13008: लशक्वतद्धिते¶
Padacheda: ल-श-कु | S | 1 | 1 |
अतद्धिते | S | 7 | 1 |
Sutrartha¶
तद्धितभिन्नप्रत्ययस्य औपदेशिकस्वरूपस्य आदौ विद्यमानः लकारः, शकारः, कवर्गीयवर्णः च इत्संज्ञकः भवति ।
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति ‘इत्’ इति संज्ञा । इयम् संज्ञा उपदेशेऽजनुनासिक इत् (1.3.2) इत्यस्मात् लशक्वतद्धिते (1.3.8) इत्येतेषु सूत्रेुषु पाठिता अस्ति । एतेषाम् सूत्राणाम् सङ्कलनम् ‘इत्संज्ञाप्रकरणम्’ नाम्ना ज्ञायते । अस्य प्रकरणस्य इदम् सप्तमम् (अन्तिमम्) सूत्रम् । अनेन सूत्रेण तद्धितभिन्नप्रत्ययस्य औपदेशिकस्वरूपस्य (मूलस्वरूपस्य) आदौ विद्यमानस्य लकारस्य, शकारस्य, कवर्गीयवर्णस्य च इत्संज्ञा भवति । यथा —
ल्युट् इत्यस्य कृत्प्रत्ययस्य आदिस्थः लकारः इत्संज्ञकः अस्ति ।
श्यन् इत्यस्य विकरणप्रत्ययस्य आदिस्थः शकारः इत्संज्ञकः अस्ति ।
क्यच् इत्यस्य सनादिप्रत्ययस्य आदिस्थः ककारः इत्संज्ञकः अस्ति ।
खिष्णुच् इत्यस्य कृत्प्रत्ययस्य आदिस्थः खकारः इत्संज्ञकः अस्ति ।
ग्स्नु इत्यस्य कृत्प्रत्ययस्य आदिस्थः गकारः इत्संज्ञकः अस्ति ।
घिनुण् इत्यस्य कृत्प्रत्ययस्य आदिस्थः घकारः इत्संज्ञकः अस्ति ।
ङि इत्यस्य सुप्प्रत्ययस्य आदिस्थः ङकारः इत्संज्ञकः अस्ति ।
इत्संज्ञकवर्णस्य लोपः
प्रक्रियायाः प्रारम्भे इत्संज्ञकवर्णस्य तस्य लोपः (1.3.9) इत्यनेन नित्यम् लोपः भवति ।
तद्धितभिन्नप्रत्ययस्य आदौ विद्यमानानाम् लकार-शकार-कवर्गीयवर्णानां इत्संज्ञायाः प्रयोजनम्
अष्टाध्याय्याम् उपदेशेषु इत्संज्ञकवर्णानां संयोजनस्य अनेकानि प्रयोजनानि सन्ति । प्रक्रियायां जायमानानि बहूनि कार्याणि इत्संज्ञकवर्णान् आश्रित्य एव प्रवर्तन्ते । The इत्-letters are like markers that decide whether a certain action will or will not happen in the prakriya. तद्धितभिन्नप्रत्ययानाम् आदौ विद्यमानस्य लकारस्य, शकारस्य, कवर्गीयवर्णस्य अपि भिन्नानि प्रयोजनानि सन्ति । यथा, यस्मिन् प्रत्यये घकारः इत्संज्ञकः अस्ति, तस्मिन् प्रत्यये परे अङ्गस्य अन्तिम-चकारस्य कुत्वं प्रवर्तते । यथा, ‘पच्’ धातोः घञ्-प्रत्यये कृते प्रत्ययस्य घित्त्वात् चजोः कु घिण्ण्यतोः (7.3.52) इति चकारस्य कुत्वं भवति । सम्पूर्णा प्रक्रिया इयम् —
पचनम् इत्येव
= पच् + घञ् [**भावे** (3.3.18) इत्यनेन भावे घञ्-प्रत्ययः]
→ पच् + अ ['घञ्'प्रत्यये विद्यमानस्य घकारस्य **लशक्वतद्धिते** (1.3.8) इति इत्संज्ञा । ञकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा । द्वयोः अपि **तस्य लोपः** (1.3.9) इति लोपः]
→ पाच् + अ [ञित्-प्रत्यये परे **अत उपधायाः** (7.2.116) इति उपधावृद्धिः]
→ पाक् + अ [घित्-प्रत्यये परे **चजोः कु घिण्ण्यतोः** (7.3.52) इति चकारस्य कुत्वम् ककारः]
→ पाक
सूत्रे ‘अतद्धिते’ इति ग्रहणस्य प्रयोजनम्
केषाञ्चन तद्धितप्रत्ययानाम् अपि आदौ लकारः/शकारः/कवर्गीयवर्णः वा दृश्यते । यथा - लच्’, ‘क’, ‘ख’, ‘ग्मिनि’, ‘घन्’, ‘शस्’ - इत्यादिषु । एतेषु सर्वेषु विद्यमानानाम् आदिस्थ-लकार-शकार-कवर्गीयवर्णानाम् प्रक्रियायाम् इत्संज्ञा नैव इष्यते । यथा, ‘चूडा’ शब्दात् प्राणिस्थादातो लजन्यतरस्याम् (5.2.96) इति सूत्रेण ‘लच्’ इति तद्धितप्रत्ययं कृत्वा ‘चूडाल’ इति शब्दः सिद्ध्यति । अत्र यदि ‘लच्’प्रत्ययस्य आदिस्थस्य लकारस्य इत्संज्ञा अभविष्यत्, तर्हि तस्य लोपः (1.3.9) इत्यनेन लकारस्य लोपे कृते इष्टरूपं नैव अजनिष्यत । एतादृशं मा भूत्, अतएव तद्धितसंज्ञकप्रत्ययानाम् आदौ विद्यमानस्य लकार-शकार-कवर्गीयवर्णस्य इत्संज्ञायाः निषेधः इष्यते । तदर्थमेव अस्मिन् सूत्रे ‘अतद्धिते’ इति निर्देशः कृतः वर्तते ।
Sutrartha (English)¶
The letters ल्, श्, क्, ख्, ग्, घ्, ङ् at the beginning of the औपदेशिक form of a non-तद्धित प्रत्यय are called इत् ।
Vasu English Summary¶
The initial ल् and श् and the gutturals of all affixes, except , तद्धित are indicatory.
Vasu English Translation¶
The initial ल् and श् and the gutturals of all affixes, except , तद्धित are indicatory. The initial ल्, श्, क्, ख्, ग्, घ्, ङ्, of affixes are indicatory, except in Taddhita affixes. Thus the initial ल् in ल्युट is इत् (3.3.115) ल्यट्च)। चि +ल्युट् = चयनम् (7.1.1) ‘collecting.’ The initial श् in शप् is इत् (III.1.68. कर्तरि शप्) भू + शप् + तिप् = भो + अ + ति = ‘he is.’ The initial क् is इत् as in क्त and क्तवतु (1.1.26), as भुक्तः ‘eating’ भुक्तवान्. The initial ख् is इत् as in खच् (3.2.38) प्रियवशे वदः खच्) the word वद takes the affix khach when compounded with प्रिय and वश्) प्रियंवदः ‘speaking kindly’. वशंवदः ‘submissive.’ The initial ग् is इत् as in the affix ग्स्नु (2.2.13) ग्लाजिस्थश्च ग्स्नु), ग्लास्नुः ‘languid’, जिष्णुः ‘victorious,’ स्थास्नुः ‘unmoveable.’ The initial घ् is इत् as in घुरच् (3.2.161) भञ्जभासभिदो घुरच्) भञ्ज + घुरच् = भङ्गुरम् ‘brittle.’ The initial ङ् is इत्, as in ङसि (termination of the ablative sing.) ङस् ditto of genitive sing. (4.1.2), as सुमनस् + ङस् = सुमनस् + अस् = सुमनसः ‘of a well minded.’ In Taddhitta affixes however, these initials ल्, श् and gutturals are not इत्; and are therefore not elided. Thus चूडा + लच् = चूडालः (5.2.96) प्राणिस्थादातो लजन्यतरस्याम्). ‘crested’; लोम + श = लोमशः (5.2.100) लोमादिपामादिपिच्छादिभ्यः शनेलच्) ‘hairy;’ वृक्ष + कन् = वृक्षकः (5.3.81) - (5.3.86) जातिनाम्नः कन्) ‘a small tree.’
Kashika¶
तद्धितवर्जितस्य प्रत्ययस्यादितो वर्तमाना लकारशकारकवर्गा इत्संज्ञा भवन्ति। लकार — ल्युट् च (३.३.११५) — चयनम्। जयनम्। शकार — कर्तरि शप् (३.१.६८) — भवति । पचति। कवर्ग — क्तक्तवतू निष्ठा (१.१.२६) — भुक्तः, भुक्तवान्। प्रियवशे वदः खच् (३.२.३८) — प्रियंवदः। वशंवदः। ग्लाजिस्थश्च ग्स्नुः (३.२.१३९) — ग्लास्नुः। जिष्णुः। भूष्णुः। भञ्जभासमिदो घुरच् (३.२.१६१) — भङ्गुरम्। टाङसिङसामिनात्स्याः (७.१.१२) — वृक्षात्। वृक्षस्य। अतद्धित इति किम्? चूडालः। लोमशः। कर्णिका॥
Siddhanta Kaumudi¶
तद्धितवर्जप्रत्ययाद्या लशकवर्गा इतः स्युः । इति शसः शस्येत्संज्ञा ॥
Laghu Siddhanta Kaumudi¶
तद्धितवर्जप्रत्ययाद्या लशकवर्गा इतः स्युः॥
Balamanorama¶
लशक्वतद्धिते - ॒राम शस्-इति स्थिते, ‘न विभक्तौ तुस्मा’इति सकारस्य नेत्वम् । तत्र शकारस्य अनन्त्यत्वाद्धलन्त्यमित्यस्याऽप्राप्तावाह-लशक्वतद्धिते । ‘लशकु’ इति समाहारद्वन्द्वः । उपदेशेऽजनुनासिक इत्,आदिर्ञिटुडवः,षः प्रत्ययस्ये॑त्यतः-इदिति , आदिरिति, प्रत्ययस्येति चानुवर्तते । अतद्धित इति षष्ठर्थे सप्तमी । तद्धितभिन्नस्य प्रत्ययस्य आदिभूतं लकारशकारकवर्गम् इत्संज्ञं भवतीत्यर्थः । तदाह — तद्धितवर्जेति । अतद्धित इति किम् ।कर्णललाटात्कनलङ्कारे॑ । कर्णिका । अत्र ककारस्य तद्धितावयवत्वान्नेत्त्वम् । सति तस्मिन्किति चे॑त्यादिवृद्धिः स्यात् । एतेन प्रयोजनाऽभावादेव लशादितद्धितेषु नेत्त्वमित्यतद्धितग्रहणं व्यर्थमिति निरस्तम् । इति शस इति । शकारस्येत्संज्ञायां ‘तस्य लोप’ इति लोपः । शकारोच्चारणं तु ‘जसः शी’ ‘तस्माच्छसो नः’ इत्यादौ विषयविभागार्थम् । राम असिति स्थिते, अकः सवर्णे दीर्घ इति बाधित्वा, अतो गुण इति प्राप्ते प्रथमयोरिति पूर्वसवर्णदीर्घे, रामास् इति स्थिते ।
Tattvabodhini¶
लशक्वतद्धिते - लशक्व ।आदिर्ञिटुडवः॑ इत्यतआदि॑-रित्यनुवर्ततेषः प्रत्ययस्ये॑त्यतः प्रत्ययस्येति ।अतद्धिते॑ इति पर्युदासाद्वा लभ्यत इत्याह — प्रत्ययाद्या इति । लश्त शश्च कुश्चेति समाहारद्वन्द्वेलशक्वि॑ति नपुंसकम् । तदितरेतरयोगद्वन्द्वेन विवृणोति-लशकवर्गा इति । अतद्धित इति कम् ,प्राणिस्थादातः-॑इति लच् । चूडालः ।लोमादिभ्यः[शः॑] । लोमशः । अत्र प्रयोजनाऽभावादेव नेत्संज्ञेति नेदं प्रत्युदाहरणमिति नव्याः ।कर्णललाटा॑दिति भवार्थे कन् । कर्णिका । सत्यां हीत्संज्ञायांकिति चे॑ति वृद्धिः स्यात् । प्रत्ययाद्या इति किम् ।जल्पभिक्षे॑ति वृडः षाकन् । वराकः । अत्रक्ङिति चे॑ति गुणो न स्यात् ।
Padamanjari¶
प्रियंवद इति। ठरुर्द्विषदजन्तस्य मुम्ऽ । जिष्णुरिति। स्नुप्रत्ययस्य गित्वपक्षे गकारस्येदमुदाहरणम्। चूडाल इति । मत्वर्थे’प्राणिस्थादातो लजन्यतरस्याम्’ इति । अत्र प्रयोजनाभावादेव न भविष्यतीति शक्यं वक्तुम्। कर्णिकेति।’कर्णललाटात् कनलङ्कारे’ इति भवार्थे कन्। अत्र’किति च’ इति वृद्धिः स्यात्, रूपञ्च न सिध्येत्। अथ तुदिर्च्छिदिर्प्रभृतिषु इरित्यस्य समुदायस्य केनेत्संज्ञा?मा भूत्समुदायस्य, रेफस्य हलन्त्यम् इति भविष्यति, इकारस्य उपदेशेजनुनासिक इत् इति। इरितो वा इत्यात्रापि - इश्च रश्चेरौ तावितावस्येति विग्रहः, न तु इरित्ययं समुदायः स इद्यस्येति। अवश्यं च इकारस्य पृथगीत्संज्ञेषितव्या, स्वरितेत इत्यात्मनेपदं यथा स्यादिति। यद्येवम्, ठिदितो नुम् धात्तोःऽ इति नुम् प्राप्नोति, कुम्भीधान्यन्यायेन न भवति; यस्य पुनः कुम्भ्यां वान्यत्र वा, नासौ कुम्भीधान्यः। नायं न्यायो नुम्विधौ शक्य आश्रयितुम्। इह हि न स्यात्-टुअनदिऽ नन्दथुरिति। ज्ञापकात् सिद्धम्, यदयम्’न हशः’ इति क्सस्य प्रतिषेधं शास्ति, तज्ज्ञापयति-नेदितां नुम्भवति; अन्यथा हशेरिदित्वान्नुमि सति अनिगुपधात्वात् क्सस्य प्राप्तिरेव नास्ति, किं तन्निषेधेन। परिहारान्तरमप्यत्र नुम्विधौ वक्ष्यते॥
Nyaas¶
प्रियंवदः इति। प्रियवशे वदः खच् (3.2.38) , अरुर्द्विषदजन्तस्य मुम् (6.3.67) इति मुम्। जिष्णुः- इति। ग्लाजिस्थश्च क्स्नुः (3.2.139) इति। ये तु क्स्नुप्रत्ययं गितमिच्छन्ति तन्मतेनेदं गकारस्योदाहरणम्। ये तु कितमिच्छन्ति तन्मतेनेमपि ककारस्योदाहरणं भवति।चूडाल#ः इति। मत्वर्थे प्राणिस्थादातो लजन्यतरस्याम् (5.2.96) इति लच् प्रत्ययः। ननु च प्रयोजनाभावादत्रेत्संज्ञा न भविष्यति; लित्प्रत्ययात् पूर्वस्योदात्तत्वं प्रयोजनमिति चेत्, न; चित्स्वरस्य हि सर्वस्य रस्यापवादत्वात् प्रत्ययस्वरेणह्रन्तोदात्तत्वे सिद्धे चित्करणस्यैतत् प्रयोजनम् - चित्स्वर एव यथा स्यात्, योऽन्यः स्वरः प्राप्नोति स मा भूदिति। इदं तु प्रत्युदाहरणम् - लोमान्यस्य सन्तीति लोमादिपामादिपिच्छादिभ्यः शनेलचः (5.2.100) इत्यादिना शः, लोमशः? एतदपि नास्ति, अत्रापि प्रोयजनाभावादेवेत्संज्ञा न भविष्यति। इदं तर्हि प्रत्युदाहरम् - कर्णललाटात् कनलङ्कारे (4.3.65) इति भावार्थे कन्; कर्णिका, यद्यत्रेत्संज्ञा स्यात् किति च (7.2.118) इत्यादिवृद्धिः स्तात्, ततश्च रूपमेव न सिद्ध्येत? यद्येवम् इवमेवोपन्यसनीयम्, नेतरे? एवं मन्यते - एतदर्थम् `अतद्धिते`इति क्रियमाणमिहापि मन्दधियां प्रतिपत्तिगौरवं परिहर्तु चूडालः, लोमश इत्येवमर्थमपि भवितुमर्हतीति॥
Prakriyasarvasvam¶
अतद्धिते प्रत्यय आदिभूता लकारशकारकवर्गा इत्संज्ञाः । वद् य ।
Sarala¶
उपदेशेऽजनुनासिक इत् (१.३.२), षः प्रत्ययस्य (१.३.६), आदिर्ञिटुडवः (१.३.५) - इत्येतेभ्यः “इत्” “प्रत्ययस्य” “आदि” इति चानुवर्ततऽत आह - तद्धितवर्जेति । तद्धितभिन्नप्रत्ययाद्या इति तदर्थः । प्रकृते रोमशः सिध्मलः नौका इत्यादौ शकारादेरित्सञ्ज्ञाया व्यावृत्तये - अतद्धित इति ॥
Sudha¶
लशकेति । लश्च कुछ अश्चेति समाहारद्वन्द्वः । आदिर्ञिटुडवः**(1.3.5) इत्यत आदिरित्यनुवर्तते । <<षः प्रत्ययस्य>। इत्यतः प्रत्ययस्येत्यनुवर्तते तदाह - **प्रत्ययाद्या इति ।