13046: सम्प्रतिभ्यामनाध्याने ============================ **Padacheda:** सम्-प्रतिभ्याम् | S | 5 | 2 | अनाध्याने | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After the verb ज्ञ , preceded by सम् and प्रति , the आत्मनेपद is used, when Not Used in the sense of 'remembering with regret'. Vasu English Translation ------------------------ After the verb ज्ञ , preceded by सम् and प्रति , the आत्मनेपद is used, when Not Used in the sense of 'remembering with regret'. The word *jna* is understood in this *sutra*: and the aphorism applies to that *jna* which is used in the transitive. As शतं संजानीते 'he looks for a hundred,' So सहस्रं प्रतिजानीते 'he promises a thousand.' Why do we say when 'not meaning remembering with regret?' Because it is not *Atmanepadi*, when it conveys that meaning. Thus मातुः संजानाति 'he remembers with regret his mother,' पितुः संजानाति ॥ Kashika ------- ज्ञ इति वर्तते। सकर्मकार्थमिदम्। सं प्रति इत्येवंपूर्वाद् जानातेरनाध्याने वर्तमानादात्मनेपदं भवति। आध्यानमुत्कण्ठास्मरणम्। शतं संजानीते। सहस्रं संजानीते। शतं प्रतिजानीते। सहस्रं प्रतिजानीते। अनाध्यान इति किम्? मातुः संजानाति। पितुः संजानाति। उत्कण्ठत इत्यर्थः॥ Siddhanta Kaumudi ----------------- शतं संजानीते । अवेक्षत इत्यर्थः । शतं प्रतिजानीते । अङ्गीकरोतीत्यर्थः । अनाध्यान इति योगो विभजते । तत्सामर्थ्यात् अकर्मकाच्च (SK2718) इति प्राप्तिरपि वार्यते । मातरं मातुर्वा संजानाति । कर्मणः शेषत्वविवक्षायां षष्ठी ॥ Balamanorama ------------ **संप्रतिभ्यामनाध्याने** - ॒ज्ञ आत्मनेपद॑मिति शेषः । अवेक्षते इत्यर्थ इति । अकर्मकत्वाऽभावात् पूर्वेणाऽप्राप्तिरिति भावः । अनाध्याने किम् मातरं संजानाति । आध्यायतीत्यर्थः । उत्कण्ठापूर्वकंस्मरणमाध्यानम् । ननु यदा आध्याने कर्मणः शेषत्वविवक्षया षष्ठीमाश्रित्य मातुः संजानातीति प्रयुज्यते तदा सम्पूर्वो जानातिरयमकर्मक इति स्थितिः । ततर्संप्रतिभ्यामनाध्याने॑ इत्यात्मनेपदस्याऽप्रवृत्तावपिअकर्मकाच्चे॑ति सूत्रेणात्मनेपदं दुर्वारम्, तत्र अनाध्याने इत्यभावात् । संप्रतिभ्यामित्यत्र अनाध्यानग्रहणस्य मतारं संजानातीति सकर्मके चरितार्थत्वादित्यत आह — अनाध्याने इति योगो विभज्यते इति । ततश्चसंप्रतिभ्या॑मित्येको योगः ।संप्रतिपूर्वाज्ज्ञ आत्मनेपदमित्यर्थः । 'अनाध्याने' इति योगान्तरम् । अनाध्याने संप्रतिभ्यामात्मनेपदमित्यर्थ- । ततः किमित्यत आह — अकर्मकाच्चेति प्राप्तिरपि बाध्यते इति । ननु अनन्तरस्येति न्यायेनसम्प्रतिभ्या॑मित्यस्यैव बाधो युक्त इत्यत आह — तत्सामर्थ्यादिति । एकसूत्रत्वेनैव सिद्धे अनाध्याने इति योगविभागाद्व्यवहितस्यापि बाध इत्यर्थः । ननुमातरं मातुर्वा संजानाती॑त्यत्र मातुः कर्मत्वाद्द्वितीयैव युक्तेत्यत आह — कर्मणः शेषत्वविवक्षायां षष्ठीति । नचैवमपिअधीगर्थदयेशां कर्मणि॑ इति षष्ठएव स्यान्नतु द्वितीयेति वाच्यम्, तत्र शेष इत्यनुवर्त्त्य कर्मणः शेषत्वविवक्षायां षष्ठी, कर्मत्वविवक्षायां तु द्वितीयेत्यभ्युपगमात् । न चैवं सति 'षष्ठी शेषे' इत्यनेनैव सिद्धत्वात्अधीगर्थे॑ति व्यर्थमिति वाच्यम्,मातुः स्मरण॑मित्यादौ शेषष्ठ्याः समासाऽभावार्थत्वादिति कारकाधिकारे प्रपञ्चितम् । Padamanjari ----------- उत्कण्ठास्मरणमुत्कण्ठापूर्वकं स्मरणम्। मातुरिति। ठधीगर्थदयेशाम्ऽइति षष्ठी । ननु'शेष' इति तत्रानुवर्तते, तेन कर्म शेषत्वेन विवक्षितव्यमिति अकर्मकत्वात्पूर्वेणात्रात्मनेपदप्रसङ्गः। ठनाध्यानेऽ इत्यस्य तु मातरं संजानातीति व्यावर्त्यं स्याद्यत्र कर्मतैव विवक्षिता, नैष दोषः; ठनाध्यानेऽइति विभज्यते, तेन पूर्वयोगस्यापि शेषो भविष्यति॥ Nyaas ----- `उत्कण्ठास्मरणम्` इति। उत्कण्ठापूर्वकस्मरणमिति। `मातुः` इति। **अधीगर्थदयेशां कर्मणि** (2.3.52) इति षष्ठी॥ Prakriyasarvasvam ----------------- आभ्यामौत्कण्ठ्यादन्यत्रार्थे ज्ञस्तङ् । बन्धुं संजानीते । धनं संजानीते । प्रत्यभिज्ञापेक्षा चार्थः । दातुं प्रतिजानीते । औत्कण्ठये तु प्रियायाः संजानाति । सोत्कण्ठं स्मरतीत्यर्थः । Sutra Prayogas -------------- * **प्रत्यज्ञास्त** (भट्टिकाव्यम्): `सं-प्रति- भ्यामनाध्याने` इति तङ्। * **प्रतिजज्ञे** (भट्टिकाव्यम्): `संप्रतिभ्याम्` इति तङ्।