11030: तृतीयासमासे

Padacheda: तृतीया-समासे | S | 7 | 1 |

Sutrartha

तृतीयासमासे विद्यमानस्य सर्वादिगणस्य शब्दानाम् ‘सर्वनाम’ इति संज्ञा न भवति ।

व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति ‘सर्वनाम’ इति संज्ञा । सर्वादीनि सर्वनामानि (1.1.27) इत्यस्मात् सूत्रात् आरभ्य अन्तरं बहिर्योगोपसंव्यानयोः (1.1.36) इति यावत्सु दशसु सूत्रेषु इयं संज्ञा पाठिता अस्ति । एतेषु इदं चतुर्थं सूत्रम् । इदं निषेधसूत्रम् अस्ति । **पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः (2.1.31) इत्यनेन निर्दिष्टस्य तृतीयासमासस्य निर्माणे प्रयुक्तानाम् सर्वादिगणस्य शब्दानाम् सर्वनामसंज्ञा अनेन सूत्रेण निषिध्यते** । यथा, ‘मासेन पूर्वः’ इत्यत्र तृतीयातत्पुरुषसमासं कृत्वा ‘मासपूर्व’ इति शब्दः सिद्ध्यति । अत्र विद्यमानस्य ‘पूर्व’शब्दस्य प्रकृतसूत्रेण सर्वनामसंज्ञा निषिध्यते । अतएव अस्य शब्दस्य रूपाणि ‘मासपूर्वाः’, ‘मासपूर्वाय’, ‘मासपूर्वात्’ एतादृशानि ‘राम’शब्दसदृशानि भवन्ति । यदि अत्र ‘पूर्व’शब्दस्य सर्वनामसंज्ञा अभविष्यत्, तर्हि तदन्तविधिना ‘मासपूर्व’शब्दस्यापि सर्वनामसंज्ञा अभविष्यत्, या न इष्यते । अतः अत्र ‘पूर्व’शब्दस्य सर्वनामसंज्ञायाः निषेधः कृतः अस्ति । एवमेव ‘संवत्सरेण पूर्वः संवत्सरपूर्वः, ‘वर्षेण पूर्वः वर्षपूर्वः’ एतेषु शब्देषु विद्यमानस्य ‘पूर्व’शब्दस्य अपि सर्वनामसंज्ञायाः निषेधः भवति ।

सूत्रे ‘समासे’ पदग्रहणस्य प्रयोजनम्

वस्तुतस्तु विभाषा दिक्समासे बहुव्रीहौ (1.1.28) अस्मात् सूत्रात् ‘समासे’ इत्यस्य शब्दस्य अनुवृत्तिः प्रकृतसूत्रे भवितुम् अर्हति । तथापि अस्मिन् सूत्रे ‘समासे’ इति शब्दः पुनः स्थापितः अस्ति । अस्य कारणम् कौमुद्यां काशिकायां च उच्यते - ‘तृतीयासमासार्थवाक्येऽपि प्रतिषेधो यथा स्यात्’ । इत्युक्ते, तृतीयासमासं विना परन्तु तस्मिन्नेव अर्थे यदा वाक्यप्रयोगः भवति, तदा अपि ‘पूर्व’शब्दस्य सर्वनामसंज्ञा न भवेत् - इति अत्र ‘समास’ग्रहणेन निर्दिष्टम् अस्ति । अतएव, ‘मासपूर्वाय’ इति शब्दः समासं विना लिख्यते चेत् ‘मासेन पूर्वाय’ इति लेखनीयः, न हि ‘मासेन पूर्वस्मै’ इति । यद्यपि पृथग्-रूपेण प्रयुक्तस्य ‘पूर्व’शब्दस्य सर्वनामसंज्ञा भवति (अतश्च चतुर्थ्येकवचनस्य रूपम् ‘पूर्वस्मै’ इति भवति), तथापि तृतीयासमासस्य अर्थः येन वाक्येन निर्दिश्यते, तस्मिन् वाक्ये प्रयुक्तस्य ‘पूर्व’शब्दस्य सर्वनामसंज्ञा न इष्यते, इति अत्र आशयः अस्ति । अस्यैव प्रतिपादनार्थम् आचार्येण पाणिनिना अस्मिन् सूत्रे ‘समास’ग्रहणम् कृतम् अस्ति । इत्युक्ते, समासनिर्माणात् पूर्वम् विग्रह-अवस्थायाम् एव सर्वादिगणस्य शब्दानां सर्वनामसंज्ञा निषिध्यते - इति अत्र आशयः ।

Sutrartha (English)

The words of the सर्वादिगण participating in a तृतीयासमास are not called सर्वनाम.

Vasu English Summary

In the Instrumental Determinative Compounds the words सर्व etc. are not सर्वनाम।

Vasu English Translation

In the Instrumental Determinative Compounds the words सर्व etc. are not सर्वनाम। This is another exception to the definition of sarvanama. There is a class of compounds in Sanskrit* called tatpurusha compounds, in which the last word governs the preceding one. The word governed may be in any one of the six cases: when it is in the third or instrumental case, the compound is called tritiya tatpurusha. When, therefore, there is such a samasa, the words mentioned in sutra (1.1.26) are not to be declined like pronominals. Thus the word मासपूर्व is a compound of मास and पूर्व = मासेनपूर्व meaning ‘prior by a month,’ where the word masa is in the instrumental case. This compound will be declined like ordinary words, e.g. its dative will be मासपूर्वाय, though the dative of पूर्व, when standing by itself, is पूर्वस्मै; so also संवत्सरपूर्वाय ॥

The tritiya-samasa of the present sutra has reference to the special tritiya-samasa ordained by the particular sutra (2.1.31). namely, “that which ends with the 3rd case affix, is compounded with the words purva, sadrisa, sama, &c.” and has not reference to the tritiya-samasa in general, such as one ordained by (2.1.32),” that which ends with the 3rd case-affix when it denotes the agent or the instrument is compounded diversely with what ends in a krit affix.” Therefore, in phrases त्वयका कृतं ‘done by thee,’ मयका कृतं ‘done by me,’ these words are treated as pronominals, though in the instrumental case followed by a word ending in a krit-affix. In other words, reading this sutra with (2.1.31), we find that purva is the only sarvanama which is so compounded, and to which only the present sutra would seem to apply.

The word समास may appear to have been mentioned redundantly, as it has already been mentioned in the previous sutra, the primary object of the sutra authors being to shorten the rules by the keeping out of every unnecessary word. But here, the word समास has been repeated, to show that even in phrases like मासेन पूर्वाय, though not a compound, but used in construction with an instrumental case, the word पूर्व is not a *sarvanama_, that is to say, the prohibition extends even to phrases, which bear the sense of the instrumental compound, though not exhibited in the form of the instrumental compound.

Bhashya

तृतीयासमासे समास इति वर्तमाने पुनः समासग्रहणं किमर्थम् ? अयं तृतीयासमासोऽस्त्येव प्राथमकल्पिकः। यस्मिन्नैकपद्यमैकस्वर्यमेकविभक्तिकत्वं चेति। अस्ति च तार्दथ्यात् ताच्छब्द्यम्। तृतीयासमासार्थानि पदानि - तृतीयासमास इति। तद्यत् तार्दथ्यात् ताच्छब्द्यं तस्येदं ग्रहणम्। अथवा- समास इति वर्तमाने पुनः समासग्रहणस्यैतत् प्रयोजनम्। योगाङ्गं यथा विज्ञायेत। सति च योगाङ्गे योगविभागः करिष्यते - तृतीया तृतीयासमासे सर्वादीनि सर्वनामसञ्ज्ञानि न भवन्ति। मासपूर्वाय देहि। संवत्सरपूर्वाय देहीति। ततोऽसमासे। असमासे च तृतीयायाः सर्वादीनि सर्वनामसञ्ज्ञानि न भवन्ति। मासेन पूर्वाय देहि। संवत्सरेण पूर्वाय देहीति ॥30 ॥

Kashika

तृतीयासमासे सर्वादीनि सर्वनामसंज्ञानि न भवन्ति। मासपूर्वाय। संवत्सरपूर्वाय। द्व्यहपूर्वाय। त्र्यहपूर्वाय। समास इति वर्तमाने पुनः समासग्रहणं तृतीयासमासार्थवाक्येऽपि प्रतिषेधो यथा स्यात्। मासेन पूर्वाय। **पूर्वसदृशसमोनार्थ०**(२.१.३१) इति तृतीयासमासं प्रतिपदं वक्ष्यति, तस्येदं ग्रहणम्, न यस्य कस्यचित् तृतीयासमासस्य,**कर्तृकरणे कृता बहुलम्**(२.१.३२) इति। त्वयका कृतम्। मयका कृतम्॥

Siddhanta Kaumudi

अत्र सर्वनामता न स्यात् । मासपूर्वाय । तृतीयासमासाऽर्थवाक्येऽपि न । मासेन पूर्वाय ॥

Balamanorama

तृतीयासमासे - तृतीयासमासे ।सर्वादीनी॑त्यतः सर्वनामग्रहणम् ,नबहिव्रीहा॑वित्यतो नेति चानुवर्तते इत्यभिप्रेत्याह — इहेति । मासूपार्वायेति । मासेन पूर्व इति विग्रहः । हेतौ तृतीया ।पूर्वसदृशे॑ति तृतीयातत्पुरुषसमासः । मासात्पूर्वभावीत्यर्थः ।विभाषा दिक्समासे बहुव्रीहा॑वित्यतः समासग्रहणे अनुवर्तमाने पुनः समासग्रहणं तृतीयासमासीयलौकिकविग्रहवाक्यरूपगौणसमासस्यापि परिग्रहार्थम् । ततश्च फलितमाह — तृतीयासमासार्थेति । द्वन्द्वे च । सर्वादीनीत्यतः सर्वनामग्रहणं, न बहुव्रीहावित्यतो नेति चानुवर्तते ।

Tattvabodhini

तृतीयासमासे - तृतीयासमासे । अत्रविभाषा दिक्समासे॑ इत्यतः समास इत्यनुवर्तमाने पुनः समासग्रहणं गौणार्थस्यापि सङ्ग्रहार्थमित्यभिप्रेत्याह — तृतीयासमासार्थेति । इहपूर्वसदृशे॑ति विहितः समासो गृह्रते, प्रतिपदोक्तत्वात् । न तुकर्तृकरणे॑ इति समासः, तेन त्वयका कृत॑मित्यत्र निषेधो न भवति ।ओकारसकारभकारादौ सुपी॑ति व्यवस्थापयिष्यमाणत्वादिह सुपष्टेः प्रागकच् ।

Padamanjari

समासे इति, वर्तमाने इत्यादि । मुख्यस्यैव ग्रहणे प्राप्ते गौणस्यापि ग्रहणार्थं पुनः समासग्रहणमित्यर्थः । न च तृतीयासमासमात्रार्थे वाक्ये प्रसङ्ग इत्याह - पूर्वसदृशेत्यादि । एतच्च लक्षणप्रतिपदोक्तपरिभाषया लभ्यते । त्वयका, मयकेति । ‘युष्मदस्मदोस्तृतीयैकवचने’,’त्वमावेकवचने’, ‘योऽचि’ सुबन्तयोः प्राक् टेरकच् ॥

Nyaas

ननु च विभाषा दिक्समासे बहुव्रीहौ (1.1.28) इत्यत समासग्रहणमनुवर्तत एव, तत् किमर्थं पुनः समासग्रहणमित्यत आह- समास इत्यनुवर्तमाने इत्यादि। अस्त्येव तृतीयासमासो मुख्यः, यस्मिन् सत्यैकपद्यमैकस्वर्यमेकविभ्कतिकत्वं च भवति। अस्ति च गौणः, यस्मस्तादथ्र्यादतस्मिन्नपि ताच्छबद्यं भवति। स पुनस्तृतीयासमासार्थंवाक्यम्। तत्रासति पुनः समासग्रहणे गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययः (व्या।प।4) इति मुख्य एव प्रतिषेधः स्यात्। नेतरत्र। तस्मात् तत्रापि प्रतिषेधो यथा स्यादित्येवमर्थं पुनः समासग्रहणम्। यदि तर्हि तृतीयासमासार्थेऽपि वाक्ये प्रतिषेधो भवति,यावान् कश्चित् तृतीयासमासः, तदर्थे वाक्ये सर्वत्र प्रतिषेधः स्यात्; ततश्च त्वयका कृतम्, मयका कृतम्ित्यत्राकज् न स्यात्। भवति ह्रेतत् **कर्तृकरणे कृता बहुलम्** (2.1.32) इत्यनेन यः समासस्तदर्थं वाक्यम्;तत्र कप्रत्यये कृते `त्वत्केन कृतम्, मत्केन कृतम् इति रूपं स्यादित्यत आह- पूर्वसदृश`इत्यादि। एतच्च लक्षमप्रतिपदोक्तपरिभाषया लभ्यते।`त्वयका, मयका इति। पूर्ववत् त्वमावादेशौ, सुबन्तादकच्। क्वचित् त्वकया, मकया इति पाठः स त्वयुक्तः। प्रातिपदिकात् त्वकजुत्पत्तौ त्वकया मकयेति भवति, न चात्र प्रातिपदिकादकजुत्पत्तिरिष्यते; अपि तु सुबन्तात्। तथा ह्रकज्विधौ वक्ष्यति-प्रातिपिदकात् सुपः` इति च द्वयमपीहानुवर्तते। तत्राभिधानतो व्यवस्था- क्वचित् प्रातिपदिकस्य प्राक् टेः प्रत्ययो भवति, क्वचित् सुबन्तस्य। युष्मकाभिः,युष्मकासु, अस्मकासु, युवकयोः, आवयकयोः इत्यत्र प्रातिपदिकस्य। त्वयका, मयका,त्वयकि,मयकि` इत्यत्र सुबन्तस्य` इति।

Praudhamanorama

तृतीयासमासार्थेति। इह ‘पूर्वसदृश—’ इति विहितः समासो गृह्यते प्रतिपदोक्तत्वात्, न तु ‘कर्तकरणे कृता’ इति। तेन त्वयका कृतमित्यत्र निषेधो न।