11074: त्यदादीनि च¶
Padacheda: त्यद्-आदीनि | S | 1 | 3 |
च | S | 0 | 0 |
Sutrartha¶
त्यदादिगणस्य शब्दानाम् ‘वृद्धम्’ इति संज्ञा भवति ।
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति ‘वृद्धम्’ इति संज्ञा । वृद्धिर्यस्याचामादिस्तद् वृद्धम् (1.1.73) इत्यतः एङ् प्राचां देशे (1.1.75) इति त्रिभिः सूत्रैः इयं संज्ञा पाठ्यते । अस्य सूत्रसमूहस्य इदं द्वितीयं सूत्रम् । त्यदादिगणे विद्यमानानाम् शब्दानाम् ‘वृद्ध’ इति संज्ञा भवति । - इति अस्य सूत्रस्य आशयः । ‘त्यदादिगणः’ इति सर्वादीनि सर्वनामानि (1.1.27) इत्यत्र पाठितस्य सर्वादिगणस्य उपगणः अस्ति । त्यदादिगणे आहत्य द्वादश सर्वनामशब्दाः विद्यन्ते — <gana> त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, अस्मद्, भवतुँ, किम् । इति त्यदादिगणः ॥ </gana> एतेषां सर्वेषाम् शब्दानाम् प्रकृतसूत्रेण ‘वृद्ध’संज्ञा भवति ।
त्यदादिगणस्य शब्दानां वृद्धसंज्ञायाः प्रयोजनम्
‘वृद्ध’ संज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्याम् भिन्नाः विधयः पाठ्यन्ते । एते सर्वे विधयः त्यदादिगणस्य शब्दानां विषये अपि इष्यन्ते, अतः एतेषाम् अनेन सूत्रेण वृद्धसंज्ञा क्रियते । कानिचन उदाहरणानि एतानि — 1. वृद्धाच्छः (4.2.114) इति सूत्रेण वृद्धसंज्ञकेभ्यः शब्देभ्यः तद्धितसंज्ञकः ‘छ’प्रत्ययः भवति । प्रक्रियाः एतादृश्यः —
त्यस्य / तस्य / यस्य / एतस्य / अस्य / अमुष्य / कस्य इदम् [तद्धितवृत्तिः]
= त्यद् / तद् / यद् / एतद् / इदम् / अदस् / किम् + छ [**तस्येदम्** (4.3.120) अस्मिन् अर्थे षष्ठीसमर्थात् **वृद्धाच्छः** (4.2.114) इति छ-प्रत्ययः । **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति ङस्-प्रत्ययस्य लोपः ।]
→ त्यद् / तद् / यद् / एतद् / इदम् / अदस् / किम् + ईय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति छकारस्य ईय्-आदेशः । ]
→ त्यदीय / तदीय / यदीय / एतदीय / इदमीय / अदसीय / किमीय
एकस्य इदम्
= एक + छ [**तस्येदम्** (4.3.120) अस्मिन् अर्थे षष्ठीसमर्थात् **वृद्धाच्छः** (4.2.114) इति छ-प्रत्ययः । **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति ङस्-प्रत्ययस्य लोपः ।]
→ एक + ईय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति छकारस्य ईय्-आदेशः । ]
→ एक् + ईय [**यस्येति च** (6.4.148)
→ एकीय
तव / मम इदम् [तद्धितवृत्तिः]
= युष्मद् / अस्मद् + छ [**तस्येदम्** (4.3.120) अस्मिन् अर्थे षष्ठीसमर्थात् **वृद्धाच्छः** (4.2.114) इति छ-प्रत्ययः । **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति ङस्-प्रत्ययस्य लोपः ।]
→ युष्मद् / अस्मद् + ईय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति छकारस्य ईय्-आदेशः । ]
→ त्वद् / मद् + ईय [**प्रत्ययोत्तरपदयोश्च** (7.2.98) इति त्व/म-आदेशः]
→ त्वदीय / मदीय
उदीचां वृद्धादगोत्रात् (4.1.157) इति सूत्रेण ‘युष्मद्’ / ‘अस्मद्’ एतयोः वृद्धसंज्ञकशब्दयोः ‘फिञ्’ इति प्रत्ययः भवति । प्रक्रिया इयम् —
तव / मम अपत्यम्
→ युष्मद् / अस्मद् + फिञ् [**तस्यापत्यम्** (4.1.92) अस्मिन् अर्थे षष्ठीसमर्थात् **उदीचां वृद्धादगोत्रात्** (4.1.157) इति सूत्रेण फिञ्-प्रत्ययः । **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति ङस्-प्रत्ययस्य लोपः ।]
→ युष्मद् + अस्मद् + आयनि [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति फकारस्य आयन्-आदेशः ।]
→ त्वद् / मद् + आयनि [**प्रत्ययोत्तरपदयोश्च** (7.2.98) इति त्व/म-आदेशः]
→ त्वाद् / माद् + आयनि [ञित्-प्रत्यये परे **तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः]
→ त्वादायनि / मादायनि
त्यदादिगणस्य ‘भवत्’ इति वृद्धसंज्ञकशब्दात् भवतष्ठक्छसौ (4.2.115) इत्यनेन छस्-प्रत्ययः भवति । प्रक्रिया इयम् —
भवतः इदम्
→ भवत् + छस् [**तस्येदम्** (4.3.120) अस्मिन् अर्थे षष्ठीसमर्थात् **वृद्धाच्छः** (4.2.114) इति छ-प्रत्यये प्राप्ते; तदपवादत्वेन **भवतष्ठक्छसौ** (4.2.115) इत्यनेन छस्-प्रत्ययः । **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति ङस्-प्रत्ययस्य लोपः ।]
→ भवत् + ईय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति छकारस्य ईय्-आदेशः । ]
→ भवद् + ईय [सित्-प्रत्यये परे प्रकृतेः **सिति च** (1.4.16) इति पदसंज्ञा । पदसंज्ञायां सत्याम् **झलां जशोऽन्ते** (8.2.39) इति तकारस्य जश्त्वे दकारः]
→ भवदीय
Sutrartha (English)¶
The words of the त्यदादिगण are called ‘वृद्ध’.
Vasu English Summary¶
The words त्यद् etc. are called वृद्धम्।
Vasu English Translation¶
The words त्यद् etc. are called वृद्धम्। The त्यद् &c. have been given in the list of sarvanamas. See sutra (1.1.27). These words are also called vriddham. Thus तद् + छ् = तदीयम्, एतदीयम्, मदीयम् इदमीयम्, अदसीयम्, त्वादायनिः, मादायनिः &c.
Bhashya¶
त्यदादीनि च यस्याचामादिग्रहणमनुवर्तते उताहो न। किं चातः? यद्यनुवर्तते, इह च प्रसज्येत त्वत्पुत्रस्य छात्राः त्वात्पुत्रा। इह च न स्यात् त्वदीयो मदीय इति। अथ निवृत्तम्, एङ् प्राचां देशे यस्याचामादिग्रहणं कर्तव्यम्। एवं तर्ह्यनुवर्तते। कथं त्वात्पुत्रा मात्पुत्रा इति ? सम्बन्धमनुवर्तिष्यते। वृद्धिर्यस्याचामादिस्तद् वृद्धम्। त्यादादीनि च वृद्धसञ्ज्ञानि भवन्ति। वृद्धिर्यस्याचामादिस्तद् वृद्धम्। एङ् प्राचां देशे यस्याचामादिग्रहणमनुवर्तते। वृद्धिग्रहणं निवृत्तम्। तद्यथा कश्चित् कान्तारे समुपस्थिते सार्थमुपादत्ते। स यदा निष्कान्तकान्तारो भवति तदा सार्थे जहाति।
Kashika¶
यस्याचामादिग्रहणमुत्तरार्थमनुवर्तते। इह तु न संबध्यते। त्यदादीनि शब्दरूपाणि वृद्धसंज्ञानि भवन्ति। त्यदीयम्। तदीयम् एतदीयम्। इदमीयम्। अदसीयम्। त्वदीयम्। त्वादायनिः। मदीयम्। मादायनिः। भवदीयम्। किमीयम्॥
Siddhanta Kaumudi¶
वृद्धसंज्ञानि स्युः ॥
Laghu Siddhanta Kaumudi¶
वृद्धसंज्ञानि स्युः॥
Balamanorama¶
त्यदादीनि च - त्यदादीनि च । शेष पूरणेन सूत्रं व्याचष्टे — वृद्धसंज्ञानि स्युरिति । आदेरचो वृद्धिसंज्ञकत्वाऽभावादारम्भः ।
Padamanjari¶
उतरार्थमिति । तत्र प्रयोजनवत्वात् यस्याचामादिरेङिति सम्बन्धसम्भवाच्च । इह तु न सम्बध्यत इति । अयोग्यत्वाद् निर्द्धारणस्य सजातीय वषयत्वात् त्यदादीनां चाजात्मकत्वाभावाद् न ह्यस्ति सम्भवः । यस्याचामादयस्त्यदादय इति । न च त्यदादिस्थेऽचि त्यदादिशब्दो वर्तत इति क्लिष्टकल्पनायुक्ता; उतरार्थमप्यनुवृत्तिसम्भवात् । तदुक्तम् - उतरार्थमनुवर्तत इति । त्यादायनिरति । ‘उदीचां वृद्धादगोत्राद्’ इति फञ्, ‘प्रत्ययोतरपदयोश्च’ ॥
Nyaas¶
उत्तरार्थम् इति। उत्तरसूत्रेऽस्य प्रयोजनवत्त्वात् यद्यनुवर्तते,एतद-र्थमपि कस्मान्न भवतीत्याह - इह न सम्बध्यते इति। यदीहापि सम्बध्येत तदायमर्थःस्यात् - त्यदादीनि यस्याचामादिभूतानि तद्वद्धम् इति। ततश्च त्वत्पुत्र इत्यादावेव स्यात्, केवालानां च त्यदादीनां न स्यादित्यभिप्रायः। ननु च त्वत्पुत्रोमत्पुत्र इत्यादावुपसर्जनानि त्यदादीनि, उपसर्जनानां च तेषां त्यदादित्वंनिवर्तितम्, तत् कुतोऽयं प्रसङ्गः? यदि यस्याचामादेरित्येतदिह सम्बध्यते तदा सत्युपसर्जनत्वे वचनात् त्यदादावेव संज्ञा स्यात्, न केवलानामिति मन्यते; कथंपुनरिहानुवर्तमानं शक्यमसम्बन्धुम्? स्वसम्ब्नधानुवृत्तेः। वृद्धिर्यस्याचामादिस्तद् वृद्धम् (1.1.73) इति त्यदादीनि च वृद्धिसंज्ञकानि भवन्ति। वृद्धिर्यस्याचामादिस्तद्वृद्धम् इति तद्वृद्धम्, एङ् प्राचां देशे (1.1.75) यस्याचामादिग्रहणमनुवर्तते। वृद्धिग्रहणं निवृत्तम्। एवं वृद्धिग्रहणं निवृत्तम्। एवं वृद्धिशब्देन सम्बन्धमनुवर्तमानं न शक्यते त्यदादिभिः सम्बन्धुम्। त्वादायनिः, मादायनिः इति। उदीचां वृद्धादगोत्रात् (4.1.157) इति फिञ्, प्रत्ययोत्तरपदयोश्च (7.2.98) इति युष्मदस्मदोस्त्वामादेशौ। चकारोऽनुक्तसमुच्चयार्थः। तेन वा नामधेयस्य (वा।15) इत्यादि वक्तव्यं न भवति॥
Prakriyasarvasvam¶
एतानि च वृद्धसंज्ञानि । तेन तत्पुत्रस्तादायनिः । अत्रापि प्राङ्मतेऽण् तादः । ऐदमः ।<!वा नामधेयस्य वृद्धसंज्ञा वाच्या!> (वा० १-१-७३) नान्दायनिः कृष्णः । द्रौणायनिः । अवृद्धत्वे नान्दिः । द्रौणिः ॥
Sutra Prayogas¶
मदीये (भट्टिकाव्यम्): अस्मदस्त्यदादित्वे त्यदादीनि च इति वृद्धसंज्ञा।