13049: अनोरकर्मकात्¶
Padacheda: अनोः | S | 5 | 1 |
अकर्मकात् | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
After the verb वद् , preceded by अनु when it is intransitively used, the आत्मनेपद is used, when the sense is that of ‘speaking articulately in a similar manner’.
Vasu English Translation¶
After the verb वद् , preceded by अनु when it is intransitively used, the आत्मनेपद is used, when the sense is that of ‘speaking articulately in a similar manner’. As अनुवदते कठः कलापस्य katha is echoing or imitates kalapa. He reutters exactly what the kalapa-reader or the teacher says. The word anu here means similarly.
Why do we say ‘in the Intransitive’? Because when it is used in the transitive it takes the affixes of the Parasmaipada. As पूर्वमेव यजुरुदितमनुवदति, ‘he repeats the yajurveda which he had learned before.’
The words ‘uttering of articulate speech’ are understood here also. Otherwise अनुवदति वीणा ‘the lute resounds,’ here it is Parasmaipada.
Kashika¶
वद इति व्यक्तवाचामिति च वर्तते। अनुपूर्वाद् वदतेरकर्मकाद् व्यक्तवाग्विषयादात्मनेपदं भवति। अनुवदते कठः कलापस्य। अनुवदते मौद्गः पैप्पलादस्य। अनुःसादृश्ये। यथा कलापोऽधीयानो वदति तथा कठ इत्यर्थः। अकर्मकादिति किम्? पूर्वमेव यजुरुदितमनुवदति। व्यक्तवाचामित्येव — अनुवदति वीणा॥
Siddhanta Kaumudi¶
व्यक्तवाग्विषयादनुपूर्वादकर्मकाद्वदेरात्मनेपदं स्यात् । अनुवदते कठः कलापस्य । अकर्मकात्किम् । उक्तमनुवदति । व्यक्तावाचां किम् । अनुवदति । वीणा ॥
Balamanorama¶
अनोरकर्मकात् - अनोरकर्मकात् ।व्यक्तावाचा॑मित्यनुवृत्तं विषयषष्ठन्तमाश्रीयते । समुच्चारणे इति निवृत्तम् । तदाह — व्यक्तवाग्विषयादिति । मनुष्यकर्तृकादित्यर्थः । अनुवदते इति । अनुः सादृश्ये ।तुल्यार्थैरतुलोपमाभ्या॑मिति षष्ठी । कठः कलापेन तुल्यं वदतीत्यर्थः । वस्तुतस्तु शेषषष्ठीत्येवोचितम् ।तुल्यार्थै॑रित्यत्रअतुलोपमाभ्या॑मिति पर्युदासेनाऽनव्ययानामेव तुल्यार्थानां ग्रहणात् । अन्यथाच्नद्र इव मुख॑मित्यादावपि तृतीयाषष्ठओरापत्तेरित्यलम् ।
Tattvabodhini¶
अनोरकर्मकात् - अनुवदते कठ इति । अनुः सादृश्ये । तेन कलापस्येति तुल्यार्थयोगे शेषलक्षणा षष्ठी ।
Padamanjari¶
व्यक्तवाचामिति वर्तत इति। न तु समुच्चारण इति सर्वानुवृतौ वचनमिदमनर्थकं स्यादिति भावः। तद्व्यक्तवाक्सम्बन्धिनो वदेरिति सूत्रार्थमाह - व्यक्तवाग्विषयादिदि। अनुः साद्दश्ये इति। तेन कलापस्येति तुल्यार्थयोगे शेषलक्षणा षष्ठीति भावः। यथेत्यादि। वदनमात्रसाद्दश्ये तात्पर्यमिति कर्म न विवक्षितमिति भावः। अनुवदति। पुनर्वदतीत्यर्थः॥
Nyaas¶
अनुवदति इति। अनुशब्दः पुनरित्यस्यार्थे वर्तते। पुनर्वदतीत्यर्थः। यजुषात्र कर्मणा सकर्मकत्वम्।
Prakriyasarvasvam¶
व्यक्तवागुक्तावकर्मकादनुवदेस्तङ् । अनुवदते कठः कलापस्य । तद्वत् वक्तीति तुल्यार्थत्वात् षष्ठी । अनुसम्भ्यामकर्मकादिति भोजः । एतौ संवदेते । ऐकमत्यं भजेते इत्यर्थः ।