12063: तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम्¶
Padacheda: तिष्य-पुनर्वस्वोः | S | 6 | 2 |
नक्षत्र-द्वन्द्वे | S | 7 | 1 |
बहुवचनस्य | S | 6 | 1 |
द्विवचनम् | S | 1 | 1 |
नित्यम् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
In the द्वन्द compounds of the stars तिष्व and पुनर्वसू , the dual constantly comes in place of the plural.
Vasu English Translation¶
In the द्वन्द compounds of the stars तिष्व and पुनर्वसू , the dual constantly comes in place of the plural. When there is a collective compounding of the words Tishya and Punarvasu (meaning two groups of stars), the final compound is always in the dual. Thus उदितौ तिष्यपुनर्वसूदृश्येते ‘the Tishya and Punarvasu having risen are seen (dual).’
There is one star called Tishya; and there are two stars called Punarvasu. As the Dvandva compound of these stars refers to more than two stars, it ought to have been in the plural number. This rule teaches that there should be a dual number, where otherwise there would have been a plural number. Why do we say ‘Tishya’ and ‘Punarvasu’? Observe विशाखानुराधाः ‘the stars Visakha and Anuradha.’ The compound is in plural number.
This rule would not apply if these words do not connote stars but are used in any other sense. As तिष्यपुनर्वसवो माणवकाः, ‘Boys called Tishya and Punarvasus.’
Why is the word ‘star’ repeated in the sutra, when the previous sutras and the context show that stars were being treated of. The repetition is for the sake of including the synonyms of Tishya and Punarvasu. As तिष्यपुनर्वसू; पुष्यपुनर्वसू, सिद्धपुनर्वसू ॥
The rule only applies when these words form a Dvandva compound, and not when they are compounded in any other way. Thus तिष्यपुनर्वसवः is an example of Bahuvrihi compound meaning “persons who confound the Tishya with the Punarvasu.”
The rule only applies to the plural Dvandva. If the Dvandva takes the singular termination, this rule has no application. As तिष्यपुनर्वसू इदमिति.
This sutra indicates by implication (jnapaka) that “every Dvandva compound may optionally take the terminations of the singular” for otherwise the employment of the term बहुवचनस्य in the sutra would be superfluous.
The word ‘always’ has been used in the text to show that the governing power of “option” stops here with this sutra and does not extend to it or any further.
Bhashya¶
तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् तिष्यपुनर्वस्वोरिति किमर्थम्? कृत्तिकारोहिण्यः। नक्षत्र इति किमर्थम्? तिष्यश्च माणवकः, पुनर्वसू च माणवकौ, तिष्यपुनर्वसवः। अथ नक्षत्र इति वर्तमाने पुनर्नक्षत्रग्रहणं किमर्थम्? अयं तिष्यपुनर्वसुशब्दोऽस्त्येव ज्योतिषि वर्तते। अस्ति च कालवाची। तद्यथा- बहवस्तिष्यपुनर्वसवोऽतिक्रान्ताः, कतरेण तिष्येण गत इति। तद्यो ज्योतिषि वर्तते तस्येदं ग्रहणम्। अथ वा नक्षत्र इति वर्तमाने पुनर्नक्षत्रग्रहणस्यैतत्प्रयोजनम्- विदेशस्थमपि तिष्यपुनर्वस्वोः कार्यं (तदपि) नक्षत्रस्यैव यथा स्यात्। तिष्यपुष्ययोर्नक्षत्राऽणि यलोपो वक्तव्यः इति नक्षत्रग्रहणं न कर्तव्यं भवति। अथ वा नक्षत्रे इति वर्त्तमाने पुनर्नक्षत्रग्रहणस्यैतत्प्रयोजनं तिष्यपुनर्वसुपर्यायवाचिनामपि यथा स्यात् तिष्यपुनर्वसू, सिध्यपुनर्वसू। अथ द्वन्द्व इति किमर्थम्? यस्तिष्यस्तौ पुनर्वसू येषां त इमे तिष्यपुनर्वसव उन्मुग्धाः। ॥ सर्वो द्वन्द्वो विभाषैकवदिति परिभाषाधिकरणम् ॥ बहुवचनस्येति किमर्थम्? उदितं तिष्यपुनर्वसु। कथं चात्रैकवचनम्? जातिद्वन्द्व एकवद्भवतीति। अप्राणिनाम् इति प्रतिषेधः प्राप्नोति। एवं तर्हि सिद्धे सति यद्बहुवचनग्रहणं करोति, तज्ज्ञापयत्याचार्यः- सर्वो द्वन्द्वो विभाषयैकवद्भवतीति। किमेतस्य ज्ञापने प्रयोजनम्? बाभ्रवशालङ्कायनम्, बाभ्रवशालङ्कायना इत्येतत्सिद्धं भवति। अथ वा नात्र भवन्तः प्राणिनः, प्राणा एवात्र भवन्तः ॥ तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् ॥ 63 ॥ इति श्रीमद्भगवत्पतञ्जलिविरिचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य द्वितीये पादे द्वितीयमाह्निकम् ॥ 2 ॥
Kashika¶
छन्दसीति निवृत्तम्। तिष्य एकः पुनर्वसू द्वौ, तेषां द्वन्द्वो बह्वर्थः। तत्र बहुवचने प्राप्ते द्विवचनं विधीयते। तिष्यपुनर्वस्वोर्नक्षत्रविषये द्वन्द्वे बहुवचनप्रसङ्गे नित्यं द्विवचनं भवति। उदितौ तिष्यपुनर्वसू दृश्येते। तिष्यपुनर्वस्वोरिति किम्? विशाखानुराधाः। नक्षत्र इति किम्? तिष्यश्च माणवकः पुनर्वसू माणवकौ तिष्यपुनर्वसवो माणवकाः। ननु च प्रकृतमेव नक्षत्रग्रहणं किमर्थं पुनरुच्यते? पर्यायाणामपि यथा स्यात्। तिष्यपुनर्वसू। पुष्यपुनर्वसू। सिद्ध्यपुनर्वसू। द्वन्द्व इति किम्? यस्तिष्यस्तौ पुनर्वसू येषां त इमे तिष्यपुनर्वसवः। उन्मुग्धास्तिष्यादय एव विपर्ययेण दृश्यमाना बहुव्रीहिणोच्यन्ते। तेन नक्षत्रसमास एवायम्। बहुवचनस्येति किम्? एकवचनस्य मा भूत्, तिष्यपुनर्वसु इदमिति। सर्वो द्वन्द्वो विभाषैकवद् भवति इत्यस्यैतदेव ज्ञापकम्। नित्यग्रहणं विकल्पनिवृत्त्यर्थम्॥
Siddhanta Kaumudi¶
बहुत्वं द्वित्ववद्भवति । तिष्यश्च पुनर्वसू च तिष्यपुनर्वसू । तिष्येति किम् । विशाखानूराधाः । नक्षत्रेति किम् । तिष्यपुनर्वसवो माणवकाः ॥
Balamanorama¶
तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् - तिष्यपुनर्वस्वो । विशाखानुराधा इति । विशाखे च अनुराधाश्चेति विग्रहः । तिष्यपुनर्वसव इति । तिष्यश्च पुनर्वसू चेति विग्रहः । तिष्यशब्दात्पुनर्वसुशब्दाच्च ‘नक्षत्रेण युक्तः’ इत्यण् । ‘लुबविशेषे’ इति लुप् । ततो जातार्थे सन्धिवेलाद्यण् ।श्रविष्ठाफल्गुनी॑त्यादिना लुक् ।जात्याख्याया॑मित्यादिचतुःसूत्र्या अत्र सङ्गतिश्चिन्त्या ।
Tattvabodhini¶
तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् - तिष्यपुनर्वस्वोः । विशाखानुराधा इति । विशाखे चानुराधाश्चेति विग्रहः । तिष्यपुनर्वसव इति । तिष्यपुनर्वसुशब्दाभ्यां पूर्ववत्नक्षत्रेण युक्तः कालः॑इत्यण्,लुबविशेषे॑इति च लुप् । ततो जातार्थे सन्धिवेलादिसूत्रेण अण्, तस्य तुश्रविष्ठाफल्गुन्यनुराधे॑त्यादिना लुक् । नक्षत्र इत्यनुवर्तमाने पुनर्नक्षत्रग्रहणं पर्यायाणामपि यथा स्यादित्येतदर्थमित्याकारः । एवं चसिध्यपुनर्वसू॑इत्यपि सिध्यतीति दिक् । बहुवचनस्य किम् ।, इदं तिष्यपुनर्वसु ।चार्थे द्वन्द्व॑इति समाहारद्वन्द्वोयम् ।
Padamanjari¶
तिष्यपुनर्वस्वौः इत्यनेनैव सूत्रेण द्विचनापेक्षया सप्तमीद्विवचनम् । नक्षत्रद्वन्द्वे इति सत्सप्तमीः; नक्षत्रद्वन्द्वे सति तिष्यपुनर्वस्वोरर्थयोर्द्वयोरिवोक्तिर्भवतीति द्वन्द्वापेक्षया षष्ठीद्विवचनं वा । तेषां द्वन्द्व इति । अत्र तच्छब्दाद् द्विवचनं न भवति, वाक्यस्य प्रस्तुतत्वादद्वन्द्वार्थवृत्तित्वाद् । अत्र पारिभाषिकयोर्द्विवचनबहुवचनयोर्ग्रहणे बहुवचनस्य द्विवचनमादेशः स्यात् । तत्र जसादेशे प्रथमाद्विवचने ऽजसि चऽ इति गुणः स्यात्, विशेषणानां च न स्यादिति मत्वाह-बहुवचनस्य प्रसङ्ग इति । बहूनामर्थानामुक्तिप्रसङ्ग इत्यर्थः । द्विवचनं भवति । द्वयोरिवोक्तिर्भवतीत्यर्थः । तिष्यपुनर्वसवो माणवका इति । तिष्यपुनर्वसुशब्दाभ्यां नक्षत्रणो लुपि जातार्थे सन्धिवेलादिसूत्रेणाअण्, तस्य ऽश्रविष्टाफल्गुन्यनुराधाऽ इत्यादिना लुक् । नात्र द्वन्द्वो नक्षत्रे वर्तते, किं तर्हि ? माणवकेषु । तत्रापि न गौणः; योगपरम्परया वृतेः । पर्यायाणामपीति । पुनर्नक्षत्रग्रहणसामर्थ्यादर्थस्यैवायमनपेक्षितोपातशब्दास्यातिदेशो भवति, तेन पर्यायाणामपि ग्रहणं सिद्ध्यति । द्वन्द्व इति किमिति । तिष्यश्च पुनर्वसूचेति वाक्ये समासेऽप्युतरपदार्थप्रधाने बहुत्वं न सम्भवति, तादृशः समासश्च न सुलभः, बहुव्रीहिश्च न सम्भवति व्यधिकरणत्वात्, ऽसंख्यापूर्वो द्विगुःऽ अप्यपूर्वोऽव्ययपूर्वः, अव्ययीभावश्चासम्भाव्य एवेति द्वन्द्व एव भविष्यतीति मन्यते । यस्तिष्य इत्यादि । अवयवेन विग्रहे उद्भूतावयवभेदः समुदायझ समासार्थः । उन्मुग्धाः पुरुषास्तदाह-तिष्यादय एवेति । क्विचितु इमे तिष्यपुनवसवो मगधा इति पठ।ल्ते, तत्रापि वैकृत्यवचनामुहेः कर्तरि क्तः, अविविक्ता इत्यर्थः । ऋतवो मुह्यन्तीति यथा । नक्षत्रसमास एवायमिति । समुदायसमुदायिनोरभेदादिति भावः । सर्वो द्वन्द्व इति । ननु च एकवद्भावप्रकरणे प्राण्यङ्गादीनां समाहार एव द्वन्द्वः, दधि-पयाअदौनामितरेतरयोग एवेति नियम आश्रितः; ततश्च तस्मिन् प्रकरणेऽनुपातानाम् ऽचाथेद्वन्द्वःऽ इत्येव समाहारेतरेतरयोगयोर्द्वन्द्वसिद्धः, किं ज्ञापकोपन्यासेन ? सत्यम्; विपरीतोऽपि नियमः सूत्रे सम्भाव्येत - प्राण्यङ्गादीनामेव समाहार इति । तस्माद्वहुवचनग्रहणेन प्राण्यङ्गादीनां नियम्यत्वं ज्ञाप्यते । वृक्षादिविभाषाप्रयोजनं तत्रैव वक्ष्यामः ॥
Nyaas¶
तिष्यपुनर्वसवो माणवकाः इति। तिष्यपुनर्वसुशब्दाभ्यां नक्षत्रेण युक्तः कालः (4.2.3) इत्यण् भवति। तस्य लुबविशेषे (4.2.4) इति लुप्। ततस्तिष्ये जातो माणवकः पुनर्वस्वोर्जातौ माणवकाविति सन्धिवेलादि (4.3.16) इत्यादिनाऽण्, तस्य श्रविष्ठाफल्गुन्यनुराधा (4.3.34) इत्यादिना लुप्। पर्यायाणामपि यथा स्यात् इति। नक्षत्रग्रहणे सत्यर्थग्रहणादेतद्भवति। शब्दग्रहणे च स्वं रूपं शब्दस्याशब्दसंज्ञा (1.1.68) इत्यषा परिभाषा भवतीत्युक्तमेतत्। तदभावे पर्यायाणामपि भवति। सिद्ध्यपुनर्वसू इति। सिद्ध्यशब्दस्तिष्यपर्यायः। यस्तिष्यस्तौ पुनर्वसू येषाम् इत्यवयवेन विग्रहं दर्शयति। समुदायस्तु समासार्थो वेदितव्यः। अथ तिष्यपुनर्वसव इति? बहुव्रीहिणा विपर्यस्तमतयः पुरुषा एवैवमुच्यन्ते। ततश्च नक्षत्रसमास एवायं न भवति। तत् किमेतन्निवृत्त्यर्थेन द्वन्द्वग्रहणेनेत्येवं यो देशयेत् तं प्रत्याह - तिष्यादय एव इत्यादि। स्वदर्णनापराधादन्यथा तिष्यादीन् दृष्ट्वा प्रतिपत्तृभिस्त ए तिष्यादयो विपर्ययेण दृश्यमाना बहुव्रीहिणैवमुच्यन्ते, न तु पुरुषाः। तस्मान्नक्षत्रसमास एवायम्। तिष्यपुनर्वस्विदम् इति। केन पुनरत्रैकवद्भावः? जातिरप्राणिनाम् (2.4.6) इति चेत्, न; संज्ञाशबद्त्वात्, देवदत्तादिशब्दवत्। नायं जातिशब्दः,अनेकधारा हि जातिर्भवति, न च तिष्यादिस्तथा। किञ्च वक्ष्यति - जातिप्रधानपरत्वे च जातिद्रव्याणामयमेकवद्भावः, न नियतद्रव्यविवक्षायाम् इति; नियतद्रव्यविवक्षा चात्र, तस्मान्न जातिरप्राणिनाम् इत्यनेनैकवद्भाव उपपद्यते। न चान्यदेकवद्भावलक्षणमस्ति। तत्र तिष्यपुनर्वस्वोर्नक्षत्रे द्वन्द्वसमासे बहुत्वाद्बहुवचनेन भवितव्यम्। एवञ्च बहुवचनग्रहणमनर्थकमित्यत आह - सर्वो द्वन्द्वो विभाषा इत्यादि। यदयमेकवचननिवृत्त्यर्थं बहुवचनग्रहणं करोति, ततोऽवसीयते - अस्तीयम्परिभाषा `सर्वो द्वन्द्वो विभाषैकवद्भवतिट (व्या।प।91) इति। तेनेह बहुवचनग्रहणमेकवचननिवृत्त्यर्थं कृतिमित्यभिप्रायः।
Prakriyasarvasvam¶
तिष्य एकं नक्षत्रम् । पुनर्वसू तु द्वौ । तेषां द्वन्द्वे बहुवचनस्य प्राप्तौ नित्यं द्विवचनं स्यात् । उदितौ तिष्यपुनर्वसू । तिष्यपर्यायेऽपीष्टम् । सिध्यपुनर्वसू । पुष्यपुनर्वसू । नक्षत्रयोर्द्वन्द्व इत्युक्तेरिह न । तिष्यपुनर्वसवैस्तज्जातनराः । बहुवचने- त्युक्तेः द्वन्द्वैकत्वेऽपि न । तिष्यपुनर्वसु । विरूपाणामेव द्वन्द्वः । सरूपाणान्तु राम राम+औ-