13043: अनुपसर्गाद्वा¶
Padacheda: अनुपसर्गात् | S | 5 | 1 |
वा | S | 0 | 0 |
Sutrartha¶
उपसर्गरहितात् ‘क्रम्’ धातोः विकल्पेन आत्मनेपदस्य प्रत्ययाः भवन्ति ।
Sutrartha (English)¶
When the verb क्रम् is used without any उपसर्ग, it optionally gets the प्रत्ययाः of आत्मनेपद.
Vasu English Summary¶
After the verb क्रम् the आत्मनेपद is optionally used, when it is not preceded by any preposition.
Vasu English Translation¶
After the verb क्रम् the आत्मनेपद is optionally used, when it is not preceded by any preposition. The root ‘kram’ may always be conjugated as Atmanepadi when not having any upasarga. The upasarga will be defined in (1.4.59). The option allowed by this sutra is an example of what is technically known as aprapta vibhasa viz., an option which is not an alternative limitation to a general rule already found or known.
Examples: क्रमते or क्रामति ‘he goes over.’ Why do we say ‘when it is without any preposition ?’ For no option is allowed when it takes preposition. As संक्रामति.
Kashika¶
क्रम इति वर्तते। अप्राप्तविभाषेयम्। उपसर्गवियुक्तात् क्रमतेरात्मनेपदं वा भवति। क्रमते। क्रामति। अनुपसर्गादिति किम् ? संक्रामति॥
Siddhanta Kaumudi¶
क्रामति । क्रमते । अप्राप्तविभाषेयम् । वृत्त्यादौ तु नित्यमेव ॥
Balamanorama¶
अनुपसर्गाद्वा - अनुपसर्गाद्वा ।कर्म आत्मनेपद॑मिति शेषः । अप्राप्तविभाषेयमिति । अनुपसर्गात् क्रमेरात्मनेपदस्य कदाप्यप्राप्तेरिति भावः । वृत्त्यादाविति । वृत्तिसर्गतायनेषु तु पूर्वविप्रतिषेधान्नित्यमेवेत्यर्थः ।
Tattvabodhini¶
अनुपसर्गाद्वा - वृत्त्यादौ त्विति । न च वृत्त्यादिसूत्रं सोपसर्गे चरितार्थमित्यनुपसर्गात्क्रमेर्वृत्त्याद्यर्थेऽपि विभाषैवाऽस्त्विति वाच्यम्,उपपराभ्या॑मिति नियमस्योक्तत्वात् ।
Padamanjari¶
अप्राप्तविभाषेयमिति। ठुपपराभ्याम्ऽ इत्यस्य नियमार्थत्वाद् वृत्यादिसूत्रमनुपसर्गविषयमेवेति न तत्रायं विकल्प इति भावः॥
Nyaas¶
अप्राप्तविभाषेयम् इति। वृत्यादीनां निवृत्त्वात्।
Prakriyasarvasvam¶
क्रमते, क्रामति । सोपसर्गात्तु संक्रामतीत्येव ।
Sutra Prayogas¶
क्रममाणः (रघुवंशम्): अनुपसर्माद्वा इति वैकल्पिकमात्मनेपदम्।
चिक्रंसया (शिशुपालवधम्): अनुपसर्गाद्वा इति वैकल्पिकस्यात्मनेपदनिमित्तत्वम्।
चक्रमे (भट्टिकाव्यम्): अनुपसर्गाद्वा इति क्रमे स्तङ्।
क्रममाणैर् (भट्टिकाव्यम्): अनुपसर्गाद्वा इति तङ्।