11034: पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्¶
Padacheda: पूर्व-पर-अवर-दक्षिण-उत्तर-अपर-अधराणि | S | 1 | 3 |
व्यवस्थायाम् | S | 7 | 1 |
असंज्ञायाम् | S | 7 | 1 |
Sutrartha¶
‘पूर्व’, ‘पर’, ‘अवर’, ‘दक्षिण’, ‘उत्तर’, ‘अपर’, ‘अधर’ - एते शब्दाः संज्ञाभिन्नरूपेण मर्यादाम् दर्शयितुम् प्रयुज्यन्ते चेत् ‘जस्’ प्रत्यये परे विकल्पेन सर्वनामसंज्ञकाः भवन्ति ।
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति ‘सर्वनाम’ इति संज्ञा । सर्वादीनि सर्वनामानि (1.1.27) इत्यस्मात् सूत्रात् आरभ्य अन्तरं बहिर्योगोपसंव्यानयोः (1.1.36) इति यावत्सु दशसु सूत्रेषु इयं संज्ञा पाठिता अस्ति । एतेषु इदं अष्टमं सूत्रम् । इदं विभाषासूत्रम् अस्ति । ‘पूर्व’, ‘पर’, ‘अवर’, ‘दक्षिण’, ‘उत्तर’, ‘अपर’, ‘अधर’ - एतेषाम् शब्दानाम् पूर्वम् नित्यरूपेण प्राप्ता सर्वनामसंज्ञा जस्-प्रत्यये परे अनेन सूत्रेण विकल्प्यते ।
सर्वादिगणस्य ‘**पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्’ इति गणसूत्रम्**
सर्वादीनि सर्वनामानि (1.1.27) अस्मिन् सूत्रे निर्दिष्टे सर्वादिगणे पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् इति गणसूत्रम् पाठितम् अस्ति । अनेन गणसूत्रेण ‘पूर्व’, ‘पर’, ‘अवर’, ‘दक्षिण’, ‘उत्तर’, ‘अपर’, ‘अधर’ - एतेषाम् शब्दानाम् ‘व्यवस्थायाम् असंज्ञायाम् च’ सर्वनामसंज्ञा भवति । इत्युक्ते, सर्वादयः शब्दाः यदा स्थलमर्यादाम् (above / below / left / right etc), कालमर्यादाम् (earlier / later etc) तथा दिग्मर्यादाम् (absolute directions like east, west etc) दर्शयन्ति, तत्र एतेषां सर्वेषां सर्वनामंज्ञा भवति</b> । अतः ‘काशी पूर्वा’, ‘रघुः पूर्वः’, ‘सूर्यः पूर्वस्मात् उदेति’ एतादृशेषु वाक्येषु ‘पूर्व’शब्दस्य सर्वनामसंज्ञा भवति । अन्येषु अर्थेषु (इत्युक्ते, यत्र व्यवस्था नास्ति तत्र) एतेषां सर्वनामसंज्ञा न भवति । यथा, ‘दक्षिणाः गाथकाः’ अस्मिन् वाक्ये ‘दक्षिण’शब्दः ‘कुशलः’ अस्मिन् अर्थे प्रयुज्यते, अतः अत्र अस्य सर्वनामसंज्ञा अपि न भवति । अपि च, व्यवस्थायां सत्याम् अपि यदि एतैः शब्दैः संज्ञा निर्दिश्यते, तर्हि अपि एतेषाम् सर्वनामसंज्ञा न भवति । यथा, ‘उत्तराः कुरवः’ इत्यस्मिन् प्रयोगे ‘उत्तर’ इति शब्दः कुरूणाम् कश्चन प्रदेशस्य संज्ञारूपेण प्रयुक्तः अस्ति । सुमेरुपर्वतस्य (modern-day Uttarakhand) उत्तरदिशि विद्यमानानाम् कुरूणाम् विषये उपयुज्यमाना इयं संज्ञा ।अत्र प्रयुक्तः ‘उत्तर’ शब्दः संज्ञारूपेण प्रयुज्यते, अतः अयं सर्वनामसंज्ञकः नास्ति । पूर्वादीनां शब्दानां इयं सर्वनामसंज्ञा प्रकृतसूत्रेण न भवति अपितु सर्वादिगणे विद्यमानेन पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् इत्यनेन गणसूत्रेण भवति इति स्मर्तव्यम् ।
जस्-प्रत्यये परे सर्वनामसंज्ञायाः विकल्पः
सर्वादिगणे विद्यमानेन **पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् इत्यनेन गणसूत्रेण पूर्वादीनां शब्दानां (व्यवस्थायाम् असंज्ञायाम्) नित्यं सर्वनामसंज्ञायां प्राप्तायाम् प्रकृतसूत्रेण जस्-प्रत्यये परे अस्याः पाक्षिकः बाधः क्रियते** । अतः जस्-प्रत्यये परे एतेषां पुंल्लिङ्गस्य रूपाणि ‘पूर्वाः, पराः, अवराः, दक्षिणाः, उत्तराः, अपराः, अधराः’ इति रामशब्दसदृशानि अपि भवन्ति । अन्यत्र सर्वत्र तु एतेषां रूपाणि ‘सर्व’शब्दसदृशानि एव ज्ञेयानि ।
प्राप्तविभाषा
प्रकृतसूत्रे निर्दिष्टा विभाषा प्राप्तविभाषा अस्ति । पूर्वसूत्रेण नित्यं प्राप्ता सर्वनामसंज्ञा अत्र पक्षे निषिध्यते, अतः इयं प्राप्तविभाषा ।
व्यवस्थितविभाषा
प्रकृतसूत्रेण जस्-प्रत्यये परे निर्दिष्टः सर्वनामसंज्ञानिषेधः जस्-प्रत्ययविशिष्टकार्यार्थः एव ज्ञेयः, अन्यकार्यार्थः न । अतः अव्ययसर्वनाम्नामकच्प्राक्टेः (5.3.71) इत्यनेन विहितः अकच्-प्रत्ययः पूर्वादिभ्यः शब्देभ्यः अन्तरङ्गत्वात् जस्-प्रत्ययविधानात् पूर्वमेव भवति । अतः अकच्-प्रत्यये कृते ततः जस्-प्रत्ययं कृत्वा ‘पूर्वके / पूर्वकाः’ एतादृशानि अकच्-प्रत्ययनिर्मितानि अन्तोदात्तरूपाणि एव सिद्ध्यन्ति ।
Sutrartha (English)¶
The words ‘पूर्व’, ‘पर’, ‘अवर’, ‘दक्षिण’, ‘उत्तर’, ‘अपर’ and ‘अधर’; when used in the sense of ‘limit’ but not as a proper noun; are optionally called सर्वनाम when followed by the जस् प्रत्यय.
Vasu English Summary¶
The words पूर्व ‘prior’, पर ‘after’, अवर ‘posterior’, दक्षिण ‘south’, उत्तर ‘north’, अपर ‘other’, अधर ‘inferior’, when they discriminate relative position, not when they are appellatives, are optionally सर्वनाम before the affix जस्।
Vasu English Translation¶
The words पूर्व ‘prior’, पर ‘after’, अवर ‘posterior’, दक्षिण ‘south’, उत्तर ‘north’, अपर ‘other’, अधर ‘inferior’, when they discriminate relative position, not when they are appellatives, are optionally सर्वनाम before the affix जस्। These seven words have already been mentioned in the list of sarvanamas. They are always sarvanamas, when they have the meaning given to them in the list, i. e., when they imply a relation in time and space, but when used in any other sense than the one which has been determined or fixed for them, they are not sarvanamas, nor are they so when they are used as appellatives (संज्ञा). Thus, when the word दक्षिण means ‘clever,’ it is not a sarvanama, as, दक्षिणा इमे गायकाः ‘these clever minstrels,’ similarly in उत्तराः कुरवः ‘the northern Kurus,’ the word उत्तर is not a pronominal, for though it declares a direction, it is a proper noun.
When these seven words are sarvanama, they are declined like sarva, except in the nominative plural, when they may be declined either as sarvanamas, or as ordinary nouns. The option allowed in the case of these words is a praptavibhasa.
That there is a ‘specification’ (niyama), or tacit implication, of a determinate point (avadhi), with reference to which something is to be described by the word itself, is what we mean when we say “that a relation in time or place (avastha) is implied.” For example, if we wish to describe Benares as being southern (dakshina), to do this, we may specify some point, say one of the peaks of the Himalaya with reference to which Benares may be described as a “place to the southward.” Again we in the north may thus speak of the people to the south of the Vindhya mountains, as being southern, not with reference to the inhabitants of Ceylon, but with reference (as every one here understands by tacit implication) to us ourselves, who live to the north the Vindhya range. Thus, (पूर्वे or पूर्वाः, अवरे or अवराः, परे or पराः) दक्षिणे or दक्षिणे or दक्षिणाः; उत्तराः; अपरे or अपराः; अधरे or अधराः.
Bhashya¶
पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसञ्ज्ञायाम् ॥ अवरादीनां च पुनः सूत्रपाठे ग्रहणानर्थक्यं गणे पठितत्वात् ॥। अवरादीनां च पुनः सूत्रपाठे ग्रहणमनर्थकम्। किं कारणम्? गणे पठितत्वात्। गणे ह्येतानि पठ्यन्ते। कथं पुनर्ज्ञायते स पूर्वः पाठः। अयं पुनः पाठ इति। तानि हि पूर्वादीनि। इमान्यवरादीनि। इमान्यपि पूर्वादीनि। एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति स पूर्वः पाठः। अयं पुनः पाठ इति। यदयं पूर्वादिभ्यो नवभ्यो वेति नवग्रहणं करोति। नवैव हि पूर्वादीनि। इदं तर्हि प्रयोजनम् - व्यवस्थायामसञ्ज्ञायाम् इति वक्ष्यामीति। एतदपि नास्ति प्रयोजनम्। एवं विशिष्टान्येवैतानि गणे पठ्यन्ते। इदं तर्हि प्रयोजनम्। द्वयादिपर्युदासेन पर्युदासो मा भूदिति। एतदपि नास्ति प्रयोजनम्। आचार्यप्रवृत्तिर्ज्ञापयति - नैषां द्व्यादिपर्युदासेन पर्युदासो भवतीति। यदयं - पूर्वत्रासिद्धमिति निपातनं करोति। वार्तिककारश्च पठति ॥ जश्भावादिति चेदुत्तरत्राभावादपवादप्रसङ्ग इति । इदं तर्हि प्रयोजनम्, जसि विभाषां वक्ष्यामीति ।
Kashika¶
पूर्व पर अवर दक्षिण उत्तर अपर अधर इत्येतेषां गणे पाठात् पूर्वेण नित्यायां सर्वनामसंज्ञायां प्राप्तायां जसि विभाषारभ्यते। पूर्वादीनि विभाषा जसि सर्वनामसंज्ञानि भवन्ति व्यवस्थायामसंज्ञायाम्। स्वाभिधेयापेक्षावधिनियमो व्यवस्था। पूर्वे, पूर्वाः। परे, पराः। अवरे, अवराः। दक्षिणे, दक्षिणाः। उत्तरे, उत्तराः। अपरे, अपराः। अधरे, अधराः। व्यवस्थायामिति किम्? दक्षिणा इमे गाथकाः। प्रवीणा इत्यर्थः। असंज्ञायामिति किम्? उत्तराः कुरवः। सत्यामेव व्यवस्थायामियं तेषां संज्ञा॥
Siddhanta Kaumudi¶
एतेषां व्यवस्थायामसंज्ञायां सर्वनामसंज्ञा गणपाठात्सर्वत्र या प्राप्ता सा जसि वा स्यात् । पूर्वे । पूर्वाः । स्वाऽभिधेयापेक्षावधिनियमो व्यवस्था । व्यवस्थायां किम् । दक्षिणा गाथकाः । कुशला इत्यर्थः । असंज्ञायां किम् । उत्तराः कुरवः ॥
Laghu Siddhanta Kaumudi¶
एतेषां व्यवस्थायामसंज्ञायां च सर्वनामसंज्ञा गणसूत्रात्सर्वत्र या प्राप्ता सा जसि वा स्यात्। पूर्वे, पूर्वाः। असंज्ञायां किम्? उत्तराः कुरवः। स्वाभिधेयापेक्षावधिनियमो व्यवस्था। व्यवस्थायां किम्? दक्षिणा गाथकाः, कुशला इत्यर्थः॥
Balamanorama¶
पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् - अथ सर्वादिगणान्तर्गततिसूत्रीसमानाकारामष्टाध्यायीपठितां पूर्वपरेत्यादित्रिसूत्रीं पुनरुक्तिशङ्कां व्युदस्यन् व्याचष्टे — पूर्वपरा ।सर्वानामानी॑ति॒विभाषा जसी॑ति चानुवर्तते । तदाह — एतेषामिति । पूर्वादिसप्तानामित्यर्थः । गण इति । सर्वादिगण इत्यर्थः । या प्राप्तेति ।सर्वादीनि॑त्यनेन नित्या संज्ञाया प्राप्तेत्यर्थः । अनेन पूर्वपरेति सूत्रं गणपठितं जसोऽन्यत्र नित्यतया सर्वनामसंज्ञार्थम् । अष्टाध्यायीपठितं तु जसि तद्विकल्पार्थमिति न पौनरुक्त्यमिति सूचितम् । स्वाभिधेयेति । अपेक्ष्यत इत्यपेक्षः । कर्मणि घ । स्वस्य=ततश्चनियमेनावधिसापेक्षार्थे वर्तमानानां पूर्वादिशब्दानां जसि सर्वनामसंज्ञाविकल्प इति फलति । व्यवस्थायां किमिति । पूर्वादिशब्दानां नियमेनावधिसापेक्ष एवार्थे विद्यमानत्वादिति प्रश्नः । दक्षिणा गाथका इति । अत्र दक्षिणशब्दो नावध्यपेक्ष इति भावः । दक्षिणपार्ावर्तिनो गाथका इत्यत्र कस्मादित्यवध्यपेक्षा अस्त्येवेत्यत आह — कुशला इत्यर्थ इति । यद्यपि प्रावीण्यमपि कस्मादित्यवध्यपेक्षमेव, तथापिउत्तरे प्रत्युत्तरे च शक्त॑ इत्यादि प्रत्युदाहरणं बोध्यमित्याहुः । असंज्ञायां किमिति ।संज्ञोपसर्जनीभूतास्तु न सर्वादयः॑ इति वक्ष्यमाणतया संज्ञायां सर्वनामत्वस्याऽप्रसक्तेरिति प्रश्नः । उत्तराः कुरव इति । कुरुशब्दो दोशविशेषे नित्यं बहुवचनान्तः । सुमेरमवधीकृत्य तत्रोत्तरशब्दो वर्तत इत्यस्तीह व्यवस्था । किं तु संज्ञाशब्दत्वान्नास्य सर्वनामता । पूर्वादिशब्दानां तु दिक्षु अनादिस्सङ्केत इति न ते संज्ञाशब्दाः । कुरुष तूत्तरशब्दस्याधुनिकस्सङ्केत इति भवत्ययं संज्ञाशब्द इति मन्यते । केचित्त्वसंज्ञायामित्यस्या.ञभावे संज्ञायामेव पूर्वादिशब्दानामप्राप्तविभाषा स्यादित्याहुः ।
Tattvabodhini¶
पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् - पूर्वपरावरेत्यादिना । स्वाभिधेयेति । स्वस्य पूर्वादिशब्दस्याऽभिधेयेनापेक्ष्यमाणस्यावधेर्नियम इत्यर्थः । अपेक्ष्यते इत्यपेक्षः । कर्मणि घञ् । कथं तर्हिदिशः सपत्नी भव दक्षिणस्या॑ इति । अत्राहुः-अस्त्येवात्रापि व्यवस्था, प्रसिद्धत्वान्नावधिवाची शब्दः प्रयुज्यते । न च संज्ञात्वान्निषेधः । आधुनिकसङ्केतो हि संज्ञा, न च दिक्षु साऽस्तीति ।दिक्षु चिरन्तनः, कुरुष त्वाधुनिकः सङ्केत॑ इत्यत्र तु व्यख्यातृवचनमेव प्रमाणम् । एतेनविओषां देवाना॑मिति व्याख्यातम्, वेदे प्रसिद्धत्वाद्देवगणविशेषे विआशब्दस्याधुनिकसङ्केताऽभावात् । दक्षिणा गाथका इति ।गस्थक॑निति शिल्पिनि थकन् । इहामुकस्मात्कुशला इत्यवध्यन्वयसंभवेऽपि तन्नियमो नास्तीति भावः । एवम॒धरे ताम्बूलरागः,उत्तरे प्रत्यत्तरे च शक्तः॑ इत्यपि प्रत्युदाहर्तव्यम् । उत्तराः कुरव इति । सुमेरुमवधिमपेक्ष्य कुरुषु उत्तरशब्दो वर्तते इत्यस्तीह व्यवस्था, किं त्वाधुनिकसङ्केतोऽयमित्याहुः ।
Padamanjari¶
असंज्ञायामिति । संज्ञायामसत्याम्, पूर्वादयश्चेत्संज्ञारूपा न भवन्तीत्यर्थः । व्यवस्था उ नियमः, स चात्रार्थादवध्यपेक्ष इत्याह-स्वामिधेयापेक्ष इत्यादि । पूर्वादीनां शब्दानां स्वाभिधेयो दिग्देशकालस्वभावोऽर्थस्तमपेक्षते, तेन वापेक्ष्यते यः स स्वाभिधेयापेक्षः । अवधिः उ मर्यादा; पूर्वदेशस्य यत्पूर्वत्वं तत्परदेशमपेक्ष्य भवति, परस्यापि यत्परत्वं तत्पूर्वदेशम् । एवं दिक्कालयोरपि द्रष्टव्यम् । तस्मात्पूर्वादिशब्दवाच्योऽर्थोऽवश्यमवधिं कञ्चिदपेक्ष्य भवति । तत्र योऽयमपेक्षाया नियमः सा व्यवस्थेति तावद्विवक्षितम् । तस्यां गम्यमानायां पूर्वादिशब्दानां स्वाभिधेय एव वर्तमानानामियं संज्ञा भवति, न तु वाच्यायाम् । प्रवीणा इत्यर्थ इति । अनेन व्यवस्थाभावमाह । न हि प्रवीणशब्द सापेक्षमर्थमाचष्टे । सत्यामेव व्यवस्थायामित्यनेनान्वर्थतां दर्शयति । सुमेरुमवधिमपेक्ष्य कुरुषूतरशब्दो वर्तते, अत्र जसः कार्यं प्रतीति नोक्तम्; विशेषाभावात् ॥
Nyaas¶
असंज्ञायाम् इति। संज्ञायामसत्याम् पूर्वादयश्चेत् संज्ञारूपा न भवन्ती-त्यर्थः। स्वाभिधेयापेक्ष इत्यादि अवधिर्मर्यादा,तस्य नियमोऽवश्यम्भावः; अवधिभा-वादभ्रंशः।किंविशिष्टोऽवधिनियमः? स्वाभिधेयापेक्षः ह्रर्थानाम्- पूर्वादिशब्दाभिधयानां यत् पूर्वादित्वम्, तन्नियोगतः कञ्चनावधिमपक्ष्य सम्पद्यते, न त्ववधिनिरपेक्षम्; यथा- पूर्वदेशस्य यत् पूर्वत्वम्,तत्परं देशमपेक्ष्य भवति; परस्यापि यत् परत्वम्, तत् पूर्वदेशम्; तस्मात् पूर्वादिशब्दवाच्यापेक्षेणावश्यं केनचिदवधिना भाव्यम्। तत्र तस्यैवावधेः यः पूर्वादिशब्दार्थापेक्षोऽवधिभाव ऐकान्तिकः, स नियमो व्यवस्था, तस्यां गम्यमानायां पूर्वादीनां शब्दानां स्वाभिधेय एव वर्तमानानामियं संज्ञा भवति; न तु वाच्यायाम्। यो हि पूर्वादिशब्दाभिधेयादन्यस्यार्थस्यावधिभूतस्यनियमः, स कतं पूर्वादिशब्दवाच्यो भविष्यति!`पूर्वे,पर्वाः` इति। अत्र परसमादेवावधेरिति गम्यते। परे,पराः`इति। पूर्व-स्मादेवावदेरिति गम्यते। `प्रवीणाः इति। कुशला इत्यर्थः। अत्र प्रावीण्यमात्रेण निमित्तेनावधिनिरपेक्ष एव दक्षिणशब्दो वर्तत इति व्यवस्था न गम्यते। `सत्यामेव`इत्यादि। जम्बूद्वीपं वावधिमपेक्ष्य तत्रोत्तरशब्दो वर्तत इति विद्यत एव व्यवस्था।
Sarala¶
एतेषां = पूर्वादिशब्दानां, गणसूत्रात् = “पूर्वपरापरे”त्यादिपूर्वोक्तगणसूत्रात्, सर्वत्र = सर्वासु विभक्तिषु, या सर्वनाम सञ्ज्ञा प्राप्ता सा जसि परतो विकल्पेन भवतीत्यर्थः । उत्तरा कुरव इति । देशविशेषस्य सञ्ज्ञेयम् । (रूसका यूक्रेन प्रदेश) । स्वाभिधेयेति । अपेक्ष्यते इति - अपेक्षः । कर्मणि घञ् । स्वस्य अभिधेयः स्वाभिधेयः, स्वाभिधेयस्य-अपेक्षः - स्वाभिधेयापेक्षावधिनियम इति विग्रहः । तथा च स्वस्य = पूर्वादिशब्दस्य, अभिधेयः = वाच्यो यो दिग्देशकालरूपोऽर्थः, तेन अपेक्ष्यमाणो यो अवधेर्नियमः - स एव व्यवस्थेत्यर्थः । यथा “प्रयागात्काशी पूर्व” इत्यत्र पूर्वशब्दार्थेन “कुतः पूर्व” इत्यवधेर्नियमस्य अपेक्षणाद्भवति तत्र व्यवस्थेत्यवधेयम् ॥
Sudha¶
पूर्वपर इति । सर्वनामानि इति विभाषा जसि**(1.1.32) इति चानुवर्तते । तदाह - **एतेषामिति । पूर्वादिसप्तानामितियावत् । पूर्वे पूर्वा इति । पूर्वशब्दात्प्रथमाबहुवचने जसि समागते सर्वादीनि सर्वनामानि**(1.1.27) इति सर्वनामसंज्ञा नित्या प्राप्ता ; तां प्रवाध्य **पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्**(1.1.34) इति सूत्रेण जसि विकल्पेन विधाय **जसः शी**(7.1.17) इति जसः स्थाने श्यादेशे शस्येत्संज्ञायां लोपे च “पूर्व-ई” इति जाते **आद्गुणः**(6.1.87) इत्यनेन पूर्वपरयोः स्थाने गुणे कृते “पूवें” इति रूपम् । सर्वनामसंज्ञाभावे तु पूर्वसवर्णदीर्घादेशे रुत्वे विसर्गे च “पूर्वाः” इति रूपम् । **असंज्ञायांकिमिति । <!संज्ञोपसर्जनीभूतास्तु न सर्वादयः!> इति वक्ष्यमाणतया संज्ञायां सर्वनामत्वस्याप्रसक्तेरिति प्रश्नः । उत्तराः कुरव इति । कुरुशब्दो देशविशेषे नित्यं बहुवचनान्तः । सुमेरुमवधीकृत्य तत्रोत्तरशब्दो वर्तते इत्यस्तीह व्यवस्था, किन्तु संज्ञाशब्दत्वान्नास्य सर्वनामता । पूर्वादिशब्दानां तु दिक्षु अनादिस्संकेत इति न ते संज्ञाशब्दाः । कुरुषु तूत्तरशब्दस्याधुनिकस्सङ्केत इति भवत्ययं संज्ञाशब्द इति । स्वाभिधेयेति । अपेक्ष्यत इत्यपेक्षः । स्वस्य - पूर्वादिशब्दस्य, अभिधेयम् - वाच्यम्, तेन अपेक्ष्यस्य- अपेक्ष्यमाणस्य अवधेर्नियमः, व्यवस्थाशब्देन विवक्षित इत्यर्थः । ततश्च नियमेनावधिसापेक्षार्थे वर्तमानानां पूर्वादिशब्दानां जसि सर्वनामसंज्ञाविकल्प इति फलति । व्यवस्थायां किमिति । पूर्वादिशब्दानां नियमेनावधिसापेक्ष एवार्थे विद्यमानत्वादिति प्रश्नः । दक्षिणा गायका इति । अत्र दक्षिणशब्दो नावध्यपेक्ष इति भावः ।