्रेण सौ परे पदसंज्ञा भविष्यति। अथ वा- प्रसज्यप्रतिषेधेऽपि न दोषः, यस्मात् `अनन्तरस्य विधिर्वा प्रतिषेधो वा`(व्या।प।12) इत्यनन्तरा या प्राप्तिः सा प्रतिषिध्यते; न व्यवहिता। तेन सुप्तिङन्तं पदम् (1.4.14) इत्यकारलोपः॥

Prakriyasarvasvam

सर्वनामस्थानवर्जितेषु स्वादिषु परेषु भसंज्ञातोऽन्यत्र पूर्वं पदसंज्ञम् । इति पदत्वे संयोगान्तलोपः । पौंस्नः । वतिप्रत्ययात् पूर्वं सर्वत्राग्निकलिभ्यां ढग् वाच्यः’ (वा० ४-२-८) अग्निकल्योरपत्यादिः आग्नेयः । कालेयः ।।

Sudha

स्वादिष्विति । असर्वनामस्थान इति बहुत्वेऽप्येकवचनमार्षम् ।

Sutra Prayogas

  • अधिषत (भट्टिकाव्यम्): स्थाघ्वोरिच्च इति इत्वम्।