11031: द्वन्द्वे च¶
Padacheda: द्वन्द्वे | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
सर्वादिगणस्य शब्दैः द्वन्द्वसमासेन निर्मितः शब्दः सर्वनामसंज्ञकः न भवति ।
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति ‘सर्वनाम’ इति संज्ञा । सर्वादीनि सर्वनामानि (1.1.27) इत्यस्मात् सूत्रात् आरभ्य अन्तरं बहिर्योगोपसंव्यानयोः (1.1.36) इति यावत्सु दशसु सूत्रेषु इयं संज्ञा पाठिता अस्ति । एतेषु इदं पञ्चमं सूत्रम् । इदं निषेधसूत्रम् अस्ति । सर्वादिगणस्य शब्दौ यस्य अवयवौ, तादृशस्य द्वन्द्वसमासस्य सर्वनामसंज्ञा अनेन सूत्रेण निषिध्यते । यथा, ‘पूर्वः च परः च’ इत्यत्र द्वन्द्वसमासं कृत्वा ‘पूर्वपर’ इति शब्दः सिद्ध्यति । अत्र समासे विद्यमानौ ‘पूर्व’ तथा ‘पर’ एतौ शब्दौ यद्यपि सर्वनामसंज्ञकौ, तथापि अत्र प्रकृतसूत्रेण तदन्तविधिः प्रतिषिध्यते, अतश्च ‘पूर्वपर’ शब्दस्य सर्वनामसंज्ञा निषिध्यते । एवमेव ‘कतरः च कतमः च कतरकतमौ’, ‘वर्णाश्रमाश्च इतराश्च वर्णाश्रमेतराः’ इत्यत्र समस्तपदस्य सर्वनामसंज्ञायाः निषेधः भवति । अतएव एतेषाम् शब्दानाम् षष्ठीबहुवचनस्य रूपम् ‘पूर्वपराणाम्’, ‘वर्णाश्रमेतराम्’ एतादृशं भवति । ‘जस्’प्रत्यये परे तु प्रकृतसूत्रेण नित्यं निषेधे प्राप्ते विभाषा जसि (1.1.32) इत्यनेन अग्रिमसूत्रेण द्वन्द्वसमासस्य सर्वनानसंज्ञा विकल्प्यते, अतः ‘पूर्वपरे, पूर्वपराः’ एतादृशं रूपद्वयम् भवति ।
सर्वनामसंज्ञाविधाने तदन्तविधिः
सर्वादिगणस्य शब्दानां विषये तदन्तविधिः उपयुज्यते । अस्य साक्षात् निर्देशः सूत्रपाठे नास्ति, परन्तु प्रकृतसूत्रमेव अस्य ज्ञापकरूपेण स्वीक्रियते । यदि सर्वनामसंज्ञकशब्दानां विषये तदन्तविधिः नानुमन्यते, तर्हि प्रकृतसूत्रेण द्वन्द्वसमासेन निर्मितानां शब्दानाम् सर्वनामसंज्ञानिषेधस्य किमपि प्रयोजनम् नास्ति । अतः प्रकृतसूत्रमेव सर्वनामशब्दाना तदन्तविधेः ज्ञापकम् ।
समुदायस्यैव सर्वनामसंज्ञानिषेधः
अत्र द्वन्द्वसमासस्य अवयवभूतानां सर्वादिगणस्य शब्दानां सर्वनामसंज्ञा न निषिध्यते, केवलम् तदन्तविधिः एव अत्र प्रतिषिध्यते - येन समस्तपदस्यैव सर्वनामसंज्ञायाः निषेधः जायते । यथा - पूर्वे च परे च पूर्वपराः । अत्र ‘पूर्व’ तथा ‘पर’ उभयोः सर्वनामसंज्ञा विद्यते, परन्तु ‘पूर्वपर’शब्दस्य सर्वनामसंज्ञा निषिध्यते । एतादृशस्य भेदस्य प्रयोजनम् भाष्यकारेण न बहुव्रीहौ (1.1.29) इत्यत्र उक्तम् अस्ति - अकच्-स्वरौ तु कर्त्तव्यौ प्रत्यङ्गौ मुक्तसंशयम् । अवयवानाम् सर्वनामसंज्ञायां सत्याम् अकच्-प्रत्ययः अवश्यं भवति - इति अत्र आशयः । अतएव पूर्वके च परके च पूर्वपरकाः इति शब्दः साधुत्वं प्राप्नोति ।
अङ्गसंज्ञा
समस्तपदात् विभक्तिप्रत्यये कृते सकलस्य समस्तपदस्य अङ्गसंज्ञा भवति, न हि तदवयवस्य सर्वनामसंज्ञकशब्दस्य । यथा, ‘पूर्वपर’ शब्दात् षष्ठीबहुवचनस्य आम्-प्रत्यये कृते ‘पूर्वपर’ इति समस्तः शब्दः अङ्गम् अस्ति, न हि तस्य अंशमात्रः ‘पर’ इति । अतएव अत्र आमि सर्वनाम्नः सुट् (7.1.52) इत्यनेन सुट्-आगमः न भवति । यदि अत्र केवलम् ‘पर’शब्दस्य अङ्गसंज्ञा अभविष्यत्, तर्हि तस्य सर्वनामसंज्ञां सत्याम् सुट्-आगमे कृते ‘पूर्वपरेषाम्’ इति अनिष्टं रूपं अजनिष्यत ।
Sutrartha (English)¶
The words formed by the द्वन्द्व समास of the words of सर्वादिगण are not called सर्वनाम.
Vasu English Summary¶
And in Collective Compound – दिङ्नामान्यन्तराले (2.2.26), the words सर्व etc. are not सर्वनाम।
Vasu English Translation¶
And in Collective Compound – दिङ्नामान्यन्तराले (2.2.26), the words सर्व etc. are not सर्वनाम। This sutra mentions another exception. In collective compounds the above words are not sarvanama. Dvandva is a compound in which two words are simply joined together, the compound taking the terminations of the dual or plural according to the number of compounded words, or the terminations of the singular, being treated as a collective term. Thus, the compound वर्णाश्रमेतर means, वर्ण ‘the castes,’ आश्रम ‘the orders’ and इतर ‘the others’. The word इतर in this compound is not to be treated as a sarvanama, but an ordinary word. Therefore, in the genitive plural we have:– वर्णाश्रमेतराणाम् and not ०इतरेषाम्. So also पूर्वापराणाम् ‘of the priors and the posteriors.’
The word च ‘and’ in the sutra indicates that it closes the list of exceptions or prohibitions that began with sutra (1.1.29).
Kashika¶
द्वन्द्वे च समासे सर्वादीनि सर्वनामसंज्ञानि न भवन्ति। पूर्वापराणाम्। कतरकतमानाम्॥
Siddhanta Kaumudi¶
द्वन्द्वे उक्ता संज्ञा न । वर्णाश्रमेतराणाम् । समुदायस्यायं निषेधो न त्ववयवानाम् । नचैवं तदन्तविधिना सुट्प्रसङ्गः । सर्वनाम्नो विहितस्यामः सुडिति व्याख्यातत्वात् ॥
Balamanorama¶
द्वन्द्वे च - तदाह — द्वन्द्वे उक्तेति । सर्वनामसंज्ञा नेत्यर्थः । वर्णाश्रमेतराणामिति ।वर्णाश्रमेतराणां नो ब्राऊहि धर्मानशेषतः॑ इति याज्ञवल्क्यस्मृतिः । वर्णाश्चाअश्रमाश्च इतरे चेति द्वन्द्वः । अत्र सर्वनामत्वाऽभावादामि सर्वनाम्न इति न सुट् । समुदायस्यैवेति । द्वन्द्वे विद्यमानानि यानि सर्वादीनि तानि सर्वनामानि न स्युरिति नाऽर्थः, विद्यतिक्रियाध्याहारे गौरवात् । किन्तु द्वन्द्वे सर्वनामसंज्ञा न भवतीति प्रधानभूतया निषेध्यवनक्रिययैव द्वन्द्वस्याधारतयाऽन्वयः । द्वन्द्वाधारा सर्वनामसंज्ञा न भवतीत्यक्षरार्थः । द्वन्द्वस्य सर्वनामसंज्ञा नेति फलितम् । वर्णाश्रमतरेत्यादिसमुदायस्यैव द्वन्द्वता नतु तदवयवानाम् । एवंच वर्णाश्रमेतरेत्यादिसमुदायस्यैव सर्वनामत्वनिषेधो नतु तदवयवानामिति वस्तुस्तितिकथनम् । ननु द्वन्दावयवानां सर्वनामत्वनिषेधाऽभावे वर्णाश्रमेतरशब्दे इतरशब्दस्य सर्वनामतया ततः परस्यामः सुटि वर्णाश्रमेतरेषामिति स्यात् । नच अवर्णान्तात्सर्वनाम्नोऽह्गात्परस्यामः सुड्विधीयते । ततश्च वर्णाश्रमेतरशब्दस्य समुदायस्य द्वन्द्वतया सर्वनामत्वनिषेधेऽपि तदवयवस्य इतरशब्दस्य सर्वनामतया तदन्ताङ्गात्परत्वादामः स#उट् स्यात् । न चैवं सति द्वन्द्वस्य तन्निषेधात् । इतरशब्दस्तु सर्वनामसंज्ञकः,न ततो विहित आम्, आमः समुदायादेव विधानात् । अतो न सुडिति भावः ।अवर्णान्तादङ्गात्सर्वनाम्नो विहितस्यामः सु॑डिति व्याख्याने तु येषां तेषामित्यत्राऽव्याप्तिः । अतोऽवर्णान्तादङ्गात्परस्य सर्वनाम्नो विहितस्यामः सुडित्येव व्याख्येयम् ।
Tattvabodhini¶
द्वन्द्वे च - द्वन्द्वे च । समुदायस्येति । तत्रैव द्वन्द्वशब्दस्य मुख्यत्वात् । न चद्वन्द्वे यानि सर्वादीनी॑ति संबन्धः, कारकाणां क्रिययैवान्वयात् । न चद्वन्द्वे विद्यमानानि यानी॑ति संबन्धः, विद्यतिक्रियाध्याहारे गौरवात्, निषेध्याया भवतिक्रियाया एव प्राधान्येन तदन्वयस्यैव न्याय्यत्वाच्चेति भावः । सुट्प्रसङ्ग इति । न चद्वन्द्वे चे॑ति निषेधसामर्थ्यात्वर्णाश्रमेतराणा॑मित्यादौ सुण्न प्रसज्यत इति वाच्यम्, अनङ्गस्य त्रतसिलादेव्र्यावृत्त्या तत्सामर्थ्यस्योपक्षीणत्वात् ।
Padamanjari¶
अयं समुदायस्यैव निषेधो नावयवानाम्, कुतः ? त्यादादीनां तावत् ‘त्यदादीनि सर्वैर्नित्यम्’ इति एकशेषेण भाव्यम्, प्राक् च त्यादादिभ्योऽकारान्ताः,तत्र न काकचोर्विशेषः; शर्वनाम्नो वृत्तिमात्रे पुंवद्भावः’ त्विष्यत एव-दक्षिणोतरपूर्वाणामिति, सोऽयं प्रतिषेधो ज्ञापयति-‘अस्ति सर्वनामसंज्ञायां तदन्तविधिः’ इति ॥
Praudhamanorama¶
समुदायस्येति। तत्रैव द्वन्द्वशब्दस्य मुख्यत्वान्न तु द्वन्द्वे यानि सर्वादीनीति सम्बन्धः, कारकाणां क्रिययैवान्वयात्। न च द्वन्द्वे विद्यमानानि यानीति सम्बन्धः। विद्यतिक्रियाध्याहारे गौरवात्। निषेध्याया भवतिक्रियाया एव प्राधान्येन तदन्वयस्यैव न्याय्यत्वाच्च। किं च त्यदादीनां द्वन्द्वो नास्ति एकशेषेण बाधितत्वात्। ततः प्राचीनास्त्वदन्यास्तत्र काकचोर्न विशेषः। न च दक्षिणोत्तरपूर्वाणामित्यत्रेष्टमपि पुंवद्भावं निषेद्धुं किं न स्यादिति वाच्यम्। ‘सर्वनाम्नो वृत्तिमात्र’ इति मात्रग्रहणं हि क्वचित्सर्वनामत्वेन दृष्टानां सम्प्रति संज्ञाऽभावेऽपि पुंवद्भावः। तस्माद् न्यायबलाद् फलबलाच्च समुदायग्रहणमेवोचितम्। यद्यपि त्वच्छब्दस्तान्त इति पक्षेऽवयवनिषेधेऽपि फलं सुवचम्, तथापि शास्त्रस्यल्पविषयता स्याद् न्यायश्च विरुध्येतेति भावः। सुट्प्रसङ्ग इति। वर्णाश्रमेतराणामित्यादाविति भावः। न च निषेधसामर्थ्यम्। अनाङ्गस्य त्रतसिलादेर्व्यावृत्त्या चरितार्थत्वात्।
Prakriyasarvasvam¶
एतैस्तृतीया समस्यते । मासेन पूर्वो मासपूर्वः । एवं हरिसदृशः । विष्णुसमः । ऊनार्थैः—पापोनः पापहीनः । तर्ककलहः । वाङ्निपुणः । गुणमिश्रः । वेषश्लक्ष्णः । अवरेणापीष्टम् । मासावरः वंशावरः । तुल्याधिकाभ्यां च भोजः । इन्द्रतुल्यः । गुणाधिकः ॥