12066: स्त्री पुंवच्च¶
Padacheda: स्त्री | S | 1 | 1 |
पुंवत् | S | 0 | 0 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
And so also a feminine word, ending with a वृद्ध affix, when similarly spoken along with the same word but which ends with a युवन् affix, is only retained and it is treated like a masculine.
Vasu English Translation¶
And so also a feminine word, ending with a वृद्ध affix, when similarly spoken along with the same word but which ends with a युवन् affix, is only retained and it is treated like a masculine. When a word denoting gotra and in the feminine gender is compounded with another word denoting a yuvan, the first is retained and the last is dropped; and the feminine noun so remaining is then treated like the masculine. This aphorism makes an addition to the previous sutra and is governed by all the conditions mentioned in that sutra. Thus गर्गी + गार्ग्यायणः = गार्ग्यौ. Here note that the resultant form is the same as in the former sutra, namely the masculine.
Similarly दाक्षी + दाक्षायणः = दाक्षी (masculine dual of दाक्षि).
Vart:- The word stri in the sutra means Vriddha stri, that is the eldest daughter of a grandson, or a further descendant considered as the female head of the family. The words ‘tal lakshanas chedeva viseshah’ of the previous sutra govern this sutra also, i.e. the distinction between the two words must be in their formative element and not in any thing else.
Bhashya¶
स्त्री पुंवच्च इदं सर्वेष्वेव स्त्रीग्रहणेषु विचार्यते- स्त्रीग्रहणेषु स्त्रीप्रत्ययग्रहणं वा स्यात्, स्त्र्यर्थग्रहणं वा, स्त्रीशब्दग्रहणं वा इति। किं चातः? यदि प्रत्ययग्रहणं वा, शब्दग्रहणं वा, गार्गी च गार्ग्यायणौ च गर्गाः केन यशब्दो न श्रूयते। अस्त्रियाम् इति हि लुगुच्यते। इह च गार्गी च गार्ग्यायणौ च गर्गान्पश्य तस्माच्छसो नः पुसि (6.1.103) इति नत्वं च प्राप्नोति। अथाऽर्थग्रहणम्, न दोषो भवति। यथा न दोषस्तथास्तु। इह कस्मान्न भवति- अजा च बर्करश्च, वडवा च किशोरश्च, उष्ट्री च करभश्चेति? तल्लक्षणश्चेदेव विशेष इत्युच्यते। न चाऽत्र तल्लक्षण एव विशेषः। तल्लक्षण एव विशेषो यत्समानायामाकृतौ शब्दभेदः ॥ स्त्री पुंवच्च ॥ 66 ॥
Kashika¶
शेष इति वर्तते, वृद्धो यूनेति च सर्वम्। स्त्री वृद्धा यूना सहवचने शिष्यते, तल्लक्षणश्चेदेव विशेषो भवति। पुंस इवास्याः कार्यं भवति। स्त्र्यर्थः पुमर्थवद् भवति। गार्गी च गार्ग्यायणश्च गार्ग्यौ। वात्सी च वात्स्यायनश्च वात्स्यौ। दाक्षी च दाक्षायणश्च दाक्षी॥
Siddhanta Kaumudi¶
यूना सहोक्तौ वृद्धा स्त्री शिष्यते तदर्थश्च पुंवत् । गार्गी च गार्ग्यायणौ च गर्गाः । अस्त्रियामित्यनुवर्तमाने यञञोश्च (SK1108) इति लुक् । दाक्षी च दाक्षायणश्च दाक्षी ॥
Balamanorama¶
स्त्री पुंवच्च - स्त्री पुंवच्च ।वृद्धेति स्त्रीलिङ्गेन विपरिणम्यते । तदाह — यूना सहोक्तौ वृद्धा स्त्री शिष्यत इति । गोत्रप्रत्ययान्तः स्त्रीवाचकः शब्दः शिष्यत इति भावः । स्त्रीत्वस्य वैरूप्यकारणस्याधिकस्य सत्त्वात् सत्त्वात् पूर्वेणाऽप्राप्ते वचनमिदम् । तदर्थ इति । तस्य=शिष्यमाणस्य स्त्रीवाचकगोत्रप्रत्ययान्तस्यार्थः पुमानिव स्यादित्यर्थः । गर्गी चेति । गर्गस्यापत्यं स्त्रीत्यर्थः । गर्गादियञन्तात्यणश्चे॑ति ङीप् । गाग्र्यायणौ चेति । गर्गाद्यञन्ताद्यून्यपत्येयञिञोश्चे॑ति फक् । गर्गा इति । अत्र स्त्रीत्वकृतवैरूप्याधिक्येऽपि गोत्रप्रत्ययान्तः स्त्रीवाचको गार्गीशब्दः शिष्यते । स पुंवत् । कर्हि यञ् कितो न श्रूयत इत्यत आह — अस्त्रियामितीति । उपलक्षणमिदम् ।तद्राजस्य बहुषु तेनैवास्त्रियामि॑त्यतोऽस्त्रियामिति, तेनैवेति, बहुष्विति चानुवर्तमाने सतीत्यर्थः । एतेनपुंव॑दित्यतस्य प्रयोजनमुक्तम् । गार्गी च गाग्र्यायणश्चेति विग्रहस्तु न दर्शितः । तता सत्यबहुत्वाद्यञो लुगभावे सति पुंस्त्वे स्त्रीत्वे च रूपं तुल्यं — गाग्र्याविति । तत्र पुंवत्त्वं निरर्थकं स्यात् । उदाहरणान्तरमाह — दाक्षी चेति । दक्षस्य गोत्रा पत्यं स्त्री दाक्षी ।अत इञि॑तीञन्तात्इतो मनुष्यजाते॑रिति ङीष् । दाक्षायणश्चेति । दक्षस्यापत्यं पुमान् दाक्षिः, तस्यापत्यं युवा दाक्षायणः ।यञिञोश्चे॑ति फक् । दाक्षी च दाक्षीयणश्चेति विग्रहे दाक्षीशब्दः शिष्यते । तस्य पुंवत्त्वे निरर्थकं स्यात् । उदाहरणान्तरमाह — दाक्षी चेति । दक्षस्य गोत्रापत्यं स्त्री दाक्षी ।अत इञि॑तीञन्तात्इतो मनुष्यजाते॑रिति ङीष् । दाक्षायणश्चेति । विग्रहे दाक्षीशब्दः शिष्यते । तस्य पुंवत्त्वे सति ङीषो निवृत्तौ दाक्षिशब्दात् प्रथमाद्विवचनेदाक्षी॑इति भवति । अत्र तल्लक्षणश्चेदेव विशेष इत्यप्यनुवर्तते । ततश्च भागवित्ती च भागवित्तिकश्च, गर्गी च वात्स्याययनश्चेत्यत्र न भवति ।
Tattvabodhini¶
स्त्री पुंवच्च - स्त्री पुंवच्च । वृद्धा स्त्रीति । गोत्रप्रत्ययान्तं स्त्रीवाचकमित्यर्थः । पुंवद्भावकृतवैलक्षण्यं स्फुटिकर्तुं द्विवचनान्तेन विग्रहमाह गाग्र्यायणाविति । अनुवर्तमान इति ।तद्राजस्य बहुषु -॑इत्यतःपुंव॑दित्यर्थातिदेशस्य फलमनेन दर्शितम् । अन्यथा स्त्रीत्वस्याऽनिवर्तनाल्लुङ् न स्यात् ।गर्गान्पश्ये॑त्यत्र नत्वं च सिद्धम् । रूपातिदेशे तु नैतत्सिद्ध्येत्, सामान्यातिदेशे विशेषानतिदेशादित्याहुः ।वृद्धो यूना॑ इत्याद्यनुवर्तनान्नेह -गार्गी च वात्स्यायनौ च ।
Padamanjari¶
स्त्रीत्वस्य वैरूप्यकारणस्याधिक्याद्वचनं पुंवच्चेति वक्ष्यामीति च । अत्र स्त्रीशब्दस्य स्वरित्वे स्त्र्यधिकारविहितानां टाबादीनां ग्रहणादयमर्थो भवति- पुंवत् स्त्रीप्रत्ययो न भवति । यथा पुंवदस्यास्तनावित्यभावातिदेशस्तद्वत् । ततश्च स्त्रीत्वस्यानिवृतत्वाद् गार्ग्यश्च स्त्रियो गार्ग्यायणश्च गर्गा इत्यत्र ऽयञञोश्चऽ इति लुग् न स्यात् । ऽअस्त्रियाम्ऽ इत्यधिकारात् प्रसज्यप्रतिषेधेऽयं दोषः । पर्युदासे तु शिष्यमाणस्य निवर्तमानार्थाभिधायित्वादिस्ति स्त्रीसदृशोऽयं दोषः ।च पर्युदासे तु शिष्यमाणस्य निवर्तमानार्थाभिधायित्वादस्ति स्त्रीसदृशोऽर्थं इति सिद्ध्यति । इह तु गर्गान्पश्येति स्त्रीत्वस्यानिवृतत्वान्नायं पुंसां बहुत्वे शस् उत्पन्न इति नत्वं न स्यात् । स्त्र्यर्थवृतेः शब्दस्य तु ग्रहणे स्त्रीशब्दस्य पुंशब्दस्येव रूपं भवतीत्यर्थः स्यात् । स्त्रीत्वं त्वनुवृतमेव । तत्र यद्यपि गर्गा इति बहुषु पुंशब्दस्य रूपमिति तस्मिन्नतिदिष्टे जसादिषु न दोषः, नत्वं तु विभक्तिकार्यं न स्यात् । एवं स्त्र्यर्थग्रहणे तु पुमर्थातिदेशातत्प्रतिबद्धानां कार्याणां सिद्धिरिति न कश्चिद् दोषः । स्त्रीति चोक्तेऽर्थ एव प्रतीयते । शब्दानामर्थपरत्वात्स्वरूपग्रहणं त्वनाशङ्क्यमेव; वृद्धो यूनेत्यनुवर्तनाद् । अतोऽर्थस्यैव ग्रहणमित्याह-स्त्र्यर्थः पुमर्थवद्भवतीति । गार्गी चेत्यादि । गार्ग्यवात्स्यशब्दाभ्याम् । ऽयञश्चऽ इति ङीप् । दाक्षीति । ऽइतो मनुष्यजातेःऽ दाक्षी इति ङीषि निवृते इञन्ताद् द्विचने ऽप्रथमयोःऽ इति दीर्घः । इतमपि द्वन्द्वनिवृत्यर्थमेव वचनम् ॥
Nyaas¶
स्त्र्यर्थस्य वैरूप्यकारणस्याधिक्यात् पूर्वेण न सिध्यतीति वचनम्। पुंवच्च इति वचनादतदेशोऽयम्। स्त्री इति। स्त्रीप्रत्ययग्रहणं वेदं स्यात्? स्त्र्यर्थवृत्तिशब्दस्य वा ग्रहणम्? अर्थग्रहणं वा? यदि स्त्रीप्रत्ययस्य ग्रहणं स्यात्, ततोऽनेन तस्यैव निवृत्तिः क्रियते - पुंवत् स्त्रीप्रत्ययो भवतीति; न तु स्त्र्यर्थस्य निवृत्तिः क्रियते; ततो गाग्र्यश्च गाग्र्यायणश्चेति गर्गा इत्यत्र अस्त्रियाम (2.4.62) इत्यनुवर्तमाने यञञोश्च (2.4.64) इति लुङन स्यात्; इह तु गर्गान् पश्यतीति तस्माच्छसो नः पुंसि (6.1.103) इति नत्वं न स्यात्। द्वितीये तु पक्षे स्त्र्यर्थवृत्तेः शब्दस्यानेन पुंवद्भावः क्रियते, न तु स्त्रीत्वस्य निवृत्तिः; तथापि स एव दोषः स्यात्। अर्थगर्हणे तु न कश्चिद्दोष इत्यतः स्त्र्यर्थस्येदं ग्रहणमिति मत्वाऽऽह - स्त्र्यर्थः पुंवद्भवति इति। कथं पुनरर्थस्येदं ग्रहणं लभ्यते? उच्यते; स्त्रीप्रत्ययानां तु तस्याभिधेयपातन्त्र्यात्। अर्थस्याप्राधान्यमपारतन्त्रयात्। प्रधानगुणन भवति; अप्राधान्यात्। अप्रधान्यं तु तस्याभिधेयपारतन्त्र्यात्। अर्थस्याप्राधान्यमपारतन्त्र्यात्। प्रधानगुणसन्निपाते तु प्रधानस्य ग्रहणं न्याय्यमतः स्त्र्यर्थं एव गृह्रते। गार्गी, वात्सी च इति। गाग्र्यवात्स्यशब्दाभ्यां यञश्च (4.1.16) इति ङीप्,पूर्ववदकारयकारलोपो। दाक्षी इति। पूर्ववन्ङीप्। दाक्षायणश्च इति। दाक्षेरपत्यमिति यञिञोश्च (4.1.101) इति फक्॥
Prakriyasarvasvam¶
यूना सहोक्तौ गोत्रस्त्री शिष्यते, सा च पुंवत् स्यात् तत्कृतमेव चेद् वैरूप्यम् । गार्गी गार्ग्यायणश्च गार्ग्यौ ॥