13007: चुटू¶
Padacheda: चु-टू | S | 1 | 2 |
Sutrartha¶
प्रत्ययस्य औपदेशिकस्वरूपस्य आदौ विद्यमानः चवर्गीयवर्णः टवर्गीयवर्णः च इत्संज्ञकः भवति ।
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति ‘इत्’ इति संज्ञा । इयम् संज्ञा उपदेशेऽजनुनासिक इत् (1.3.2) इत्यस्मात् लशक्वतद्धिते (1.3.8) इत्येतेषु सूत्रेुषु पाठिता अस्ति । एतेषाम् सूत्राणाम् सङ्कलनम् ‘इत्संज्ञाप्रकरणम्’ नाम्ना ज्ञायते । अस्य प्रकरणस्य इदम् षष्ठं सूत्रम् । अनेन सूत्रेण प्रत्ययस्य औपदेशिकस्वरूपस्य (मूलस्वरूपस्य) आदौ विद्यमानस्य चवर्गीयवर्णस्य, टवर्गीयचवर्णस्य च इत्संज्ञा भवति । यथा —
च्फञ् इति तद्धितप्रत्ययस्य आदौ विद्यमानः चकारः इत्संज्ञकः अस्ति ।
जस् इति विभक्तिप्रत्ययस्य आदौ विद्यमानः जकारः इत्संज्ञकः अस्ति ।
ञ्युट् इति कृत्प्रत्ययस्य आदौ विद्यमानः ञकारः इत्संज्ञकः अस्ति ।
टाप् इति स्त्रीप्रत्ययस्य आदौ विद्यमानः टकारः इत्संज्ञकः अस्ति ।
डाप् इति स्त्रीप्रत्ययस्य आदौ विद्यमानः डकारः इत्संज्ञकः अस्ति ।
ण इति तद्धितप्रत्ययस्य/कृत्प्रत्ययस्य आदौ विद्यमानः णकारः इत्संज्ञकः अस्ति ।
इत्संज्ञकवर्णस्य लोपः
प्रक्रियायाः प्रारम्भे इत्संज्ञकवर्णस्य तस्य लोपः (1.3.9) इत्यनेन नित्यम् लोपः भवति ।
प्रत्ययस्य आदौ विद्यमानानाम् चवर्गीयवर्णानाम् टवर्गीयवर्णानां च इत्संज्ञायाः प्रयोजनम्
अष्टाध्याय्याम् उपदेशेषु इत्संज्ञकवर्णानां संयोजनस्य अनेकानि प्रयोजनानि सन्ति । प्रक्रियायां जायमानानि बहूनि कार्याणि इत्संज्ञकवर्णान् आश्रित्य एव प्रवर्तन्ते । The इत्-letters are like markers that decide whether a certain action will or will not happen in the prakriya. प्रत्ययानाम् आदौ विद्यमानस्य चवर्गीयवर्णस्य, टवर्गीयवर्णस्य इत्संज्ञायाः अपि भिन्नानि प्रयोजनानि सन्ति । यथा, यस्मिन् तद्धितसंज्ञके प्रत्यये णकारः इत्संज्ञकः वर्तते, तस्मिन् प्रत्यये परे अङ्गस्य आदिवर्णस्य वृद्धिः भवति । यथा, ‘छत्रम् अस्य शीलम्’ इत्यस्मिन् अर्थे ‘छत्र’ शब्दात् छत्रादिभ्यो णः (4.4.62) इत्यनेन ण-प्रत्यये कृते, ‘छत्र’ शब्दस्य आदिस्थ-अकारस्य तद्धितेष्वचामादेः (7.2.117) इत्यनेन वृद्धिः भवितुम् अर्हति । सम्पूर्णा प्रक्रिया इयम् —
छत्रम् शीलम् अस्य इति
= छत्र + ण [ **छत्रादिभ्यो णः** (4.4.62) इत्यनेन प्रथमासमर्थात् 'छत्रम्' इति शब्दात् ण-प्रत्ययः भवति । अग्रे तद्धितान्तस्य **कृत्तद्धितसमासाश्च** (1.2.46) इत्यनेन प्रातिपदिकसंज्ञायां कृतायाम्, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इत्यनेन छत्र-शब्दात् विहितस्य सुँ-प्रत्ययस्य लोपः भवति ]
→ छत्र + अ [ण-प्रत्ययस्य आदौ विद्यमानस्य णकारस्य **चुटू** (1.3.7) इत्यनेन इत्संज्ञा भवति । **तस्य लोपः** (1.3.9) इत्यनेन अयम् इत्संज्ञकवर्णः लुप्यते ।]
→ छात्र + अ [णित्-प्रत्यये परे **तद्धितेष्वचामादेः** (7.2.117) इति अङ्गस्य आदिवृद्धिः]
→ छात्र् + अ [रेफोत्तरस्य अकारस्य **यस्येति च** (6.4.148) इति लोपः]
→ छात्र
प्रत्ययस्य आदौ विद्यमानानाम् छकार-झकार-ठकार-ढकाराणाम् इत्संज्ञायाः अप्राप्तिः
छकारः, झकारः, ठकारः तथा ढकारः - एते वर्णाः यद्यपि प्रत्ययानाम् औपदेशिकस्वरूपस्य प्रारम्भे भवितुम् अर्हन्ति, तथापि तेषाम् चुटू (1.3.7) इत्यनेन इत्संज्ञा न भवति, यतः तेषाम् इत्संज्ञाविधानमस्य किमपि प्रयोजनम् न विद्यते । अतः ‘छण्’, ‘झि’, ‘ठक्’, ‘ढक्’ एतेषु प्रत्ययेषु आदिस्थस्य चवर्गीयवर्णस्य टवर्गीयवर्णस्य वा इत्संज्ञा न करणीया ।
चुटू सूत्रस्य अनित्यत्वम्
षः प्रत्ययस्य (1.3.6) तथा चुटू (1.3.7) एतयोः द्वयोः सूत्रयोः स्थाने ‘प्रत्ययस्य चुटुषाः’ इति एकमेव सूत्रं क्रियते चेत् अपि समानः एव अर्थः सिद्ध्यति । तथापि आचार्येण चुटू (1.3.7) इति सूत्रम् षः प्रत्ययस्य (1.3.6) इत्यस्मात् पृथग् रूपेण पाठितम् अस्ति । अस्य पृथग्-विधानस्य प्रयोजनम् अस्ति चुटू (1.3.7) इति सूत्रस्य अनित्यत्वम् । अस्य अनित्यत्वस्यैव आधारेण केषुचन प्रत्ययेषु (यथा - चुञ्चुप्, चणप्, जातीयर्, टिटञ्, जाहच् - आदिषु प्रत्ययेषु) विद्यमानस्य आदिस्थस्य चवर्गीयवर्णस्य टवर्गीयवर्णस्य च इत्संज्ञा नैव विधीयते । अत्र ‘प्रयोजनाभावात् इत्संज्ञा न भवति’ इति अपरं स्पष्टीकरणम् अपि भवितुम् अर्हति ।
Sutrartha (English)¶
The letters - च्, छ्, ज्, झ्, ञ्, ट्, ठ्, ड्, ढ्, ण् - at the beginning of the औपदेशिक form of a प्रत्यय are called इत् ।
Vasu English Summary¶
The initial palatals and linguals of an affix are indicatory.
Vasu English Translation¶
The initial palatals and linguals of an affix are indicatory. The consonants च्, छ्, ज्, झ्, ञ्, ट्, ठ्, ड्, ढ्, and ण्, are always इत् and are rejected when initial in affixes. The word ‘affix’ of the previous sutra governs this also.
As the affix च्फञ् chapan in sutra (4.1.98) गोत्रे कुञ्जादिभ्यश्चफञ्. Here च् is indicatory, as, कौञ्चायन्यः ॥ The initial छ् chh of an affix is always replaced by ईय (7.1.2) आयनेयीनीयियः फढ खच्छघां प्रत्ययादीनाम्). The initial ज् of an affix is इत्. As, जस् (Nom. Pl. term) ब्राह्मणाः ॥ The initial झ् of an affix is always replaced by अन्त, as भू + शप् + झि = भवन्ति ॥ (7.1.3) झोऽन्तः). The initial ञ् of an affix is इत् as in ञ्य which comes after the words शण्डिक &c. As शाण्डिक्यः (4.3.92) शण्डिकादिभ्योञ्यः). The indicatory ञ् causes vriddhi by rules (7.2.115), (7.2.116) and (7.2.117): (अचोञ्णिति, अतउपधायाः, तद्धितेष्वचामादेः).
The initial ट् t of an affix is इत् as in (3.2.16) (चरेष्टः the root चर् takes the affix ट when compounded with a noun in the locative). As कुरुचरः ‘who goes among the Kurus.’ The feminines of words formed by this affix take ङीप् (4.1.15) टिड्ढाणञ्द्वयसज् &c.) As कुरुचरी, मद्रचरी. The initial ठ् of an affix is always replaced by इक (7.3.50) ठस्येकः). The initial ड् of an office is it, as in (3.2.97) (सप्तम्यां जनेडः the root जन् takes the affix ड when in composition with a word in the locative, as उपसरजः, मन्दुरजः. The ड् indicates that the final of the word called टि should be elided when an affix having indicatory d is added. The initial ढ् of an affix is replaced by एय (7.1.2)
The letter ण् is always an इत् when initial. As in the aphorism (4.4.85) (अन्नास्मः) the affix ण comes after the word अन्न ‘food.’ As अन्न + ण = आन्नः. The n causes Vriddhi.
This sutra could very well have been included in the last aphorism. Why has it then been made a separate aphorism? The reply is that the present sutra declares an anitya rule–that is to say, a rule which is not universally true. The initial palatal or lingual of every affix is not indicatory. Thus in the affixes चुञ्चुप् and चणप् the initial च् is not indicatory but forms part of the real affix. As विद्याचुंचुः विद्याचणः ‘famous for one’s learning.’ See Sutra (5.2.26). तेन वित्तश्चुञ्चुप् चणपौ. Similarly the initial ट of the affix टीटच् (5.2.31) अवात्कुटारच्च, नते नासिकायाः संज्ञायां टीटञ् नाटज्भ्रटचः), is not it. As अवटीटम् ‘flat nosed.’
Of course it is the initial palatal and lingual which are servile; if these letters occur in the middle of an affix, they will not be indicatory. As ठ of the affix अठच् is not indicatory in sutra (5.2.35) (कर्मणि घटोऽठच्) कर्मठः ‘dexterous.’
Bhashya¶
चुटू चुञ्ञ्चुप्चणपोश्चकारप्रतिषेधः ॥ 1 ॥ चुञ्ञ्चुप्चणपोश्चकारस्य प्रतिषेधो वक्तव्यः । । केशचुञ्ञ्चुः । केशचणः । इदर्थाऽभावात्सिद्धम् ॥ 2 ॥ इत्कार्याऽभावादत्रेत्संज्ञा न भविष्यति ॥ इदमस्तीत्कार्यम्। चितः अन्त उदात्तो भवतीति अन्तोदात्तत्वं यथा स्यात् । पित्करणमिदानीं किमर्थं स्यात् ?। पित्करणं किमर्थमिति चेत्पर्यायार्थम् ॥ 3 ॥ पित्करणं किमर्थमित चेत्पर्यायार्थमेतत्स्यात् । एवं तर्हि यकारादी चुञ्ञ्चुप्चणपौ । किं यकारो न श्रूयते ?। लुप्तनिर्दिष्टो यकारः । इर उपसंख्यानम् ॥ 4 ॥ इर उपसंख्यानं कर्तव्यम् । रुधिर् - अरुधत्, अरौत्सीत् ॥ अवयवग्रहणात्सिद्धम् ॥5 ॥ रेफस्याऽत्र हलन्त्यम् (1.3.3) इतीत्सञ्ञ्ज्ञा भविष्यति, इकारस्य उपदेशेऽजनुनासिक इत् (2) इति । अवयवग्रहणादिति चेदिदिद्विधिप्रसङ्गः ॥ 6 ॥ अवयवग्रहणादिति चेदिदिद्विधिरपि प्राप्नोति । भेत्ता छेत्ता । इदितो नुम्धातोः (7.1.58) इति नुम्प्राप्नोति । यदि पुनरयमिदिद्विधिः कुम्भीधान्यन्यायेन विज्ञायेत । तद्यथा - कुम्भीधान्यः श्रोत्रियः इत्युच्यते । यस्य कुम्भ्यामेव धान्यं स कुम्भीधान्यः । यस्य पुनः कुम्भ्यां चाऽन्यत्र च धान्यं, नाऽसौ कुम्भीधान्यः । नायमिदिद्विधिः कुम्भीधान्यन्यायेन शक्यो विज्ञातुम् । इह हि दोषः स्यात् - टुनदिनन्दथुरिति । एवं तर्हि नैवं विज्ञायते - इकार इदस्य सोऽयमिदित्तस्येदितीति । कथं तर्हि ?। इकार एवेत् इदित्, इदिदन्तस्येति ॥ अथ वा ऋकारस्यैवेदमित्त्वभूतस्य ग्रहणम् । तस्य च उपदेशेऽजनुनासिक इतीत्संज्ञा भविष्यति ॥ अथवाऽऽचार्यप्रवृत्तिर्ज्ञापयति - नैवं जातीयकानामिदिद्विधिर्भवतीति यदयमिरितः कांश्चिन्नुमनुषक्तान्पठति - उबुन्दिर्निशामने । स्कन्दिर्गतिशोषणयोः ॥ अथवाऽऽचार्यप्रवृत्तिर्ज्ञापयति - इर् शब्दस्येत्संज्ञा भवतीति यदयमिरितो वा (3.1.57) इत्याह ॥ अथ वाऽन्त इति वर्तते ॥ 7 ॥
Kashika¶
चवर्गटवर्गौ प्रत्ययस्यादी इत्संज्ञौ भवतः। गोत्रे कुञ्जादिभ्यश्च्फञ् (४.१.९८) — कौञ्जायन्यः। छस्येयादेशं वक्ष्यति। जस् — ब्राह्मणाः। झस्यान्तादेशं वक्ष्यति। शण्डिकादिभ्यो ञ्यः (४.३.९२) — शाण्डिक्यः। टवर्गः — चरेष्टः (३.२.१६) — कुरुचरी। मद्रचरी। ठस्येकादेशं वक्ष्यति। सप्तम्यां जनेर्डः (३.२.९७) — उपसरजः। मन्दुरजः। ढस्यैयादेशं वक्ष्यति। अन्नाण्णः (४.४.८५) — आन्नः। पृथग्योगकरणमस्य विधेरनित्यत्वज्ञापनार्थम्। तेन वित्तश्चुञ्चुप्चणपौ (५.२.२६) — केशचुञ्चुः। केशचणः। अवात् कुटारच्च (५.२.३०) — नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः (५.२.३१) — अवटीटः। आदिरित्येव — ‘कर्मणि घटोऽठच् (५.२.३५) — कर्मठः॥
Siddhanta Kaumudi¶
प्रत्ययाद्यौ चुटू इतौ स्तः । इति जस्येत्संज्ञायाम् ॥
Laghu Siddhanta Kaumudi¶
प्रत्ययाद्यौ चुटू इतौ स्तः॥
Balamanorama¶
चुटू - देवदत्तहन्तृंहतन्यायस्तु नात्र प्रवर्तत इति स्वादिसन्धौ मनोरथ इत्यत्र प्रञ्चितम् । राम जस् इति स्थिते — चुटू ।उपदेशेऽजनुनासिक इत् इत्यतः ‘इ’ दित्यनुवर्तते । तच्च द्विवचनान्ततया विपरिणम्यते । ‘आदिर्ञिटुडवः’ इत्यतआदि॑ग्रहणमनुवर्त्त्य द्विवचनान्ततया विपरिणम्यते ।षः प्रत्ययस्ये॑त्यनुवर्तते । तदाह — प्रत्ययाद्यावित्यादिना । इति जस्येति । इत्संज्ञायां तस्य लोप॑ इति लोपः । जकारस्तु जसश्शीत्यादौ शसो निवृत्त्यर्थः ।
Tattvabodhini¶
चुटू - युटू ।आदिर्ञिटुडवः॑ इत्यतआदिः,॑षः प्रत्ययस्य॑ इत्यतःप्रत्ययस्ये॑ति चानुवर्तते, तदाह-प्रत्ययाद्याविति । प्रत्ययाद्यविति किम् । वाचाटः ।तेन वित्तश्चुञ्चुप्चणपौ॑ इत्यत्र प्रत्ययादौ यकारो लुप्तनिर्दिष्टस्तेन चस्य नेत्संज्ञेति वक्ष्यति ।
Padamanjari¶
आदी इदिति। प्रारम्भे वर्तमानावित्यर्थः। कौञ्जायन्य इति। च्फञन्तात्’व्रतच्फञोरस्त्रियाम्’ इति स्वार्थे स्वर्थे ञ्यः। शण्डिकादिभ्यो ञ्य इति। सोऽस्या भिजनः इति तत्र वर्तते। मन्दुरज इति । ड।लपोस्सैज्ञाच्छन्दसोः इति ह्रस्वः। अन्नाण्ण इति ।’धनगणं लब्धा’ इत्यतो लब्धेति तत्रानुवर्ते। किमर्थो योगविभागः’चुटूअषाः प्रत्ययस्य’ इत्येक एव योगः क्रियतामत आह-पृथगित्यादि। केशचुञ्चुः केशचण इति । अत्र चकारस्येत्संज्ञायाम्’चितः’ इत्यन्तोदातत्वं स्यात्, पित्करणन्तु पर्यायार्थं स्यात्। अवादित्यस्यानुवृत्तिर्दर्शिता॥
Nyaas¶
कौञ्जायन्यः इति। च्फञन्तात् व्रातच्फञोरस्त्रियाम् (5.3.113) इति स्वार्थे ञ्यः। छस्येयादेशं वक्ष्यति इति। इत्संज्ञापवादम्। शाण्डिक्यः इति। शण्डिकादिभ्यो ञ्यः (4.3.92) इति शण्डिकोऽभिजनोऽस्येत्यर्थे ञ्यः, तत्र हि सोऽस्याभिजनः इति वर्तते। मन्दुरजः`इति। **ङ्यापोः संज्ञाछन्दसोर्बहुलम्** (6.3.63) इति मन्दूराशब्दस्य ह्रस्वत्वम्। `अन्नाण्णः- आन्नः इति। अन्नं लब्धा इत्य्रथे णः। तत्र हि धनगणं लब्धा (4.4.84) इत्यतो लब्धेत्यनुवर्तते। अथ किमर्थं पृथग्योगः क्रियते, चुटुषाः प्रत्ययस्य इत्येक एव योगः क्रियतामित्यत आह - पृथग्योगकरणम् इत्यादि। तेन वित्तः (5.2.26) इत्यादिनाऽस्य विधेरनित्यत्वज्ञापनस्य प्रयोजनं दर्शयति॥
Prakriyasarvasvam¶
प्रत्ययस्यादिभूतौ चवर्गटवर्गावित्संज्ञौ । इति णलोपः ।
Sarala¶
उपदेशेऽजनुनासिक इत् (१.३.२) इत्यतः “इत्” इति षः प्रत्ययस्य (१.३.६) इत्यतः “प्रत्ययस्ये”ति आदिर्ञिटुडवः (१.३.५) इत्यतः “आदिः” इत्यनुवर्ततेऽत आह - प्रत्ययाद्याविति ॥
Sudha¶
चुटू इति । आदिर्ञिटुडवः**(1.3.5) इत्यतः आदिरिति, **षः प्रत्ययस्य**(1.3.6) इत्यतः प्रत्ययस्येति चानुवर्तते, तदाह - **प्रत्ययाद्याविति ।
Vartika¶
इर इत्संज्ञा वक्तव्या ।