13041: वेः पादविहरणे¶
Padacheda: वेः | S | 5 | 1 |
पादविहरणे | S | 7 | 1 |
Sutrartha¶
‘वि’ उपसर्गात् ‘क्रम्’ धातोः ‘पादैः विहरणम्’ अस्मिन् अर्थे आत्मनेपदस्य प्रत्ययाः भवन्ति ।
Sutrartha (English)¶
When the उपसर्ग ‘वि’ is attached to the verb ‘क्रम्’, it gets the प्रत्ययाः of आत्मनेपद, provided the meaning is ‘to roam around with feet’.
Vasu English Summary¶
After the verb क्रम् preceded by वि , the आत्मनेपद is used, when in the sense of ‘placing of foot-steps’.
Vasu English Translation¶
After the verb क्रम् preceded by वि , the आत्मनेपद is used, when in the sense of ‘placing of foot-steps’. As वाजी विक्रमते ‘the horse is pacing.’ The term vikramana is applied to the special movements of horse &c.
Though in the Dhatupatha (catalogue of verbal roots), the verb क्रमि and क्रमु have the meanings of pada-viharana and pada-vikshepa, that is “throwing or placing of foot,” and so it might be objected that the present sutra is a useless repetition, yet as verbs have various other meanings than what is assigned to them in the dhatupatha, the present sutra is not unnecessary.
Why do we say “in the sense of throwing of foot”? In any other sense, the terminations will be those of the parasmaipada. As विक्रामति अजिनसन्धिः ‘the fold of the antilope skin is ruptured.’
Kashika¶
विपूर्वात् क्रमतेः पादविहरणेऽर्थे वर्तमानादात्मनेपदं भवति। विहरणं विक्षेपः सुष्ठु विक्रमते। साधु विक्रमते। अश्वादीनां गतिविशेषो विक्रमणमुच्यते। यद्यपि क्रमिः पादविहरण एव पठ्यते क्रमु पादविक्षेपे इति, तथाप्यनेकार्थत्वाद् धातूनामेवमुक्तम्। पादविहरण इति किम्? विक्रामत्यजिनसन्धिः॥
Siddhanta Kaumudi¶
साधु विक्रमते वाजी । पादविहरणे किम् । विक्रामति सन्धिः । द्विधा भवति । स्फुटतीत्यर्थः ॥
Balamanorama¶
वेः पादविहरणे - पादविहरणं = पादविक्षेपः । तद्वृतेर्विपूर्वात् क्रमेरात्मनेपदमित्यर्थः । साधु विक्रमते वाजीति । सम्यक्पदानि विक्षिपतीत्यर्थः ।
Tattvabodhini¶
वेः पादविहरणे - वेः पाद । यद्यपि क्रमेः पादविक्षेप एवार्थस्तथापि धातूनामनेकार्थत्वादेवमुक्तम् ।
Padamanjari¶
विक्रामत्यजिनसन्धिरिति। द्विधा भवति, स्फुटतीत्यर्थः॥
Nyaas¶
विक्रामत्यजिनसन्धिः इति। द्विधा भवति। स्फुटतीत्यर्थः॥
Prakriyasarvasvam¶
अश्वादेर्गतिविशेषेऽर्थे विक्रमेस्तङ् । विक्रमस्व कपिश्रेष्ठ । शोभनं वल्गत्यथः । पादसञ्चारैर्विहरणमेवार्थ इति शङ्करः ।
Sutra Prayogas¶
व्चक्रमिरे (शिशुपालवधम्): वेः पादविहरणे इत्यात्मनेपदम् ।
विक्रममाणाया (भट्टिकाव्यम्): वेः पादवि- हरणे इति तङ्।