12064: सरूपाणामेकशेष एकविभक्तौ¶
Padacheda: सरूपाणाम् | S | 6 | 3 |
एक-शेषः | S | 1 | 1 |
एक-विभक्तौ | S | 7 | 1 |
Sutrartha¶
सर्वासु विभक्तिषु येषां रूपाणि समानानि सन्ति, तेषु केवलं एकः शब्दः एव अवशिष्यते ।
समानानि रूपाणि येषाम् ते सरूपाः । यदि द्वयोः वा अधिकानाम् शब्दानाम् सर्वासु विभक्तिषु सर्वाणि रूपाणि समानानि भवन्ति, तर्हि तेषाम् निर्देशं कर्तुम् तेषाम् सर्वेषाम् शब्दानां प्रयोगः न भवति, अपितु एकस्य एव शब्दस्य प्रयोगं कृत्वा तेषामुल्लेखः भवति । यथा, द्वयोः वृक्षयोः विषये वक्तुम् इच्छामश्चेत् ‘वृक्षः च वृक्षः च’ इति वृक्षशब्दस्य द्विवारं प्रयोगः न भवति । द्वयोः वृक्ष-शब्दयोः सर्वाणि रूपाणि समानानि सन्ति, अतः उल्लेखसमये एकः एव वृक्ष-शब्दः अवशिष्यते, अन्यः निवर्तते । यः शब्दः अवशिष्यते, स एव द्वयोः वृक्षयोः निर्देशं करोति, अतः तस्य द्विवचनस्य प्रत्ययाः भवन्ति, यथा - वृक्षौ । तथैव, त्रयाणामधिकानाम् वा वृक्षाणाम् विवक्षा अस्ति चेदपि ‘वृक्षः च वृक्षः च वृक्षः च’ इति न उक्त्वा एकस्यैव वृक्ष-शब्दस्य बहुवचनस्य प्रत्ययैः प्रयोगः भवति, यथा - वृक्षाः । ज्ञातव्यम् - 1. यद्यपि द्वयोः शब्दयोः केवलं रूपम् समानमस्ति, परन्तु अर्थः न; तथापि अनेन सूत्रेण एकशेषः भवति । यथा - ‘मृग’ शब्दस्य अर्थः ‘हरिणः’ इत्यपि अस्ति, तथा ‘प्राणी’ इत्यपि । भिन्नयोः अर्थयोः अपि द्वयोः शब्दयोः सर्वाणि रूपाणि समानानि सन्ति । अतः ‘हरिणः च व्याघ्रः च सिंहः च’ अस्मिन् अर्थे एकः एव मृग-शब्दः अवशिष्यते, तस्य च बहुवचनस्य प्रत्ययः भवति; यथा - मृगाः । 2. यदि द्वयोः शब्दयोः कासुचन विभक्तिषु एव रूपम् समानमस्ति, सर्वासु न; तर्हि अनेन सूत्रेण एकशेषः न विधीयते । यथा - ‘मातृ’ अयं शब्दः द्वयोः अर्थयोः प्रयुज्यते - ‘जननी’ अस्मिन् अर्थे अयं ऋकारान्तस्त्रीलिङ्गशब्दः अस्ति, तथा च ‘माङ् (माने)’ अस्मात् धातोः तृच्-प्रत्ययं कृत्वा ‘यः मिमेति सः’ अस्मिन् अर्थे अपि मातृ-शब्दः सिद्ध्यति । एतयोः द्वयोः शब्दयोः कानिचन रूपाणि तु समानानि सन्ति (यथा- तृतीयैकवचनस्य ‘मात्रा’ इति) परन्तु केषुचन रूपेषु भेदः दृश्यते । उदाहरणम् - मातृ (जननी) इत्यस्य प्रथमाद्विवचनस्य रूपम् ‘मातरौ’ इति भवति, तथा मातृ (= यः मिमेति सः) इत्यस्य प्रथमाद्विवचनस्य रूपम् ‘मातारौ’ इति भवति । अस्यां स्थितौ एतौ द्वौ शब्दौ सर्वासु विभक्तिषु सरूपौ न उच्येते, अतः ‘मातृ च मातृ च’ (= जननी च, यः मिमेति स च) इत्यत्र एकशेषः न भवति ।
Sutrartha (English)¶
If two or more words have identical forms for all विभक्तिs, then in usage only one word is used by applying appropriate वचन to it.
Vasu English Summary¶
Of the words having the same form and all in the same one case-termination, the last one is only retained.
Vasu English Translation¶
Of the words having the same form and all in the same one case-termination, the last one is only retained. This is a very important sutra, and deals with what is technically called Ekasesha (or retention of one). When there are two or more words of the same form, and the same case termination, standing together, one is retained and the rest are dropped. Thus वृक्षः + वृक्षः = वृक्षौ (trees, in dual) वृक्षः + वृक्षः + वृक्षः = वृक्षाः.
Every individual thing requires an individual word to express it; one word therefore could not express many things; to prevent the repetition of the same word to express many objects of similar form, is the purpose of this sutra, by which one word is only retained.
This applies only to words having the same form and not if they have different forms; as प्लक्ष न्यग्रौधाः the plaksha and nyagrodha trees.
The word “form” is used in the text to show that even if two words have different meanings, but the same form, the rule of Ekasesha will apply, as अक्षः (die) + अक्ष (eye) + अक्षः (axle) = अक्षाः. Similarly पादाः and भाषाः.
The present rule only applies to the retention of one, and prevents the retention of two or more.
The word शेष (retention) is used to show that there is not a substitution (adesa) of one for many, but the retention of one out of many.
The rule will not apply if the two words are in different case-terminations, though they may have the same form. As पयः (1. s.) पयो (2. s.) जरयति ब्राह्मणाभ्यां (3 d.) च कृतं ब्राह्मणाभ्यां (4. d.) च देहि.
Bhashya¶
सरूपाणामेकशेष एकविभक्तौ ॥ पदकृत्याधिकरणम् ॥ रूपग्रहणं किमर्थम्? समानानामेकशेष एकविभक्तौ इतीयत्युच्यमाने यत्रैव सर्वं समानं शब्दोऽर्थश्च, तत्रैव स्यात्- वृक्षाः प्लक्षा इति। इह न स्यात् - अक्षाः पादा माषा इति। रूपग्रहणे पुनः क्रियमाणे न दोषो भवति। रूपं निमित्तत्वेनाश्रीयते। श्रुतौ च रूपग्रहणम्। अथैकग्रहणं किमर्थम्? सरूपाणां शेष एकविभक्तौ इतीयत्युमाने द्विबह्वोरपि शेषः प्रसज्येत। एकग्रहणे पुनः क्रियमाणे न दोषो भवति। अथ शेषग्रहणं किमर्थम्? सरूपाणां शेष एकविभक्तौ इतीयत्युच्माने आदोशोऽयं विज्ञायेत। तत्र को दोषः? अश्वश्चाऽश्वश्चाऽश्वौ। आन्तर्यतो द्व्युदात्तवतः स्थानिनो द्व्युदात्तवानादेशः प्रसज्येत। लोप्यलोपिता च न प्रकल्पेत। तत्र को दोषः? गर्गा वत्सा उर्वाः। यञ्ञ्यो बहुष्वञ्ञ्यो बहुष्वित्युच्यमानो लुङ्न प्राप्नोति। मा भूदेवम्। यञ्ञन्तं यद्बहुषु अञ्ञन्तं यद्बहुषु इत्येवं भविष्यति। नैवं शक्यम्, इह हि दोषः स्यात्- काश्यपप्रतिकृतयः काश्यपा इति। एकविभक्ताविति किमर्थम्? पयः पयो जरयति, वासो वासश्छादयति, ब्राह्मणाभ्यां च कृतं ब्राह्मणाभ्यां च देहीति। ॥ सूत्रप्रयोजनाधिकरणम् ॥ किमर्थं पुनरिदमुच्यते? - प्रत्यर्थं शब्दनिवेशान्नैकेनानेकस्याभिधानम् - प्रत्यर्थं शब्दा अभिनिविशन्ते। किमिदं प्रत्यर्थमिति? अर्थमर्थं प्रति प्रत्यर्थम्। प्रत्यर्थं शब्दनिवेशात्। एतस्मात्कारणान्नैकेन शब्देनानेकस्यार्थस्याभिधानं प्राप्नोति। तत्र को दोषः? - तत्रानेकार्थाभिधानेऽनेकशब्दत्वम् - तत्रानेकार्थाभिधानेऽनेकशब्दत्वं प्राप्नोति। इष्यते चैकेनाप्यनेकस्याभिधानं स्यादिति। तच्चाऽन्तरेण यत्नं न सिध्यति। तस्मादेकशेषः। एवमर्थमिदमुच्यते। अस्ति प्रयोजनमेतत्। किं तर्हीति। किमिदं प्रत्यर्थं शब्दा अभिनिविशन्त इत्येतं दृष्टान्तमास्थाय सरूपाणामेकशेष आरभ्यते, न पुनरप्रत्यर्थं शब्दा अभिनिविशन्त इत्येतं दृष्टान्तमास्थाय विरूपाणामनेकशेष आरभ्यते? तत्रैतत्स्यात्- लघीयसी सरूपनिवृत्तिः, गरीयसी विरूपप्रतिपत्तिरिति। तच्च न। लघीयसी विरूपप्रतिपत्तिः। किं कारणम्? यत्र हि बहूनां सरूपाणामेकः शिष्यते तत्राऽवरतो द्वयोः सरूपयोर्निवृत्तिर्वक्तव्या स्यात्। एवमप्येतस्मिन् सति किञ्चिदाचार्यः सुकरतरकं चैकशेषारम्भं मन्यते। ॥ एकशेषस्यानैमित्तिकत्वसाधनाधिकरणम् ॥ किं पुनरयमेकविभक्तावेकशेषो भवति? एवं भवितुमर्हति। - एकविभक्ताविति चेन्नाऽभावाद्विभक्तेः - एकविभक्ताविति चेत्तन्न। किं कारणम्? अभावाद्विभक्तेः। नहि समुदायात्परा विभक्तिरस्ति। किं कारणम्? अप्रातिपदिकत्वात्। ननु च अर्थवत् प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा भविष्यति। नियमान्न प्राप्नोति- अर्थवत्समुदायानां समासग्रहणं नियमार्थम् इति। यदि पुनः पृथक्सर्वेषां विभक्तिपराणामेकशेष उच्येत? - पृथक्सर्वेषामिति चेदेकशेषे पृथग्विभक्त्युपलब्धिस्तदाश्रयत्वात् - पृथक्सर्वेषामिति चेदेकशेषे पृथग्विभक्त्युपलब्धिः प्राप्नोति। किमुच्यते एकशेषे पृथग्विभक्त्युपलब्धिः इति। यावता समयः कृतो न केवला प्रकृतिः प्रयोक्तव्या न केवलः प्रत्ययः इति। तदाश्रयत्वात् प्राप्नोति। यत्र हि प्रकृतिनिमित्ता प्रत्ययनिवृत्तिस्तत्राऽप्रत्ययिकायाः प्रकृतेः प्रयोगे भवति- अग्निचित्सोमसुदिति यथा। यत्र च प्रत्ययनिमित्ता प्रकृतिनिवृत्तिस्तत्राऽप्रकृतिकस्य प्रत्ययस्य प्रयोगो भवति- अधुना इयानिति यथा। अस्तु। संयोगान्तलोपेन सिद्धम्। कुतो नु खल्वेतत्- परयोर्वृक्षशब्दयोर्निवृत्तिर्भविष्यति, न पुनः पूर्वयोरिति? तत्रैतत्स्यात्पूर्वनिवृत्तावपि सत्यां संयोगादिलोपेन सिद्धमिति। न सिध्यति। तत्राऽवरतो द्वयोस्सकारयोः श्रवणं प्रसज्येत। यत्र च संयोगान्तलोपो नास्ति, तत्र च न सिध्यति। क्व च संयोगान्तलोपो नास्ति? द्विवचनबहुवचनयोः। यदि पुनः समास एकशेष उच्येत। किं कृतं भवति? कश्चिद्वचनलोपः परिहृतो भवति। तत्तर्हि समासग्रहणं कर्तव्यम्? न कर्तव्यम्। प्रकृतमनुवर्तते। क्व प्रकृतम्? तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् (1.2.63) इति। - समास इति चेत्स्वरसमासान्तेषु दोषः - समास इति चेत्स्वरसमासान्तेषु दोषो भवति। स्वर- अश्वश्चाऽश्वश्च अश्वौ। समासान्तोदात्तत्वे कृत एकशेषः प्राप्नोति। इदमिह सम्प्रधार्यम्- समासान्तोदात्तत्वं क्रियतामेकशेष- इति, किमत्र कर्तव्यम्? परत्वात्समासान्तोदात्तत्वम्। समासान्तोदात्तत्वे च दोषो भवति। स्वर। समासान्त- ऋक्च ऋक्च ऋचौ। समासान्ते कृतेऽसारूप्यादेकशेषो न प्राप्नोति। इदमिह सम्प्रधार्यम्- समासान्तः क्रियतामेकशेष इति। किमत्र कर्तव्यम्? परत्वात्समासान्तः। समासान्ते च दोषो भवति। - अङ्गाश्रये चैकशेषवचनम् - अङ्गाश्रये च कार्य एकशेषो वक्तव्यः। स्वसा च स्वसारौ च स्वसारः। अङ्गाश्रये कृतेऽसारूप्यादेकशेषो न प्राप्नोति। इदमिह सम्प्रधार्यमङ्गाश्रयं क्रियतामेकशेष इति। किमत्र कर्तव्यम्? परत्वादङ्गाश्रयम्। - तिङ्समासे तिङ्समासवचनम् - तिङ्समासे तिङ्समासो वक्तव्यः। एकं तिङ्ग्रहणमनर्थकम्। समासे तिङ्समास इत्येव सिद्धम्। नानर्थकम्। तिङ्समासे प्रकृते तिङ्समासो वक्तव्यः। - तिङ्विधिप्रतिषेधश्च - तिङ् च कश्चिद्विधेयः, कश्चित्प्रतिषेध्यः। पचति च पचति च पचतः। तश्शब्दो विधेयः, तिशब्दः प्रतिषेध्यः। यदि पुनरसमास एकशेषः उच्येत? - असमासे वचनलोपः - यद्यसमासे वचनलोपो वक्तव्यः। ननु चोत्पततैव वचनलोपं चोदिताः स्मः। द्विवचनबहुवचनविधिं द्वन्द्वप्रतिषेधं च वक्ष्यति, तदर्थं पुनश्चोद्यते। - द्विवचनबहुवचनविधिः - द्विवचनबहुवचनानि विधेयानि। वृक्षश्च वृक्षश्च वृक्षौ। वृक्षश्च वृक्षश्च वृक्षश्च वृक्षा इति। - द्वन्द्वप्रतिषेधश्च - द्वन्द्वस्य च प्रतिषेधो वक्तव्यः। वृक्षश्च वृक्षश्च वृक्षौ, वृक्षश्च वृक्षश्च वृक्षश्च वृक्षा इति। चार्थे द्वन्द्वः (2.2.29) इति द्वन्द्वः प्राप्नोति। नैष दोषः। अनवकाश एकशेषो द्वन्द्वं बाधिष्यते। सावकाश एकशेषः। कोऽवकाशः? तिङन्तान्यवकाशः। यदि पुनः पृथक्सर्वेषां विभक्त्यन्तानामेकशेष उच्येत? किं कृतं भवति? कश्चिद्वचनलोपः परिहृतो भवति। विभक्त्यन्तानामेकशेषे विभक्त्यन्तानामेव तु निवृत्तिर्भवति। - एकविभक्त्यन्तानामिति तु पृथग्विभक्तिप्रतिषेधार्थम् - एकविभक्त्यन्तानाम् इति तु वक्तव्यम्। किं प्रयोजनम्? पृथग्विभक्तिप्रतिषेधार्थम्। पृथग्विभक्त्यन्तानां मा भूत्। ब्राह्मणाभ्यां च देहि ब्राह्मणाभ्यां च कृतम्। - न वाऽर्थविप्रतिषेधाद्युगपद्वचनाऽभावः - न वैष दोषः। किं कारणम्? अर्थविप्रतिषेधात्। विप्रतिषिद्धावेतावर्थौ कर्ता सम्प्रदानमित्यशक्यौ युगपन्निर्देष्टुम्। तयोर्विप्रतिषिद्धत्वाद्युगपद्वचनं न भविष्यति। - अनेकार्थाश्रयश्च पुनरेकशेषः - अनेकमर्थं सम्प्रत्याययिष्यामीत्येकशेष आरभ्यते। - तस्मान्नैकशब्दत्वम् - तस्मादेकशब्दत्वं न भविष्यति। अयं तर्हि दोषः कश्चिद्वचनलोपो द्विवचनबहुवचनविधिर्द्वन्द्वप्रतिषेधश्चेति। यदि पुनः प्रातिपदिकानामेकशेष उच्येत? किं कृतं भवति? वचनलोपः परिहृतो भवति। - प्रातिपदिकानामेकशेषे मातृमात्रोः प्रतिषेधः सरूपत्वात् - प्रातिपदिकानामेकशेषे मातृमात्रोः प्रतिषेधो वक्तव्यः। माता च जनयित्री, मातरौ च धान्यस्य मातृमातरः। किं कारणम्? सरूपत्वात्। सरूपाणि ह्येतानि प्रातिपदिकानि। किमुच्यते प्रातिपदिकानामेकशेषे मातृमात्रोः प्रतिषेधो वक्तव्य इति, न पुनर्यस्यापि विभक्त्यन्तानामेकशेषस्तेनापि मातृमात्रोः प्रतिषेधो वक्तव्यः स्यात्। तस्यापि ह्येतानि क्वचिद्विभक्त्यन्तानां सरूपाणि, मातृभ्यां च मातृभ्यां चेति? अथ मतमेतद्विभक्त्यन्तानां सारूप्ये भवितव्यमेवैकशेषेणेति, प्रातिपदिकानामेवैकशेषे दोषो भवति। एवं च कृत्वा चोद्यते। - हरितहरिणश्येतश्येनरोहितरोहिणानां स्त्रियामुपसङ्ख्यानम् - हरितहरिणश्येतश्येनरोहितरोहिणानां स्त्रियामुपसङ्ख्यानं कर्तव्यम्। हरितस्य स्त्री हरिणी, हरिणस्यापि हरिणी, हरिणी च हरिणी च हरिण्यौ। श्येतस्य स्त्री श्येनी, श्येनस्यापि स्त्री श्येनी, श्येनी च श्येनी च श्येन्यौ। रोहितस्य स्त्री रोहिणी, रोहिणस्यापि रोहिणी, रोहिणी च रोहिणी च रोहिण्यौ। - न वा पदस्याऽर्थे प्रयोगात् - न वैष दोषः। किं कारणम्? पदस्यार्थे प्रयोगात्। पदमर्थे प्रयुज्यते। विभक्त्यन्तं च पदम्। रूपं चेहा श्रीयते। रूपनिर्ग्रहश्च शब्दस्य नान्तरेण लौकिकं प्रयोगात्। तस्मिंश्च लौकिके प्रयोगे सरूपाण्येतानि। अपर आह- न वा पदस्याऽर्थे प्रयोगात्। न वैष पक्ष एवास्ति प्रातिपदिकानामेकशेष इति। किं कारणम्? पदस्यार्थे प्रयोगात्। पदमर्थे प्रयुज्यते, विभक्त्यन्तं च पदम्। रूपं चेहा श्रीयते। रूपनिर्ग्रहश्च शब्दस्य नान्तरेण लौकिकं प्रयोगम्। तस्मिंश्च लौकिके प्रयोगे प्रातिपदिकानां प्रयोगो नास्ति। अथानेन पक्षेणार्थः स्यात्प्रातिपदिकानामेकशेष इति। बाढमर्थः। किं वक्तव्यमेतत्? न हि। कथमनुच्यमानं गंस्यते? एतेनैवाभिहितं सूत्रेण सरूपाणामेकशेष एकविभक्तौ इति। कथम्? विभक्तिः सारूप्येणाश्रीयते। अनैमित्तिक एकशेषः। एकविभक्तौ लौकिके प्रयोगे यानि सरूपाणि तेषामेकशेषो भवति। क्व? यत्र वा तत्र वेति। अथानेन पक्षेणार्थः स्याद्- विभक्त्यन्तानामेकशेषः इति? बाढमर्थः। किं वक्तव्यमेतत्? नहि। कथमनुच्यमानं गंस्यते? एतदप्येतेनैवाभिहितं सूत्रेण सरूपाणामेकशेष एकविभक्तौ इति। कथम्? नेदं पारिभाषिक्या विभक्तेर्ग्रणम्। किं तर्हि? अन्वर्थग्रहणम्- विभागो विभक्तिरिति। एकविभागे यानि सरूपाणि तेषामेकशेषो भवतीति। ननु चोक्तम्- कश्चिद्वचनलोपो द्विवचनबहुवचनविधिर्द्वन्द्वप्रतिषेधश्चेति। नैषः दोषः। यत्तावदुच्यते- कश्चिद्वचनलोपो द्विवचनबहुवचनविधिः इति। - सहविवक्षायामेकशेषः - युगपद्विवक्षायामेकशेषेण भवितव्यम्। न तर्हीदानीमिदं भवति- वृक्षश्च वृक्षश्च वृक्षौ, वृक्षश्च वृक्षश्च वृक्षश्च वृक्षा इति? नैतत्सहविवक्षायां भवति। अथापि निदर्शयितुं बुद्धिरेवं निदर्शयितव्यम्- वृक्षौ च वृक्षौ च वृक्षौ, वृक्षाश्च वृक्षाश्च वृक्षाश्च वृक्षा इति। यदप्युच्यते- द्वन्द्वप्रतिषेधश्च वक्तव्य इति। नैष दोषः। अनवकाश एकशेषो द्वन्द्वं बाधिष्यते। ननु चोक्तम्- सावकाश एकशेषः। कोऽवकाशः? तिङन्तान्यवकाशः इति। न तिङन्तान्येकशेषारम्भं प्रयोजयन्ति। किं कारणम्? यथाजातीयकानां द्वितीयस्य पदस्य प्रयोगे सार्मथ्यमस्ति तथाजातीयकानामेकशेषः। न च तिङन्तानां द्वितीयपदस्य प्रयोगे सार्मथ्यमस्ति। किं कारणम्? एका हि क्रिया। एकेनोक्तत्वात्तस्यार्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम्- उक्तार्थानामप्रयोग इति। यदि तर्ह्येका क्रिया, द्विवचनबहुवचनानि न सिध्यन्ति- पचतः पचन्ति। नैतानि क्रियापेक्षाणि। किं तर्हि? साधनापेक्षाणि। अथ वा पुनरस्तु एकविभक्तौ इति? ननु चोक्तम्- एकविभक्ताविति चेन्नाऽभावाद्विभक्तेः इति। नैष दोषः। परिहृतमेतत्- अर्थवत्प्रातिपदिकमिति प्रातिपदिकसञ्ज्ञा भविष्यतीति। ननु चोक्तम्- नियमान्न प्राप्नोति, अर्थवत्समुदायानां समासग्रहणं नियमार्थम् इति। नैष दोषः। तुल्यजातीयस्य नियमः। कश्च तुल्यजातीयः? यथाजातीयकानां समासः। कथञ्ञ्जातीयकानां समासः? सुबन्तानाम्। - सर्वत्राऽपत्यादिषूपसङ्ख्यानम् - सर्वेषु पक्षेष्वपत्यादिषूपसङ्ख्यानं कर्तव्यम्? भिक्षाणां समूहो भैक्षमिति। सर्वत्र इत्युच्यते प्रातिपदिकानां चैकशेषे सिद्धम्। अपत्यादिष्वित्युच्यते बहवश्चापत्यादयः। गर्गस्यापत्यं बहवो गर्गाः। एका प्रकृतिर्बहवश्च यञ्ञः। असारूप्यादेकशेषो न प्राप्नोति। ननु च यथैव बहवो यञ्ञः, एवं प्रकृतयोऽपि बह्व्यः स्युः। नैवं शक्यम्। इह हि दोषः स्यात्- गर्गा वत्सा बिदा उर्वा इति। अञ्ञ्यो बहुषु यञ्ञ्यो बहुष्वित्युच्यमानो लुङ्न प्राप्नोति। मा भूदेवम्। अञ्ञन्तं यद् बहुषु, यञ्ञन्तं यद् बहुष्वित्येवं भविष्यति। ननु चोक्तम्- नैवं शक्यमिह हि दोषः स्यात्- काश्यपप्रतिकृतयः काश्यपा इति। नैष दोषः। लौकिकस्य तत्र गोत्रस्य ग्रहणम्, न चैतल्लौकिकं गोत्रम्। अथ वा पुनरस्त्वेका प्रकृतिर्बहवश्च यञ्ञः? ननु चोक्तम्- असारूप्यादेकशेषो न प्राप्नोतीति। - सिद्धं तु समानार्थानामेकशेषवचनात् - सिद्धमेतत्। कथम्? समानार्थानामेकशेषो भवतीति वक्तव्यम्। यदि समानार्थानामेकशेष उच्यते, कथमक्षाः पादा माषा इति? - नानार्थानामपि सरूपाणाम् - नानार्थानामपि सरूपाणामेकशेषो वक्तव्यः। - एकार्थानामपि विरूपाणाम् - एकार्थानामपि विरूपाणामेकशेषो वक्तव्यः। वक्रदण्डश्च कुटिलदण्डश्च- वक्रदण्डौ. कुटिलदण्डाविति वा। - स्वरभिन्नानां यस्योत्तरस्वरविधिः - स्वरभिन्नानां यस्योत्तरः स्वरविधिस्तस्यैकशेषो वक्तव्यः। अक्षश्च अक्षश्च अक्षौ। मीमांसकश्च मीमांसकश्च मीमांसकौ। ॥ सङ्ख्याशब्दानामेकशेषाभावाधिकरणम् ॥ इह कस्मान्न भवति- एकश्च एकश्च द्वौ च द्वौ चेति? - सङ्ख्याया अर्थाऽसम्प्रत्ययादन्यपदार्थत्वाच्चानेकशेषः - सङ्ख्याया अर्थाऽसम्प्रत्ययादेकशेषो न भविष्यति। नह्येकावित्यनेनार्थो गम्यते। अन्यपदार्थत्वाच्च सङ्ख्याया एकशेषो न भविष्यति। एकश्च एकश्चेत्यस्य द्वौ इत्यर्थः। द्वौ च द्वौ चेत्यस्य चत्वार इत्यर्थः। नैतौ स्तः परिहारौ। यत्तावदुच्यते- सङ्ख्याया अर्थासम्प्रत्ययात् इति। अर्थासम्प्रत्ययेऽपि हि सत्येकशेषो भवति। तद्यथा- गार्ग्यश्च गार्ग्यायणश्च गार्ग्यौ। न चोच्यते वृद्धयुवानाविति, भवति चैकशेषः। यदप्युच्यते- अन्यपदार्थत्वाच्चेति। अन्यपदार्थेऽप्येकशेषो भवति। तद्यथा- विंशतिश्च विंशतिश्च विंशती इति। तयोश्चत्वारिंशदित्यर्थः। एवं तर्हि नेमौ पृथक्परिहारौ। एकपरिहारोऽयम् सङ्ख्याया अर्थाऽसम्प्रत्ययादन्यपदार्थत्वाच्चेति। यत्र ह्यर्थाऽसम्प्रत्यय एव वा, अन्यपदार्थतैव वा, भवति तत्रैकशेषो गार्ग्यौ विशती इति यथा। अथ वा नेमे एकशेषशब्दाः। यदि तर्हि नेम एकशेषशब्दाः समुदायशब्दास्तर्हि भवन्ति। तत्र को दोषः? एकवचनं प्राप्नोति। एकार्था हि समुदाया भवन्ति। तद्यथा- यूथम्, शतम्, वनमिति। सन्तु तर्ह्येकशेषशब्दाः। किंकृतं सारूप्यम्? अन्योन्यकृतं सारूप्यम्? सन्ति पुनः केचिदन्येऽपि शब्दा येषामन्योऽन्यकृतो भावः? सन्ति इत्याह। तद्यथा- माता पिता भ्रातेति। विषम उपन्यासः। सकृदेते शब्दाः प्रवृत्ता अपायेष्वपि वर्तन्ते। इह पुनरेकेनाप्यपाये न भवति चत्वार इति। अन्यदिदानीमेतदुच्यते- सकृदेते शब्दाः प्रवृत्ता अपायेष्वपि वर्तन्ते इति। यत्तु भवानस्मांश्चोदयति- सन्ति पुनः केचिदन्येऽपि शब्दा येषामन्योकृतो भावः इति। तत्रैतेऽस्माभिरुपन्यस्ताः। तत्रैतद्भवानाह- सकृदेते शब्दाः प्रवृत्ता अपायेष्वपि वर्तन्ते इति। एतच्च वार्तम्। एकैको नोद्यन्तुं भारं शक्नोति यत्कथं तत्र। एकैकः कर्ता स्यात्सर्वे वा स्युः कथं युक्तम् ॥ 1 ॥ कारणमुद्यमनं चेन्नोद्यच्छति चान्तरेण तत्तुल्यम्। तस्मात्पृथक् पृथक् ते कर्तारः सव्यपेक्षास्तु ॥ 2 ॥ ॥ प्रथममध्यमोत्तमानामेकशेषविधानाधिकरणम् ॥ - प्रथममध्यमोत्तमानामेकशेषोऽसरूपत्वात् - प्रथममध्यमोत्तमानामेकशेषो वक्तव्यः। पचति च पचसि च पचथः। पचसि च पचामि च पचावः। पचति च पचसि च पचामि च पचामः। किं पुनः कारणं न सिध्यति? असरूपत्वात्। ॥ सूत्रप्रत्याख्यानाधिकरणम् ॥ - द्विवचनबहुवचनाऽप्रसिद्धिरेकार्थत्वात् - द्विवचनबहुवचनयोश्चाऽप्रसिद्धिः। किं कारणम्? एकार्थत्वात् एकोऽयमवशिष्यते तेनानेन तदर्थेन भवितव्यम्। किमर्थेन? यदर्थ एकः। किमर्थश्चैकः? एकार्थः। - नैकार्थ्यम् - नायमेकार्थः। किं तर्हि? द्व्यर्थो बह्वर्थश्च। - नैकार्थ्यमिति चेदारम्भानर्थक्यम् - नैकार्थ्यमिति चेदेकशेषारम्भोऽनर्थकः स्यात्। इह हि शब्दस्य स्वाभाविकी वाऽनेकार्थता स्याद्वाचनिकी वा। तद्यदि तावत्स्वाभाविकी- - अशिष्य एकशेष एकेनोक्तत्वात् - अशिष्य एकशेषः। किं कारणम्? एकेनोक्तत्वात्तस्यार्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम्- उक्तार्थानामप्रयोग इति। अथ वाचनिकी, तद्वक्तव्यम्- एकोऽयमवशिष्यते, स च द्व्यर्थो भवति बह्वर्थश्चेति। न वक्तव्यम्। सिद्धमेकशेष इत्येव। कथं पुनरेकोयमवशिष्यत इत्यनेन द्व्यर्थता बह्वर्थता वा शक्या लब्धुम्? तच्चैकशेषकृतम्। नह्यन्तरेण तद्वाचिनः शब्दस्य प्रयोगं तस्यार्थस्य गतिर्भवति। पश्यामश्च पुनरन्तरेणापि तद्वाचिनः शब्दस्य प्रयोगं तस्यार्थस्य गतिर्भवतीति अग्निचित्सोमसिदिति यथा। ते मन्यामहे- लोपकृतमेतत्- येनात्राऽन्तरेणापि तद्वाचिनः शब्दस्य प्रयोगं तस्यार्थस्य गतिर्भवतीति। एवमिहाप्येकशेषकृतमेतत्- येनात्रैकोऽयमवशिष्यत इत्यनेन द्व्यर्थता बह्वर्थता च भवति। उच्येत तर्हि न तु गम्येत। यो हि गामश्व इति ब्रूयादश्वं वा गौरिति, न जातुचित्सम्प्रत्ययः स्यात्। तेनानेकार्थाभिधाने यत्नं कुर्वताऽवश्यं लोकः पृष्ठतोऽनुगन्तव्यः केष्वर्थेषु लौकिकाः कान् शब्दान्प्रयुञ्जते इति। लोके चैकैकस्मिन् वृक्ष इति प्रयुञ्जते, द्वयो वृक्षौ इति, बहुषु वृक्षा इति। यदि तर्हि लोकोऽवश्यं शब्देषु प्रमाणं, किमर्थमेकशेष आरभ्यते? अथ किमर्थं लोप आरभ्यते? प्रत्ययलक्षणमाचार्यः प्रार्थयमानो लोपमारभते, एकशेषारम्भे पुनरस्य न किञ्चित्प्रयोजनमस्ति। ननु चोक्तं- प्रत्यर्थं शब्दनिवेशान्नैकेनाऽनेकस्याभिधानम् इति। यदि चैकेन शब्देनानेकस्याऽर्थस्याभिधानं स्यान्न प्रत्यर्थं शब्दनिवेशः कृतः स्यात्। - प्रत्यर्थं शब्दनिवेशान्नैकेनानेकस्याऽभिधानादप्रत्यर्थमिति चेत्तदपि प्रत्यर्थमेव - प्रत्यर्थं शब्दनिवेशान्नैकेनानेकस्याऽभिधानादप्रत्यर्थमिति चेदेवमुच्यते, यदप्येकेनानेकस्याभिधानं भवति तदपि प्रत्यर्थमेव। यदपि ह्यर्थावर्थौ प्रति तदपि प्रत्यर्थमेव। यदपि ह्यर्थानर्थान्प्रति तदपि प्रत्यर्थमेव। - यावतामभिधानं तावतां प्रयोगो न्याय्यः - यावतामर्थानामभिधानं भवति तावतां शब्दानां प्रयोगः इत्येष पक्षो न्याय्यः। - यावतामभिधानं तावतां प्रयोगो न्याय्य इति चेदेकेनाप्यनेकस्याऽभिधानम् - यावतामभिधानं तावतां प्रयोगो न्याय्य इति चेदेवमुच्यते। एषोऽपि पक्षो न्याय्य एव यदप्येकेनानेकस्याभिधानं भवति। यदि तर्ह्येकेनाऽनेकस्याभिधानं भवति- प्लक्षन्यग्रोधौ। - एकेनोक्तत्वादपरस्य प्रयोगोऽनुपपन्नः - एकेनोक्तत्वात्तस्याऽर्थस्यापरस्य प्रयोगेण न भवितव्यम्। किं कारणम्? उक्तार्थानामप्रयोग इति। - एकेनोक्तत्वादपरस्य प्रयोगोऽनुपपन्न इति चेदनुक्तत्वात्प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः - एकेनोक्तत्वादपरस्य प्रयोगोऽनुपपन्न इति चेदनुक्तः प्लक्षेण न्यग्रोधार्थ इति कृत्वा न्यग्रोधशब्दः प्रयुज्यते। कथमनुक्तः। यदिदानीमेवोक्तमेकेनाप्यनेकस्याऽभिधानं भवतीति? सरूपाणामेकेनाप्यनेकस्याभिधानं भवति न विरूपाणाम्। किं पुनः कारणं सरूपाणामेकेनाप्यनेकस्याभिधानं भवति, न पुनर्विरूपाणाम्? - अभिधानं पुनः स्वाभाविकम् - स्वाभाविकमभिधानम्। - उभयदर्शनाच्च - उभयं खल्वपि दृश्यते। विरूपाणामप्येकेनानेकस्याभिधानं भवति। तद्यथा- द्यावा ह क्षामा। द्यावा चिदस्मै पृथिवी नमेते इति। विरूपाणां किल नामैकेनाऽनेकस्याभिधानं स्यात्किं पुनः सरूपाणाम्। - आकृत्यभिधानाद्वैकं विभक्तौ वाजप्यायनः - आकृत्यभिधानाद्वैकं शब्दं विभक्तौ वाजप्यायन आचार्यो न्याय्यं मन्यते। एकाऽऽकृतिः, सा चाभिधीयत इति। कथं पुनर्ज्ञायते- एकाऽऽकृतिः सा चाभिधीयते इति। - प्रख्याऽविशेषात् - नहि गौरियुक्ते विशेषः प्रख्यायते- शुक्ला नीला कपिला कपोतिकेति। यद्यपि तावत्प्रख्याऽविशेषाज्ज्ञावते- एकाऽऽकृतिः इति, कुतस्त्वेतत्- साऽभिधीयत इति? - अव्यपवर्गगतेश्च - अव्यपवर्गतेश्च मन्यामहे आकृतिरभिधीयत इति। नहि गौरित्युक्ते व्यपवर्गो गम्यते- शुक्ला नीला कपिला कपोतिकेति। - ज्ञायते चैकोपदिष्टम् - ज्ञायते खल्वप्येकोपदिष्टम्। गौरस्य कदाचिदुपदिष्टो भवति। स तमन्यस्मिन्देशेऽन्यस्मिन्कालेऽन्यस्यां च वयोऽवस्थायां दृष्ट्वा जानाति- अयं गौः इति। कः पुनरस्य विशेषः प्रख्याऽविशेषात् इत्यतः?तस्यैवोपोद्बलकमेतत्- प्रख्याऽविशेषाद् ज्ञायते चैकोपदिष्टम् इति। - धर्मशास्त्रं च तथा - एवं च कृत्वा धर्मशास्त्रं प्रकृतम्, ब्राह्मणो न हन्तव्यः सुरा न पेया इति ,ब्राह्मणमात्रं च न हन्यते, सुरामात्रं च न पीयते। यदि द्रव्यं पदार्थः स्यादेकं ब्राह्मणमहत्वैकां च सुरामपीत्वाऽन्यत्र कामचारः स्यात्। कः पुनरस्य विशेषः अव्यपवर्गगतेश्च इत्यतः? तस्यैवोपोद्बलकमेतत्- अव्यपवर्गगतेश्च, धर्मशास्त्रं च तथा इति। - अस्ति चैकमनेकाधिकरणस्थं युगपत् - अस्ति खल्वप्येकमनेकाधिकरणस्थं युगपल्लभ्यते। किम्? आदित्यः। तद्यथा- एक आदित्योऽनेकाधिकरणस्थो युगपदुपलभ्यते। विषम उपन्यासः। नैको द्रष्टाऽऽदित्यमनेकाधिकरणस्थं युगपदुपलभते। एवं तर्हि- - इतीन्द्रवद्विषयः - तद्यथा- एक इन्द्रोऽनेकस्मिन् क्रतुशते आहूतो युगपत्सर्वत्र भवति। एवमाकृतिरपि युगपत्सर्वत्र भविष्यति। अवश्यं चैतदेवं विज्ञेयम्- एकमनेकाधिकरणस्थं युगपदुपलभ्यत इति। - नैकमनेकाधिकरणस्थं युगपदिति चेत्तथैकशेषे - यो हि मन्यते- नैकमनेकाधिकरणस्थं युगपदुपलभ्यत इति। एकशेषे तस्य दोषः स्यात्। एकशेषेऽपि नैको वृक्षशब्दोऽनेकमर्थं युगपदभिदधीत। अवश्यं चैतदेवं विज्ञेयमाकृतिरभिधीयत इति। - द्रव्याभिधाने ह्याकृत्यसम्प्रत्ययः - द्रव्याभिधाने सत्याकृतेरसम्प्रत्ययः स्यात् ॥ तत्र को दोषः? - तत्राऽसर्वद्रव्यगतिः - तत्राऽसर्वद्रव्यगतिः प्राप्नोति। असर्वद्रव्यगतौ को दोषः? गौरनुबन्ध्योऽजोऽग्नीषोमीयः इति। एकः शास्त्रोक्तं कुर्वीत, अपरोऽशास्त्रोक्तम्। अशास्त्रोक्ते च क्रियमाणे विगुणं कर्म भवति, विगुणे च कर्मणि फलाऽनवाप्तिः। ननु च यस्याप्याकृतिः पदार्थस्तस्यापि, यद्यनवयवेन चोद्यते न चानुवध्यते। विगुणं कर्म भवति। विगुणे च कर्मणि फलाऽनवाप्तिः। एकाऽऽकृतिः इति प्रतिज्ञा हीयेत। यच्चास्य पक्षस्योपादाने प्रयोजनम्- एकशेषो न वक्तव्य इति, स चेदानीं वक्तव्यो भवति। एवं तर्ह्यनवयवेन चोद्यते, प्रत्येकं च परिसमाप्यते, यथाऽऽदित्यः। ननु च यस्यापि द्रव्यं पदार्थस्तस्याप्यनवयवेन चोद्यते, प्रत्येकं च परिसमाप्यते। एकशेषस्त्वया वक्तव्यः। त्वयाऽपि तर्हि द्विवचनबहुवचनानि साध्यानि। - चोदनायां चैकस्योपाधिवृत्तेः - चोदनायां चैकस्योपाधिवृत्तेर्मन्यामहे- आकृतिरभिधीयते इति। आग्नेयमष्टाकपालं निर्वपेत्। एकं निरुप्य द्वितीयस्तृतीयश्च निरुप्यते। यदि च द्रव्यं पदार्थः स्यादेकं निरुप्य द्वितीयस्य तृतीयस्य च निर्वपणं न प्रकल्पेत। कः पुनरेतयोर्जातिचोदनयोर्विशेषः? एका निर्वृत्तेन, अपरा निर्र्वत्त्येन। - द्रव्याभिधानं व्याडिः - द्रव्याभिधानं व्याडिराचार्यो न्याय्यं मन्यते- द्रव्यमभिधीयते इति। - तथा च लिङ्गवचनसिद्धिः - एवं च कृत्वा लिङ्गवचनानि सिद्धानि भवन्ति। ब्राह्मणी ब्राह्मणः ब्राह्मणौ ब्राह्मणा इति। - चोदनासु च तस्यारम्भात् - चोदनासु च तस्यारम्भान्मन्यामहे- द्रव्यमभिधीयत इति। गौरनुबन्ध्योऽजोऽग्नीषोमीय इति। आकृतौ चोदितायां द्रव्ये आरम्भणालम्भनप्रोक्षणविशसनादीनि क्रियन्ते। - न चैकमनेकाधिकरणस्थं युगपत् - न खल्वप्येकमनेकाधिकरणस्थं युगपदुपलभ्यते। नह्येको देवदत्तो युगपत्स्रुघ्ने भवति मथुरायां च। - विनाशे प्रादुर्भावे च सर्वं तथा स्यात् - किम्? विनश्येच्च प्रादुःष्याच्च। श्वा मृतः इति, श्वा नाम लोके न प्रचरेत्। गौर्जातः इति, सर्वं गोभूतमनवकाशं स्यात्। - अस्ति च वैरूप्यम् - अस्ति खल्वपि वैरूप्यम्- गौश्च गौश्च, खण्डो मुण्ड इति। - तथा च विग्रहः - एवं च कृत्वा विग्रह उपपन्नो भवति- गौश्च गौश्चेति। - व्यर्थेषु च मुक्तसंशयम् - व्यर्थेषु च मुक्तसंशयं भवति। आकृतावपि पदार्थ एकशेषो वक्तव्यः। अक्षाः पादा माषा इति। - लिङ्गवचनसिद्धिर्गुणस्याऽनित्यत्वात् - लिङ्गवचनानि सिद्धानि भवन्ति। कुतः? गुणस्यानित्यत्वात्। अनित्या गुणा अपायिन उपायिनश्च। किं य एते शुक्लादयः? न इत्याह। स्त्रीपुन्नपुंसकानि सत्त्वगुणाः, एकत्वद्वित्वबहुत्वानि च। कदाचिदाकृतिरेकत्वेन युज्यते, कदाचिद्द्वित्वेन, कदाचिद् बहुत्वेन, कदाचित्स्त्रीत्वेन, कदाचित्पुंस्त्वेन, कदाचिन्नपुंसकत्वेन। भवेल्लिङ्गपरिहार उपपन्नः, वचनपरिहारस्तु नोपपद्यते। यदि हि कदाचिदाकृतिरेकत्वेन युज्यते कदाचिद्द्वित्वेन कदाचिद् बहुत्वेन एकाऽऽकृतिः इति प्रतिज्ञा हीयेत, यच्चास्य पक्षस्योपादाने प्रयोजनमुक्तम् एकशेषो न वक्तव्यः इति, स चेदानीं वक्तव्यो भवति। एवं तर्हि- - लिङ्गवचनसिद्धिर्गुणविवक्षाऽनित्यत्वात् - लिङ्गवचनानि सिद्धानि भवन्ति। कुतः? गुणविवक्षाया अनित्यत्वात्। अनित्या गुणविवक्षा। कदाचिदाकृतिरेकत्वेन विवक्षिता भवति, कदाचिद्द्वित्वेन, कदाचिद् बहुत्वेन, कदाचित्स्त्रीत्वेन, कदाचित्पुंस्त्वेन, कदाचिन्नपुंसकत्वेन। भवेल्लिङ्गपरिहार उपपन्नः, वचनपरिहारस्तु नोपपद्यते। यदि कदाचिदाकृतिरेकत्वेन विवक्षिता भवति कदाचिदि्द्वत्वेन कदाचिद् बहुत्वेन, एकाऽऽकृतिः इति च प्रतिज्ञा हीयेत। यच्चास्य पक्षस्योपादाने प्रयोजनमुक्तम्- एकशेषो न वक्तव्य इति, स चेदानीं वक्तव्यो भवति। लिङ्गपरिहारश्चापि नोपपद्यते। किं कारणम्? आविष्टलिङ्गा जातिर्यल्लिङ्गमुपादाय प्रवर्त्तते। उत्पत्तिप्रभृत्याविनाशात्तल्लिङ्गं न जहाति। तस्मान्न वैयाकरणैः शक्यं लौकिकं लिङ्गमास्थातुम्। अवश्यं कश्चित्स्वकृतान्त आस्थेयः। कोऽसौ स्वकृतान्तः? - संस्त्यानप्रसवौ लिङ्गम् - संस्त्यानप्रसवौ लिङ्गमास्थेयौ। किमिदं संस्त्यानप्रसवाविति? - संस्त्याने स्त्यायतेर्ड्रट् स्त्री सूतेः सप्प्रसवे पुमान् - ननु च लोकेऽपि स्त्यायतेरेव स्त्री, सूतेश्च पुमान्? अधिकरणसाधना लोके स्त्री- स्त्यायत्यस्यां गर्भ इति। कर्तृसाधनश्च पुमान्- सूते पुमानिति। इह पुनरुभयं भावसाधनं- स्त्यानं प्रवृत्तिश्च। कस्य पुनः स्त्यानं स्त्री, प्रवृत्तिर्वा पुमान्? गुणानाम्। केषाम्? शब्दस्पर्शरूपरसगन्धानाम्। सर्वाश्च पुनर्मूर्तय एवमात्मिकाः- संस्त्यानप्रसवगुणाः शब्दस्पर्शरूपरसगन्धवत्यः। यत्राल्पीयांसो गुणास्तत्राऽवरस्तस्त्रयः- शब्दः स्पर्शो रूपमिति। रसगन्धौ न सर्वत्र। प्रवृत्तिः खल्वपि नित्या। नहीदं कश्चिदपि स्वस्मिन्नात्मनि मुहूर्तमप्यवतिष्ठते, वर्द्धते यावदनेन वर्द्धितव्यमपचयेन वा युज्यते। तच्चोभयं सर्वत्र। यद्युभयं सर्वत्र, कुतो व्यवस्था? विवक्षातः। संस्त्यानविवक्षायां स्त्री, प्रसवविवक्षायां पुमान्, उभयोरप्यविवक्षायां नपुंसकम्। तत्र लिङ्गवचनसिद्धिर्गुणविवक्षाऽनित्यत्वाद् इति लिङ्गपरिहार उपपन्नः। वचनपरिहारस्तु नोपपद्यते। वचनपरिहारश्चाप्युपपन्नः। इदं तावदयं प्रष्टव्यः- अथ यस्य द्रव्यं पदार्थः कथं तस्य एकवचनद्विवचनबहुवचनानि भवन्तीति? एवं स वक्ष्यति- एकस्मिन्नेकवचनम्, द्वयोर्द्विवचनम्, बहुषु बहुवचनम् इति। यदि तस्यापि वाचनिकानि न स्वाभाविकानि। अहमप्येवं वक्ष्यामि- एकस्मिन्नेकवचनं द्वयोर्द्विवचनं बहुषु बहुवचनम् इति। नह्याकृतिपदार्थकस्य द्रव्यं न पदार्थः, द्रव्यपदार्थकस्य वाऽऽकृतिर्न पदार्थः। उभयोरुभयं पदार्थः। कस्यचित् किञ्चित्प्रधानभूतं किञ्चिद् गुणभूतम्। आकृतिपदार्थकस्याकृतिः प्रधानभूता, द्रव्यं गुणभूतम्। द्रव्यपदार्थकस्य द्रव्यं प्रधानभूतमाकृतिर्गुणभूता।गुणभूता। - गुणवचनवद्वा - गुणवचनवद्वा लिङ्गवचनानि भविष्यन्ति। तद्यथा- गुणवचनानां शब्दानामाश्रयतो लिङ्गवचनानि भवन्ति- शुक्लं वस्त्रम्, शुक्ला शाटी, शुक्लः कम्बलः शुक्लौ कम्बलौ, शुक्लाः कम्बला इति। यदसौ द्रव्यं श्रितो भवति गुणस्तस्य यल्लिङ्गं वचनं च तद् गुणस्यापि भवति। एवमिहापि यदसौ द्रव्यं श्रिताऽऽकृतिस्तस्य यल्लिङ्गं वचनं च तदाकृतेरपि भविष्यति। - अधिकरणगतिः साहचर्यात् - आकृतावारम्भणादीनां सम्भवो नास्तीति कृत्वाऽऽकृतिसहचरिते द्रव्ये आरम्भणादीनि भविष्यन्ति। - न चैकमनेकाधिकरणस्थं युगपदित्यादित्यवद्विषयः - न खल्वप्येकमनेकाधिकरणस्थं युगपदुपलभ्यत इत्यादित्यवद्विषयो भविष्यति। तद्यथा- एक आदित्योऽनेकाधिकरणस्थो युगपदुपलभ्यते। विषम उपन्यासः। नैको द्रष्टाऽनेकाधिकरणस्थमादित्यं युगपदुलभते। एवं तर्हि- - इतीन्द्रवद्विषयः - तद्यथैक इन्द्रोऽनेकस्मिन्क्रतुशते आहूतो युगपत्सर्वत्र भवत्येवमाकृतिर्युगपत्सर्वत्र भवेदिति। - अविनाशोऽनाश्रितत्वात् - द्रव्यविनाशे आकृतेरविनाशः। कुतः? अनाश्रितत्वात्। अनाश्रिताऽऽकृतिर्द्रव्यम्। किमुच्यते अनाश्रितत्वाद् इति, यदिदानीमेवोक्तम्- अधिकरणगतिः साहचर्यात् इति?। एवं तर्हि- - अविनाशोऽनैकात्म्यात् - द्रव्यविनाशे आकृतेरविनाशः। कुतः? अनैकात्म्यात्। अनेक आत्माऽऽकृतेर्द्रव्यस्य च। तद्यथा- वृक्षस्थोऽवतानो वृक्षे छिन्नेऽपि न विनश्यति। - वैरूप्यविग्रहौ द्रव्यभेदात् - वैरूप्यविग्रहावपि द्रव्यभेदाद्भविष्यतः। - व्यर्थेषु सामान्यात्सिद्धम् - विभिन्नार्थेषु च सामान्यात्सिद्धं सर्वम्। सर्वत्र अश्नोतेरक्षः, पद्यतेः पादः, मिमीतेर्माषः। तत्र क्रियासामान्यात्सिद्धम्। अपरस्त्वाह- पुराकल्पे एतदासीत्षोडशमाषाः कार्षापणम्, षोडशपलाश्च माषशंवट्यः। तत्र सङ्ख्यासामान्यात्सिद्धम् ॥ सरूपाणामेकशेष एकविभक्तौ ॥ 64 ॥
Kashika¶
समानं रूपमेषामिति सरूपाः। सरूपाणां शब्दानामेकविभक्तौ परत एकशेषो भवति। एकः शिष्यते, इतरे निवर्तन्ते। वृक्षश्च वृक्षश्च वृक्षौ। वृक्षश्च वृक्षश्च वृक्षश्च वृक्षाः। प्रत्यर्थं शब्दनिवेशाद् नैकेनानेकस्याभिधानम्। तत्रानेकार्थाभिधानेऽनेकशब्दत्वं प्राप्तम्, तस्मादेकशेषः। सरूपाणामिति किम्? प्लक्षन्यग्रोधाः। रूपग्रहणं किम्? भिन्नेऽप्यर्थे यथा स्यात् — अक्षाः। पादाः। माषाः। एकग्रहणं किम्? द्विबह्वोः शेषो मा भूत्। शेषग्रहणं किम्? आदेशो मा भूत्। एकविभक्ताविति किम्? पयः पयो जरयति। ब्राह्मणाभ्यां च कृतं ब्राह्मणाभ्यां च देहि॥
Siddhanta Kaumudi¶
एकविभक्तौ यानि सरूपाण्येव दृष्टानि तेषामेक एव शिष्यते । प्रथमयोः पूर्वसवर्णः (SK164) । नादिचि (SK165) वृद्धिरेचि (SK72) । रामौ ॥
Laghu Siddhanta Kaumudi¶
एकविभक्तौ यानि सरूपाण्येव दृष्टानि तेषामेक एव शिष्यते॥
Balamanorama¶
सरूपाणामेकशेष एकविभक्तौ - अथ प्रातिपदिकार्थगतद्वित्वादिविक्षायां प्रातिपदिकस्य द्वित्र्यादिप्रयोगप्राप्ताविदमारभ्यते — सरूपाणाम् ।एकविभक्ता॑विति ‘सरूपाणा’ मित्यत्रान्वेति । समानं रूपं येषां तानि सरूपाणि । ज्योतिर्जनपदेत्यादिना समानस्य सभावः । निर्धारणषष्ठी ।वृद्धो यूने॑त्युत्तरसूत्रादेवेत्यपकृष्यते । शिष्यते इति शेषः । कर्मणि घञ् । एकश्चासौ शेषश्चेति पूर्वकालैकेति समासः । एकस्यां विभक्तौ परतः सरूपाणामेव दृष्टानां मध्ये एकः शिष्यते इति फलति । तदाह — एकविभक्ताविति । एवेति कम् । मातृशब्दस्तावज्जननीवाची परिच्छेतृवाची च । त्र मातृभ्यामिति भ्यामादौ क्वचित्सारूप्ये सत्यपि, औजसादिषु मातरौ माताराविति वैरूप्यदर्शनान्नैकशेषः । यद्यपि कतिपयविभक्तौ उक्तयोर्मातृशब्दयोः सारूप्येणैव दर्शनमस्ति । तथापि एकस्यामपि विभक्तौ परतो विरूपाणि न दृष्टानित्यर्थो विवक्षितः । एतद्दयोतनायैव एकविभर्तावित्यत्रएक॑ग्रहणम् । एवकारापकर्षसिद्धार्थकथनपरमेकग्रहणं स्पष्टार्थमेवेति केचित् । ‘एकशेष’ इत्येकपदोपादानं तु द्विबहूनामपि शेषो मा भूदित्येतदर्थम् । ‘शेष’ पदानुपादाने तु सरूपाणां स्थाने एक आदेशः स्यात् । ततश्च अआश्च अआश्चेति द्वयुदात्तवतः स्थाने द्व्युदात्तवानादेशः स्यात् । तन्निवृत्त्यर्थं शेषग्रहणम् । एकविभक्ताविति सारूप्ये उपलक्षणम् । न तु एकविभक्तौ परतः एकशेषो भवतीति व्याख्यानमुचितम्, जननीपरिच्छेत्तृवाचिनोरेकशेषापत्तेरित्यादि प्रपञ्चितं प्रौढमनोरमायाम् । अत्रतिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे ॑ इति पूर्वसूत्राद्द्वन्द्व इत्यनुवर्त्त्य द्वन्द्वे प्रसक्त इति व्याख्येयम् । ततश्च ‘देवदवः’ ‘राजराज’ इत्यादौ नैकशेषः । द्वन्द्वापवाद एकशेष इति फलितम् । यद्यप्यनैमित्तिकत्वादन्तरह्गोऽयमेकशेषः सुबुत्पत्तेः प्रागेव प्रवर्तते, तथापि द्वन्द्वापवाद एवायम् । असति ह्रेकशेषे सुबुत्पत्तिः, पक्षे द्वन्द्वश्च स्यात् । सति तु अनेकसुबन्तीविरहाद्द्वन्द्वस्याऽप्राप्तिः फलिता । घटश्च घटश्च घटश्च तेषां समाहार इति समाहारद्वन्द्वविषये तु नास्य प्रवृत्तिः, अनभिधानात् । द्वन्द्वे कृते एकशेष इति तु न व्याख्येयम् । ‘पन्थान’ इत्यादौ ऋक्पूरित्यादिसमासान्तापत्तेः । करावित्यादौद्वन्द्वश्च प्राणितूर्ये॑त्याद्यापत्तेः । पूर्वसूत्रादिह द्वन्द्वग्रहणानुवृत्तौ चइदितो नुम्धातो॑रित्यत्र ‘इदित’ इति निर्देशो लिङ्गम् । इत्िकार इत्संज्ञको यस्य स इदित् । अत्र इच्छब्दयोरेकविभक्तौ सारूप्येऽपि द्वन्द्वविषयत्वाऽभावान्नैकशेषः । अन्यथा तत्राप्येकशेषः स्यादित्यलम् । राम औ इति स्थिते प्रक्रियां दर्शयति-प्रथमयोरित्यादिना । वृदिंध बाधित्वा पूर्वसवर्णदीर्घे प्राप्ते आह-नादिचीति । तस्मिन् प्रतिषिद्धे सति वृद्धेः प्रवृत्तौ रामौ इति रूपमित्यर्थः ।
Tattvabodhini¶
सरूपाणामेकशेष एकविभक्तौ - सरूपाण्येवेति । एतच्च उत्तरसूत्रस्थस्यैवकारस्येहानुकर्षणाल्लभ्यते । अत्र चएकस्यापि विभक्तौ परतो विरूपाणि न दृष्टानी॑ति पर्यवसन्नोऽर्थः, तेन मातृशब्दयोर्जननीवाचिपरिच्छेत्तृवाचनिनोर्नैकशेषः,मातृभ्यां॑मातृभि॑रित्यादौ सारूप्येऽपि औजसादिषु वैरूप्यात् । नन्वेवंपयः पयो नयति॑देवदेवे॑त्यादावतिप्रतिप्रसङ्ग स्यादेवेति चेत् ; उच्यते-सहविविक्षायामेवैकशेषः प्रवर्तते । इतरेतरयोगद्वन्द्वस्य विषय इति यावत् । यत्र ह्रनेकस्यार्थस्य मिलितस्येतरान्वयः स तथाभूतो विषयः । इदं चइदितो नुम्धातो॑रिति लिङ्गाल्लभ्यते, न्यायाच्च । तथाहे-॒यः शिष्यते स लुप्यमानार्थाभिधायी॑ति स्थिते श्रूयमाणैकशब्दोपस्थितं सर्वमविशेषादैकरूप्येणैवान्वयितुमर्हति । यद्वातिष्यपुनर्वस्वो॑रिति सूत्राद्द्वन्द्वे इत्यनुवर्त्त्यद्वन्द्वे प्रसक्ते सती॑ति व्याख्येयं, न तु द्वन्द्वे कृते सती॑ति ।पन्थानौ॑पन्थान॑ इत्यादौऋक्पूरब्धू॑रित्यादिना समासान्तापत्तेः,करौ॒॑करा॑ इत्यादौद्वन्द्वश्च प्राणितूर्ये॑त्यादिना एकवद्भावापत्तेश्चेति दिक् । सूत्रेशेष॑ शभ्दः कर्मसाधन इत्याह-एक एव शिष्यत इति । असत्येकग्रहणे द्विबह्वोरपि शेष#ः स्यादित्येकग्रहणम् । न चैवमप्येकविभक्तावित्यत्र एकग्रहणं व्यर्थमिति शङ्क्यम्,एकस्यामपि विभक्तौ परतो विरूपाणि न दृष्टानी॑व्यर्थलाभाय तस्यावश्यकत्वात् । किंचस्वसा च स्वसारौ चे॑त्यादौ विभक्तौ परतः पूर्वभागयोर्वैरूप्यदर्शनात्स्वसार इत्येकशेषस्तत्र न स्यात् । तथास्वसरि च स्वस्त्रोश्चे॑त्यत्र वैरूप्यदर्शनात्स्वसृष्विति न स्यात् । किं तुकमलौ॑कमल॑ इत्यादिष्वेव स्यात् । कृते त्वेकग्रहणे नायं दोषः प्रसज्यते । एकविभक्तौ परतः पूर्वत्र वैरूप्याऽदर्शनात् । यदा तु विभक्तावित्यत्रैकत्वस्य विवक्षितत्वान्मास्त्वत्र एकग्रहणमित्युच्यते, तर्हि स्पष्टप्रतित्त्यर्थमेवास्त्विति केचित् । अन्ये त्वाहुः-एकग्रहणमेकैकविभक्तावित्यर्थलाभार्थम् । तथा च सकलविभक्तावित्यर्थलाभादेवकारापकर्षणं विनैव सिद्धमिष्टमिति दिक् ।एकश्च एकश्च द्वौ च द्वौ चेत्यादावेकशेषो न भवत्यनभिधानात् । द्वन्द्वोऽप्यत्रानभिधानेनैव वारणीयः । उत्सर्गतः सङ्ख्याशब्देओवमेव । विंशत्यादौ त्वेकशेष इष्ट एवेति बोध्यम् ।
Padamanjari¶
समानं रूपं येषामिति सरूपा इति । ऽज्योतिर्जनपदऽ इत्यादिना समानस्य सभावः । ऽसह रूपेण वर्तन्त इति सरूपाःऽ इति तु न भवति; व्यभिचाराभावात् । रूपशब्दश्चैह श्रोत्रग्राह्यए शब्दसम्बन्धिनि स्वरूपे वर्तते, न चक्षुर्ग्राह्यए शुक्लादौ; शब्दानुशासनप्रस्तावातदाह - सरुपाणां शब्दानामिति । निर्धारणे चैषा षष्ठी, समुदायापेक्षया वा । अत्र पञ्च पक्षाः सम्भवन्ति । समानपर्याय एकशब्दः ऽतेनैकदिक्ऽ इतिवत् । समिअन्त्वं च भेदाधिष्ठानमिति पृथक् सर्वेभ्यः समानायां विभक्तौ परत एकः शिष्यत इति प्रथमः । ऽद्वन्द्वेऽ इति वर्तते, तत्र विरूपेषु सावकाशमपि द्वन्द्वमेकशेषो न बाध्ते,निमितत्वात्; सरूपाणां द्वन्द्वे कृते समासादेकस्यां विभक्तौ परत इति द्वितीयः । अत्र पक्षे सड्ख्यावाच्येकशब्दः । ऽह्रस्वो नपुंसकेऽ इत्यतः ऽप्रातिपदिकस्यऽ इति वर्तते, एकविभक्ताविति सारूप्योपलक्षणम् । एकविभक्तौ यानि सरूपाणि दृष्टानि तेषां प्रातिपदिकानामेवानैमितिक एकशेष इति तृतीयः । विभक्तिशब्दः कारकशक्तिवचनः, विभज्यतेऽनया प्रातिपदिकार्थ इति कृत्वा; एकस्मिन्कारके विवक्षिक्तिं प्रसूत इति ; पृथग् विभक्त्यन्तानामेकशेष इति चतुर्थः । सरूपसमुदायादेकस्यां विभक्तौ परत इति पञ्चमः । तत्राद्ये पक्षे-वृक्षस् वृक्षस् वृक्षस् इति स्थिते पूर्वयोर्निवृतौ स् स् वृक्षस् इति स्थिने मध्यसम्बन्धिनः सोर्हल्ङ्यादिलोपे तदितरयोः श्रवणप्रसङ्गः । एवमाद्यन्तयोरपि निवृतौ द्रष्टव्यम् । परयोर्द्वयोर्निवृतावपि शिष्यमाणसम्बन्धिनो लोपपासिद्धिरेव । गोदौ वरणा इत्यादौ च पृथग् द्विवचनयोः परत एकशेषे तयोः श्रवणप्रसङ्गः । यत्र हि प्रत्ययनिमिता प्रकृतिनिवृत्तिस्तत्र केवलस्यापि प्रत्ययस्य प्रयोगो भवत्येव, यथा - इयानिति । द्वितीये तु - अश्व अश्व औ इति स्थिते विभक्त्यपेक्षाच्छेषात्पूर्वमन्तरङ्गत्वात्समासान्तोदातत्वे कृते यदि पूर्वशेषः सर्वानुदातं पदं स्याद् परशेषे तु अश्वशब्दान्तोदातः स्यात्, इह च ऋक्च ऋक्च ऋचौ अन्तरङ्गत्वात् ऽऋक्पूरब्धूःऽ इति समासान्ते कृते विभक्तेरकारेण व्यवधानान्नैकशेषः स्यात् । समासान्तो हि समासग्रहणेन गृह्यमाणस्तमेव न व्यवदध्यात्, सरूपं तु व्यवदधात्येव । एकग्रहणं वानर्थकम्, न हि द्वन्द्वाद्यौगपदनेका विभक्तिः सम्भवति । यदि पुनरेकविभक्तावित्येतदकृत्वा द्वन्द्वक्रियानन्तरमेवैकशष इत्युच्येत, एवमपि पादौ पादा इत्यादौ द्विवचनबहुवचने न स्याताम् ; प्राण्यङ्गादीनां समाहार इव द्वन्द्व इति नियमाद् । तृतीये तु पक्षे जननीवचनो यो मातृशब्दः, यश्च ऽमाङ् मानेऽ इत्यस्मातृचि धान्यमातृवचनः, तयोरपि माता मातृभ्याम् इति क्वचिद्विभक्तौ सरूपत्वात्सर्वत्रैकशेषप्रसङ्गः । तथा हरितशब्दाद्वर्णादनुदातादिति ङीब्नकारयोर्यो हरीणीशब्दः सम्पद्यते, यश्च हरिणशब्दाज्जातिलक्षणे ङीषि, तयोर्न स्यात्; ङ्यन्तयोः सारूप्येऽपि प्रातिपदिकावस्थायामसारूप्यात् । चतुर्थे तु निवर्तमानः शब्दो यद्यपि सह विभक्त्या निवर्तते, शिष्यमाणस्य त्वेकवचनश्रवणप्रसङ्गः । अतः पञ्चमं पक्षमाश्रित्याह - सरूपाणां शब्दानामेकविभक्तौ परत इति । सरूपसमूदायादेकस्यां विभक्तौ परत इत्यर्थः । ननु ऽङ्याप्प्रातिपदिकात्ऽ इत्येकवचनान्तानां द्वन्द्वः, तत्र चैकत्वं विवक्षितम्, तत्कथं प्रातिपदिकसमुदायाद्विभक्तिः ? अस्तु प्रत्येकं प्रातिपदिकत्वम्, समुदायोऽपि त्वर्थवत्वात्प्रातिपदिकम्, कः पुनः समुदायस्यार्थः ? परस्परसम्बन्धः, एकैकेन विशकलितोऽर्थ उच्यते । समुदायेन तु सम्बन्धः तुल्यजातीयस्य चार्थवत्समुदायस्य समासग्रहणेन निवृत्तिः । कश्च तुल्यजातीयः ? यत्र पूर्वो भागः पदम् । न चात्रैवमिति समुदायाद्विभक्तिरविरुद्धा । सा त्वनुद्भूतावयवभेदत्वाद् द्विवचनं बहुवचनं वा, न त्वेकवचनम् । नावौ जनावौ कर्तारावित्यादावच्परत्वादावादिष्वपि कृतेषु विरूपाणामपि समानार्थत्वादेकशेषः । शेषशब्दोऽयं नागराजे अनन्ते अप्रधाने तौपयुक्तादन्यत्र च न वर्तते, किं तर्हि ? निवृत्तिमदवस्थान इत्याह-एकः शिष्यते इतरे निवर्तन्ते इति । नन्वस्मिन् पक्षे एकग्रहणमनर्थकम्, न हि समुदायद्यौगपदेनेका विभक्तिः सम्भवति ? उच्यते, असत्येकग्रहणए पृथक् सर्वेभ्यो विभक्तौ परत इति प्रथमोऽपि पक्षः सम्भाव्येत । अतो यत्र पक्ष एकैव विभक्तिः सरूपाणां सम्भवति स एवैकग्रहणादा श्रीयते । अथ वा चतुर्थे पक्षे ग्रन्थः-कथं तर्हि विभक्तौ परत इति, न हि कारकशक्त्या शब्दानां पौर्वापर्यं भवति, उच्यते; इष्टवाची परशब्दः एकस्यां विभक्ताविष्यायां एकस्मिन्कारके विवक्षित इति यावत् । ननु चोक्तम्-शिष्यमाणस्यैकवचनश्रवणप्रसङ्ग इति, न वेदानीं निवर्तमानसङ्ख्यावेशादुपजायमाने द्वित्वबहुत्वे द्विवचनबहुवचने उपजनयितुमुत्सहेते, प्रत्ययान्तत्वेनाप्रातिपदिकत्वात्, नैष दोषः; सहविवक्षायामेकशेषः । का पुनः सहविवक्षा ? उक्तमत्र- अनुद्भूतेव भेदानामेका प्रख्योपजायते । यदा सहविवक्षां तामाहुर्द्वन्द्वैकशेषयोः ॥ इति । अयमर्थः - यदा बहवोऽर्था एकस्यां बुद्धौ उपारूढाः, यथा - पुरोऽवस्थितस्य हस्तस्य पञ्चाङ्गुलयः, ते चैकस्मिन्गुणे क्रियायां वा तथैव विनियुज्यन्ते-शोभना इति वा, दृश्यन्त इति वा, तदा सहविवक्षा । तथा हि-आत्मनो या बुद्धिस्तां परत्र संक्रमयितुं प्रयोक्त्रा शब्दः प्रयुज्यत इति । यदि चावयवाः पृथक् पृथगवधारिताः स्युः, यथा वातायनगतेन क्रमेण गच्छन्तः ततो भिन्नैरेव शब्दैः प्रत्यकं पर्यवसायिभिरेकवचनान्तैरभिधीयतेरन् । समुदायाकारा त्वनुस्यूतावयवभैदैका बुद्धिः तां परत्र सङ्क्रमयितुमितिच्छता तदनुरूपं शब्दः प्रयोक्तव्यः । न च तादृशस्य समुदायस्यासाधारणः कश्चिच्छब्दोऽस्स्तीत्यवयवशब्दैरेवासौ प्रतिपाद्यः । उपपदाय्ते चावयवशब्दैरेवाभिधानाम्; समुदायसमुदायिनोरभेदात् । स चैकैक एवावयवशब्द उद्भूतावयवभेदसमुदायप्रतिपादानाद् द्विवचनान्तो बहुवचनानतश्च प्रवर्तत इति नैकवचनश्रवणप्रसङ्गः । यद्येवम्, एकेनैवावयवशब्देन तादृशस्य समुदायस्याभिधातुं शक्यात्वान्न यावदवयवशब्दप्रयोगप्रसङ्गः । अथ मतम्-अन्योऽन्यसन्निधावेव समुदायरूपार्थाभिधानशक्तिः प्रादुर्भवति, कथं तर्हि एकषेषारम्भे एकस्य सा भवति, न हि सतोऽसती शक्तिरेकशेषवचनेन कर्तुं शक्यते ? उच्यते; विरूपेष्वन्योऽन्यसन्निधाने समुदायार्थाभिधानशक्तिः प्रादुर्भवति । पटुअगुप्तावित्यत्रापि ह्युद्भूतावयवभेदं समुदायं प्रतिपादयितुमवयवशब्द एव प्रत्येकं द्विवचनान्तः प्रवर्तते, अन्यथा द्विवचनबहुवचनायोगात्स्वार्थमात्रपर्यवसायिभिरवयवशब्दैः क्रमेणैवोच्चरणादर्थोऽपि प्रतीयते । क्रमेण चानेकार्थप्रतीतौ द्विवचनबहुवचने न भवतः । समुच्चयश्च भवति, तद्यथा वाक्य- - पटुअश्च गुप्तश्चेति । अतो विरूपेष्वेवं दर्शनात्सरूपेष्वपि द्वन्द्वाशङ्कायां सरूपेष्वेकस्यैवानेकार्थप्रतिपादनशक्तिरस्तीति वचनेन व्युत्पाद्यते । अन्ये तु तृतीयमपि पक्षं ग्रन्थारूढ्ंअ वर्णयन्ति । सरूपाणां शब्दानामेकविभक्तौ परत एकशेषो भवति; एकविभक्तौ परतः सरूपाणामित्यन्वः, न त्वेकशेष इति । एकस्मिन्कारके विवक्षिते, एकविभक्तौ वा परतो ये सरूपा दृष्टाः शब्दास्तेषामित्यर्थः । तत्र च शिष्यमाण एव निवर्तमानस्याप्यर्थमाचष्टे । अग्निचिदिति प्रत्ययनिवृतौ प्रकृतिवदिति द्विवचनबहुवचने यथायोगं भवतः । तत्र यदुक्तम्-हरितहरिणयर्ङ्यन्तयोर्न स्यादिति, तन्न; प्रातिपदिकग्रहणं नानुवर्तते, तेन ङ्यन्तयोहेव सारूप्याद् भविष्यति । यदप्युक्तम्-मातृशब्दयोः प्रसङ्ग इति, अर्थविप्रतिषेधान्न भविष्यति । कृते ह्यएकशेषे ताभिरित्यनुप्रयोगे पुनर्थो न गम्यते, तैरित्युक्ते स्त्र्यर्थः । वक्ष्यमाणस्य वा एवकारस्येहानुकर्षणादेकविभक्तौ यानि सरूपाण्येवेत्याश्रयणात्परिच्छेतृवाचिनश्च ऽअप्तृन्तृच्ऽ इति सर्वनामस्थाने दीर्घविधानादसारूप्यादेकशेषाभावः । अत्र पक्षे एकग्रहणं चिन्त्यप्रयोजनम् । तदेवं पञ्चसु पक्षेषु त्रयः स्वीकृताः । वृक्षश्च वृक्षश्चेति । ऽअनैमितिक एकशेषः ऽ इति पक्षे विभक्तौ सारूप्यं दर्शयितुं विभक्त्यन्तेन विग्रहः । कथं पुनर्विग्रहः, यावता एकशेषवृत्तिर्नित्या ? नैतद्वृत्या समानार्थवाक्यम्, प्रत्येकमत्र विवक्षा । आतश्च प्रत्येकम्; यतोऽत्र भेदनिबन्धेन समुच्चयश्चशब्देन द्योत्यते, भिन्नार्थमपि किञ्चिन्मात्रासाधर्म्याद्वाक्यं भवत्येव । समानार्थन्तु बाध्यत एव, यथा-वृक्षौ च वृक्षौ वृक्षाश्च वृक्षाश्च वृक्षा इति । ननु यद्येतावदेकार्थाभिनिवेशिनः शब्दाः - आकाशद्रव्यत्वगोत्वादयः, न तेषु द्विवचनबहुवचनेनाप्येकशेषः; ये त्वनेकार्थाभिनिवेशिनः - गौः शुक्लः, पाचक इत्यादयः, तेष्वनुस्यूतं किञ्चिदर्थगतमेकं गोत्वादिनिमितं वक्तव्यम्; अन्यथा सम्बन्धग्रहणासम्भवादत्र गवादिषु तद्गुणता जातिर्निमितं न, यथा शुक्लादिष्वपि गुणमात्रनिष्ठषु । गुणनिष्ठेषु तु स्वगतया जात्या एकीभूतो गुणः । एवं पाचकादिष्वपि गोत्वाश्वत्वे सामान्ये, निः साम्यानि सामान्यानीत्यत्र भिन्नेष्वभिन्नप्रत्ययहेतुत्वं तावेतावित्यादौ परोक्षत्वप्रत्यक्षत्वादिकम् । अभावाश्चत्वार इत्यत्र निरूपाख्यत्वमित्यादि सर्वत्र द्रष्टव्यम् । निमिततद्वतोश्च तादात्म्यम्, सर्वं हि वस्तु एकं नाना च गवादिरूपेणैकं खण्डादि प्रातिपदिकरूपेण नाना । एवं स्थिते यदि तावज्जातिरेव शब्दार्थस्तदा तस्या एकत्वान्नानेकशब्दप्रसङ्गः । अथाप्युभयम्, एवमपि जातिरूपेणैव शब्दो द्रव्यमभिधते न प्रातिस्विकेनाकारेणेति नास्त्यनेकशब्दप्रसङ्गः । केवलद्रव्यपदार्थपक्षेऽपि अस्मिन्विषयेऽनेकार्थाभिधानसामर्थ्यं शब्दस्य द्व्यादिपदवदभ्युपगन्तव्यम्, अन्यथा सत्यप्येकशेषे तन्न स्यादिति सिद्धमेकशब्दत्वम् । द्रव्यगतसङ्ख्याप्रतिपादनाय द्विवचनबहुवचने भविष्यत; नार्थ एतेनेत्याशङ्क्याह - प्रत्यर्थमित्यादि । एकैकस्मिन्नर्थे यस्माच्छब्दानां निवेशस्ततोऽनेकेन शब्देनानेकस्याभिधानं सिद्ध्यति । तत्रैवं स्थितेऽनेकार्थाभिधाने कर्तव्ये यावन्तस्तेऽर्थास्तावतां शब्दानां प्रयोगः प्राप्नोति, इष्यते चैकशब्दत्वम्, तस्मादेकशेष आरभ्यते । अयमभिप्रायः - केवलं जातिपक्षे अक्षाः पादाः माषा इत्यादौ अनेकशब्दत्वं स्याद्, न हि बिभीतकदेवनशकटाक्षेष्वनुस्यूतं किञ्चित्सामान्यमस्ति । अत एव तत्र व्युत्पत्तिर्भेदेनापेक्ष्यते, एवमुभयपक्षेऽपि । केवलद्रव्यपक्षेऽपि वृक्षश्चेति वाक्येऽनेकशब्ददर्शनाद्विरूपेषु द्वन्द्वदर्शनाच्चारम्भणीयमेतदिति । रूपग्रहणं किमिति । अन्तरङ्गत्वादहेयत्वादुपदेशानपेक्षत्वाच्च रूपकृतमेव समानत्वं ग्रहीष्यते इति प्रश्नः । प्रतिपतिलाघवं च समानानामित्युच्यमाने भवति रूढिशब्दत्वेन रूढिरिति तुल्यार्थावगमात् । रूपग्रहणे तु वर्तिपदार्थमवगम्यान्यपदार्थोऽवगन्तव्य इति गौरवं भवति । भिन्नेऽप्यर्थे इति । ऽस्वं रूपम्ऽ इत्यत्र रूपग्रहणेन ज्ञापितं शास्त्रे रूपवदर्थोऽपि तन्त्रमिति । ततश्चार्थरूपाभ्यां समानत्वं गृह्यएतेति भावः । एकग्रहणं किमिति । शेष इत्येकत्वं विवक्ष्यत इति प्रश्नः । द्विबह्वोरिति ।द्वित्वबहुत्वविषयस्यानेकस्य शब्दस्येत्यर्थः । ननु द्वयोर्बहूनां चेति बहुवचनप्रसङ्गाद् इह शेषविधानद्वारेण संस्क्रियमाणत्वाच्छिष्यमाणं प्रधानम्, प्रधाने च सङ्ख्या न विवक्ष्यते, यथा-ग्रहं संमार्ष्टीति, विषम उपन्यासः; संमार्गे विधौ द्वितीयानिर्देशात् ग्रहाः प्रधानभूताः, संमार्गस्तु तेषां संस्कारः । संस्कारो नाम तस्य भवति यच्छास्त्रान्तरे प्रयोजनवत्यां क्रियायां साधनत्वेन विनियुक्तम्, संस्कृतस्य वा यस्य विनियोगः, द्रव्यमात्रस्य रूपसंस्कारोऽनर्थकः स्यात् । यदिह संमार्गसंकारो विधीयमानः शास्त्रान्तरे विनियुक्तं ग्रहमपेक्षते ततर्नवसङ्क्या ग्रहा श्रुता इति तदपेक्षः संमार्गविधिर्नवानामपि भवितुमर्हति । ग्रहमित्येकवचनं तु कर्मत्वमात्रमभिधायकतार्थं भविष्यति । इह तु शेषस्य वाक्यान्तरेऽनवधारणादिदमेवोत्पतिवाक्यामिति विवक्षणीया सङ्ख्या, पशुमालभेतेतिवत्, सत्यम्; इदमेवैकग्रहणं ज्ञापकम्-शास्त्रान्तरानवगतेऽपि प्रधाने सङ्ख्या न विवक्ष्यत इति, तेन कर्तुरीप्सिततममित्यत्र ईप्सिततमस्य सङ्ख्याया अविवक्षा सिद्धा भवति । शेषग्रहणं किमिति । साध्वनुशासनप्रक्रमात्सरूपाणामेकः साधुर्भवतीति विज्ञास्यत इति भावः । आदेशो मा भूदिति । असति हि शेषग्रहणे ऽषष्ठी स्थाने योगाऽ इति वचनात् स्थानषष्ठी स्यात्, ततश्चादेशः स्याद्, अस्तु; शब्दतोऽर्थतश्चान्तरतमो भविष्यति ? नैवं शक्यम्, स्वरे हि दोषः स्याद् द्वयोरश्वशब्दयोः समुदायः स्थानी, तत्र च द्वावुदाताविति द्व्युदात आदेशः स्यादेतेन द्व्यनुदातत्वं व्याख्यातम् । एकविभक्ताविति किमिति । नानाविभक्तौ वैरूप्यमवश्यंभावीति भावः । पयः पय इति । एकविभक्तावित्यस्मिन्नसति सरूपाणां सर्वत्र सह प्रयोगो न स्याद् । अथ क्रियमाणेऽप्यस्मिन्ननैमितिकपक्षे कस्मादेवात्र न भवति, एतदपि ह्यएकस्यां विभक्तौ परतः सरूपं दृष्टमेव ? नैष दोषः; एकग्रहणमस्मिन्पक्षे अतिरिच्यत इत्युक्तम्, तत्सामर्थादेकस्यामेव विभक्तौ विषयभूतायां भविष्यति । अत्र तु सत्येकशेषे पर्यायेण विभक्तिः स्यात् । अथ वा-किं न एतेन पक्षेण क्लेशतो व्याख्येयेन ? स्तां द्वावेव पक्षौ ? इह एकश्चेति सङ्ख्याश्बदानामेकशेषो न भवति, अनिभिधानाद् । विंशत्यादीनां तु भवत्येव ॥
Nyaas¶
सरूपाणाम् इति बहुव्रीहौ कृते ज्योतिर्जनपद (6.3.84) इत्यादिना समानस्यसभावः। रूपशब्दोऽत्र स्वभावे वर्तते। सरूपाणां शब्दानाम् इति निर्धारणे षष्ठी। तेन स्वरूपाणां मध्ये समानजातीयो यः सरूपः, स एक एव शिष्यते, न विरूपः। समानजातीयस्यैव हि निर्धारणं भवति, न विजातीयस्य। अथ वा - समुदायलक्षणैषा षष्ठी, सरूपसमुदायान्तः पाती च सरूप एव भवति, न विरूपः। तेन सरूप एव शिष्यते। एक विभक्तौ इति। एकशब्दः समानार्थः, एकधनाविति यथा। एका चासौ विभक्तिश्चेति पूर्वकालैक (2.1.48) इत्यादिना समासः। एकमेकशेष इत्यत्रापि। अत्र त्वेकशब्दः संख्यावचनः, शेषशब्दोऽयं निवृत्त्या विशिष्टवस्थानमाह, नावस्थानमात्रम्। अत एवाह - एकः शिष्यते, अपरे निवर्तन्ते इति। वृक्षश्च वृक्षश्च वृक्षौ इत्यादि। अविभक्तिकानामयमेकशेषः; अनैमित्तकत्वाद्विभक्तेः। न ह्रयं परां विभक्तिमाश्रित्य विधीयते। एकविभक्तावितीहसारूप्योपलक्षणमेतत्, न निमित्तनिर्देशः। एकस्यां विभक्तौ परतो यानि रूपाणि दृष्टानि, तेषामनुत्पन्नायामेव विभक्तौ प्रातिपदिकानामेकशेषो भवति। ततः कृत एकशेषे विभक्तिरुपपद्यते। अथ वा - सविभक्तिकानामेवैकशेषः, कथम्? विभक्तिशब्देन हि कारकमभिधीयते, विभज्यते प्रातिपदिकार्थोऽनयेति कृत्वा। तदेतदुक्तं भवति - एकस्मिन् समानेऽभिन्ने कारके यानि सरूपाणि तेषामेवैककारकाणामेकशषो भवतीति। यद्येवम्, परतः इति वृत्तिग्रन्थो नोपपद्यते, कारकं ह्रर्थसमवायिनी शक्तिः, न च तया शब्दानां पौर्वापर्यं सम्भवति, कथञ्च विभक्तिशब्देन कारकेऽभिधीयमाने सविभक्तिकानामेकशेषो लभ्यते? उच्यते; वृत्तिग्रन्थस्तावदुपपद्यते - परशब्दो ह्रयमिष्टवाची, एकविभक्तौ परतः = एकस्यां विभक्ताविष्टायामित्यर्थः। विषयसप्तमी चेयम्, सति सप्तमी वा। एकस्मिन् कारके विषयभूत इष्टे सति सप्तमी वा। एकस्मिन् कारके विषयभूत इष्टे सति चेत्यर्थः। किञ्चेष्टं कारकं भवति? यद्विवक्षितम्। अत ए विवक्षितत्वात् कारकं स्वनिमित्तां विभक्तिकानामेकशेषो लभ्यते।सहभावविवक्षायाञ्चायमेकशेषो भवति। यद्येकेन युगपत् सर्वेषामर्थोऽभिधातुमिष्यत एवं सति भवति; नान्यथा। ननु च जातिः पदार्थः, जातिश्चैकैव; तत्रैकत्वाज्जातेर्बहूनां शब्दानां प्रसङ्ग एव नास्ति,तत्किमेकशेषारम्भेण? इति चोद्यावसरे द्रव्यं पदार्थः इत्येतद्दर्शनमाश्रित्याह - प्रत्यर्थम् इत्यादि। प्रत्यर्थम् = एकैकस्मिन्नर्थे यस्माच्छब्दानां निवेशप्रवृत्तिस्ततोऽकेन शब्देनानेकार्थ्सयाभिधानम्। तत्रैतद्दर्शनेऽकेषामर्थाभिधाने प्रत्येकेनैव कर्तव्येऽनेकशब्दत्वं प्रसज्यत इति यावन्तस्तेऽर्थास्तावतां शब्दानां प्रयोगः प्राप्नोति, इष्यते चैकशब्दता। तस्मादेकशेष आरभ्यते।रूपग्रहणं किम् इति। एवं मन्यते - रूपग्रहणे क्रियमाणे पदद्वयसमनुगम्योऽर्थेः प्रतिपत्तव्य इति प्रतिपत्तिगौरवं भवति। समानानामित्युच्यमाने सत्येकपदसमनुहम्योऽर्थः प्रतीयत इति प्रतिपत्तिलाघवं भवति; तस्मात् समानग्रहणमेव कर्तव्यमिति? भिन्नेऽप्यर्थे यथा स्यादिति रूपग्रहणम्। यदि रूपग्रहणं न क्रियेत तदा विशेषानभिधानाद्यत्र सर्व समानं शब्दोऽर्थश्च तत्रैव स्याद्वृक्षा इत्यादौ, अक्षा इत्यादौ तु न स्यात्; अर्थभेदात्। तथा ह्रक्षशब्द इन्द्रियाख्ये, शकटाङ्गे, बिभीतकादावर्थे च वर्ततेष पादशब्दोऽपि कार्षापण - श्लोकपाद - पाणिपदादावर्थे वर्तते, माषशब्दोऽपि व्रीह्रादौ। द्विबह्वोः शेषे मा भूत् इति। ननु च शेष इत्येकत्वसंख्याविवक्षायां द्वयोर्बहूनाञ्च शेषो न भविष्यति,नैतदेवम्; इह विधीयमानत्वाच्छेष एव प्रधानम्, न च प्रधाने संख्या विवक्ष्यते। तथा हि - कर्त्तुरीप्सिततमं कर्म (1.4.49) इतिकर्मसंज्ञा; ईप्सिततमस्य प्राधान्यात्। असत्यां संख्याविवक्षायां द्वयोर्बहूनाञ्च कर्मसंज्ञा भवति। गुणे तु संख्या विवक्ष्यते, यथा - ङयाप्प्रातिपदिकात् (4.1.1) इति स्वादयो विधीयमानत्वात् प्रधानम्; ङयाप्प्रातिपदिकमप्रधानमिति तत्र संख्या विवक्ष्यते। तेनैकैक्मादेव स्वादय उपपद्यन्ते। लक्षणानुरोधाद्गुणेऽपि क्वचित् संख्या न विवक्ष्यते, यथा इहैव - सरूपाणामिति। तेन द्वयोरपि सरूपयोरेकः शिष्यते।आदेशो मा भूत् इति। असति शेषग्रहणे सरूपाणामिति स्थानषष्ठीयं स्यात्; ततशचादेशः स्यात्। एवञ्च अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन् (द।उ।8।125) इति क्वन्प्रत्ययान्तोऽआशब्दो नित्स्वरादाद्युदात्त इति द्वयोरआशब्दयोराद्युदत्तयोः स्थान आद्युदात्तद्वयवानेवादेशः स्यात्; आन्तरतम्यात्।पयः इत्यादि। एकः पयः शब्दः प्रथमान्तः कर्तृपदम्, द्वितीयो द्वितीयान्तः कर्मपदम्, ततो भिन्नविभक्तिकत्वम्;नैकविभक्तिपरत्वमित्येकशेषो न भवति।` ब्राआहृणाभ्याम्` इति। प्रथमो ब्राआहृणशब्दस्तृतीयान्तः,द्वितीयस्तु चतुथ्र्यन्तः। तेनात्रापि समानविभक्तिकत्वं नास्ति॥
Praudhamanorama¶
एकविभक्तौ यानीति। विभक्तिः सारूप्ये उपलक्षणं न त्वेकशेषे निमित्तम्। एवं चानैमित्तिकत्वेनान्तरङ्गोऽमेकशेषः सुबुत्पत्तेः प्रागेव प्रवर्तते। यद्येतन्नारभ्येत तर्हि प्रत्येकं विभक्तिः स्यात्, द्वन्द्वश्च प्रवर्तेत। आरब्धे त्वेकशेषेऽनेकसुबन्तविरहाद् द्वन्द्वस्याप्राप्तिरेव फलिता भवतीति भावः। सरूपाण्येवेति। एतच्चोत्तरसूत्रस्थैवकारस्येहानुकर्षणाल्लभ्यते। तेन मातृशब्दयोर्जननीवाचिपरिच्छेत्तृवाचिनोर्नैकशेषः। मातृभ्यामित्यादौ सारूप्येऽपि औजसादिषु वैरूप्यात्। एक एवेति। एतच्च सहविवक्षायामेव प्रवर्तते। इतरेतरयोगद्वन्द्वस्य विषये इति यावत्। यत्र ह्यनेकस्यार्थस्य मिलितस्येतरान्वयः स तथाभूतोऽस्य विषयः। इदं च ‘इदितो नुम् धातोः’ इति लिङ्गाल्लभ्यते, न्यायाच्च। तथा हि— यः शिष्यते स लुप्यमानार्थाभिधायीति स्थिते श्रूयमाणैकशब्दोपस्थितं सर्वमविशेषादैकरूप्येणैवान्वेतुमर्हति। यद्वा, पूर्वसूत्राद् ‘द्वन्द्वे’ इत्यनुवर्त्य द्वन्द्वे प्रसक्ते सतीति व्यख्येयम्। स्यादेतत्। द्वन्द्वे कृते सतीत्यर्थोऽस्तु। मैवम्, ‘पन्थानौ’ ‘पन्थानः’ इत्यादौ समासान्तापत्तेः। ‘करौ’ ‘कराः’ इत्यादौ एकवद्भावापत्तेः। ‘सर्वे’ ‘सर्वेषाम्’इत्यादौ ‘द्वन्द्वे च’ ‘विभाषा जसि’इत्यनयोरापत्तेश्चेति दिक्। यत्तु प्राचा ‘राम-राम-औ’ इति स्थिते इत्युक्तम्, एकविभक्तौ परत इति च। तत्रेत्थमुक्तिसम्भवः—राम राम इत्यत्र अवयवयोरिव समुदायस्यापि प्रातिपदिकसंज्ञाऽस्ति मिलितेनार्थवत्त्वात्। न चार्थवत्त्वेऽपि समासग्रहणस्य नियमार्थत्वान्नैवमिति वाच्यम्। यत्र समुदाये पूर्वो भागः पदं तद्विषयको नियम इत्युक्तत्वात्, बहुपटव इत्याद्यनुरोधेन नियमस्य सजातीयविषयताया औचित्याच्च। तथा चैकाज्द्विर्वचनन्यायेन समुदायप्रातिपदिकादेव द्विवचनाद्युत्पत्तिः। तावताप्यवयवार्थानां संख्यान्वयेनानुग्रहसंभवात्। नन्वेवं रामकृष्णावित्यादिष्वपि द्वन्द्वं विनैव समुदायाद्विभक्तिः स्यादिति चेत्? मैवम्। द्वन्द्वविधावनेकसुबन्तमित्यस्यानुवृत्या एकाज्द्विर्वचनन्यायस्य बाधादिति दिक्। इत्थमुक्तिसंभवे सत्यपि समुदायादेकविभक्तौ परत इति पक्षः किमर्थमुपेक्षित इति चेत्? शृणु, अस्मिन्पक्षे मातृमातरौ इत्यादावप्येकशेषः स्यात्। नन्वेकविभक्तावित्यावर्त्य एवकारं चानुकृष्य एकविभक्तौ यानि सरूपाण्यवति व्याख्येयमिति चेन्न। आवृत्तौ मानाभावात्। विभक्तेरेकशेषस्य विशेषणत्वे फलाभावाच्च। न च पयः पयो जरयतीत्यादिव्यावृत्तिः फलम्, सहविवक्षायामित्यस्यावश्यकत्वात्, अन्यथा पयः पयो नयतीत्यत्र गौणमुख्यकर्मणोरेकशेषापत्तेः। देवदेव इत्यादावतिप्रसङ्गाच्च। प्रत्युत आवृत्त्या उभयविशेषणत्वे भिक्षाणां समूहो भैक्षमिति न सिध्येत्। तथा हि, भिक्षा भिक्षा भिक्षा आम् अ इति स्थिते ‘अन्तरङ्गानपि विधीन् बहिरङ्गः’ इति लुकि कृते विभक्तिपरत्वाभावादेकशेषो न स्यात्। लुप्ते प्रत्ययलक्षणाभावात्। किं च रामावित्यादौ परत्वान्नित्यत्वाच्च ‘वृद्धिरेचि’ इत्येकदेशे कृते विभक्तिपरत्वाभावादेकशेषो न स्यात्। उभयत आश्रयणेऽन्तादिवद्भावाभावादिति दिक्। यत्तु प्राचा व्याख्यात्रा पक्षान्तरमुपन्यस्तं— सविभक्तिकानामेकशेष इति। तन्न। निवर्तमानानां विभक्त्या सहैव निवृत्तावपि शिष्यमाणे एकवचनश्रवणप्रसङ्गात्। अथोच्येत युगपदधिकरणवचनतायां द्विवचनबहुवचनान्तानामेकशेषः। द्वन्द्वोऽप्येवम्। तथा हि, अजहत्स्वार्थायां वृत्तौ एकैकमनेकार्थाभिधायि परस्परसमभिव्याहारात्। तथा च अलौकिके द्वन्द्वैकशेषयोः प्रक्रियावाक्ये द्विवचनबहुवचनयोरेव प्रवेशाद् विभक्त्यन्तानामेकशेष इति पक्षो निर्बाध एवेति। तदपि न, जहत्स्वार्थायां वृत्तौ तदयोगात्। पक्षान्तरेऽपि प्रथमप्रवृत्तस्यैकवचनस्य त्यागायोगात्। अन्यथा षष्ठीतत्पुरुषाद्युकच्छेदापत्तेः। तत्रापि पूर्वपदस्य उत्तरपदार्थे उपसंक्रमेण षष्ठ्याद्ययोगात्। तथा च भाष्यम् ‘सेयं युगपदधिकरणवचनता दुःखा च दुरुपपदा च’ इति। यदपि व्याचख्युः—व्यक्तिपक्षे यावद्व्यक्ति तत्तच्छब्दप्रयोगे प्राप्ते एकस्यैव प्रयोगो यथा स्यादिति सूत्रम्। आकृतिपक्षे तु एकेनैवाकृत्यविनाभूतानेकव्यक्तिलाभादनर्थकमिति। तन्न, व्यक्तिपक्षेऽपि ‘न ब्राह्मणं हन्यात्’ इत्यत्र ब्राह्मणशब्देनैवैकेनापि अनेकस्य तन्त्रेण सुवचत्वात्। अन्यथा जातिपक्षेऽपि ‘वासेन सम्यक्क्षमयोश्च तस्मिन्’ इत्यादिनानार्थानुरोधेन सूत्रं विनाऽनिर्वाहात्। तस्माज्जातिव्यक्तिपक्षयोरुभयोरपि तन्त्रेण प्रयोगान्निर्वाहेऽपि सर्वत्र तन्त्रेणैव बोधनीयमिति नियामकाभावात्पाक्षिको द्वन्द्वः सूत्रं विना दुर्वारः। घटोऽयं घटोऽयमति नानाशब्दप्रयोगदर्शनात्, तद्वत् घटघटाविति द्वन्द्वस्य न्यायप्राप्तत्वात्। न चैवमपि घटकलशाविति द्वन्द्वापत्तिः। ‘विरूपाणामपि समानार्थानाम्’ इति वार्तिकात्। रूप्यते बोध्यते इति व्युत्पत्या रूपशब्दस्य अर्थपरत्वमाश्रित्य वार्तिकार्थस्यापि सूत्रेणैव क्रोडीकाराच्च। तस्माद् घटघटौ घटकलशावित्यादिपाक्षिकानिष्टवारणाय पक्षद्वयेऽपि सूत्रमावश्यकमित्यवधेयम्। एवं स्थिते सूत्रवैयर्थ्यमेव हृदि निधाय यदिह व्याचख्युः— नानेनैकशेषो विधीयते इत्यादि। यच्च समुदायादेकस्यां विभक्ताविति पक्षं प्रत्याख्याय पुनराहुः—राम राम औ इति स्थिते इति। अलौकिकमेतत्प्रक्रियावाक्यमूह्यते न तु लौकिकम्। अलौकिके च विभक्त्येकादेशादिकार्यं न प्रवर्तते। प्रयुक्तानामेवान्वाख्यानादित्यादि। तत्सर्वं सन्दर्भविरुद्धं न्यायविरुद्धं च। प्रयुक्तानेव ह्यन्वाख्यातुमलौकिकमुत्प्रेक्ष्यते। शास्त्रीयकार्यं च सर्वमलौकिकेष्वेव प्रवर्तते न तु परिनिष्ठिते। ‘प्रथमयोः पूर्वसवर्णः’ इत्यादीनां प्रवृत्तिं विना परिनिष्ठितरूपालाभात्। परिनिष्ठिते तत्प्रवृत्तेर्दुरुपपादत्वाच्चेत्यास्तां तावत्।
Prakriyasarvasvam¶
सरूपाणां शब्दानामेकविभक्तौ परतः एक एव शिष्यते । रामौ ॥
Sarala¶
वृद्धो यूना तल्लक्षणश्चेदेव विशेषः (१.२.६५) - इत्यत एवेत्यपकृष्यतेऽत आह - सरूपाण्येवेति । तेन जननीपरिच्छेतृवाचिनोर्मातृशब्दयोर्नैकशेषः, तयोर्भ्यामादिषु सारूप्येऽप्यौजसादौ वैरूप्यात् ॥
Vartika¶
विरूपाणामपि समानार्थकानामेकशेषो वक्तव्यः ।