13065: समः क्ष्णुवः¶
Padacheda: समः | S | 5 | 1 |
क्ष्णुवः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
After the verb क्षणु ‘to sharpen’, preceded by सम् , the आत्मनेपद is used.
Vasu English Translation¶
After the verb क्षणु ‘to sharpen’, preceded by सम् , the आत्मनेपद is used. The verb क्ष्णु ‘to sharpen, whet, or grind,’ is generally parasmaipadi, but it is atmanepadi, when it is preceded by the prefix सम्; as संक्ष्णुते शस्त्रम् ‘he whets the weapon’, संक्ष्णुवाते ‘they two whet’, संक्ष्णुवते ‘they all whet.’
It might be objected, why has a separate aphorism been made of the verb kshnu, when it could well have been included in the sutra (1.3.29) ante, which also speaks of the force of the prefix sam, when used with the verbs gam, richchha, &c. To this the answer is that, that sutra treats of intransitive verbs, the word akarmaka being understood therein, while the present sutra, as is evident from the example we have given above, treats of transitive verbs.
Bhashya¶
समः क्ष्णुवः किमर्थं विदेशस्थस्य ग्रहणं क्रियते, न समो गमादिष्वित्येवोच्येत ? समः क्ष्णुवः सकर्मकार्थम् ॥ 1 ॥ सकर्मकार्थोऽयमारम्भः । अकर्मकादिति तत्रानुवर्तते ॥ 65 ॥
Kashika¶
क्ष्णु तेजने परस्मैपदी। ततः संपूर्वादात्मनेपदं भवति। समो गम्यृच्छि० (१.३.२९) इत्यत्रैव कस्मान्न पठितः? अकर्मकादिति तत्र वर्तते। संक्ष्णुते शस्त्रम्, संक्ष्णुवाते, संक्ष्णुवते॥
Siddhanta Kaumudi¶
संक्ष्णुते शस्त्रम् ॥
Balamanorama¶
समः क्ष्णुवः - समः क्ष्णुवः ।आत्मनेपद॑मिति शेष॒समो गम्यृच्चिभ्या॑मित्यत्रैवसमो गम्यृच्छिक्ष् णुव॑ इति न सूत्रितं , तथा सति अकर्मकादित्यनुवृत्त्या सकर्मकान्न स्यात् । तत्सूचयन्नुदाहरति — संक्ष्णुते शस्त्रमिति । तीक्ष्णीकरोतीत्यर्थः ।
Tattvabodhini¶
समः क्ष्णुवः - समः क्ष्णुवः ।समो गम्यृच्छिक्ष्णुभ्यः॑ इति पठनीये पृथगस्य पाठः सकर्मकादपि विधानार्तं इति ध्वनयन्नुदाहरति — संक्ष्णुतेशस्त्रमिति ।
Padamanjari¶
इह’शर्परे विसर्जनीयः’ इत्यस्यावकाशो यत्र कुप्वोरसम्भवः-पुरुषः त्सरुकः;’कुप्वोःः कः पौ च’ इत्यस्य यत्र शर्परौ कुपू न सम्भवतः- पुरुषः करोतीति; शर्परयोरुभयोः प्रसङ्गे पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुतरस्येति’शर्परे विसर्जनीयः’ इति नित्यं विसर्जनीय एव भवति । तेन’समः क्ष्णुवः’ न कर्तव्यमिति भावः। संक्ष्णुवत इति। अदादित्वाच्छपो लुक्, ठात्मनेपदेष्वनतःऽ इति झस्यादादेशः,ठचि श्नुधातुऽइत्यादिनोवङ्॥
Nyaas¶
अकर्मकादिति तत्रानुवर्तते इति। सकर्मकादपि क्ष्णुव आत्मनपदमिष्यत इति मन्यते। अत एव सकर्मकस्योदाहरणमुपन्यस्तम्। संक्ष्णुते शस्त्रम् इति। अदादित्वाच्छपो लुक्। संक्ष्णुवाते इति। अचि श्नुधातु (6.4.77) इत्यादिनोवङ। संक्ष्णुवते इति। पूर्ववदादेशः।
Prakriyasarvasvam¶
‘संक्ष्णुवानः पृषत्कान्’ ।
Sutra Prayogas¶
संक्ष्णुवान (भट्टिकाव्यम्): समः क्ष्णुवः इति तङ्।
समक्ष्णुवत (भट्टिकाव्यम्): समः क्ष्णुवः इति तङ्।