12066: स्त्री पुंवच्च ===================== **Padacheda:** स्त्री | S | 1 | 1 | पुंवत् | S | 0 | 0 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- And so also a feminine word, ending with a वृद्ध affix, when similarly spoken along with the same word but which ends with a युवन् affix, is only retained and it is treated like a masculine. Vasu English Translation ------------------------ And so also a feminine word, ending with a वृद्ध affix, when similarly spoken along with the same word but which ends with a युवन् affix, is only retained and it is treated like a masculine. When a word denoting *gotra* and in the feminine gender is compounded with another word denoting a *yuvan*, the first is retained and the last is dropped; and the feminine noun so remaining is then treated like the masculine. This aphorism makes an addition to the previous *sutra* and is governed by all the conditions mentioned in that *sutra*. Thus गर्गी + गार्ग्यायणः = गार्ग्यौ. Here note that the resultant form is the same as in the former *sutra*, namely the masculine. Similarly दाक्षी + दाक्षायणः = दाक्षी (masculine dual of दाक्षि). Vart:- The word *stri* in the *sutra* means *Vriddha* *stri*, that is the eldest daughter of a grandson, or a further descendant considered as the female head of the family. The words '*tal* *lakshanas* *chedeva* *viseshah*' of the previous *sutra* govern this *sutra* also, i.e. the distinction between the two words must be in their formative element and not in any thing else. Bhashya ------- स्त्री पुंवच्च इदं सर्वेष्वेव स्त्रीग्रहणेषु विचार्यते- स्त्रीग्रहणेषु स्त्रीप्रत्ययग्रहणं वा स्यात्, स्त्र्यर्थग्रहणं वा, स्त्रीशब्दग्रहणं वा इति। किं चातः? यदि प्रत्ययग्रहणं वा, शब्दग्रहणं वा, गार्गी च गार्ग्यायणौ च गर्गाः केन यशब्दो न श्रूयते। अस्त्रियाम् इति हि लुगुच्यते। इह च गार्गी च गार्ग्यायणौ च गर्गान्पश्य तस्माच्छसो नः पुसि (6.1.103) इति नत्वं च प्राप्नोति। अथाऽर्थग्रहणम्, न दोषो भवति। यथा न दोषस्तथास्तु। इह कस्मान्न भवति- अजा च बर्करश्च, वडवा च किशोरश्च, उष्ट्री च करभश्चेति? तल्लक्षणश्चेदेव विशेष इत्युच्यते। न चाऽत्र तल्लक्षण एव विशेषः। तल्लक्षण एव विशेषो यत्समानायामाकृतौ शब्दभेदः ॥ स्त्री पुंवच्च ॥ 66 ॥ Kashika ------- शेष इति वर्तते, वृद्धो यूनेति च सर्वम्। स्त्री वृद्धा यूना सहवचने शिष्यते, तल्लक्षणश्चेदेव विशेषो भवति। पुंस इवास्याः कार्यं भवति। स्त्र्यर्थः पुमर्थवद् भवति। गार्गी च गार्ग्यायणश्च गार्ग्यौ। वात्सी च वात्स्यायनश्च वात्स्यौ। दाक्षी च दाक्षायणश्च दाक्षी॥ Siddhanta Kaumudi ----------------- यूना सहोक्तौ वृद्धा स्त्री शिष्यते तदर्थश्च पुंवत् । गार्गी च गार्ग्यायणौ च गर्गाः । अस्त्रियामित्यनुवर्तमाने यञञोश्च (SK1108) इति लुक् । दाक्षी च दाक्षायणश्च दाक्षी ॥ Balamanorama ------------ **स्त्री पुंवच्च** - स्त्री पुंवच्च ।वृद्धेति स्त्रीलिङ्गेन विपरिणम्यते । तदाह — यूना सहोक्तौ वृद्धा स्त्री शिष्यत इति । गोत्रप्रत्ययान्तः स्त्रीवाचकः शब्दः शिष्यत इति भावः । स्त्रीत्वस्य वैरूप्यकारणस्याधिकस्य सत्त्वात् सत्त्वात् पूर्वेणाऽप्राप्ते वचनमिदम् । तदर्थ इति । तस्य=शिष्यमाणस्य स्त्रीवाचकगोत्रप्रत्ययान्तस्यार्थः पुमानिव स्यादित्यर्थः । गर्गी चेति । गर्गस्यापत्यं स्त्रीत्यर्थः । गर्गादियञन्तात्यणश्चे॑ति ङीप् । गाग्र्यायणौ चेति । गर्गाद्यञन्ताद्यून्यपत्येयञिञोश्चे॑ति फक् । गर्गा इति । अत्र स्त्रीत्वकृतवैरूप्याधिक्येऽपि गोत्रप्रत्ययान्तः स्त्रीवाचको गार्गीशब्दः शिष्यते । स पुंवत् । कर्हि यञ् कितो न श्रूयत इत्यत आह — अस्त्रियामितीति । उपलक्षणमिदम् ।तद्राजस्य बहुषु तेनैवास्त्रियामि॑त्यतोऽस्त्रियामिति, तेनैवेति, बहुष्विति चानुवर्तमाने सतीत्यर्थः । एतेनपुंव॑दित्यतस्य प्रयोजनमुक्तम् । गार्गी च गाग्र्यायणश्चेति विग्रहस्तु न दर्शितः । तता सत्यबहुत्वाद्यञो लुगभावे सति पुंस्त्वे स्त्रीत्वे च रूपं तुल्यं — गाग्र्याविति । तत्र पुंवत्त्वं निरर्थकं स्यात् । उदाहरणान्तरमाह — दाक्षी चेति । दक्षस्य गोत्रा पत्यं स्त्री दाक्षी ।अत इञि॑तीञन्तात्इतो मनुष्यजाते॑रिति ङीष् । दाक्षायणश्चेति । दक्षस्यापत्यं पुमान् दाक्षिः, तस्यापत्यं युवा दाक्षायणः ।यञिञोश्चे॑ति फक् । दाक्षी च दाक्षीयणश्चेति विग्रहे दाक्षीशब्दः शिष्यते । तस्य पुंवत्त्वे निरर्थकं स्यात् । उदाहरणान्तरमाह — दाक्षी चेति । दक्षस्य गोत्रापत्यं स्त्री दाक्षी ।अत इञि॑तीञन्तात्इतो मनुष्यजाते॑रिति ङीष् । दाक्षायणश्चेति । विग्रहे दाक्षीशब्दः शिष्यते । तस्य पुंवत्त्वे सति ङीषो निवृत्तौ दाक्षिशब्दात् प्रथमाद्विवचनेदाक्षी॑इति भवति । अत्र तल्लक्षणश्चेदेव विशेष इत्यप्यनुवर्तते । ततश्च भागवित्ती च भागवित्तिकश्च, गर्गी च वात्स्याययनश्चेत्यत्र न भवति । Tattvabodhini ------------- **स्त्री पुंवच्च** - स्त्री पुंवच्च । वृद्धा स्त्रीति । गोत्रप्रत्ययान्तं स्त्रीवाचकमित्यर्थः । पुंवद्भावकृतवैलक्षण्यं स्फुटिकर्तुं द्विवचनान्तेन विग्रहमाह गाग्र्यायणाविति । अनुवर्तमान इति ।तद्राजस्य बहुषु -॑इत्यतःपुंव॑दित्यर्थातिदेशस्य फलमनेन दर्शितम् । अन्यथा स्त्रीत्वस्याऽनिवर्तनाल्लुङ् न स्यात् ।गर्गान्पश्ये॑त्यत्र नत्वं च सिद्धम् । रूपातिदेशे तु नैतत्सिद्ध्येत्, सामान्यातिदेशे विशेषानतिदेशादित्याहुः ।वृद्धो यूना॑ इत्याद्यनुवर्तनान्नेह -गार्गी च वात्स्यायनौ च । Padamanjari ----------- स्त्रीत्वस्य वैरूप्यकारणस्याधिक्याद्वचनं पुंवच्चेति वक्ष्यामीति च । अत्र स्त्रीशब्दस्य स्वरित्वे स्त्र्यधिकारविहितानां टाबादीनां ग्रहणादयमर्थो भवति- पुंवत् स्त्रीप्रत्ययो न भवति । यथा पुंवदस्यास्तनावित्यभावातिदेशस्तद्वत् । ततश्च स्त्रीत्वस्यानिवृतत्वाद् गार्ग्यश्च स्त्रियो गार्ग्यायणश्च गर्गा इत्यत्र ऽयञञोश्चऽ इति लुग् न स्यात् । ऽअस्त्रियाम्ऽ इत्यधिकारात् प्रसज्यप्रतिषेधेऽयं दोषः । पर्युदासे तु शिष्यमाणस्य निवर्तमानार्थाभिधायित्वादिस्ति स्त्रीसदृशोऽयं दोषः ।च पर्युदासे तु शिष्यमाणस्य निवर्तमानार्थाभिधायित्वादस्ति स्त्रीसदृशोऽर्थं इति सिद्ध्यति । इह तु गर्गान्पश्येति स्त्रीत्वस्यानिवृतत्वान्नायं पुंसां बहुत्वे शस् उत्पन्न इति नत्वं न स्यात् । स्त्र्यर्थवृतेः शब्दस्य तु ग्रहणे स्त्रीशब्दस्य पुंशब्दस्येव रूपं भवतीत्यर्थः स्यात् । स्त्रीत्वं त्वनुवृतमेव । तत्र यद्यपि गर्गा इति बहुषु पुंशब्दस्य रूपमिति तस्मिन्नतिदिष्टे जसादिषु न दोषः, नत्वं तु विभक्तिकार्यं न स्यात् । एवं स्त्र्यर्थग्रहणे तु पुमर्थातिदेशातत्प्रतिबद्धानां कार्याणां सिद्धिरिति न कश्चिद् दोषः । स्त्रीति चोक्तेऽर्थ एव प्रतीयते । शब्दानामर्थपरत्वात्स्वरूपग्रहणं त्वनाशङ्क्यमेव; वृद्धो यूनेत्यनुवर्तनाद् । अतोऽर्थस्यैव ग्रहणमित्याह-स्त्र्यर्थः पुमर्थवद्भवतीति । गार्गी चेत्यादि । गार्ग्यवात्स्यशब्दाभ्याम् । ऽयञश्चऽ इति ङीप् । दाक्षीति । ऽइतो मनुष्यजातेःऽ दाक्षी इति ङीषि निवृते इञन्ताद् द्विचने ऽप्रथमयोःऽ इति दीर्घः । इतमपि द्वन्द्वनिवृत्यर्थमेव वचनम् ॥ Nyaas ----- स्त्र्यर्थस्य वैरूप्यकारणस्याधिक्यात् पूर्वेण न सिध्यतीति वचनम्। `पुंवच्च` इति वचनादतदेशोऽयम्। `स्त्री` इति। स्त्रीप्रत्ययग्रहणं वेदं स्यात्? स्त्र्यर्थवृत्तिशब्दस्य वा ग्रहणम्? अर्थग्रहणं वा? यदि स्त्रीप्रत्ययस्य ग्रहणं स्यात्, ततोऽनेन तस्यैव निवृत्तिः क्रियते - पुंवत् स्त्रीप्रत्ययो भवतीति; न तु स्त्र्यर्थस्य निवृत्तिः क्रियते; ततो गाग्र्यश्च गाग्र्यायणश्चेति गर्गा इत्यत्र `अस्त्रियाम` (2.4.62) इत्यनुवर्तमाने **यञञोश्च** (2.4.64) इति लुङन स्यात्; इह तु गर्गान् पश्यतीति **तस्माच्छसो नः पुंसि** (6.1.103) इति नत्वं न स्यात्। द्वितीये तु पक्षे स्त्र्यर्थवृत्तेः शब्दस्यानेन पुंवद्भावः क्रियते, न तु स्त्रीत्वस्य निवृत्तिः; तथापि स एव दोषः स्यात्। अर्थगर्हणे तु न कश्चिद्दोष इत्यतः स्त्र्यर्थस्येदं ग्रहणमिति मत्वाऽऽह - `स्त्र्यर्थः पुंवद्भवति` इति। कथं पुनरर्थस्येदं ग्रहणं लभ्यते? उच्यते; स्त्रीप्रत्ययानां तु तस्याभिधेयपातन्त्र्यात्। अर्थस्याप्राधान्यमपारतन्त्रयात्। प्रधानगुणन भवति; अप्राधान्यात्। अप्रधान्यं तु तस्याभिधेयपारतन्त्र्यात्। अर्थस्याप्राधान्यमपारतन्त्र्यात्। प्रधानगुणसन्निपाते तु प्रधानस्य ग्रहणं न्याय्यमतः स्त्र्यर्थं एव गृह्रते। `गार्गी, वात्सी च` इति। गाग्र्यवात्स्यशब्दाभ्यां `यञश्च` (4.1.16) इति ङीप्,पूर्ववदकारयकारलोपो। `दाक्षी` इति। पूर्ववन्ङीप्। `दाक्षायणश्च` इति। दाक्षेरपत्यमिति **यञिञोश्च** (4.1.101) इति फक्॥ Prakriyasarvasvam ----------------- यूना सहोक्तौ गोत्रस्त्री शिष्यते, सा च पुंवत् स्यात् तत्कृतमेव चेद् वैरूप्यम् । गार्गी गार्ग्यायणश्च गार्ग्यौ ॥