13046: सम्प्रतिभ्यामनाध्याने¶
Padacheda: सम्-प्रतिभ्याम् | S | 5 | 2 |
अनाध्याने | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
After the verb ज्ञ , preceded by सम् and प्रति , the आत्मनेपद is used, when Not Used in the sense of ‘remembering with regret’.
Vasu English Translation¶
After the verb ज्ञ , preceded by सम् and प्रति , the आत्मनेपद is used, when Not Used in the sense of ‘remembering with regret’. The word jna is understood in this sutra: and the aphorism applies to that jna which is used in the transitive. As शतं संजानीते ‘he looks for a hundred,’ So सहस्रं प्रतिजानीते ‘he promises a thousand.’
Why do we say when ‘not meaning remembering with regret?’ Because it is not Atmanepadi, when it conveys that meaning. Thus मातुः संजानाति ‘he remembers with regret his mother,’ पितुः संजानाति ॥
Kashika¶
ज्ञ इति वर्तते। सकर्मकार्थमिदम्। सं प्रति इत्येवंपूर्वाद् जानातेरनाध्याने वर्तमानादात्मनेपदं भवति। आध्यानमुत्कण्ठास्मरणम्। शतं संजानीते। सहस्रं संजानीते। शतं प्रतिजानीते। सहस्रं प्रतिजानीते। अनाध्यान इति किम्? मातुः संजानाति। पितुः संजानाति। उत्कण्ठत इत्यर्थः॥
Siddhanta Kaumudi¶
शतं संजानीते । अवेक्षत इत्यर्थः । शतं प्रतिजानीते । अङ्गीकरोतीत्यर्थः । अनाध्यान इति योगो विभजते । तत्सामर्थ्यात् अकर्मकाच्च (SK2718) इति प्राप्तिरपि वार्यते । मातरं मातुर्वा संजानाति । कर्मणः शेषत्वविवक्षायां षष्ठी ॥
Balamanorama¶
संप्रतिभ्यामनाध्याने - ॒ज्ञ आत्मनेपद॑मिति शेषः । अवेक्षते इत्यर्थ इति । अकर्मकत्वाऽभावात् पूर्वेणाऽप्राप्तिरिति भावः । अनाध्याने किम् मातरं संजानाति । आध्यायतीत्यर्थः । उत्कण्ठापूर्वकंस्मरणमाध्यानम् । ननु यदा आध्याने कर्मणः शेषत्वविवक्षया षष्ठीमाश्रित्य मातुः संजानातीति प्रयुज्यते तदा सम्पूर्वो जानातिरयमकर्मक इति स्थितिः । ततर्संप्रतिभ्यामनाध्याने॑ इत्यात्मनेपदस्याऽप्रवृत्तावपिअकर्मकाच्चे॑ति सूत्रेणात्मनेपदं दुर्वारम्, तत्र अनाध्याने इत्यभावात् । संप्रतिभ्यामित्यत्र अनाध्यानग्रहणस्य मतारं संजानातीति सकर्मके चरितार्थत्वादित्यत आह — अनाध्याने इति योगो विभज्यते इति । ततश्चसंप्रतिभ्या॑मित्येको योगः ।संप्रतिपूर्वाज्ज्ञ आत्मनेपदमित्यर्थः । ‘अनाध्याने’ इति योगान्तरम् । अनाध्याने संप्रतिभ्यामात्मनेपदमित्यर्थ- । ततः किमित्यत आह — अकर्मकाच्चेति प्राप्तिरपि बाध्यते इति । ननु अनन्तरस्येति न्यायेनसम्प्रतिभ्या॑मित्यस्यैव बाधो युक्त इत्यत आह — तत्सामर्थ्यादिति । एकसूत्रत्वेनैव सिद्धे अनाध्याने इति योगविभागाद्व्यवहितस्यापि बाध इत्यर्थः । ननुमातरं मातुर्वा संजानाती॑त्यत्र मातुः कर्मत्वाद्द्वितीयैव युक्तेत्यत आह — कर्मणः शेषत्वविवक्षायां षष्ठीति । नचैवमपिअधीगर्थदयेशां कर्मणि॑ इति षष्ठएव स्यान्नतु द्वितीयेति वाच्यम्, तत्र शेष इत्यनुवर्त्त्य कर्मणः शेषत्वविवक्षायां षष्ठी, कर्मत्वविवक्षायां तु द्वितीयेत्यभ्युपगमात् । न चैवं सति ‘षष्ठी शेषे’ इत्यनेनैव सिद्धत्वात्अधीगर्थे॑ति व्यर्थमिति वाच्यम्,मातुः स्मरण॑मित्यादौ शेषष्ठ्याः समासाऽभावार्थत्वादिति कारकाधिकारे प्रपञ्चितम् ।
Padamanjari¶
उत्कण्ठास्मरणमुत्कण्ठापूर्वकं स्मरणम्। मातुरिति। ठधीगर्थदयेशाम्ऽइति षष्ठी । ननु’शेष’ इति तत्रानुवर्तते, तेन कर्म शेषत्वेन विवक्षितव्यमिति अकर्मकत्वात्पूर्वेणात्रात्मनेपदप्रसङ्गः। ठनाध्यानेऽ इत्यस्य तु मातरं संजानातीति व्यावर्त्यं स्याद्यत्र कर्मतैव विवक्षिता, नैष दोषः; ठनाध्यानेऽइति विभज्यते, तेन पूर्वयोगस्यापि शेषो भविष्यति॥
Nyaas¶
उत्कण्ठास्मरणम् इति। उत्कण्ठापूर्वकस्मरणमिति। मातुः इति। अधीगर्थदयेशां कर्मणि (2.3.52) इति षष्ठी॥
Prakriyasarvasvam¶
आभ्यामौत्कण्ठ्यादन्यत्रार्थे ज्ञस्तङ् । बन्धुं संजानीते । धनं संजानीते । प्रत्यभिज्ञापेक्षा चार्थः । दातुं प्रतिजानीते । औत्कण्ठये तु प्रियायाः संजानाति । सोत्कण्ठं स्मरतीत्यर्थः ।
Sutra Prayogas¶
प्रत्यज्ञास्त (भट्टिकाव्यम्): सं-प्रति- भ्यामनाध्याने इति तङ्।
प्रतिजज्ञे (भट्टिकाव्यम्): संप्रतिभ्याम् इति तङ्।