13063: आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य¶
Padacheda: आम्-प्रत्ययवत् | S | 0 | 0 |
कृञः | S | 6 | 1 |
अनुप्रयोगस्य | S | 6 | 1 |
Sutrartha¶
कृ-धातोः अनुप्रयोगः क्रियते चेत् तस्य पदम् मूलधातुवत् भवति ।
‘आम्’ इति कश्चन प्रत्ययः अस्ति । कास्प्रत्ययादाममन्त्रे लिटि (3.1.35) इत्यतः भीह्रीभृहुवां श्लुवच्च (3.1.39) इति यावद्भिः सूत्रैः लिट्-लकारस्य विषये धातोः परः अयम् प्रत्ययः विधीयते । अस्मिन् प्रत्यये परे अग्रे उपस्थितस्य लकारस्य आमः (2.4.81) इत्यनेन लोपः भवति । एवं कृते कृञ् चानुप्रयुज्यते लिटि (3.1.40) इत्यनेन आम्-प्रत्ययात् परः कृ-धातोः / भू-धातोः / अस्-धातोः लिट्-लकारस्य उचितं रूपमागच्छन्ति । एतेषु त्रिषु धातुषु भू-धातुः अस्-धातुः च परस्मैपदिनौ स्तः, अतः ताभ्याम् नित्यम् परस्मैपदस्यैव प्रत्ययाः भवन्ति । परन्तु कृ-धातुः उभयपदी अस्ति । अतः तस्य किम् पदम् भवेत् इति प्रश्नः जायते । अस्य प्रश्नस्य उत्तरम् वर्तमानसूत्रेण लभ्यते - 1) यदि मूलधातुः परस्मैपदी अस्ति तर्हि कृ-धातोः परस्मैपदस्य प्रत्ययाः भवन्ति । 2) यदि मूलधातुः आत्मनेपदी अस्ति तर्हि कृ-धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति । 2) यदि मूलधातुः उभयपदी अस्ति तर्हि कर्तृगामिनि क्रियाफले स्थिते कृ-धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति, अन्येषु स्थितिषु च कृ-धातोः परस्मैपदस्य प्रत्ययाः भवन्ति । यथा -‘एध्’ धातोः प्रथमपुरुषैकवचनस्य प्रक्रियायाम् - एध् + लिट् [परोक्षे लिट् (3.2.115) इति लिट्] → एध् + आम् + ल् [इजादेश्च गुरुमतोऽनृच्छः (3.1.36) इति आम्-प्रत्ययः] → एध् + आम् [आमः (2.4.81) इति लकारस्य लुक्] अग्रे कृञ्चानुप्रयुज्यते लिटि (3.1.40) इत्यनेन कृ-धातोः अनुप्रयोगः भवति । अत्र यद्यपि कृ-धातुः उभयपदी अस्ति, तथापि ‘एध्’ धातुः आत्मनेपदी अस्ति अतः आम्प्रत्ययवत् कृञोनुप्रयोगस्य (1.3.63) इत्यनेन कृ-धातोः अपि आत्मनेपदम् एव भवति । अतः - → एध् + आम् + चक्रे [कृ-धातोः आत्मनेपदस्य प्रथमपुरुषैकवचनस्य रूपम् ‘चक्रे’] → एधांचक्रे [मोऽनुस्वारः (8.3.23) इति मकारस्य अनुस्वारः] → एधाञ्चक्रे [अनुस्वारस्य ययि परसवर्णः (8.4.58) इति परसवर्णः] ज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तः ‘आम्प्रत्ययवत्’ अयम् ‘अतद्गुणसंविज्ञानबहुव्रीहिसमासः’ अस्ति । ‘आम्-प्रत्ययः यस्मात् कृतः अस्ति, सः धातुः आम्-प्रत्ययं विना यस्मिन् पदे प्रयुज्यते, तस्मिन् पदे एव कृ-धातोः अपि प्रयोगः करणीयः’ - इति अस्य आशयः ।
Sutrartha (English)¶
When the verb root कृ is used after the आम् प्रत्यय, the verb root कृ gets the same पद as the original verb to which the आम् प्रत्यय has been attached.
Vasu English Summary¶
Like the verb that takes the affix आम् , if the verb be conjugated with the आत्मनेपद terminations, so of the verb कृ when subjoined thereto as an auxiliary, the terminations are of the आत्मनेपद , even when the fruit of the action does not accrue to the agent.
Vasu English Translation¶
Like the verb that takes the affix आम् , if the verb be conjugated with the आत्मनेपद terminations, so of the verb कृ when subjoined thereto as an auxiliary, the terminations are of the आत्मनेपद , even when the fruit of the action does not accrue to the agent. This sutra applies where the fruit of the action does not accrue to the agent. There are in Sanskrit two forms of the perfect tense (लिट्): one formed in the ordinary way by the reduplication of the root and adding the terminations; the other called the periphrastic perfect, is formed by adding आम् to the root, and then affixing to it the perfect tense of the roots कृ (to do), भू (to be ) or अस् ( to be ). These latter verbs are called anuprayoga or auxiliary verbs, as it is with their help that the perfect tense is formed. The question then arises, what conjugation, parasmai or atmanepada, do these auxiliaries take in forming the periphrastic perfect? This sutra supplies the answer :–the auxiliary कृ follows the conjugation of principals, the other auxiliaries do not. Thus the root एध (to increase, prosper) is atmanepadi, therefore in forming the periphrastic perfect, the verb कृ will be also in the atmanepada. Thus एधांचक्रे (he prospered). Similarly इद् (to appear with great splendour) is parasmaipadi and the auxiliary कृ after it will be parasmaipada, as इन्दाञ्चकार (he appeared with great splendour). . But the other auxiliaries भू and अस् retain their own peculiar conjugation and are not influenced by the conjugation of their principal. Thus एधाम्बभूव, एधामास.
The word am-pratyaya of the sutra means ‘that after which the affix am (3.1.35) and (III.I.36.) (कास्प्रत्ययादाममन्त्रे लिटि) comes.’ Of the verb krin, when subjoined to another as an auxiliary, the termination is that of the atmanepada like the verb that takes the affix am. If this sutra enjoined a rule of injunction (vidhi), then there would be the termination of the atmanepada even in examples like उदब्जांचकार and उदम्भांचकार where the fruit of the action accrues to the agent. This is no valid objection to the present sutra. It is to be interpreted in both ways, that is, both as a vidhi (a general injunction) and a niyama (a restrictive injunction). How is that to be done? Because the word purvavat of the last sutra is to be read in the present aphorism also. The second explanation in that case will be for the sake of establishing a niyama or restrictive rule.
It has already been said above that the auxiliary verbs कृ, भू and अस् are used in forming the periphrastic perfect. This is done by force of the aphorism (3.1.40), कृञ्चानुप्रयुज्यते लिटि, meaning, the verb krin is annexed in the perfect tense, to verbs, that take am. In this sutra (3.1.40) the word krin is a pratyahara, implying the verbs कृङ्, भू and अस्. It might be asked how is this pratyahara formed? The word kri is taken from the fourth word of sutra (5.4.50), अभूतद्भावे कृभ्वस्तियोगे &c., and the letter n is taken from sutra (5.4.58) कृञोद्वितीय &c. This is the way in which the commentators explain how not only the verb krin is used as an auxiliary in forming the periphrastic perfect, but also the verbs भू and अस्. These three verbs denoting absolute action unmodified by any especial condition have in all languages been fixed upon as the best auxiliaries.
It must, however, be noted that the word krin in this sutra is not used as a pratyahara and consequently does not include the verbs भू and अस्.
Bhashya¶
आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य कृञ्ग्रहणं किमर्थम् ? इह मा भूत् - ईहामास ईहामासतुः ईहामासुः । कथं चात्रास्तेरनुप्रयोगो भवति ? प्रत्याहारग्रहणं हि तत्र विज्ञायते । कथं पुनर्विज्ञायते तत्र प्रत्याहारग्रहणमिति ? इह कृञ्ग्रहणात् । इह कस्मात्प्रत्याहारग्रहणं न भवति ? इहैव कृञ्ग्रहणात्। अथेह कस्मान्न भवति - उदुम्भाञ्चकार उदुब्जाञ्चकार ? ननु च आम्प्रत्ययवदित्युच्यते, न चात्राम्प्रत्ययादात्मनेपदं पश्यामः । न ब्रूमोऽनेनेति । किं तर्हि ? स्वरितञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवतीति । नैषः दोषः । इदं नियमार्थं भविष्यति - आम्प्रत्ययवदेवेति । यदि नियमार्थं विधिर्न प्रकल्पते - ईहांचक्रे ऊहांचक्रे इति । विधिश्च प्रकॢप्तः । कथम् ? पूर्ववदिति वर्तते । आम्प्रत्ययवत्पूर्ववच्चेति ॥ 63 ॥
Kashika¶
अकर्त्रभिप्रायार्थोऽयमारम्भः। आम् प्रत्ययो यस्मात् सोऽयमाम्प्रत्ययः। आम्प्रत्ययस्येव धातोः कृञोऽनुप्रयोगस्यात्मनेपदं भवति। ईक्षांचक्रे। ईहांचक्रे। यदि विध्यर्थमेतत्, तर्हि उदुब्जांचकार उदुम्भांचकरारेति कर्त्रभिप्राये क्रियाफल आत्मनेपदं प्राप्नोति। नैष दोषः। उभयमनेन क्रियते। विधिर्नियमश्च। कथम्? पूर्ववदिति वर्तते। स द्वितीयो यत्नो नियमार्थो भविष्यति। कृञ इति किम्? ईक्षामास। ईक्षांबभूव। कथं पुनरस्यानुप्रयोगो यावता कृञ्चानुप्रयुज्यते लिटि (३.१.४०) इत्युच्यते? कृञिति प्रत्याहारग्रहणं तत्र विज्ञायते। क्व संनिविष्टानां प्रत्याहारः? अभूततद्भावे कृभ्वस्तियोगे संपद्यकर्तरि च्विः (५.४.५०) इति कृशब्दादारभ्य यावत् कृञो द्वितीयतृतीय० (५.४.५८) इति ञकारम्॥
Siddhanta Kaumudi¶
आम् प्रत्ययो यस्मादित्यतद्गुणसंविज्ञानो बहुव्रीहिः । आम्प्रकृत्या तुल्यमनुप्रयुज्यमानात्कृञोऽप्यात्मनेपदं स्यात् ॥ इह पूर्ववदित्यनुवर्त्य वाक्यभेदेन संबध्यते । पूर्ववदेवात्मनेपदं न तु तद्विपरीतमिति । तेन कर्तृगेऽपि फले इन्दांचकारेत्यादौ न तङ् ॥
Laghu Siddhanta Kaumudi¶
आम्प्रत्ययो यस्मादित्यतद्गुणसंविज्ञानो बहुव्रीहिः। आम्प्रकृत्या तुल्यमनुप्रयुज्यमानात् कृञोऽप्यात्मनेपदम्॥
Balamanorama¶
आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य - आम्प्रत्ययव । ‘अनुदात्तङित’ इत्यत आत्मनेपदमित्यनुवर्तते । तत्राम्प्रत्ययस्यात्मनेपदाऽभावादाह — अतद्गुणसंविधानो बहुव्रीहिरिति । तस्य = अन्यपदार्थस्य, गुणाः = विशेषमानि वर्तिपदार्थरूपाणि,तेषां संविज्ञानं = क्रियान्वयो न तु चित्राणां गवामपि । तथा च प्रकृते आम्प्रत्ययविनिर्मुक्त आम्प्रत्ययप्रकृतिभूत एधादिधातुरेव आम्प्रत्ययविनिर्मुक्त आम्प्रत्ययप्रकृतिभूत एधादिधातुरेव आम्प्रत्ययशब्देन लभ्यत इति भावः ।आम्प्रत्यव॑दिति तृतीयान्ताद्वतिः । अनुप्रयुज्यत इत्यनुप्रयोगः । कर्मणि घञ् । पञ्चम्यर्थे षष्ठी । तदाह — आम्प्रकृत्येत्यादिना । आम्प्रकृतेर्भवितुं योग्यं यदात्मनेपदं तत् अनुप्रयुज्यमानात्कृञोऽपि स्यादिति यावत् । अत्र न प्रत्याहारग्रहणम्,अनुप्रयोगस्ये॑त्येव सिद्धे कृञ्ग्रहणादिह न प्रत्याहारग्रहण॑मिति भाष्यम् । परगामिन्यपि क्रियाफले कृञ्धातोरात्मनेपदार्थोऽयमारम्भः । इन्दंचकारेत्यादौ तु परगामिनि क्रियाफले नाऽनेनात्मनेपदम्, आम्प्रकृतेः ‘इदि परमैआर्ये’ इति धातोरात्मनेपदाऽभावात्, तस्य परस्मैपदित्वात् । एतदर्थमेव आम्प्रत्ययवदित्युपात्तम् । नन्विन्दांचकारेत्यादौ मास्त्वमनेन सूत्रेण परगामिनि क्रियाफले आत्मनेपदम् । आत्मगामिनि तु क्रियाफले ‘स्वरतञित’ इत्यात्मनेपदं दुर्वारम् । अस्य सूत्रस्य एधाञ्चक्र इत्यादौ परगामिनि क्रियाफले आत्मनेपदस्याऽप्राप्तस्य विधान एव समर्थतया आत्मगामिनि क्रियाफले ‘स्वरितञित’ इति प्राप्तस्यात्मनेपदस्य निवारणे सामर्थ्याऽभावादित्यत आह — इहेति । इह =आम्प्रत्ययवत्कृञोऽनुप्रयोगस्ये॑ति सूत्रे ‘पूर्ववत्सनः’ इति पूर्वसूत्रात्पूर्ववदित्यनुवर्त्त्यआम्प्रत्ययवत्कृञोऽनुप्रयोगस्ये॑त्येकं वाक्यं,पूर्ववत्कृञोऽनुप्रयोगस्ये॑ति अन्यद्वाक्यमति वाक्यद्वयं संपाद्यम् । तत्र पूर्ववदिति तृतीयान्ताद्वतिः । पूर्वेण = पूर्वप्रयुक्तेन एधादिधातुना, तुल्यमित्यर्थ- । तत्र वाक्यद्वयस्य समानार्थकत्वे वैयथ्र्याद्द्वितीयं वाक्यं नियमार्थं संपद्यते ।पूर्ववदेव आत्मनेपदं न तु तद्विपरीत॑ मिति । एवं च पूर्ववाक्येन एधाञ्चक्रे इत्यादौ कृञः परगामिन्यपि क्रियाफले आत्मनेपदविधिः, द्वितीयवाक्येन तु इन्दाञ्चकारेत्यादौ कर्तृगामिनि क्रियाफले ‘स्वरितञित’ इत्यात्मनेपदस्य निवृत्तिः फलति । तदाह — तेनेति । द्वितीयवाक्येनेत्यर्थः । न तङिति । न आत्मनेपदमत्यर्थः । एवं चाऽनुप्रयुज्यमानात्कृञो लिटस्तङि प्रथमपुरुषैकवचने तादेशे एधाम् कृ त इति स्थिते — ।
Tattvabodhini¶
आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य - आम्प्रत्ययवत् । आम्प्रत्ययान्तस्यात्मनेपदाऽभावादाह — अतद्गुण इति । आम्प्रकृत्या तुल्यमनुप्रयुज्यमानादिति । तृतीयान्ताद्वतिः । अनुप्रयोगस्येत्यत्र कर्मणि घञिति भावः ।अनुदात्तङित॑ इत्यतोऽनुवर्तनादाह — आत्मनेपदं स्यादिति । एवमप्राप्तस्य विधानेऽपि प्राप्तस्य निवारणमनेनैव सूत्रेण न संभवतीत्यत आह — वाक्यभेदेनेति । अत्र च प्रमाणमाम्प्रत्ययवदिति वचनमेव । अन्यता पूर्ववदित्यनुवृत्त्यैवानुप्रयोगस्य कृञ आमः पूर्वेण तुल्यमित्यर्थलभादिष्टसिद्धेः किं तेनआम्प्रत्ययव॑दित्यनेन ।
Padamanjari¶
नन्वामन्तस्याधातुत्वादद्दष्टमात्मनेपदम्, तत्कथं कृञोऽतिदिश्यते? स्यादियमनुपपतिः, यदि प्रत्ययग्रहणं न क्रियते, कृतेऽपि वा तस्मिन् प्रत्ययग्रहणे कर्मधारयस्तद्गुणसंविज्ञानो वा बहुव्रीहिराश्रीयेत; इह त्वतद्गुणसंविज्ञानो बहुव्रिहिः,धातुरन्यपदार्थस्तदाह - आम्प्रत्ययो यस्मादिति। विग्रहः समुदायः समासार्थ इति, आम् प्रत्ययो यस्येति वग्रहः स्यात्; प्रतियोगिनि षष्ठीनिर्देशात्,’तत्र तस्य’ इति षष्ठ।लन्ताद्वतिरित्याह - आम्प्रत्ययस्यैवेति कृञोऽनुप्रयोगस्येति। समानाधिकरणे षष्ठयौ। अनुप्रयोगशब्दः कर्मसाधनः। ईक्षाञ्चक्र इति ।ठीक्ष दर्शनेऽ ठीह चेष्टायाम्ऽ लिट्, ठिजादेश्चऽ इत्याम्, ठामःऽ इति लेर्लुक्। ठकर्त्रभिप्रायार्थोऽयमारम्भःऽ इति ब्रुवता विध्यर्थमेवैतदित्युक्तम्। तत्र दोषमुद्भावयितुमाह - यदीति। किं पुनः कारणं विध्यर्थत्वमङ्गीकृत्य तदनुगुणो दोष उद्भाव्यते, न पुनर्नियमार्थत्वमङ्गीकृत्य तदनुगुणो दोष उद्भाव्येत? सत्यम्; अकर्त्रभिप्राये याचयाञ्चक्रे, उब्जाञ्चकारेति प्राप्ते आम्प्रत्ययवदेव, तत्र विधिनियमसम्भवे विधिरेव ज्यायान्, तस्मादेवमुच्यते - ठुब्ज आर्जवेऽ, ठुन्भ पूरणेऽ। उभयमित्यादि परिहारः। कथमिति। नैकेनैव यत्नेनोभयं लभ्यमिति भावः। ईक्षाम्बभूवेति।’भवतेरः’ ‘भुवो वुग् लुङ्लिटोः’ । कथं पुनरिति।’कृञः’ इत्यत्र स्वरूपग्रहणं मन्यमानस्य प्रश्नः। प्रत्याहारग्रहणमिति। यदि तत्र स्वरूपग्रहणं स्याद्, इह कृञ्ग्रहणमनर्थकं स्याद्; अन्यस्यानुप्रयोगस्याभावादिति भावः। अत एव विपर्ययोऽपि न भवति-तत्र स्वरूपग्रहणं स्याद् इहि प्रत्याहारग्रहणमिति, इह हि प्रत्याहारग्रहणे भ्वस्त्योरप्यात्मनेपदविधिः प्रयोजनम्। यदि चानुप्रयोगविधिना कृञ् एवानुप्रयुक्तः स्यात्, तदा भ्वस्त्योरनुप्रयोगाभावादात्मनेपदविधिरनुपपन्नः स्यात्। तस्मादिह स्वरूपग्रहणम्, आमनुप्रयोगविधौ प्रत्याहारस्येति सिद्धम्। ठभिविधौ सम्पदा चऽ इति सम्पदोऽपि तत्रान्तर्भावादनुप्रयोगः प्राप्तः’सनाद्यन्ता धातवः’ इत्यतो धात्वधिकाराद्धातूपसर्गसमुदायस्य न भवति। योऽत्र धातुस्तस्यापि न भवति; अर्थविप्रतिषेधादिति तत्रैव वक्ष्यामः॥
Nyaas¶
आम्प्रत्ययवत्िति। **तत्र तस्येव** (5.1.116) इति षष्ठीसमर्थाद्वतिः। `कृञोऽनुप्रयोगस्य इति समानाधिकरणे षष्ठ्यौ। ईक्षाञ्चक्रे इत्यादि। ईक्ष दर्शने (धातुपाठः-610), ईह चेष्टायाम् (धातुपाठः-632), ऊह वितर्के (धातुपाठः-648) लिट्, इजादेः (3.1.36) इत्यादिऽऽनाम्, आमः (2.4.81) इति लेर्लुक्; प्रातिपदिकत्वात् सुप प्राप्तः; सुः, स्वरादित्वादव्ययत्वात् सुब्लुक्, कृञ्च (3.1.40) इत्यादिना कृञो लिट्परस्यानुप्रयोगः। अकत्र्रभिप्रायायर्थोऽयमारम्भः इति ब्राउवता विध्यर्थमेतदित्युक्तं भवति। तत्रास्मिन्विध्यर्थे यो दोषस्तमुद्भावयितुमाह - यदि इत्यादि। उदुब्जाञ्चकार इति। उब्ज आर्जवे`(धातुपाठः- 1303), उत्पूर्वाल्लिट्, पूर्ववदाम्। `परस्मैपदानाम् (3.4.82) इत्यादिना तिपो णल्। उदुम्भाञ्चकार इति। उभ उम्भ पूरणे (धा।1319, 1320) उभयम् इत्यादिना परिहारः। कथम्िति? एकेन प्रयत्नेनाशक्यमेतदुभयं कर्त्तुमित्यत आह - `पूर्ववत् इत्यादि। नैवात्रेको यत्नः, किं तर्हि? द्वौ - आम्प्रत्ययवत् इत्येको यत्नः,पूर्ववद्ग्रहणमनुवर्तमानं द्वितीयः। तत्र पूवण यत्नेन विधिः क्रियते, इतरेण नियमः। यद्यनुप्रयोगस्य कृञ आत्मनेपदं भवति, पूर्ववदेव; नान्यथा। तेनोदुब्जाञ्चकारेत्येनमादौ न भवति। न ह्रुब्जादीनामात्मनेपदं सम्भवति, परस्मैपदित्वात्।ईक्षामास इति। आम्, अस्तेरनुप्रयोगः। ईक्षाम्बभूव इति। भवेतरः (7.4.73) कृञ्च (3.1.40) इत्यत्र करोतेरेव ग्रहणमित्यभिप्रायेणाह - कथं पुनः इत्यादि। कृञिति प्रत्याहारग्रहणम् इत्यादि। तत्र प्रत्याहरे।डस्तिभवत्योरपि सन्निदेशः।?तस्तयोरप्यनुप्रयोगो भवतीति भावः। यद्यवम्, सम्पदोऽप्यनुप्रयोगः प्राप्नोति,तस्यापि तत्र सन्निवेशोस्त्येव; अभिविधौ सम्पदा च (5.4.53) इति वचनात्। सत्यपि सन्निवेशे नासौ प्रत्याहारग्रहणन गृह्रत इत्यदोषः। यथा तस्याग्रहणं ततोत्तरत्र प्रस्तावान्तरे प्रतिपदायिष्यामः। अथाम्प्रत्ययवदिति किम्? असति हि तस्मिन्ननुप्रयोगमात्रस्यात्मनेपदं स्यात् - देवदत्तः करोतीति? अत्रापि पूर्ववदित्यनुवर्तते। तथापीह स्यात् - ईहते, करोतीति? आम्प्रत्ययम् इत्युच्यमाने प्रत्यासत्तेराम एवानुप्रयोगस्येति गम्यते, नानुप्रयोगमात्रे, तेनातिप्रसङ्गो न भवति॥
Prakriyasarvasvam¶
आम्प्रत्ययभाजो धातोरिवानुप्रयुज्यमानस्य कृञ आत्मनेपदं परस्मैपदं वा स्यात्, न स्वाश्रयम् । तेन कृञो लिटस्तिबादेर्णलादि । गोपायाञ्चकारेत्यादि सर्वं ससारेत्यादिवत् । तथा गोपायाम्बभूवेत्यादि । अस्तेस्तु लिटि णल्३ द्वित्वम् । हलादिशेषः । अ अम् अ । अकारयोः पररूपे प्राप्ते,
Sutra Prayogas¶
अध्यासामासुः (शिशुपालवधम्): आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य इति कृञ एवेति नियमादस्तेर्नात्मनेपदम्।
कासांचक्रे (भट्टिकाव्यम्): आम्प्रत्ययवत् इति तङ्।
वादयांचक्रिरे (भट्टिकाव्यम्): न आम्प्रत्ययवत् इति कृञोऽनुप्रयोगस्यात्मनेपदम् ।