13062: पूर्ववत् सनः

Padacheda: पूर्ववत् | S | 0 | 0 |

सनः | S | 5 | 1 |

Sutrartha


Vasu English Summary

The verb which is आत्मनेपदि in its primitive form before taking of the affix सन् , will also be आत्मनेपदि when it ends in the affix सन्। in other words; after a Desiderative verb, आत्मनेपद is used, if it would have been used after the primitive verb.

Vasu English Translation

The verb which is आत्मनेपदि in its primitive form before taking of the affix सन् , will also be आत्मनेपदि when it ends in the affix सन्। in other words; after a Desiderative verb, आत्मनेपद is used, if it would have been used after the primitive verb. If the primary verb is parasmaipadi, its desiderative will be also parasmaipadi; if the primary verb is Atmanepadi, its desiderative will be Atmanepadi. This is the general rule. Some exceptions to it have already been mentioned in sutras (1.3.57), (1.3.58), and (1.3.59). A root which was atmanepadi, before taking the Desiderative affix सन् san, will be atmanepadi even when it takes the affix सन् san. In other words, that by reason of which the atmanepada affixes were ordained in the primary verb, will cause the same terminations to be applied when the verb ends in सन् san. Thus it was said in sutra (1.3.12), that roots having an anudatta accented vowel as indicatory or a ङ् in as their indicatory letter take the terminations of the atmanepada. Thus आस्ते ‘he sits down’ and शेते ‘he sleeps.’ The verb आस् (to sit down) and शीङ् (to lie down) will remain atmanepadi, even when they are used as Desideratives. Thus असिसिषते ‘he wishes to lie down.’ Similarly sutra (1.3.17) declared that the verb निविश् is atmanepadi, as निविशते. This will be atmanepadi also in the Desiderative form, as निविविक्षते ‘he wishes to enter.’ So also by sutra (1.3.40), आक्रमते is atmanepadi, the Desiderative आचिक्रंसते will also be atmanepadi.

But though by (1.3.60) and (1.3.61), शीयते and म्रियते are atmanepadi, yet शिशत्सति ‘he wishes to lie down,’ मुमूर्षति ‘he wishes to die,’ are parasmaipadi. Because the atmanepada affixes were ordained after the roots शद and मृङ् only under exceptional conditions and not generically, and as those conditions do not exist in the desiderative, the latter does not take atmanepada terminations.

Of course that which in its primary state would not have taken the terminations of the atmanepada, there being a prohibition to that effect, will not allow them in its Desiderative form. As अनुचिकीर्षति ‘he wishes to imitate.’ पराचिकीर्षति. Here the root कृञ् by rule (1.3.79) has been especially declared to be parasmaipadi, to the exclusion of atmanepada affixes which would otherwise have come by Rules (1.3.32) and (1.3.72), and therefore its Desiderative is also parasmaipadi. The force of ञ् causing atmanepada is counteracted by (1.3.79).

Now it might be asked :- True, this rule provides for those cases where a root is conjugated in two forms, one a Primitive and another a Desiderative conjugation. But what provision do you make for those partial verbs which take the affix सन् even in their primitive form; and in whose case we have no prior form to look upon as a guide in the application of atmanepada affixes. And there are at least 7 such quasi-roots which take सन् in this way, called also the self-descriptive सन्. Those quasi-roots are गुप्, तिज्, कित्, मात्, वध, दान्, and शान्. “What are we to do with these quasi-roots, which are always conjugated with the affix सन् and have no simpler conjugation ?” To this we reply; “In the case of these partial verbs which take the self-descriptive सन् the pada will be regulated by the indicatory letters which these quasi-roots have.” For though the full roots are जुगुप्स, तितिक्ष, चिकित्स, मीमान्स, बीभत्स, शीशन्स and दीदान्स, yet by the maxim अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति, “a sign made in a portion of a thing, qualifies the whole thing;” the sign made in the expression गुप् &c., will qualify the whole verb जुगुप्स &c.” Thus we have जुगुप्सते he despises, चिकित्सते he cures; मीमांसते he investigates, &c.

Bhashya

पूर्ववत्सनः किमिदं पूर्वग्रहणं सनपेक्षम् - प्राक्सनो येभ्य आत्मनेपदमुक्तं तेभ्यः सन्नन्तेभ्योऽपि भवतीति। आहोस्विद्योगापेक्षम् - प्रागेतस्माद्योगाद्येभ्यो योगेभ्य आत्मनेपदमुक्तं तेभ्यः सन्नन्तेभ्योऽपि भवतीति। किं चातः? यदि सनपेक्षम्, निमित्तमविशेषितं भवति। पूर्ववत्सनः न ज्ञायते - किमन्ताद्भवितव्यमिति। अथ योगापेक्षमुत्तरत्र विधिर्न प्रकल्पेत - बुभुक्षते उपयुयुक्षत इति। यथेच्छसि तथास्तु। अस्तु तावत्सनपेक्षम्। ननु चोक्तम् - निमित्तमविशेषितं भवतीति। निमित्तं च विशेषितम्। कथम्? सनमेवात्र निमित्तत्वेनापेक्षिप्यामहे। पूर्ववत्सन आत्मनेपदं भवति। कुतः? सन इति। अथ वा पुनरस्तु योगापेक्षम्। ननु चोक्तम् - उत्तरत्र विधिर्न प्रकल्पेतेति। विधिश्च प्रकॢप्तः। कथम्? उत्तरत्रापि पूर्ववत्सनः इत्येवानुवर्तिष्यते। किमर्थं पुनरिदमुच्यते? पूर्ववत्सन इति शदिम्रियत्यर्थम् ॥ 1 ॥ शदिम्रियत्यर्थोऽयमारम्भः। शदिम्रियतिभ्यां सन्नन्ताभ्यात्मनेपदं मा भूदिति। इतरथा हि ताभ्यां सन्नन्ताभ्यामात्मनेपदप्रतिषेधः ॥ 2 ॥ इतरथा हि अनुच्यमानेऽस्मिन् शदिम्रियतिभ्यां सन्नन्ताभ्यामात्मनेपदस्य प्रतिषधो वक्तव्यः स्यात्। शिशत्सति मुमूर्षति। कथं पुनः पूर्ववत्सनः इत्यनेन शदिम्रियतिभ्यां सन्नन्ताभ्यामात्मनेपदस्य प्रतिषेधः शक्यो विज्ञातुम्? वतिनिर्देशोऽयम्। कामचारश्च वतिनिर्देशे वाक्यशेषं समर्थयितुम्। तद्यथा - उशीनरवन्मद्रेषु यवाः सन्ति, न सन्तीति। मातृवदस्याः कलाः सन्ति, न सन्तीति। एवमिहापि पूर्ववद्भवति, न भवतीति। न भवतीत्येवं वाक्यशेषं समर्थयिष्यामहे - यथा पूर्वयोर्योगयोः सन्नन्ताभ्यामात्मनेपदं न भवति, एवमिहापि शदिम्रियतिभ्यां सन्नन्ताभ्यामात्मनेपदं न भवतीति। यदि तर्हि शदिम्रियत्यर्थोऽयमारम्भः, विधिर्न प्रकल्पते - आसिसिषते। शिशयिषते। अथ विध्यर्थः, शदिम्रियतिभ्यां सन्नन्ताभ्यात्मनेपदं प्राप्नोति। यथेच्छसि तथास्तु। अस्तु तावत्प्रतिषेधार्थः। ननु चोक्तं विधिर्न प्रकल्पते इति । विधिश्च प्रक्लुप्तः । कथम् ? एतदेव ज्ञापयति - सन्नन्तादात्मनेपदं भवतीति। यदयं शदिम्रियतिभ्यां सन्नन्ताभ्यामात्मनेपदस्य प्रतिषेधं शास्ति। अथ वा पुनरस्तु विध्यर्थः। ननु चोक्तम् - शदिम्रियतिभ्यां सन्नन्ताभ्यामात्मनेपदं प्राप्नोति - इति। नैषः दोषः। प्रकृतं सनो न इत्यनुवर्तिष्यते। क्व प्रकृतम् ? ज्ञाश्रुस्मृदृशां सनः। नानोर्ज्ञः। सकर्मकात्सनो न भवति । प्रत्याङ्भ्यां श्रुवः सनो न । शदेः शितः सनो न । म्रियतेर्लुङ्लिङोश्च सनो नेति । इहेदानीं पूर्ववत्सनः इति, सन इत्यनुवर्तते, नेति निवृत्तम् । एवं च कृत्वा सोऽप्यदोषो भवति, यदुक्तम् - निमित्तमविशेषितं भवतीति । नैव वा पुनरत्र शदिम्रियतिभ्यां सन्नन्ताभ्यामात्मनेपदं प्राप्नोति । किं कारणम् ? शदेः शितः इत्युच्यते। न च शदिरेवात्मनेपदस्य निमित्तम् । किं तर्हि ? शिदपि निमित्तम् । अथापि शदिरेव शित्परस्तु निमित्तम् । न चायं सन्परः शित्परो भवति । यत्र तर्हि शिन्नाश्रीयते म्रियतेर्लुङ्लिङोश्चेति। अत्रापि न म्रियतिरेवात्मनेपदस्य निमित्तम् । किं तर्हि ?। लुङ्लिङावपि निमित्तम्। अथापि म्रियतिरेव लुङ्लिङ्परस्तु निमित्तम् । न चायं सन्परः लुङ्लिङ्परो भवति। किं पुनः पूर्वस्य यदात्मनेपददर्शनं तत्सन्नन्तस्यातिदिश्यते ? एवं भवितुमर्हति । पूर्वस्यात्मनेपददर्शनात्सन्नन्तादात्मनेपदभाव इति चेद्गुपादिष्वप्रसिद्धिः ॥ 3 ॥ पूर्वस्यात्मनेपददर्शनात्सन्नन्तादात्मनेपदं भवतीति चेद् गुपादिष्वप्रसिद्धिः । गुपादीनां न प्राप्नोति जुगुप्सते मीमांसत इति । न ह्येतेभ्यः प्राक्सन आत्मनेपदं नापि परस्मैपदं पश्यामः । सिद्धं तु पूर्वस्य लिङ्गातिदेशात् ॥ 4 ॥ सिद्धमेतत् । कथम् ? पूर्वस्य यदात्मनेपदलिङ्गं तत्सन्नन्तस्याप्यतिदिश्यते । कृञादिषु तु लिङ्गप्रतिषेधः ॥ 5 ॥ कृञादिषु तु लिङ्गस्य प्रतिषेधो वक्तव्यः । अनुचिकीर्षति पराचिकीर्षतीति । अस्तु तर्हि - प्राक्सनो येभ्य आत्मनेपदं दृष्टं तेभ्यः सन्नन्तेभ्योऽपि भवतीति। ननु चोक्तं पूर्वस्यात्मनेपददर्शनात्सन्नन्तादात्मनेपदभाव इति चेद्गुपादिष्वप्रसिद्धिः इति । नैषः दोषः । अनुबन्धकरणसार्मथ्याद् भविष्यति । अथवाऽवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति । तद्यथा - गोः सक्थनि कर्णे वा कृतं लिङ्गं समुदायस्य विशेषकं भवति । यद्यवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति - जुगुप्सयति मीमांसयतीत्यत्रापि प्राप्नोति । नैषः दोषः । अवयवे कृतं लिङ्गं कस्य समुदायस्य विशेषकं भवति। यं समुदायं योऽवयवो न व्यभिचरति । सनं च न व्यभिचरति, णिचं च पुर्नव्यभिचरति । तद्यथा - गोः सक्थनि कर्णे वा कृतं लिङ्गं गोरेव विशेषकं भवति न गोमण्डलस्य। प्रत्ययग्रहणं णियगर्थम् ॥ 6 ॥ प्रत्ययग्रहणं कर्तव्यम् । पूर्ववत्प्रत्ययादिति वक्तव्यम् । किं प्रयोजनम् ? णियगर्थम् । णियगन्तादपि यथा स्यादिति । आकुस्मयते। विकुस्मयते। हृणीयते। महीयते इति। तत्र को दोषः? तत्र हेतुमण्णिचः प्रतिषेधः ॥ 7 ॥ तत्र हेतुमण्णिचः प्रतिषेधो वक्तव्यः। आसयति। शाययतीति । सूत्रं च भिद्यते । यथान्यासमेवास्तु । कथमाकुस्मयते विकुस्मयते हृणीयते महीयते इति ? अनुबन्धकरणसार्मथ्याद् भविष्यति । अथवा - अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति । तद्यथा - गोः सक्थनि कर्णे वा कृतं लिङ्गं समुदायस्य विशेषकं भवति । यद्यवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति, हृणीययति महीययतीत्यत्रापि प्राप्नोति । अवयवे कृतं लिङ्गं कस्य समुदायस्य विशेषकं भवति। यं समुदायं योऽवयवो न व्यभिचरति । यकं च न व्यभिचरति, णिचं तु व्यभिचरति । तद्यथा - गोः सक्थनि कर्णे वा कृतं लिङ्गं गोरेव विशेषकं भवति न गोमण्डलस्य ॥ 62 ॥

Kashika

सनः पूर्वो यो धातुरात्मनेपदी, तद्वत् सन्नन्तादात्मनेपदं भवति। येन निमित्तेन पूर्वस्मादात्मनेपदं विधीयते, तेनैव सन्नन्तादपि भवति। अनुदात्तङित आत्मनेपदम् (१.३.१२) — आस्ते। शेते। सन्नन्तादपि तदेव निमित्तम्। आसिसिषते। शिशयिषते। नेर्विशः (१.३.१७) — निविशते। निविविक्षते। आङ उद्गमने**(१.३.४०) — आक्रमते। आचिक्रंसते। इह न भवति — शिशत्सति। मुमूर्षति। न हि शदिम्रियतिमात्रमात्मनेपदनिमित्तम्। किं तर्हि? शिदाद्यपि, तच्चेह नास्ति। यस्य च पूर्वत्रैव निमित्तभावः प्रतिषिध्यते, तत् सन्नन्तेष्वप्यनिमित्तम्। अनुचिकीर्षति। पराचिकीर्षति। इह जुगुप्सते मीमांसत इति अनुदात्तेत इत्येव सिद्धमात्मनेपदम् — **अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति (महाभाष्य १.२८९) इति॥

Siddhanta Kaumudi

सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात् । एदिधिषते । शिशयिषते । निविविक्षते । पूर्ववत्किम् । बुभूषति । शदेः (SK2362) (SK2528) इत्यादिसूत्रद्वये सनो नेत्यनुवर्त्य वाक्यभेदेन व्याख्येयम् । तेनेह न । शिशत्सति । मुमूर्षति । आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य (SK2240) एधांचक्रे ॥

Laghu Siddhanta Kaumudi

सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात् । एदिधिषते ॥

Balamanorama

पूर्ववत् सनः - पूर्ववत्सनः । पूर्वेणेव पूर्ववत् ।तेन तुल्यटमिति तृतीयान्तद्वतिः । पूर्वशब्देन सन्प्रकतिर्विवक्षिता । तदाह — सनः पूर्व इत्यादि । एदिधिषते इति । सन्प्रकृतेरेधधातोरात्मनेपदित्वात्तत्प्रकृतिकसन्नन्तादात्मनेपदम् । ‘नेर्विशः’ इत्यात्मनेपदविधानात्तत्प्रकृतकसन्नन्तादपि आत्मनेपदम् । ननु ‘शदेः शितः’म्रियतेर्लुङ्लङोश्चे॑त्यस्य ग्रहणम् ।शदे॑रित्यादिसूत्रद्वये ‘पूर्ववत्सनः’ इति, ‘नानोर्ज्ञः’ इत्यतो नेति चानुवर्त्त्य शदेर्म्रियतेश्च सन्ननतान्नात्मनेपदमिति व्याख्येयमित्यर्थः । नन्वेवं सति शीयते म्रियते इत्यादावात्मनेपदं न लभ्येतेत्यत आह — वाक्यभेदेनेति । ‘शदेः शितः’ म्रियतेर्लुङ्लिङोश्चे॑त्येकं वाक्यम् । शिद्भाविनः शदेरात्मनेपदं स्यात्, मृङो लुङ्लिङ्प्रकृतिभूतात्, शित्प्रकृतभूताच्चात्मनेपदं स्यान्नान्यत्रेत्यर्थः । तेन शीयते म्रियते ममारेत्यादि सिध्यति ।सनो ने॑त्यपरं वाक्यम् । शदेः, म्रियतेश्च सन्नन्तान्नात्मनेपदमित्यपरम् । तेन शिशत्सति, मुमूर्षति इत्यादौ नात्मनेपदमित्यर्थः ।

Tattvabodhini

पूर्ववत् सनः - निविविक्षत इति ।नेर्विशः॑ इत्यात्मनेपदविधानात्सन्नन्तादपि आत्मनेपदम् । सनो नेत्यनुवर्त्त्येति ।नानोर्ज्ञः॑,पूर्ववत्सनः॑ इति सूत्राभ्या॑मिति शेषः ।

Padamanjari

पूर्ववदिति।’तेन तुल्यम्’ इत्यादिना तृतीयचान्ताद्वतिः, न पञ्चम्यन्तात्; लक्षणाभावात् । यथा च ब्राह्यणेन तुल्यं वैश्यादधीत इत्युक्ते ब्राह्मणादिवद् वैश्यादधीते इति पञ्चम्यर्थो गम्यते, तथेहापि पूर्वस्मादिव सनन्तादप्यात्मनेपदमित्यर्थो लभ्यते।’तुल्यार्थैः’ इति हि तृतीया सर्वविभक्त्यर्थानन्तर्भावयति। यदि सनः पूर्वो यो धातुरिति। एतेन’सनः’ इति पूर्वस्यावधिनिर्देशः।, न त्वात्मनेपदापेक्षया परपञ्चमीति दर्शयति। यद्येवम्, सनन्तादात्मनेपदमिति न लभ्येत,’सनः’ इत्यस्य सकृच्छ्4%अतस्यावधिनिर्देशेनोपक्षीणत्वाद्, अत आह-तद्वत्सनन्तादपीति। अवधित्वेनापि तावत्सनः श्रुतत्वात् प्रत्यासत्या तदन्तादेव विधिर्विज्ञायत इति भावः। अथैवं कस्मान्न विज्ञायते सनन्तादात्मनेपदं भवति, पूर्ववदिति श्रौतोऽन्वयः, तत्र कुतः पूर्ववदित्यपेक्षायां सन्निहितत्वात्सन एव पूर्ववदिति विज्ञास्यत इति ? एवं मन्यते-एवं विज्ञायमानेऽयमेव योगः पूर्वस्यावधिः सम्भाव्येत, यथा-ठ्पूर्वत्रासिद्धम्ऽ इत्यत्र तत एव योगात् पूर्वत्रेति। ततश्चायमर्थः स्याद्-ठनुदार्तङ्तिःऽ इत्यारभ्येतः पूर्वं ये धातवो निर्दिष्टास्तेभ्यः सनन्तेभ्यस्तद्वदेवात्मनेपदं भवतीति, ततश्चोतरो विधिः सनन्तान्न स्यात्-ठ्भुजोऽनवनेऽ,बभुक्षत इति,तस्मात्सनः पूर्ववदित्येव श्रौतोऽन्वय एष्टव्य इति। यद्ययं कार्यातिदेशः शास्त्रातिदेशो वा विज्ञायेत, तदा सन्प्रकृतौ प्रयोगान्तरे द्दष्टमित्येव निमितनिरपेक्षं कार्यं शास्त्रं वातिदिश्यमार्नीमहाप्यतिदिश्येत-शिशत्सति, मुमुर्षति; शीयते, म्रियते इत्यत्र द्दष्टत्वादिति मतेऽनयोः पक्षयोर्दोषं द्दष्ट्वा निमितातिदेशमाश्रित्याह-येन निमितेनेति। निमितस्य तुल्यत्वातद्द्वारकं यदात्मनेपदाविधेस्तुल्यत्वं तदाश्रीयते इत्यर्थः। पूर्वमिति। सनुत्पतेः प्राक् प्रयोगान्तर इत्यर्थः। पूर्वस्मादिति युक्तः पाठः, तथा च सनन्तादपीति सङ्गच्छते। यद्यपि प्रकृतिगतं ङ्त्वाइदिकं सनन्ते धातौ वचनशतेनापि प्रापयितुमशक्यम् निमितं भवतीत्यतिदेशार्थः, तावता च निमितातिदेशवाचोयुक्तिः। आसिसिषत इति । इटि कृते ठजादेर्द्वितीयस्यऽ इति सिशब्दस्य द्विर्वचनम्। निविविक्षत इति ‘हलन्ताच्च’ इति सनः कित्वम्, व्रश्चादिषत्वम्,’षढोः कः सि’ । आचिक्रंसत इति । आङ् आत्मनेपदनिमितत्वात्’स्नुक्रमोः’ इतीड् नैव भवति। निमितातिदेशाश्रयणस्य फलमाह-इहेति। कारणमाह-न हीति । शिदाद्यपीति। शिद्भावित्वादिकमपीत्यर्थः। आदिशब्देन लुङ्लिङेर्ग्रहणम्, तच्चेह नास्ति। कृते सनि तदन्तमेव शिद्भावि, न शदिम्रियतिभ्यात्। शिशयिषत इत्यादौ तु कृतेऽपि सनि तदानीमपि ङ्त्वाइदिकं प्रकृतिगतं विद्यत इति भावः। यदि तर्हि निमितातिदेशः, अनुचिकीर्षतीत्यत्रापि प्रसङ्गः; गन्धनादेरर्थस्य ङ्त्विस्य चात्मनेपदनिमितस्य सन्यपि परस्मैपदे निमितत्वात्। कार्यातिदेशे तु न दोषः;ठनुपरभ्यां कृञःऽ इति परस्मेपदेनापवादेनात्मनेपदस्य बाधितत्वादत आह - यस्य चेति । न योग्यतामात्रेण निमितत्वम्, किं तर्हि? कुर्वद्रूपस्येति स्नुक्रमोरित्यत्र वक्ष्यत इति भावः। यदि कुर्वद्रूपं निमितम्, जुगुप्सत इत्यादौ कथम्, न ह्यत्र प्रकृतिगतमनुदातेत्वं तत्रात्मनेपदं कदाचिदपि करोति नित्यसनत्वाद् गुपादीनामत आह - इहेत्यादि। न वात्रानेनात्मनेपदम्, किं तर्हि? ठनुदातङ्तिःऽ इत्यनेनेत्यर्थः। कथं पुनः समुदायस्य जुगुप्सादेरनुदातेत्वमत आह - अवयव इति। अवयवे ह्यचारितार्थं लिङ्गं सामर्थ्यात्समुदायस्य विशेषकं भवति। यद्येवम्, गोपयति तेजयतीत्यदावपि प्रसङ्गः। अथ यं समुदायं योऽवयवो न व्यभिचरति, तत्र कृतं लिङ्गं तस्य विशेषकं भवति; णिजन्तं च व्यभिचरति, विनापि तेन जुगुप्सत इति गुपेः प्रयोगादित्युच्येत। वक्तव्यो वा विशेषः, अयमुच्यते-ठ्गुप गोपनेऽ इत्यस्य सन्विधौ ग्रहणम्, तस्माच्च नित्यं सनेव भवति, नापरः प्रत्ययः प्रत्ययः। गोपायतीत्यादिकस्तु प्रयोगः’गुपू रक्षणे’ इत्यस्य, स चान्य एव। अवश्यञ्चैतदेवं विज्ञेयम्-अन्य एव सन्प्रकृतिः तस्माच्च सनेव भवतीति; अन्यथा निन्दाया अन्यत्र यथा णिज् भवति तथा लङदिरपि स्यात्। एवं तिजिप्रभृतयोऽपि, क्षमाद्यर्थे यत्र सन्निष्यते तत्रानुदातेतो नित्यसनन्ताश्च; क्षमादिभ्योऽन्यत्र तु तत्र णिजिष्यते तत्राननुबन्धका एव चुरादौ पठितव्याः॥

Nyaas

पूर्ववत् इति। तेन तुल्यं क्रिया चेद्वतिः (5.1.115) इति वतिः ॥ पूर्वशब्दः सम्बन्धिशब्दत्वादवधिमपेक्षते। स चावधिः श्रुतत्वात्सन्नेव विज्ञायत इत्याह - सनः पूर्वो यो धातुः इति। यद्येवम्, अवधिभावोपगम एव सन्ग्रहणस्योपयुक्तत्वात्त सन्नन्तादात्मनेपदं भवतीति, न तत्रैतल्लभ्यते; कुतस्तर्हि स्यात्? धातुमात्रात्, नैतदस्ति; एवं ह्रात्मनेपदं परस्मैपदानुक्रमणमनर्थकं स्यात्। अथ प्रत्ययान्तात् स्यात्? एवमपि सन्ग्रहणमनर्थकं स्यात्, पूर्ववत् प्रत्ययादिति वाच्यं स्यात्। तस्मात् पत्र्यासन्नं सनं त्यक्त्वा न युक्त्वा न युक्ताऽन्यन्यस्याश्रुतस्य परिकल्पनेति सन्न्तादेव भवतीति विज्ञायते। येन इत्यादिना वत्यर्थमाचष्टे। तदेव निमित्तम् इति। अनुदात्तेत्वं ङित्त्वञ्च धात्वन्तरावस्थायामपि सन्नन्ताद्वचनसामर्थ्यान्निमित्तं भवति। असिसिषते इति। इटि कृते अजादेर्द्वितीयस्य (6.1.2) इति सिशब्दस्य द्विर्वचनम्। निविविक्षते इति। विश प्रवेशने (धातुपाठः-1424), पूर्ववत् कित्त्वषत्वकत्वानि। आचिक्रंसते इति। आत्मनेपदनिमित्तत्वात् स्नुक्रमोरनात्मनेपदनिमित्ते (7.2.36) इतीण् न भवति। शिशत्सति, मुमूर्षति`इति। अत्र सनो यः पूर्वो भागः, तस्यात्मनेपदनिमित्तत्वमस्ति; शीयते, म्रियत इत्यात्मनपददर्शनात्। तत आत्मनेपदेन भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्तुमाह - इह न भवति इत्यादि। किं कारणमित्याह - न हि इत्यादि। किं तर्हि? शिदाद्यपि`इति। शिच्छब्देनात्र शिद्भावित्वं शित्सम्बन्धित्वञ्चोक्तम्। आदिशब्देन लुङलिङोग्र्रहणम्, तच्चेह नास्तीति न ह्यत्र सनः पूर्वभागस्य शिद्भावित्वं शित्सम्बन्धित्वं वास्ति; शित्प्रत्ययस्यास्मिन् विषयेऽत्यन्तासम्भवात्, नापि म्रियतेः परौ लुङलिङौ स्तः; तस्मान्नेह शदिम्रियत्योरात्मनेपदनिमित्तत्वमस्तीति न भवत्यात्मनेपदम्।इह तर्हि कस्मान्न भवति - अनुचिकीर्षति, पराचिकीर्षतीति? करोतेर्हि गन्धनादिष्वर्थेष्वात्मनेपदं विहितम्, अतस्त्दविवक्षायां सनन्तादपि तेन भवितव्यमित्याह - `यस्य च इत्यादि। गन्धनादिष्वर्थेषु पूर्वत्रासनन्तावस्थायाम् अनुपराभ्यां कृञः (1.3.79) इत्यनेन परस्मैपदविधानात् करोतेरात्मनेपदाभावः क्रियते। तस्मादाभ्यां सनन्तादप्यात्मनेपदनिमित्ताभावान्न भवति।अथ जुगुप्सते, मीमांसत इत्यत्र कथमात्मनेपदम्, यावता `पूर्ववत्सनः (1.3.62) इत्युच्यते, न च गुपादिषु सनः प्रागेवात्मनेपदं भवतीति; अतः पूर्ववदित्यतिदेशाभावान्न भवितव्यमात्मनेगदेनेत्यत आह - इह इत्यादि। जुगुप्सते`इति। **गुप्तिज्किद्भ्यः सन्** (3.1.5) इति सन्। `मीमांसते इति। मानबध (3.1.6) इत्यादिना सन्, अभ्यासस्य सन्यतः (7.4.79) इतीत्वे दीर्घः। कथं पुनरिह अनुदात्तङित आत्मनेपदम् (1.3.12) , यावता गुपादाववयवेऽनुदात्तेत्वं लिङ्गम्, न जुगुप्सादौ समुदाय इत्यत आह - अवयवे कृतम् इत्यादि। यथा गोः कर्णादाववयवे कृतं लिङगं समुदायस्य विशेषकं भवति, तथा गुपादाववयवे कृतमनुदात्तेत्त्वं समुदायस्य जुगुप्स इत्येवमादेर्विशेषक्रं भवति। यद्येवम्, गोपयति, तेजयति, सङ्केतयतीत्येवमादावपि प्राप्नोति, सत्यम्; स्यादेतत् - अवयवेकृतं लिङगं तस्य समुदायस्य गोर्विशेषकं भवति, यं समुदायं सोऽवयवो न व्यभिचरति; सनन्तं पुनर्न व्यभिचरति; णिजन्तन्तु व्यभिचरतीत्यतोऽत्रात्मनेपदेन न भवितव्यम्; वार्तमेतत्, सनन्तमपि व्यभिचरतीति विनापि तेन गोपयतीत्यादौ सम्भवात्। तस्मात् समुदायं यं गुपादिर्न व्यभिचरति, तस्यासम्भवात् सर्वस्य गुपादावयवे कृतमनुदात्तेत्त्वं लिङ्गं समुदायस्य विशेषकं भविष्यति। ततश्च गोपयतिप्रभृतिभ्योऽप्यात्मनेपदं प्राप्नोतीत्येव। एवं तर्हि निगरणचलनार्थेभ्यश्च (1.3.87) इत्यत्र चकारोऽनुक्तसमुध्चयार्थः क्रियते। तेन गुपादिभ्यो ण्यन्तेभ्यः परस्मैपदात्मनेपदापवादो भविष्यति॥

Prakriyasarvasvam

सनन्तात् प्रकृतिभूतधातुवत् तङ् स्यात् । तेन ‘भू प्राप्तौ’ इत्यस्य बुभूषते इत्यादि । लुङि-अबुभूषिष्ट । अबुभूषिषाताम् । बभूषाञ्चक्रे । बभूविषीष्ट । बुभूषितासे । बुभूषिष्यते । अबुभूषिष्यत । कर्मणि ‘यस्यतो लोपः’ । बुभूष्यते । चिणि-अबुभूषि । शेषं तद्ववत् अदन्तत्वाच्चिण्वदिट्यग्यतोलोपसद्भावान्न भेदः । एवं पचेः सनि ‘पूर्ववत् सनः’ इति प्रकृतिवदुभयपदित्वम् । पच् स । द्वित्वम् । पच् स् पच् सः । हलादिशेषः । ‘सन्यतः’ (७-४-७९) इतीत्त्वम् । ‘चोः कुः’ (८-२-३०) । षत्वम् । पिपक्षति । पिपक्षते । ‘इको झल्’ (१-२-९) इति कित्त्वादगुणः । नु स ।

Sudha

पूर्ववत्सन इति । एदिधिषते । एध् धातोः सनि इटि, ‘एधिस’ इति जाते तत्र **सन्यङोः**(6.1.9) इत्यनेन **अजादेर्द्वितीयस्य**(6.1.2) इति ‘धि’ इत्यस्य द्वित्वे अभ्यासत्वे, अभ्यासकार्ये षत्वे, जश्त्वे, **सनाद्यन्ता धातवः**(3.1.32) इति धातुत्वाल्लटि, लटो लः स्थाने **पूर्ववत् सनः**(1.3.62) इत्यात्मनेपदे ते, शपि, अनुबन्धलोपे, पररूपत्वे, टेरेवे च तत्सिद्धिः ।

Sutra Prayogas

  • समाजुहूषमाणः (किरातार्जुनीयम्): पूर्ववत् सनः इति आत्मनेपदम्।

  • विजिगीषते (किरातार्जुनीयम्): पूर्ववत् सनः इत्यात्मनेपदम्।

  • रिरंससे (शिशुपालवधम्): पूर्ववत्सनः इत्यात्मनेपदम्।

  • अध्यासिसिषमाणे (भट्टिकाव्यम्): पूर्ववत्सनः इत्यात्मनेपदम्।

  • संसिस्मयिषमाणो (भट्टिकाव्यम्): पूर्ववत्सनः इति तङ्।

  • सहध्यासिसिषांचक्रे (भट्टिकाव्यम्): पूर्ववत्सनः इत्यात्मनेपदम्।

  • अयुयुत्सिषता (भट्टिकाव्यम्): पूर्वत्र- त्सनः इति तङ्।