13066: भुजोऽनवने

Padacheda: भुजः | S | 5 | 1 |

अनवने | S | 7 | 1 |

Sutrartha


Vasu English Summary

After the verb भुज् , the आत्मनेपद is used, except in the sense of protecting.

Vasu English Translation

After the verb भुज् , the आत्मनेपद is used, except in the sense of protecting. The root bhuj when it does not mean to protect, is atmanepadi. This root belongs to the rudhadi class and has several meanings, as, to feed, to cherish, to preserve, to eat, and to enjoy. As भुंक्ते ‘he eats or enjoys’; also bhunjate, bhunjate &c. But पुत्रान् भुनक्ति पिता ‘the father cherishes the sons’, भुनक्त्येनमग्निराहितः.

The root bhuj belongs also to the tudadi class, but there it has the sense of being curved or crooked. The bhuj belonging to the tudadi class is not to be taken in this sutra, because that bhuj has never the sense of protecting. Therefore बिभुजति पाणिम् ‘he bends the hand,’ is in the parasmaipada.

Bhashya

भुजोऽनवने अनवनकौटिल्ययोः ॥1 ॥ अनवनकौटिल्ययोरिति वक्तव्यम् । इहापि यथा स्यात् - प्रभुजति वाससी, निभुजति जानुशिरसी इति ॥ तत्तर्हि वक्तव्यम् ? न वक्तव्यम् । यस्य भुजेरवनमनवनं चाऽर्थस्तस्य ग्रहणम् । न चाऽस्य भुजेरवनमनवनं चाऽर्थः ॥ 66 ॥

Kashika

भुज पालनाभ्यवहारयोः इति रुधादौ पठ्यते। तस्मादनवनेऽपालने वर्तमानादात्मनेपदं भवित। भुङ्क्ते, भुञ्जाते, भुञ्जते। अनवन इति किम्? भुनक्त्येनमग्निराहितः। अवनप्रतिषेधेन रौधादिकस्यैव ग्रहणं विज्ञायते, न तौदादिकस्य भुजो कौटिल्ये इत्यस्य। तेनेह न भवित — विभुजति पाणिम्॥

Siddhanta Kaumudi

ओदनं भुङ्क्ते । अभ्यवहरतीत्यर्थः । बुभुजे पृथिवीपालः पृथिवीमेव केवलाम् । वृद्धो जनो दुःखशतानि भुङ्क्ते । इहोपभोगो भुजेरर्थः । अनवने किम् । महीं भुनक्ति ॥

Laghu Siddhanta Kaumudi

तङानौ स्तः । ओदनं भुङ्क्ते । अनवने किम् ? महीं भुनक्ति ॥ {$ {! 21 ञिइन्धी !} दीप्तौ $} (07.0011) ॥ इन्द्धे । इन्धाते । इन्धते । इन्त्से । इन्ध्वे । इन्धाञ्चक्रे । इन्धिता । इन्धाम् । इन्धाताम् । इनधै । ऐन्ध । ऐन्धाताम् । ऐन्धाः ॥ {$ {! 22 विद !} विचारणे $} (07.0013) ॥ विन्दे । वेत्ता ॥ इति रुधादयः ॥ ७ ॥

Balamanorama

भुजोऽनवने - भुजोऽनवने । अवनं -रक्षणम् । ततोऽन्यत्र भुजेरात्मनेपदमित्यर्थः । ननु भुज पालनाऽब्यवहारयो॑ रिति धातुपाठे स्थितम् । तत्रबुभुजे पृथिवी॑मित्यत्र न पालनमर्थः । तथा सति ‘अनवने’ इति पर्युदासादात्मनेपदाऽयोगात् । नाप्यभ्यवहरणम्, असंभवात् । नहि पृथिव्या अभ्यवहरणं संभवति । तथावृद्धो जनो दुःखशतानि भुङ्क्ते॑ इत्पि न युज्यते, दुःखशतानां पालनस्य अभ्यवहरणस्य चाऽसंभवात् । तत्राह — इह उपभोगो भुजेरर्थ इति । धातूनामनेकार्थकत्वादिति भावः । महीं भुनक्तीति । रक्षतीत्यर्थः । अत्र रौधादिकस्यैवभुज पालनाभ्यवहारयो॑रित्यस्य ग्रहणम् — नतु ‘भुजो कौटिल्ये’ इति तौदादिकस्याऽपीति भाष्यम् । भुजति वासः = कुटिली भवतीत्यर्थः ।

Tattvabodhini

भुजोऽनवने - अवनं — पालनम् ।अदने॑ इति वक्तव्ये अनवन इति पर्युदासस्य प्रयोजनद्वयम् । संयोगवद्विप्रयोगस्यापि विशेषावधारणहेतुत्वाद्रौधादिकस्यैव भुजेग्र्रहममित्येकम्, अदनादर्थान्तरेऽप्युपभोगादौ आत्मनेपदं भवतीति द्वितीयम्, तदाह — बुभुजेपृथिवीपाल इति । इहेति । उपभोग इत्युपलक्षममात्मसात्करणस्यापि.पृथिवीं बुभुजे । स्वाधीनां चकारेत्यर्थः । भुज पालनाभ्यवहारयोरित्यस्य रूधादेस्वे ग्रहणमिति भुजो कौटिल्य इत्यस्मात्तुदादेः परस्मैपदमेव । पाणिं विभुजति । मूलानि विभुजति ।

Padamanjari

अनवनप्रतिषेधेनेत्यादि। संसर्गवद्विप्रयोगोऽपि विशेषस्मृतिहेतुः। यथा दोग्ध्रीपर्यायो धेनुशब्दः संसर्गिभिः विशेषेऽवस्थाप्यते - सवत्सा धेनुरानीयतां सकिशोरा सवर्करेति, तथाऽवत्साऽकिशोराऽवर्करेति। यस्या आनयने द्दष्टः संसर्गः सैव तत्र गृहीता आनीयते; तद्वदिहापीत्यर्थः॥

Nyaas

अवनप्रतिषेधेन इत्यादि। अवनं पालनम्। तत्प्रतिषेधेन रौधादिकस्य भुजेग्र्रहणं विज्ञायते; न तौदादिकस्य - {भुजौ - धातुपाठः} भुज कौडिस्ये (धातुपाठः-1417) इत्यस्य। यथैव हि सवत्सा धेनुरानीयतामित्युक्ते यस्या हि वत्सेन सह सम्बन्धः सम्भवति सैव गोधेनुरानीयते, न महिष्यादिधेनुः; तथेहाप्यवनप्रतिषेधेन यस्य भुजोऽनवने वृत्तिः सम्भवति, स एव रौधादिकः प्रतीयते; तस्मात् तस्यैव ग्रहणं विज्ञायते। तेन निर्भुजति, विभुजतीति तौदादिकस्यात्मनेपदं न भवति॥

Prakriyasarvasvam

अपालनार्थस्य भुनक्तेस्तङ् । अन्नं भुङ्क्ते । अवने भुवं भुनक्ति ।

Sutra Prayogas

  • बुभुजे (रघुवंशम्): भुजोऽनवने इत्यात्मनेपदम्।

  • बुभोज (रघुवंशम्): भुजोऽनवने इति नियमात् परस्मैपदम्।

  • बुभुजे (भट्टिकाव्यम्): भुजोऽनवने इति तङ्।

  • उपाभुङ्क्त (भट्टिकाव्यम्): भुजो ऽनवने इति तङ्।

  • भोक्ष्यते (भट्टिकाव्यम्): भुजोऽनवने इति तङ्।