11033: प्रथमचरमतयाल्पार्धकतिपयनेमाश्च

Padacheda: प्रथम-चरम-तय-अल्प-अर्ध-कतिपय-नेमाः | S | 1 | 3 |

च | S | 0 | 0 |

Sutrartha

‘प्रथम’, ‘चरम’, ‘अल्प’, ‘अर्ध’, ‘कतिपय’, ‘नेम’ - एते शब्दाः, तथा च ‘तयप्’ प्रत्ययान्तशब्दाः जस्-प्रत्यये परे विकल्पेन सर्वनामसंज्ञकाः भवन्ति ।

व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति ‘सर्वनाम’ इति संज्ञा । सर्वादीनि सर्वनामानि (1.1.27) इत्यस्मात् सूत्रात् आरभ्य अन्तरं बहिर्योगोपसंव्यानयोः (1.1.36) इति यावत्सु दशसु सूत्रेषु इयं संज्ञा पाठिता अस्ति । एतेषु इदं सप्तमं सूत्रम् । इदं विभाषासूत्रम् अस्ति । प्रथम, चरम, अल्प, अर्ध, कतिपय, नेम - एतेषम् शब्दानाम् तथा च द्वितय, त्रितय, चतुष्टय इत्यादीनाम् तयप्-प्रत्ययान्तशब्दानाम् प्रकृतसूत्रेण जस्-प्रत्यये परे विकल्पेन सर्वनामसंज्ञा भवति ।

प्रथम, चरम, अल्प, अर्ध, कतिपय

अस्मिन् सूत्रे विद्यमानाः ‘प्रथम’ (आदिमः / first) ‘चरम’ (अन्तिमः / last / final / ultimate), अल्प (किञ्चित् / a little), अर्ध (पुंल्लिङ्गे one-part इत्यर्थः, नपुंसकलिङ्गे half इत्यर्थः), तथा ‘कतिपय’ (several, a few) एते शब्दाः सर्वादिगणे न सन्ति, अतः एतेषाम् सामान्यरूपेण सर्वनामसंज्ञा न भवति । परन्तु प्रकृतसूत्रेण जस्-प्रत्यये परे एतेषां विकल्पेन सर्वनामसंज्ञा विधीयते, अतः पुंल्लिङ्गस्य विषये जसः शी (7.1.17) इत्यनेन जस्-प्रत्ययस्य विकल्पेन शी-आदेशे कृते ‘प्रथमे, प्रथमाः’, ‘चरमे, चरमाः’, ‘अल्पे, अल्पाः’, ‘अर्धे, अर्धा’, तथा ‘कतिपये, कतिपयाः’ इत्थं प्रत्येकं रूपद्वयं भवितुम् अर्हति । अन्यत्र तु एतेषां शब्दानां सर्वनामसंज्ञा न जायते, अतः एतेषाम् अन्यानि सर्वाणि अपि रूपाणि ‘राम’शब्दसदृशानि एव भवन्ति ।

नेम

‘नेम’ (half इत्यर्थः) अयं शब्दः सर्वादीनि सर्वनामानि (1.1.27) इत्यत्र निर्दिष्टे सर्वादिगणे पाठितः अस्ति, अतः अस्य शब्दस्य नित्यं सर्वनामसंज्ञायां प्राप्तायाम्, जस्-प्रत्यये परे प्रकृतसूत्रेण सा विकल्प्यते । अतः जस्-प्रत्यये परे सर्वनामसंज्ञायाः पाक्षिकाभावात् राम-शब्दसदृशम् ‘नेमाः’ इत्यपि रूपं भवति ।

तयप्-प्रत्ययान्तशब्दाः

‘तयप्’ इति तद्धितप्रत्ययः संख्याया अवयवे तयप् (5.2.42) इत्यनेन सर्वेभ्यः सङ्ख्यावाचकेभ्यः शब्देभ्यः ‘अवयवाः अस्य’ अस्मिन् अर्थे विधीयते । यथा, ‘पञ्च अवयवाः अस्य सः पञ्चतयः’ इति । एते तयप्-प्रत्ययान्तशब्दाः सर्वादिगणे न सन्ति, अतः एतेषाम् सामान्यरूपेण सर्वनामसंज्ञा न भवति । परन्तु प्रकृतसूत्रेण जस्-प्रत्यये परे एतेषां विकल्पेन सर्वनामसंज्ञा विधीयते, अतः जसः शी (7.1.17) इत्यनेन जस्-प्रत्ययस्य विकल्पेन शी-आदेशे कृते ‘द्वितये / द्वितयाः’, ‘पञ्चतये / पञ्चतयाः’ एतादृशं रूपद्वयं भवितुम् अर्हति । अन्यत्र तु एतेषां शब्दानां सर्वनामसंज्ञा न जायते, अतः एतेषाम् अन्यानि सर्वाणि अपि रूपाणि ‘राम’शब्दसदृशानि एव भवन्ति ।

तयप्-प्रत्ययस्य अयच्-आदेशः

‘द्वि’ तथा ‘त्रि’ एताभ्यां शब्दाभ्यां विहितस्य ‘तयप्’ प्रत्ययस्य द्वित्रिभ्यां तयस्यायज्वा (5.3.43) इत्यनेन सूत्रेण विकल्पेन ‘अयच्’ आदेशः भवति, येन ‘द्वय’, ‘त्रय’ एतौ शब्दौ सिद्ध्यतः । एतयोः शब्दयोः विषये अपि प्रकृतसूत्रस्य प्रसक्तिः अस्ति, यतः ‘अयच्’ इति आदेशः स्थानिवद्भावेन ‘तयप्’प्रत्ययस्य गुणान् अपि स्वीकरोति । अतः** ‘द्वय’ तथा ‘त्रय’ एतयोः शब्दयोः अपि जस्-प्रत्यये परे विकल्पेन सर्वनामसंज्ञा भवति**, येन ‘द्वये, द्वयाः’ तथा ‘त्रये, त्रयाः’ इति प्रत्येकं रूपद्वयं भवति । अन्यानि रूपाणि तु रामशब्दसदृशानि एव ज्ञेयानि । अपि च, उभादुदात्तो नित्यम् (5.2.44) इत्यनेन सूत्रेण ‘उभ’शब्दात् ‘तयप्’ प्रत्ययं कृत्वा तस्य नित्यम् ‘अयच्’ आदेशः क्रियते, येन ‘उभय’ इति शब्दः सिद्ध्यति । परन्तु उभ-शब्दात् विहितस्य तयप्-प्रत्ययस्य कृतः अयम् अयच्-आदेशः स्थानिवद्भावेन तयप्-शब्दस्य गुणान् न स्वीकरोति इति भाष्यकारेण स्थानिवदादेशोऽनल्विधौ (5.2.44) इत्यत्र स्पष्टीकृतम् अस्ति । अतः प्रकृतसूत्रम् ‘उभय’शब्दस्य विषये नैव प्रयोक्तव्यम् । इत्युक्ते, सर्वादिगणे विद्यमानः ‘उभय’ शब्दः जस्-प्रत्यये परे अपि नित्यम् एव सर्वनामसंज्ञकः भवति इति अत्र आशयः ।

वार्त्तिकम् - <!विभाषाप्रकरणे तीयस्य ङित्सूपसङ्ख्यानम् !>

‘तीय’ इति तद्धितप्रत्ययः द्वेस्तीयः (5.3.54) इत्यनेन ‘द्वि’शब्दात् तथा च त्रेः सम्प्रसारणं च (5.3.55) इत्यनेन ‘त्रि’शब्दात् पूरणार्थे विधीयते, येन ‘द्वितीय’ तथा ‘तृतीय’ एतौ शब्दौ सिद्ध्यतः । एतयोः शब्दयोः सर्वादिगणे समावेशः नास्ति, अतः एतयोः सर्वनामसंज्ञा न विद्यते । अस्यां स्थितौ अनेन वार्त्तिकेन ‘द्वितीय’ तथा ‘तृतीय’ एतयोः तीयप्रत्ययान्तशब्दयोः ‘ङित्’प्रत्ययेषु परेषु विकल्पेन सर्वनामसंज्ञा विधीयते । यथा - अ) चतुर्थ्येकवचनस्य ‘ङे’ प्रत्यये परे एतयोः विकल्पेन सर्वनामसंज्ञायां सत्याम् सर्वनाम्नः स्मै (7.1.14) इत्यनेन प्रत्ययस्य स्मै-आदेशे कृते ‘द्वितीयस्मै, तृतीयस्मै’ एते रूपे अपि भवतः । पक्षे (सर्वनामसंज्ञायाःअभावात्) ‘राम’शब्दसदृशे ‘द्वितीयाय, तृतीयाय’ एते रूपे अपि साधु एव । आ) एवमेव, पञ्चम्येकवचनस्य ‘ङसिँ’ प्रत्यये परे, तथा च सप्तम्येकवचनस्य ‘ङि’ प्रत्यये परे एतयोः विकल्पेन सर्वनामसंज्ञायां सत्याम् ङसिङ्योः स्मात्स्मिनौ (7.1.15) इत्यनेन ङसिँ-ङस्-प्रत्यययोः (यथासङ्ख्यम्) ‘स्मात्’ तथा ‘स्मिन्’ आदेशयोः कृतयोः ‘द्वितीयस्मात्, द्वितीयस्मिन्’ तथा च ‘तृतीयस्मात्, तृतीयस्मिन्’ एतानि रूपाणि भवितुम् अर्हन्ति । पक्षे सर्वनामसंज्ञायाःअभावात् ‘द्वितीयात्, द्वितीये’ तथा च ‘तृतीयात्, तृतीये’ एतानि रूपाणि अपि सिद्ध्यन्ति ।

उभयविभाषा

प्रकृतसूत्रेण निर्दिष्टा विभाषा उभयविभाषा अस्ति । यत्र प्राप्तविभाषा तथा अप्राप्तविभाषा द्वयोः अपि ग्रहणम् एकेनैव ‘विभाषा’शब्देन भवति, तत्र उभयविभाषा अस्ति इत्युच्यते । विभाषाशब्देन विकल्पस्य तथा च निषेधस्यापि एकस्मिन्नेव सूत्रे निर्देशः भवति इति अत्र आशयः । अस्मिन् सूत्रे - अ) ‘प्रथम, चरम, तयप्-प्रत्ययान्तशब्दाः, अल्प, अर्ध, कतिपय’ शब्दानां विषये पूर्वेण अप्राप्ता सर्वनामसंज्ञा विकल्पेन विधीयते, अतः एतेषाम् विषये इयं अप्राप्तविभाषा अस्ति । आ) ‘नेम’ शब्दस्य विषये पूर्वसूत्रेण नित्यं सिद्धा सर्वनामसंज्ञा प्रकृतसूत्रेण विकल्प्यते, अतः अस्य विषये इयं ‘प्राप्तविभाषा’ अस्ति । अनेन प्रकारेण अत्र ‘विभाषा’ शब्दः उभयविभाषां दर्शयति ।

व्यवस्थितविभाषा

प्रकृतसूत्रेण निर्दिष्टा वैकल्पिकी सर्वनामसंज्ञा केवलं जस्-प्रत्ययविशिष्टकार्यार्थम् एव ज्ञेया । इत्युक्ते, सर्वनामविशिष्टानि जस्-प्रत्ययभिन्नानि अकच्-प्रत्ययविधानादीनि कार्याणि कर्तुम् अत्र सर्वनामसंज्ञा नैव भवति । अतः ‘प्रथम, चरम, तयप्-प्रत्ययान्तशब्दाः, अल्प, अर्ध, कतिपय’ - एतेभ्यः शब्देभ्यः जस्-प्रत्यये परे सर्वनामसंज्ञायां सत्याम् अपि अव्ययसर्वनाम्नामकच् प्राक्टेः (5.3.71) इत्यनेन अकच्-प्रत्ययः नैव भवति अपितु औत्सर्गिकः क-प्रत्ययः एव भवति, येन ‘प्रथमके, प्रथमकाः’ आदीनि रूपाणि सिद्ध्यन्ति । अकच्-प्रत्ययेनापि एते एव रूपे भवेताम्, परन्तु तत्र प्रत्ययस्य चित्त्वात् अनिष्टम् अन्तोदात्त्वं जायेत । क-प्रत्ययेन रूपं तु सम्यक् भवत्येव, परन्तु स्वरः अपि साधु सिद्ध्यति । एवमेव, ‘नेम’शब्दस्य विषये सर्वनामसंज्ञायाः नित्यत्वात् अव्ययसर्वनाम्नामकच् प्राक्टेः (5.3.71) इत्यनेन अकच्-प्रत्यये प्राप्ते जसि परे सर्वनामसंज्ञायाः पाक्षिके अभावेऽपि अकच्-प्रत्ययः एव विधीयते, न हि तदपवादः ‘क’प्रत्ययः, येन ‘नेमके, नेमकाः’ इति अकच्-प्रत्ययान्ते अन्तोदात्ते रूपे सिद्ध्यतः । संक्षेपेण, अत्र ‘विभाषा’ इत्यनेन उक्ता विभाषा केवलम् जस्-कार्यार्थमेव भवति - अतः इयम् व्यवस्थितविभाषा अस्ति ।

Sutrartha (English)

The words - प्रथम, चरम, अल्प, अर्ध, कतिपय, and नेम ; and also the words ending in the ‘तयप्’ प्रत्यय are optionally called सर्वनाम when they get the ‘जस्’ प्रत्यय.

Vasu English Summary

And also the words प्रथम ‘first’, चरम ‘last’, words with the affix तय – संख्याया अवयवे तयप् (5.2.42), अल्प ‘few’, अर्ध ‘half’, कतिपय ‘some’ and नेम ‘half’ are optionally सर्वनाम , before the Nominative Plural termination.

Vasu English Translation

And also the words प्रथम ‘first’, चरम ‘last’, words with the affix तय – संख्याया अवयवे तयप् (5.2.42), अल्प ‘few’, अर्ध ‘half’, कतिपय ‘some’ and नेम ‘half’ are optionally सर्वनाम , before the Nominative Plural termination.

Thus we have प्रथमे or प्रथमाः, चरमे or चरमाः, अल्पे or अल्पाः, अर्द्धे or अर्द्धाः, कतिपये or कतिपयाः, नेमे or नेमाः, द्वितये or द्वितयाः ॥

The words “optionally when the affix जस् follow” are understood in this sutra. The governing force of the word “dvandva” does not extend to this, and stops at this. By the word तय in the aphorism, is meant words ending in the affix तय. The rest are pratipadikas or crude bases. The word नेम has already been enumerated among the pronominals, therefore, the option in its case, is what is called prapta-vibhasa, the result of which will be that though in the nom. pl. it may be declined like नर, the rest of its declension is like sarva, while in the case of prathama &c. the nom. pl. may be like sarva, but the rest of their declension must be like that of nara. The word ubhaya, has been formed by the addition of the affix तय, and it is already enumerated in the list of pronominals, therefore, by the present sutra its nom. pl. admits of two forms.

The application of the affix kan or akach must depend upon the nature of these words, if pronominals, then akach, otherwise kan.

Kashika

विभाषा जसि (१.१.३२) इति वर्तते। द्वन्द्व इति निवृत्तम्। प्रथम चरम तय अल्प अर्ध कतिपय नेम इत्येते जसि विभाषा सर्वनामसंज्ञा भवन्ति। प्रथमे, प्रथमाः। चरमे, चरमाः। द्वितये, द्वितयाः। अल्पे, अल्पाः। अर्धे, अर्धाः। कतिपये, कतिपयाः। नेमे, नेमाः। तय इति तयप्प्रत्ययः। शिष्टानि प्रातिपदिकानि। तत्र नेम इति सर्वादिषु पठ्यते, तस्य प्राप्ते विभाषा, अन्येषामप्राप्ते। उभयशब्दस्य तयप्प्रत्ययान्तस्य गणे पाठान्नित्या सर्वनामसंज्ञा। इहापि जस्कार्यं प्रति विभाषा। काकचोर्यथायोगं वृत्तिः॥

Siddhanta Kaumudi

एते जसः कार्यं प्रत्युक्तसंज्ञा वा स्युः । प्रथमे । प्रथमाः । शेषं रामवत् । तयो प्रत्ययस्ततस्तदन्ता ग्राह्याः । द्वितये । द्वितयाः । शेषं रामवत् । नेमे । नेमाः । शेषं सर्ववत् ।<!विभाषाप्रकरणे तीयस्य ङित्सूपसङ्ख्यानम् !> (वार्तिकम्) ॥ द्वितीयस्मै । द्वितीयायेत्यादि । एवं तृतीयः । अर्थवद्ग्रहणान्नेह । पटुजातीयाय ॥ निर्जरः ॥

Laghu Siddhanta Kaumudi

एते जसि उक्तसंज्ञा वा स्युः। प्रथमे, प्रथमाः॥ तयः प्रत्ययः। द्वितये, द्वितयाः। शेषं रामवत्॥ नेमे, नेमाः। शेषं सर्ववत्॥ तीयस्य ङित्सु वा (वार्त्तिकम्)। द्वितीयस्मै, द्वितीयायेत्यादि। एवं तृतीयः॥ निर्जरः॥

Balamanorama

प्रथमचरमतयाल्पार्धकतिपयनेमाश्च - प्रथमचरम ।विभाषा जसी॑त्यनुवर्तते,सर्वनामानी॑ति च । तदाह — एते इति । प्रतमादय इत्यर्थः । उक्तसंज्ञा इति । सर्वनामसंज्ञका इत्यर्थः । तत्र नेमशब्दस्य जसि सर्वनामसंज्ञा गणे पाठान्नित्या प्राप्ता । तद्विकल्पोऽत्र विधीयते । नेमशब्दव्यतिरिक्तानां प्रथमादिशब्दानां तु गणे पाठाऽभावादप्राप्तैव सर्वनामसंज्ञा जसि विकल्पेन विधीयते । अतो नेमशब्दव्यतिरिक्तानां प्रथमादिशब्दानां जसोऽन्यत्र न सर्वनामकार्यमित्याह-शेषं रामवदिति । ॒तय॑ शब्दो न प्रातिपदिकमित्याह — तयप्प्रत्यय इति ।संख्याया अवयवे तयबिति विहित॑ इति शेषः । तत इति । तस्मात् प्रत्ययत्वाद्धेतोः प्रत्ययग्रहणपरिभाषया, तदन्ताः=तयबन्ता ग्राह्रा इत्यर्थः । द्वितये द्वितया इति । द्ववयववावस्येत्यर्थे तयप् । यद्यप्यवयवसमुदायोऽवयवी तयवर्थः, तस्य चैकत्वादेकवचनमेव युक्तन्तथापि यदोध्भूतावयवभेदः समुदायस्तयबर्थः, उद्भूतत्वं च विवक्षितसङ्ख्याकत्वं, तदाऽवयवबहुत्वाभिप्रायमवयविनोऽवयवाऽभेदाभिप्रायं वा बहु वचनमिति न दोषः । अत्र च तयब्ग्रहणमेव प्रमाणम् । अन्यथा तयबन्ताज्जस एवाऽभावात्कतेन । चरमे चरमाः । अल्पे अल्पाः । अर्धे अर्धाः । कतिपये कतिपयाः-इत्यपि प्रथमशब्दवदुदाहार्यम् । अर्धशब्दस्त्वेकदेशवाची पुंलिङ्गः । समांशवाची तु नपुंसकलिङ्गः ।वा पुंस्यर्धोऽर्धं समेंऽशके॑ इति कोशात् । शेषं सर्ववदिति । नेमशब्दस्य सर्वादिगणे पाठादिति भावः । विभाषाप्रकरण इति ।विभाषा जसी॑त्यधिकारे तीयान्तस्य ङे-ङसि-ङस्#Hङि-इत्येतेषु ङित्सु परेषु सर्वनामसंज्ञावचनं कर्तव्यमित्यर्थः । द्वितीयस्मै द्वितीयायेति । द्वयोः पूरणो द्वितीयः । ‘द्वेस्तीय’ इति पूरणे तीयप्रत्ययः । इत्यादीति । द्वितीयस्मात्, द्वितीयात् । द्वितीयस्मिन्, द्वितीये इत्यादिशब्दार्थः । एवं तृतीय इति । ‘ङित्सूदाहार्य’ इति शेषः ।त्रेः संप्रसारणं चे॑ति पूरणे तीयप्रत्ययः । रेफस्य संप्रसारणमृकारः ।संप्रसारणाच्चे॑ति पूर्वरूपम् । ननुप्रकारवचने जातीयर् इति पटुशब्दाज्जातीयरिपटुजातीय॑शब्दः, तस्यापि तीयान्तत्वान्ङित्सु सर्वनामत्वविकल्पः स्यादित्यत आह — अर्थवदिति ।अर्थवद्ग्रहणे नानर्थकस्ये॑ति परिभाषयाऽर्थवानेन तीयोऽत्र गृह्रते । जातीयरि तु समुदायस्यैवार्थवत्त्वं न तु तदेकदेशस्येति भावः । निष्क्रान्तो जराया निर्जरः ।निरादयः क्रान्ताद्यर्थे॑ इति समासः ‘गोस्त्रियोः’ इति ह्रस्वत्वम् । निर्जरा जरा यस्मादिति बहुव्रीहिर्वा ।

Tattvabodhini

प्रथमचरमतयाल्पार्धकतिपयनेमाश्च - प्रथमचरम । नेमशब्दस्य नित्यं प्राप्तेऽन्येषामप्राप्ते चायमारम्भः । तयः प्रत्यय इति ।सङ्ख्याया अवयवे तय॑बिति विहितः । तीयस्येति ।द्वेस्तीयः॑,त्रेः सम्प्रसारणं चेतिविहितस्य ।

Padamanjari

उभयशब्दस्येत्यादि । उभाववयवावस्य ‘उभादुदातो नित्यम्’ इति तयपोऽयजादेशः । स्थानिवद्भावाद्भवत्ययं तयबन्तः, तथापि गणे पाठाद् नित्यैव संज्ञा भवति । ननु गणे पाठस्योभयस्मिन्नुभयेषामित्यादिरवकाशः, इह तयब्ग्रहणस्य द्वितये द्वितया इति, उभयशब्दाज्जस्युभयप्रसङ्गे परत्वादियमेव विभाषा प्राप्नोति, नैष दोषः; अन्तरङ्गा नित्या संज्ञा विभक्त्यनपेक्षत्वादिति सैव प्रवर्तते । काकचोर्यथायोगं वृत्तिरिति । नेमशब्देऽकचो वृत्तिः, अन्येषु कस्येत्येष यथायोगार्थः । कः पनर्दोषो नेमशब्दे, यदि जसः कार्यं प्रति न स्यात्, पक्षे कोऽपि स्यात् ? अस्तु; नेमके, नेमकाः’-नित्येऽप्यकचि तस्य तद्ग्रहणेन ग्रहणादस्मिन् विकल्पे सति एतद्रूपद्वयं भवत्येव, सत्यम्; प्रथमादिषु पक्षेऽकज्न भवतीत्येवम्परो ग्रन्थः ॥

Nyaas

उभयशब्दस्य तयप्प्रत्ययान्तस्य` इति। संख्याया अवयवे तयप् (5.2.42) इत्युभशब्दाद्विहितस्य तयपो यद्यपि**उभादुदात्तो नित्यम्** (5.2.44) इत्ययजादेशो विधीयते, तथापि स्थानिवद्भावात् तद्ग्रहणेन गृह्रत इत्युभयशब्दस्तयप्प्रत्ययान्तो भवति।`तस्य गणे पाठान्नित्या सर्वनामसञ्ज्ञा`इति। न त्वनेन योगेन परेणापि पाक्षिकी। एतच्च व्यवस्थितविभाषात्वाल्लभ्यते। `काकचोर्यथायोगं वृत्तिः`इति। तेनोभय- नेम-शब्दयोः सर्वादित्वान्नित्यमकचो वृत्तिः, प्रथमादिभ्यस्तु कप्रत्ययस्य- इत्येष यथा-योगार्थः॥

Prakriyasarvasvam

एते जसि वा सर्वनामसंज्ञाः । प्रथमे, प्रथमाः । चरमे, चरमाः । तयेति प्रत्ययः । द्वितये, द्वितयाः । स्थानिवत्त्वाद् द्वये, द्वयाः इत्यादि । शेषं कृष्णवत् । नेमस्य तु सर्वादित्वाच्छेषं सर्ववत् । ‘तीयस्य वा ङित्सूपसङ्ख्यान’मिति वा सर्वनामत्वम् । द्वितीयस्मै, द्वितीयाय । द्वितीयस्मात्, द्वितीयात् । द्वितीयस्मिन्, द्वितीये । शेषं कृष्णवत् । निर्जरः ।।

Sarala

उक्तसञ्ज्ञाः = सर्वनामसञ्ज्ञाः । तय इतिप्रत्ययः = सङ्ख्याया अवयवे तयप् (५.२.४२) इतिशास्त्रेण विहितः । एवञ्च <ऽ प्रत्ययग्रहणे तदन्तग्रहणम्ऽ> इति तयप्प्रत्ययान्तानां द्वितय-द्वय-त्रितय-त्रय-चतुष्टय-पञ्चतय-षट्तय-सप्ततयादीनां ग्रहणं बोध्यम् । तीयस्येति । तीयप्रत्ययान्तस्य ङिद्वचने परतः सर्वनामसञ्ज्ञा वा स्यादित्यर्थः । निर्जरः = देवः ॥

Sudha

प्रथमचरमेति । विभाषा जसीत्यनुवर्तते, सर्वनामानीति च तदाह - एते इति । प्रथमादय इत्यर्थः । प्रथमे प्रथमा इति । प्रथमशब्दात् प्रथमाबहुवचनविवक्षायां जसि समागते प्रथमचरमतयाल्पार्धकतिपयनेमाश्च**(1.1.33) इति सूत्रेण जसि परे सर्वनामसंज्ञत्वे **जसः शी**(7.1.17) इति जसः श्यादेशे शस्य लोपे गुणे च कृते प्रथमे इति । पक्षे - प्रथमाः । तयशब्दो न प्रातिपदिकमित्याह - **तयः प्रत्यय इति । संख्याया अवयवे तयप्**(5.2.42) इति विहितः इति शेषः । अत्र प्रत्ययग्रहणपरिभाषया तदन्ताः - तयबन्ता ग्राह्या इत्यर्थः । **द्वितये, द्वितया इति । द्वाववयवावस्येति विग्रहः । द्वितयशब्दात् जसि प्रथमचरमतयाल्पार्धकतिपयनेमाश्च**(1.1.33) - इत्यनेन जसः स्थाने श्यादेशे अनुबन्धलोपे गुणे च “द्वितये” इति । पक्षे-द्वितयाः । **शेषं रामवदिति । तथाहि - नेमशब्दस्य जसि सर्वनामसंज्ञा गणे पठितत्वान्नित्या प्राप्ता तद्विकल्पोऽत्र विधीयते । नेमशब्दव्यतिरिक्तानां प्रथमादिशब्दानान्तु गणे पाठाभावादप्राप्तैव सर्वनामसंज्ञा जसि विकल्पेन विधीयते । अतो नेमशब्दव्यतिरिक्तानां प्रथमादिशब्दानां जसोऽन्यत्र न सर्वनामकार्यमित्याह - शेषं रामवदिति । नेमे, नेमा इति । नेमशब्दात् जसि सर्वादीनि सर्वनामानि**(1.1.27) इति प्राप्तां सर्वनामसंज्ञां विकल्पेन प्रवाध्य **प्रथमचरमतयाल्पार्धकतिपयनेमाश्च**(1.1.33) इति विकल्पेन जातायां तस्यां **जसः शी**(7.1.17) इति श्यादेशेऽनुबन्धलोपे गुणे च “नेमे” इति । पक्षे - नेमाः इति । **शेषं सर्ववदिति । नेमशब्दस्य सर्वादिगणे पठितत्वादिति भावः । तीयत्येति । विभाषा जसि**(1.1.32) इत्यधिकारे तीयान्तस्य ङे, ङसि, डस्, ङि इत्येतेषु ङित्सु परेषु सर्वनामसंज्ञावचनं कर्तव्यमित्यर्थः । **द्वितीयस्मै, द्वितीयायेति । द्वयोः पूरणो द्वितीयः । द्वेस्तीयः**(5.2.54) इति पूरणे तीयप्रत्ययः। **इत्यादीति । द्वितीयस्मात्, द्वितीयात्, द्वितीयस्मिन् द्वितीये इत्यादिशब्दार्थः । एवं तृतीय इति । ङित्सु उदाहार्यं इति शेषः । त्रयाणां पूरणमिति विग्रहः । त्रेः सम्प्रसारणम् च**(5.2.55) इति पूरणेऽर्थे तीयप्रत्ययः । रेफस्य सम्प्रसारणम् - ऋकारः । **सम्प्रसारणाच्च**(6.1.108) इति पूर्वरूपम् । **निर्जर इति । जरायाः निष्क्रान्तो निर्जरः । <!निरादयः क्रान्ताद्यर्थे द्वितीयया!> इति समासः । **गोस्त्रियोरुपसर्जनस्य**(1.2.48) इति ह्रस्वत्वम् । निर्गता जरा यस्मादिति बहुव्रीहिर्वा । निर्जरशब्दस्य **कृत्तद्धितसमासाश्च**(1.2.46) इति समासत्वात्प्रातिपदिकसंज्ञायां प्रथमैकवचने सौ अनुबन्धलोपे सस्य रुत्वे रेफस्य विसर्गत्वे च रूपम् ।

Sutra Prayogas

  • द्वितये (रघुवंशम्): प्रथमचरमतयाल्पार्धकतिपयनेमाश्च इति जसि विभाषया सर्वनामसंज्ञा।

  • द्वये (शिशुपालवधम्): प्रथमचरमतयाल्पार्धकतिपयनेमाश्च इति जसि विभाषया सर्वनामसंज्ञा।

  • द्वये (शिशुपालवधम्): प्रथमचरम इत्यादिना जसि विभाषया सर्वनामसंज्ञा।