11025: डति च

Padacheda: डति | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha

‘डति’ प्रत्ययान्तः संख्यासंज्ञकः शब्दः ‘षट्’ नाम्ना ज्ञायन्ते ।

व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति ‘षट्’ इति संज्ञा । ‘डति’प्रत्ययान्तशब्दस्य (‘कति’ इति शब्दस्य) ‘षट्’ संज्ञा भवति इति अस्य सूत्रस्य आशयः । ‘डति’ इति कश्चन तद्धितप्रत्ययः । किमः सङ्ख्यापरिमाणे डति च (5.2.41) इत्यनेन सूत्रेण ‘किम्’शब्दात् डति-प्रत्ययः विधीयते, येन ‘कति’ इति शब्दः सिद्ध्यति । बहुगणवतुडति संख्या (1.1.23) इत्यनेन सूत्रेण अस्य शब्दस्य ‘संख्या’संज्ञा भवति । अस्यैव शब्दस्य अनेन सूत्रेण ‘षट्’ इति संज्ञा दीयते । ‘कति’ इत्यस्य एकस्य शब्दस्यैव ‘षट्’ संज्ञाविधानार्थम् अयम् सूत्रप्रपञ्चः ।

प्रयोजनम्

षट्-संज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः पाठिताः सन्ति । यथा, षट्-संज्ञकात् शब्दात् विहितस्य प्रथमाबहुवचनस्य जस्-प्रत्ययस्य ‘लुक्’ भवति -

कति + जस् [प्रथमाबहुवचनस्य जस्-प्रत्ययः]
--> कति + ० [**षड्भ्यो लुक्** (7.1.22) इत्यनेन जस्-प्रत्ययस्य लुक्]
--> कति

प्रयोगः

अष्टाध्याय्यां षट्-संज्ञायाः साक्षात् प्रयोगः पञ्चसु सूत्रेषु कृतः अस्ति । 1. षट्कतिपयचतुरां थुक् (5.2.51) 2. षट्त्रिचतुर्भ्यो हलादिः (6.1.179) 3. षट्चतुर्भ्यश्च (7.1.55) 4. न षट्स्वस्रादिभ्यः (4.1.10) 5. षड्भ्यो लुक् (7.1.22) अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः प्रयोगः भवितुम् अर्हति । ष्णान्ता षट् (1.1.24) अनेन सूत्रेण केषाञ्चन अन्येषाम् शब्दानाम् अपि ‘षट्’ इत्येव संज्ञा भवति इति स्मर्तव्यम् ।

उणादिसंज्ञकः डति-प्रत्ययः

संस्कृतव्याकरणे द्वौ डतिप्रत्ययौ स्तः - (1) किमः सङ्ख्यापरिमाणे डति च (5.2.41) इत्यनेन सूत्रेण ‘किम्’शब्दात् विहितः तद्धितसंज्ञकः डति-प्रत्ययः, तथा च (2) पातेर्डति (४.४७) इत्यनेन उणादिसूत्रेण ‘पा’धातोः विहितः उणादिसंज्ञकः (कृत्संज्ञकः) डतिप्रत्ययः । एताभ्याम् तद्धितसंज्ञकस्य डति-प्रत्ययस्य प्रयोगेण प्राप्तः ‘कति’शब्दः एव संख्यासंज्ञकः अस्ति, पातेर्डति (४.४७) इत्यनेन सूत्रेण सिद्धः ‘पति’ शब्दः न । अतएव अस्मिन् सूत्रे ‘संख्या’इत्यस्य अनुवृत्तिः आवश्यकी, येन केवलं ‘कति’शब्दस्य एव षट्-संज्ञा भवेत् ।

सूत्रस्य वैयर्थ्यम्

बहुगणवतुडति संख्या (1.1.25) इत्यस्मिन् सूत्रे ‘डति’ इति शब्दः विद्यते । डति च (1.1.25) इत्यत्रापि ‘डति’ इत्येव शब्दः विद्यते । एतादृशम् ‘डति’शब्दस्य द्विवारम् ग्रहणम् अनावश्यकम् अस्ति इति अत्र भाष्यकारः स्पष्टीकरोति । तदित्थम् - बहुगणवतुडति संख्या (1.1.23) इत्यस्मात् सूत्रात् ष्णान्ता षट् (1.1.24) इत्यस्मिन् सूत्रे ‘डति’ इत्यस्य अनुवृत्तिः क्रियते चेत् तत्रैव ‘डति’शब्दस्यापि षट्-संज्ञा भवेत् एव, येन डति च (1.1.25) इति सूत्रमेव अनावश्यकम् भवति । नो चेत्, बहुगणवतुडति संख्या (1.1.23) इत्यस्य स्थाने ‘बहुगणवतु संख्या’ इत्येव उक्त्वा अग्रे (प्रकृतसूत्रे) डति च (1.1.25) इत्यत्र संख्याशब्दस्य षट्-शब्दस्य च अनुवृत्तिं स्वीकृत्य ‘डति-प्रत्ययान्तशब्दः संख्यासंज्ञकः षट्-संज्ञकः च भवति’ इति अर्थः अपि भवितुम् अर्हति । इत्युक्ते, एकस्मिन् एव स्थले ‘डति’ग्रहणं पर्याप्तम् - इति अत्र भाष्यकारस्य आशयः अस्ति ।

Sutrartha (English)

The word ending in the डति प्रत्यय which is referred to as ‘संख्या’ is also called ‘षट्’.

Vasu English Summary

And the संख्या-s ending with the affix डति are called षट्।

Vasu English Translation

And the संख्या-s ending with the affix डति are called षट्। This sutra enlarges the scope of the definition of षट् by including in it, words formed by डति. By sutra 22, words in डति are already sankhya; by this they are also षट्. Therefore we have कति पठन्ति, ‘how many are reading,’ कति पश्य ‘see how many.’ Here कति has lost its plural termination by (7.1.22).

Bhashya

डति च इदं डतिग्रहणं द्विः क्रियते - सङ्ख्यासञ्ज्ञायां, षट्संज्ञायां च। एकं शक्यमकर्तुम्। कथम्? यदि तावत् सङ्ख्यासञ्ज्ञायां क्रियते, षट्संज्ञायां न करिष्यते। कथम्? ष्णान्ता षट् डति इतीत्यनुवर्तिष्यते। अथ षट्संज्ञायां क्रियते सङ्ख्यासञ्ज्ञायां न करिष्यते। इति चेत्यत्र सङ्ख्या सञ्ज्ञाप्यनुवर्तिष्यते।

Kashika

डत्यन्ता च या संख्या सा षट्संज्ञा भवति। कति तिष्ठन्ति। कति पश्य॥

Siddhanta Kaumudi

डत्यन्ता सङ्ख्या षट्संज्ञा स्यात् ॥

Laghu Siddhanta Kaumudi

डत्यन्ता संख्या षट्संज्ञा स्यात्॥

Balamanorama

डति च - डति च ।डती॑त्यविभक्तिको निर्देशः । प्रत्ययत्वात्तदन्तग्रहणम् । पूर्वसूत्रात्संख्ये॑त्यनुवर्तते । ‘ष्णान्ता षट्’ इत्यतःष॑डिति च । तदाह — डत्यन्तेति । संक्येति किम् । पतिः । अथ षट्संज्ञाकार्यं लुकं वक्ष्यन्नाह-प्रत्ययस्य लुक् । ‘अदर्शनं लोप’ इत्यतोऽदर्शनमित्यनुवर्तते । प्रत्ययस्याऽदर्शनं लुक्श्लुलुप्संज्ञकं स्यादित्यर्थः प्रतीयते । एवं सति एकस्यैव प्रत्ययाऽदर्शनस्य तिरुआओऽपि संज्ञाः स्युः । ततश्चहन्ती॑त्यत्र शब्लुकि ‘श्लौ’ इति द्वित्वं स्यात् ।जुहोती॑त्यत्र श्लौ सतिउतो वृद्धिर्लुकि हली॑ति वृद्धिः स्यात् ।

Tattvabodhini

डति च - डति च ।ष्णान्ता ष॑डित्यतःष॑डित्यनुवर्तते ।सङ्ख्ये॑ति पर्कृतं,डती॑त्यनेन विशेष्यते तदाह — डत्यन्ता सङ्ख्येति । सङ्ख्येति किम् पतयः ।

Padamanjari

डत्यन्ता च या संख्येति । अनेन संख्याग्रहणानुवृत्तिं दर्शयति । असत्यां ह्यनुवृतौ पातेर्डतिः पतयः-अत्रापि स्यात् । अथेह संख्याग्रहणानुवृतावपि कस्मादेवात्र न भवति, सामान्येन हि डतेः संख्यासंज्ञा विहिता ? उच्यते; संख्यासंज्ञायां हि वतुना साहचर्यातद्धितस्य डतेर्ग्रहणम्, न त्वौणादिकस्य ॥

Nyaas

डत्यन्ता या संख्या सा षट्संज्ञा भवति इति। संख्याग्रहणेनेहापि संख्यानुवर्तत इति दर्शयति। किमर्थं पुनः सेहानुवर्तते? पातेर्डतिः पतय इत्यत्र मा भूत्। अथसंख्यानुवृत्तावपि कस्मादेवात्र न भवति, यावतायमपि संख्यासंज्ञ एव, सामान्येन हिपूर्वं डतेः संख्यासंज्ञा विहिता? नैतदस्ति; वतुना साहचर्यात् तद्धितस्यैव डतेस्तत्र ग्रहणम्, न कृतः; कृच्चायम्।

Prakriyasarvasvam

डत्यन्ता संख्या षट्संज्ञा ॥

Sarala

ष्णान्ता षट् (१.१.२४) इत्यतः “षडि”ति, बहुगणवतुडति संख्या (१.१.२३) इत्यतः “सङ्ख्ये”ति चानुवर्त्तते, विशेषणेन तदन्तविधिस्तदाह - डत्यन्ता इति

Sudha

डति चेति । डतीत्यविभक्तिको निर्देशः । प्रत्ययत्वात्तदन्तग्रहणम् । पूर्वसूत्रात् संख्येत्यनुवर्तते । ष्णान्ता षट्**(1.1.24) इत्यतः षडिति च, तदाह - **डत्यन्तेति ।

Sutra Prayogas

  • रावणाद् (भट्टिकाव्यम्): भीत्रार्थानां भयहेतुः इति अपादानसंज्ञा।