13044: अपह्नवे ज्ञः

Padacheda: अपह्नवे | S | 7 | 1 |

ज्ञः | S | 5 | 1 |

Sutrartha


Vasu English Summary

After the verb ज्ञ , when used in the sense of ‘denying’, the आत्मनेपद is used.

Vasu English Translation

After the verb ज्ञ , when used in the sense of ‘denying’, the आत्मनेपद is used. The root jna which ordinarily means ‘to know’ and is parasmaipadi by rule (1.3.78), becomes Atmanepadi when through the virtue of any prefix it means ‘to deceive:’ as अपजानीते ‘he deceives,’ शतमपजानीते ‘he denies the debt of a hundred rupees,’ सहस्रमपजानीते ‘denies a thousand.’

Why do we say when meaning “to deny ?” Observe:- न त्वं किंचिदपि ज्ञानासि ‘thou knowest not anything.’

Kashika

शेषात् कर्तरि परस्मैपदे प्राप्ते जानातेरपह्नवे वर्तमानादात्मनेपदं भवति। अपह्नवोऽपह्नुतिरपलापः। सोपसर्गश्चायमपह्नवे वर्तते, न केवलः। शतमपजानीते। सहस्त्रमपजानीते। अपलपतीत्यर्थः। अपह्नव इति किम् ? न त्वं किंचिदपि जानासि॥

Siddhanta Kaumudi

शतमपजीनीते । अपलपतीत्यर्थः ॥

Laghu Siddhanta Kaumudi

शतमपजानीते। अपलपतीत्यर्थः॥

Balamanorama

अपह्नवे ज्ञः - अपह्नवे ज्ञः । अपह्नवः = अपलापः । तद्वृत्तेज्र्ञाधातोरात्मनेपदमित्यर्थः ।

Padamanjari

शेषादित्यादि। असत्यस्मिन् सूत्रे अयमविशेष एव भवतीति भावः। सोपसर्गाश्चेति। तेन ठनुपसर्गाज् ज्ञःऽ इत्यनेन कर्त्रभिप्राये क्रियाफले न सिद्ध्यतीति भावः। उपजानीते इति ।’ज्ञाजनोर्जा’ ॥

Nyaas

शतमपजानीते इति। ज्ञाजनोर्जा (7.3.79) इति जादेशः श्ना, पूर्ववत् ई हलघोः (6.4.113) इतीत्त्वम्॥

Prakriyasarvasvam

अपलापेऽर्थे ज्ञस्तङ् । शतमपजानीते व्याजवान् ।

Sudha

अपह्नवे ज्ञः। अपह्नवः – अपलापः । तद्वत्तेर्ज्ञाधातोरात्मनेपदमित्यर्थः । अपजानीते । अपोपसर्गपूर्वकज्ञाधातोर्लटः स्थाने **अपह्नवे ज्ञः**(1.3.44) इत्यात्मनेपदत्वे **क्र्यादिभ्यः श्ना**(3.1.81) इति श्ना, **ई हल्यघोः**(6.4.113) इति श्नाकारस्य ईत्वे च तत्सिद्धिः।

Sutra Prayogas

  • ज्ञास्यसि (कुमारसम्भवम्): अपह्नवे ज्ञः इत्यात्मनेपदविकल्पः।