13049: अनोरकर्मकात् =================== **Padacheda:** अनोः | S | 5 | 1 | अकर्मकात् | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After the verb वद् , preceded by अनु when it is intransitively used, the आत्मनेपद is used, when the sense is that of 'speaking articulately in a similar manner'. Vasu English Translation ------------------------ After the verb वद् , preceded by अनु when it is intransitively used, the आत्मनेपद is used, when the sense is that of 'speaking articulately in a similar manner'. As अनुवदते कठः कलापस्य *katha* is echoing or imitates *kalapa*. He reutters exactly what the *kalapa*-reader or the teacher says. The word *anu* here means similarly. Why do we say 'in the Intransitive'? Because when it is used in the transitive it takes the affixes of the *Parasmaipada*. As पूर्वमेव यजुरुदितमनुवदति, 'he repeats the *yajurveda* which he had learned before.' The words 'uttering of articulate speech' are understood here also. Otherwise अनुवदति वीणा 'the lute resounds,' here it is *Parasmaipada*. Kashika ------- वद इति व्यक्तवाचामिति च वर्तते। अनुपूर्वाद् वदतेरकर्मकाद् व्यक्तवाग्विषयादात्मनेपदं भवति। अनुवदते कठः कलापस्य। अनुवदते मौद्गः पैप्पलादस्य। अनुःसादृश्ये। यथा कलापोऽधीयानो वदति तथा कठ इत्यर्थः। अकर्मकादिति किम्? पूर्वमेव यजुरुदितमनुवदति। व्यक्तवाचामित्येव — अनुवदति वीणा॥ Siddhanta Kaumudi ----------------- व्यक्तवाग्विषयादनुपूर्वादकर्मकाद्वदेरात्मनेपदं स्यात् । अनुवदते कठः कलापस्य । अकर्मकात्किम् । उक्तमनुवदति । व्यक्तावाचां किम् । अनुवदति । वीणा ॥ Balamanorama ------------ **अनोरकर्मकात्** - अनोरकर्मकात् ।व्यक्तावाचा॑मित्यनुवृत्तं विषयषष्ठन्तमाश्रीयते । समुच्चारणे इति निवृत्तम् । तदाह — व्यक्तवाग्विषयादिति । मनुष्यकर्तृकादित्यर्थः । अनुवदते इति । अनुः सादृश्ये ।तुल्यार्थैरतुलोपमाभ्या॑मिति षष्ठी । कठः कलापेन तुल्यं वदतीत्यर्थः । वस्तुतस्तु शेषषष्ठीत्येवोचितम् ।तुल्यार्थै॑रित्यत्रअतुलोपमाभ्या॑मिति पर्युदासेनाऽनव्ययानामेव तुल्यार्थानां ग्रहणात् । अन्यथाच्नद्र इव मुख॑मित्यादावपि तृतीयाषष्ठओरापत्तेरित्यलम् । Tattvabodhini ------------- **अनोरकर्मकात्** - अनुवदते कठ इति । अनुः सादृश्ये । तेन कलापस्येति तुल्यार्थयोगे शेषलक्षणा षष्ठी । Padamanjari ----------- व्यक्तवाचामिति वर्तत इति। न तु समुच्चारण इति सर्वानुवृतौ वचनमिदमनर्थकं स्यादिति भावः। तद्व्यक्तवाक्सम्बन्धिनो वदेरिति सूत्रार्थमाह - व्यक्तवाग्विषयादिदि। अनुः साद्दश्ये इति। तेन कलापस्येति तुल्यार्थयोगे शेषलक्षणा षष्ठीति भावः। यथेत्यादि। वदनमात्रसाद्दश्ये तात्पर्यमिति कर्म न विवक्षितमिति भावः। अनुवदति। पुनर्वदतीत्यर्थः॥ Nyaas ----- `अनुवदति` इति। अनुशब्दः पुनरित्यस्यार्थे वर्तते। पुनर्वदतीत्यर्थः। यजुषात्र कर्मणा सकर्मकत्वम्। Prakriyasarvasvam ----------------- व्यक्तवागुक्तावकर्मकादनुवदेस्तङ् । अनुवदते कठः कलापस्य । तद्वत् वक्तीति तुल्यार्थत्वात् षष्ठी । अनुसम्भ्यामकर्मकादिति भोजः । एतौ संवदेते । ऐकमत्यं भजेते इत्यर्थः ।