11026: क्तक्तवतू निष्ठा

Padacheda: क्त-क्तवतू | S | 1 | 2 |

निष्ठा | S | 1 | 1 |

Sutrartha

‘क्त’ तथा ‘क्तवतु’ एतौ प्रत्ययौ निष्ठासंज्ञकौ स्तः ।

व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति ‘निष्ठा’ इति संज्ञा । ‘क्त’ तथा ‘क्तवतु’ एतयोः प्रत्यययोः ‘निष्ठा’ इति संज्ञा भवति ।

प्रयोजनम्

निष्ठासंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्याम् भिन्नाः विधयः उक्ताः सन्ति । यथा, दकारान्तधातोः परः निष्ठाप्रत्ययः विद्यते चेत् निष्ठाप्रत्ययस्य तकारस्य तथा च धातोः अन्ते विद्यमानस्य दकारस्य - उभयोः अपि रदाभ्यां निष्ठातो नः पूर्वस्य च दः (8.2.42) इत्यनेन सूत्रेण नकारादेशः भवति -

भिद् + क्त [**निष्ठा** (3.2.102) इति क्त-प्रत्ययविधानम्]
--> भिद् + त [इत्संज्ञालोपः]
--> भिन् + न [**रदाभ्यां निष्ठातो नः पूर्वस्य च दः** (8.2.42) इति दकारस्य नकारः, निष्ठाप्रत्ययस्य तकारस्य अपि नकारः]
--> भिन्न

प्रयोगः

अष्टाध्याय्यां निष्ठासंज्ञायाः साक्षात् प्रयोगः चतुर्दशसु सूत्रेषु कृतः अस्ति - 1. निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः (1.2.19) 2. निष्ठा (2.2.36) 3. न लोकाव्ययनिष्ठाखलर्थतृनाम् (2.3.69) 4. निष्ठा (3.2.102) 5. स्फायः स्फी निष्ठायाम् (6.1.22) 6. निष्ठा च द्व्यजनात् (6.1.205) 7. निष्ठोपसर्गपूर्वमन्यतरस्याम् (6.2.110) 8. निष्ठोपमानादन्यतरस्याम् (6.2.169) 9. निष्ठायां सेटि (6.4.52) 10. निष्ठायामण्यदर्थे (6.4.60) 11. ह्लादो निष्ठायाम् (6.4.95) 12. श्वीदितो निष्ठायाम् (7.2.14) 13. इण्निष्ठायाम् (7.2.47) 14. रदाभ्यां निष्ठातो नः पूर्वस्य च दः (8.2.42) अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः संज्ञायाः प्रयोगः भवितुम् अर्हति ।

क्तवतुँप्रत्यये इत्संज्ञक-उकारस्य प्रयोजनम्

‘क्तवतु’ प्रत्यये उकारः इत्संज्ञकः अस्ति । अस्य एकं प्रयोजनम् अस्ति उगिदचां सर्वनामस्थाने अधातोः (7.1.70) इत्यनेन सर्वनामस्थाने परे नुमागमः । वस्तुतस्तु अस्मिन् प्रत्यये उकारस्य स्थाने इत्संज्ञकः ऋकारः स्थाप्यते चेत् (इत्युक्ते , ‘क्तवतृँ’ इति प्रत्ययः निर्मीयते चेत्) अपि अनेन एव सूत्रेण नुमागमः भवितुम् अर्हति । तथापि अत्र पाणिनिना इत्संज्ञकः उकारः एव स्थाप्यते । अयम् उकारः अत्वसन्तस्य चाधातोः (6.4.14) इति सूत्रेण प्रथमैकवचनस्य रूपे उपधादीर्घत्वम् कारयितुम् स्थापितः अस्ति -

पठितवत् + सुँ
--> पठितवत् + स् [इत्संज्ञालोपः]
--> पठितवात् + स् [**अत्वसन्तस्य चाधातोः** (6.4.14) इति 'अतुँ' प्रत्ययान्तस्य अङ्गस्य उपधादीर्घः]
--> पठितवा नुम् त् + स् [**उगिदचां सर्वनामस्थाने अधातोः** (7.1.70) इत्यनेन सर्वनामस्थाने परे अङ्गस्य नुमागमः । अत्र दीर्घे कृते एव नुमागमः भवति इति कौमुदीवचनम् ]
--> पठितवा न् त् स् [मकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः । उकारः उच्चारणार्थः, सोऽपि लुप्यते ।]
--> पठितवान् त् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति अपृक्त-सुँ-प्रत्ययस्य लोपः]
--> पठितवान् [**संयोगान्तस्य लोपः** (8.2.23) इति तकारलोपः]

अत्र ‘क्तवतृँ’ इति प्रत्ययः क्रियते चेत् उपधादीर्घः नैव सिद्ध्येत्, अतः अत्र ‘क्तवतुँ’ इति उकारनिर्देशः एव आवश्यकः ।

इतरेतराश्रयः

क्तक्तवतू निष्ठा (1.1.26) इत्यनेन सूत्रेण ‘क्त’ तथा ‘क्ववतुँ’ एतयोः प्रत्यययोः निष्ठासंज्ञा भवति । इत्युक्ते, एतयोः शब्दयोः प्रारम्भे प्रत्ययसंज्ञा भवेत्, ततः एव एतयोः निष्ठासंज्ञा अपि भवितुम् अर्हति । परन्तु एतयोः शब्दयोः प्रत्ययसंज्ञा तु निष्ठा (3.2.102) इत्यनेनैव सूत्रैण भवति । इत्युक्ते, अत्र कश्चन इतरेतराश्रयः (cyclic dependency) दृश्यते - अ) निष्ठा (3.2.102) इत्यनेन निष्ठासंज्ञकौ क्तक्तवतुँशब्दौ प्रत्ययौ भूते भवतः - इति निष्ठासंज्ञाश्रिता प्रत्ययसंज्ञा । आ) क्तक्तवतू निष्ठा (1.1.26) इत्यनेन क्तक्तवतुँप्रत्यययोः निष्ठासंज्ञा भवति - इति प्रत्ययसंज्ञाश्रिता निष्ठासंज्ञा । अस्य इतरेतराश्रयस्य समाधानम् कर्तुम् भाष्यकारः निष्ठा (3.2.102) अस्मिन् सूत्रे प्रयुक्ताम् ‘निष्ठा’संज्ञाम् ‘भाविनी’संज्ञारूपेण बोधयति । भाविनी इत्युक्ते ‘अग्रे या भविष्यति सा’ । ‘येषाम् प्रत्ययत्वे प्राप्ते निष्ठासंज्ञा भवेत्, तौ क्तत्ववतुशब्दौ निष्ठासंज्ञया अत्र गृह्येते, तयोः च भूतकाले प्रयोगः भवति’ इति निष्ठा (3.2.102) सूत्रस्य भाष्यकारेण उक्तः आशयः अस्ति ।

Sutrartha (English)

The ‘क्त’ and ‘क्तवतु’ pratyayas are called ‘निष्ठा’.

Vasu English Summary

The affixes क्त and क्तवतु are called निष्ठा।

Vasu English Translation

The affixes क्त and क्तवतु are called निष्ठा। This defines the nishtha affixes, that is to say, the affixes of the past participle. The actual affixes are त, तवत्, the क and उ being indicatory. They being कित् are liable to all the rules applicable to कित् affixes, such as rule (1.1.5). Thus we have, कृतः, कृतवान्, भुक्तः, भुक्तवान्.

The force of the indicatory उ in ktavatu is, by (4.1.6), to indicate that in forming the feminine of nouns ending in an affix having an indicatory vowel of uk pratyahara (उ, ऋ, लृ), the affix ङीप् (ई) must be added. Thus कृतवान् (masc.), कृतवती (fem.). The word nishtha occurs in sutra (7.2.14).

Bhashya

क्तक्तवतू निष्ठा निष्ठासञ्ज्ञायां समानशब्दप्रतिषेधः। निष्ठासञ्ज्ञायां समानशब्दानां प्रतिषेधो वक्तव्यः। लोतो गर्त इति। निष्ठासञ्ज्ञायां समानशब्दप्रतिषेधः। निष्ठासञ्ज्ञायां समानशब्दानामप्रतिषेधः। अनर्थकः प्रतिषेधः अप्रतिषेधः। निष्ठासञ्ज्ञा कस्मान्न भवति। अनुबन्धोऽन्यत्त्वकरः। अनुबन्धः क्रियते सोऽन्यत्त्वं करिष्यति। अनुबन्धोऽन्यत्त्वकर इति चेन्न लोपात्। अनुबन्धोऽन्यत्त्वकर इति चेत् तन्न। किं कारणम्। लोपात्। लुप्यतेऽत्रानुबन्धः। लुप्तेऽत्रानुबन्धे नान्यत्त्वं भवति। तद्यथा कतरद् देवदत्तस्य गृहम्। अदो यत्रासौ काक इति। उत्पतिते काके नष्टं तद् गृहं भवति। एवमिहापि लुप्तेऽनुबन्धे नष्टः प्रत्ययो भवति। यद्यपि लुप्यते जानाति त्वसौ सानुबन्धकस्येयं सञ्ज्ञा कृतेति। तद्यथा इतरत्रापि कतरद् देवदत्तस्य गृहम्। अतो यत्रासौ काक इति। उत्पतिते काके यद्यपि नष्टं तद् गृहं भवति। अन्ततस्तमुद्देशं जानातीति। सिद्धविपर्यासश्च। सिद्धश्च विपर्यासः। यद्यपि जानाति संदेहस्तु तस्य भवति। अयं स तशब्दो लोतो गर्त इति। अयं स तशब्दो लूनो गीर्ण इति। तद्यथा इतरत्रापि कतरद् देवदत्तस्य गृहम्। अतो यत्रासौ काक इति। उत्पतिते काके यद्यपि तमुद्देशं जानाति सन्देहस्तु तस्य भवति इदं तद् गृहमिदं तद् गृहमिति। एवं तर्हिं - कारककालविशेषात् सिद्धम्। कारककालविशेषावुपादेयौ। भूते यस्तशब्दः कर्मणि कर्तरि भावे चेति। तद्यथा इतरत्रापि य एष मनुष्यः प्रेक्षापूर्वकारी भवति सोऽध्रुवेण निमित्तेन ध्रुवं निमित्तमुपादत्ते वेदिकां पुण्डरीकं वा। एवमपि प्राकीर्ष्ट इत्यत्रापि प्राप्नोति। लुङि सिजादिदर्शनात्। लुङि सिजादिदर्शनान्न भविष्यति। यत्र तर्हि सिजादयो न दृश्यन्ते प्राभित्तेति। दृश्यन्तेऽत्रापि सिजादयः। किं वक्तव्यमेतत् ? नहि। कथमनुच्यमानं गंस्यते ? यथैवायमनुपदिष्टान् कारकालविशेषानवगच्छति। एवमेतदप्यवगन्तुमर्हति यत्र सिजादयो नेति। इति पञ्चम आह्निकं समाप्तम्।

Kashika

क्तश्च क्तवतुश्च क्तक्तवतू प्रत्ययौ निष्ठासंज्ञौ भवतः। कृतः। कृतवान्। भुक्तः। भुक्तवान्। ककारः कित्कार्यार्थः। उकार उगित्कार्यार्थः। निष्ठाप्रदेशाः — श्वीदितो निष्ठायाम् (७.२.१४) इत्येवमादयः॥

Siddhanta Kaumudi

एतौ निष्ठासंज्ञौ स्तः ॥

Laghu Siddhanta Kaumudi

एतौ निष्ठासंज्ञौ स्तः॥

Balamanorama

क्तक्तवतू निष्ठा - क्तक्तवतू निष्ठा । क्त, क्तवतु अनयोद्र्वन्द्वः । निष्ठेति प्रत्येकाभिप्रायमेकवचनम् ।

Padamanjari

इह क्तक्तवतुरूपाश्रयेयं संज्ञा, रूपनिर्ग्रहश्च प्रयोगे उपदेशे वा भवति । न च प्रयोगे सानुबन्धकं रूपमस्तीत्युपदेशगतं ग्राह्यम् । तत्र ङपुंसके भावे क्तः’ ‘ञीतः’ इति क्तस्य क्वचिदुपदेशोऽस्ति । यदि तस्यैव स्याद्, लिङ्गान्तरे,कालान्तरे धात्वन्तरे च न स्यात् । क्तवतोस्तु न क्वचिदुपदेशः, तत्केनविहितयोः क्तक्तवत्वोरेषा संज्ञा विधीयते ? अनयैव संज्ञया । वक्ष्यति - निष्ठेति । यद्येवम्, इतरेतराश्रयः प्राप्नोति-विहितयोः संज्ञा, संज्ञया च विधानमिति, नैष दोषः; भाविनी संज्ञा विज्ञायते सूत्रशाटकवत् । तद्यथा-कश्चित्कञ्चित् तन्तुवायमाह-अस्य सूत्रस्य शाटकं वयेति । स पश्यति-यदि शाटको न वातव्यः; अथ वातव्यो न शाटकः; शाटको वातव्यश्चेति विप्रतिषिद्धम्; स मन्ये वातव्यो यस्मिन्नुते शाटक इत्येतद्भवतीति । तद्वदिहापि तौ भूते काले भवतः, ययोर्विहितयोर्निष्ठेत्येषा संज्ञा भविष्यतीति ॥

Nyaas

भुक्तवान् इति। चोः कुः (8.2.30) इत कुत्वम्। अत्वसन्तस् चाधातोः (6.4.14) इति दीर्घः। अथ केन विहितयोः क्तक्तवत्वोरेषा संज्ञा विधीयते? अनयैवसंज्ञया। वक्ष्यति तृतीये निष्ठा (3.2.102) इति। यद्येवम्, निष्ठासंज्ञया क्तक्तवतू भाव्येते, तावेवाश्रित्य निष्ठासंज्ञेति; इतरेतराश्रयो दोषो भवति, इतरेतराश्रयाणि कार्याणि शास्त्रे न प्रकल्प्यन्ते, (व्या।28) नैष दोषः; भाविनी हि संज्ञा विज्ञास्यते, यथा- `अस्य सूत्रस्य शटकं वय इति। तौ भूते काले भवतः, ययोर्विहित-र्निष्ठेत्येषा संज्ञा भवतीति।

Prakriyasarvasvam

एतौ निष्ठाख्यौ स्तः । तत्र क्तवतुः कर्तरि । उकावितौ । कित्त्वादगुणः । कृतवान् । क्तस्तु ‘तयोरेव कृत्यक्तखलर्थाः’ (३-४-७०) इति भावकर्मणोरेव । कृतः कटः । अकर्मकेभ्यो भावे । भूतमनेन ।<!आदिकर्मणि निष्ठा वाच्या!> (वा० ३-२-१०२) । आरम्भश्वासौ । तद्द्योतनाय क्वचित् प्रशब्दः । प्रभुक्तवान् । भोजनमारब्धवानित्यर्थः ।