11074: त्यदादीनि च ================== **Padacheda:** त्यद्-आदीनि | S | 1 | 3 | च | S | 0 | 0 | Sutrartha --------- **त्यदादिगणस्य शब्दानाम् 'वृद्धम्' इति संज्ञा भवति ।** व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'वृद्धम्' इति संज्ञा । **वृद्धिर्यस्याचामादिस्तद् वृद्धम्** (1.1.73) इत्यतः **एङ् प्राचां देशे** (1.1.75) इति त्रिभिः सूत्रैः इयं संज्ञा पाठ्यते । अस्य सूत्रसमूहस्य इदं द्वितीयं सूत्रम् । **त्यदादिगणे विद्यमानानाम् शब्दानाम् 'वृद्ध' इति संज्ञा भवति ।** - इति अस्य सूत्रस्य आशयः । 'त्यदादिगणः' इति **सर्वादीनि सर्वनामानि** (1.1.27) इत्यत्र पाठितस्य सर्वादिगणस्य उपगणः अस्ति । त्यदादिगणे आहत्य द्वादश सर्वनामशब्दाः विद्यन्ते — त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, अस्मद्, भवतुँ, किम् । इति त्यदादिगणः ॥ एतेषां सर्वेषाम् शब्दानाम् प्रकृतसूत्रेण 'वृद्ध'संज्ञा भवति । **त्यदादिगणस्य शब्दानां वृद्धसंज्ञायाः प्रयोजनम्** 'वृद्ध' संज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्याम् भिन्नाः विधयः पाठ्यन्ते । एते सर्वे विधयः त्यदादिगणस्य शब्दानां विषये अपि इष्यन्ते, अतः एतेषाम् अनेन सूत्रेण वृद्धसंज्ञा क्रियते । कानिचन उदाहरणानि एतानि — 1. **वृद्धाच्छः** (4.2.114) इति सूत्रेण वृद्धसंज्ञकेभ्यः शब्देभ्यः तद्धितसंज्ञकः 'छ'प्रत्ययः भवति । प्रक्रियाः एतादृश्यः — .. code-block:: text त्यस्य / तस्य / यस्य / एतस्य / अस्य / अमुष्य / कस्य इदम् [तद्धितवृत्तिः] = त्यद् / तद् / यद् / एतद् / इदम् / अदस् / किम् + छ [**तस्येदम्** (4.3.120) अस्मिन् अर्थे षष्ठीसमर्थात् **वृद्धाच्छः** (4.2.114) इति छ-प्रत्ययः । **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति ङस्-प्रत्ययस्य लोपः ।] → त्यद् / तद् / यद् / एतद् / इदम् / अदस् / किम् + ईय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति छकारस्य ईय्-आदेशः । ] → त्यदीय / तदीय / यदीय / एतदीय / इदमीय / अदसीय / किमीय .. code-block:: text एकस्य इदम् = एक + छ [**तस्येदम्** (4.3.120) अस्मिन् अर्थे षष्ठीसमर्थात् **वृद्धाच्छः** (4.2.114) इति छ-प्रत्ययः । **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति ङस्-प्रत्ययस्य लोपः ।] → एक + ईय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति छकारस्य ईय्-आदेशः । ] → एक् + ईय [**यस्येति च** (6.4.148) → एकीय .. code-block:: text तव / मम इदम् [तद्धितवृत्तिः] = युष्मद् / अस्मद् + छ [**तस्येदम्** (4.3.120) अस्मिन् अर्थे षष्ठीसमर्थात् **वृद्धाच्छः** (4.2.114) इति छ-प्रत्ययः । **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति ङस्-प्रत्ययस्य लोपः ।] → युष्मद् / अस्मद् + ईय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति छकारस्य ईय्-आदेशः । ] → त्वद् / मद् + ईय [**प्रत्ययोत्तरपदयोश्च** (7.2.98) इति त्व/म-आदेशः] → त्वदीय / मदीय 2. **उदीचां वृद्धादगोत्रात्** (4.1.157) इति सूत्रेण 'युष्मद्' / 'अस्मद्' एतयोः वृद्धसंज्ञकशब्दयोः 'फिञ्' इति प्रत्ययः भवति । प्रक्रिया इयम् — .. code-block:: text तव / मम अपत्यम् → युष्मद् / अस्मद् + फिञ् [**तस्यापत्यम्** (4.1.92) अस्मिन् अर्थे षष्ठीसमर्थात् **उदीचां वृद्धादगोत्रात्** (4.1.157) इति सूत्रेण फिञ्-प्रत्ययः । **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति ङस्-प्रत्ययस्य लोपः ।] → युष्मद् + अस्मद् + आयनि [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति फकारस्य आयन्-आदेशः ।] → त्वद् / मद् + आयनि [**प्रत्ययोत्तरपदयोश्च** (7.2.98) इति त्व/म-आदेशः] → त्वाद् / माद् + आयनि [ञित्-प्रत्यये परे **तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → त्वादायनि / मादायनि 3. त्यदादिगणस्य 'भवत्' इति वृद्धसंज्ञकशब्दात् **भवतष्ठक्छसौ** (4.2.115) इत्यनेन छस्-प्रत्ययः भवति । प्रक्रिया इयम् — .. code-block:: text भवतः इदम् → भवत् + छस् [**तस्येदम्** (4.3.120) अस्मिन् अर्थे षष्ठीसमर्थात् **वृद्धाच्छः** (4.2.114) इति छ-प्रत्यये प्राप्ते; तदपवादत्वेन **भवतष्ठक्छसौ** (4.2.115) इत्यनेन छस्-प्रत्ययः । **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति ङस्-प्रत्ययस्य लोपः ।] → भवत् + ईय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति छकारस्य ईय्-आदेशः । ] → भवद् + ईय [सित्-प्रत्यये परे प्रकृतेः **सिति च** (1.4.16) इति पदसंज्ञा । पदसंज्ञायां सत्याम् **झलां जशोऽन्ते** (8.2.39) इति तकारस्य जश्त्वे दकारः] → भवदीय Sutrartha (English) ------------------- The words of the त्यदादिगण are called 'वृद्ध'. Vasu English Summary -------------------- The words त्यद् etc. are called वृद्धम्। Vasu English Translation ------------------------ The words त्यद् etc. are called वृद्धम्। The त्यद् &c. have been given in the list of *sarvanamas*. See *sutra* (1.1.27). These words are also called *vriddham*. Thus तद् + छ् = तदीयम्, एतदीयम्, मदीयम् इदमीयम्, अदसीयम्, त्वादायनिः, मादायनिः &c. Bhashya ------- त्यदादीनि च यस्याचामादिग्रहणमनुवर्तते उताहो न। किं चातः? यद्यनुवर्तते, इह च प्रसज्येत त्वत्पुत्रस्य छात्राः त्वात्पुत्रा। इह च न स्यात् त्वदीयो मदीय इति। अथ निवृत्तम्, एङ् प्राचां देशे यस्याचामादिग्रहणं कर्तव्यम्। एवं तर्ह्यनुवर्तते। कथं त्वात्पुत्रा मात्पुत्रा इति ? सम्बन्धमनुवर्तिष्यते। वृद्धिर्यस्याचामादिस्तद् वृद्धम्। त्यादादीनि च वृद्धसञ्ज्ञानि भवन्ति। वृद्धिर्यस्याचामादिस्तद् वृद्धम्। एङ् प्राचां देशे यस्याचामादिग्रहणमनुवर्तते। वृद्धिग्रहणं निवृत्तम्। तद्यथा कश्चित् कान्तारे समुपस्थिते सार्थमुपादत्ते। स यदा निष्कान्तकान्तारो भवति तदा सार्थे जहाति। Kashika ------- यस्याचामादिग्रहणमुत्तरार्थमनुवर्तते। इह तु न संबध्यते। त्यदादीनि शब्दरूपाणि वृद्धसंज्ञानि भवन्ति। त्यदीयम्। तदीयम् एतदीयम्। इदमीयम्। अदसीयम्। त्वदीयम्। त्वादायनिः। मदीयम्। मादायनिः। भवदीयम्। किमीयम्॥ Siddhanta Kaumudi ----------------- वृद्धसंज्ञानि स्युः ॥ Laghu Siddhanta Kaumudi ----------------------- वृद्धसंज्ञानि स्युः॥ Balamanorama ------------ **त्यदादीनि च** - त्यदादीनि च । शेष पूरणेन सूत्रं व्याचष्टे — वृद्धसंज्ञानि स्युरिति । आदेरचो वृद्धिसंज्ञकत्वाऽभावादारम्भः । Padamanjari ----------- उतरार्थमिति । तत्र प्रयोजनवत्वात् यस्याचामादिरेङिति सम्बन्धसम्भवाच्च । इह तु न सम्बध्यत इति । अयोग्यत्वाद् निर्द्धारणस्य सजातीय वषयत्वात् त्यदादीनां चाजात्मकत्वाभावाद् न ह्यस्ति सम्भवः । यस्याचामादयस्त्यदादय इति । न च त्यदादिस्थेऽचि त्यदादिशब्दो वर्तत इति क्लिष्टकल्पनायुक्ता; उतरार्थमप्यनुवृत्तिसम्भवात् । तदुक्तम् - उतरार्थमनुवर्तत इति । त्यादायनिरति । 'उदीचां वृद्धादगोत्राद्' इति फञ्, 'प्रत्ययोतरपदयोश्च' ॥ Nyaas ----- `उत्तरार्थम्` इति। उत्तरसूत्रेऽस्य प्रयोजनवत्त्वात् यद्यनुवर्तते,एतद-र्थमपि कस्मान्न भवतीत्याह - `इह न सम्बध्यते` इति। यदीहापि सम्बध्येत तदायमर्थःस्यात् - `त्यदादीनि यस्याचामादिभूतानि तद्वद्धम्` इति। ततश्च त्वत्पुत्र इत्यादावेव स्यात्, केवालानां च त्यदादीनां न स्यादित्यभिप्रायः। ननु च त्वत्पुत्रोमत्पुत्र इत्यादावुपसर्जनानि त्यदादीनि, उपसर्जनानां च तेषां त्यदादित्वंनिवर्तितम्, तत् कुतोऽयं प्रसङ्गः? यदि यस्याचामादेरित्येतदिह सम्बध्यते तदा सत्युपसर्जनत्वे वचनात् त्यदादावेव संज्ञा स्यात्, न केवलानामिति मन्यते; कथंपुनरिहानुवर्तमानं शक्यमसम्बन्धुम्? स्वसम्ब्नधानुवृत्तेः। **वृद्धिर्यस्याचामादिस्तद् वृद्धम्** (1.1.73) इति त्यदादीनि च वृद्धिसंज्ञकानि भवन्ति। `वृद्धिर्यस्याचामादिस्तद्वृद्धम्` इति तद्वृद्धम्, **एङ् प्राचां देशे** (1.1.75) यस्याचामादिग्रहणमनुवर्तते। वृद्धिग्रहणं निवृत्तम्। एवं वृद्धिग्रहणं निवृत्तम्। एवं वृद्धिशब्देन सम्बन्धमनुवर्तमानं न शक्यते त्यदादिभिः सम्बन्धुम्। `त्वादायनिः, मादायनिः` इति। `उदीचां वृद्धादगोत्रात्` (4.1.157) इति फिञ्, **प्रत्ययोत्तरपदयोश्च** (7.2.98) इति युष्मदस्मदोस्त्वामादेशौ। चकारोऽनुक्तसमुच्चयार्थः। तेन `वा नामधेयस्य` (वा।15) इत्यादि वक्तव्यं न भवति॥ Prakriyasarvasvam ----------------- एतानि च वृद्धसंज्ञानि । तेन तत्पुत्रस्तादायनिः । अत्रापि प्राङ्‌मतेऽण् तादः । ऐदमः । (वा० १-१-७३) नान्दायनिः कृष्णः । द्रौणायनिः । अवृद्धत्वे नान्दिः । द्रौणिः ॥ Sutra Prayogas -------------- * **मदीये** (भट्टिकाव्यम्): `अस्मदस्त्यदादित्वे त्यदादीनि च` इति वृद्धसंज्ञा।