11020: दाधा घ्वदाप्

Padacheda: दा-धा | S | 1 | 3 |

घु | S | 1 | 1 |

अदाप् | S | 1 | 1 |

Sutrartha

‘दाप्’ तथा ‘दैप्’ एतौ धातू वर्जयित्वा अन्ये दारूपाः धारूपाः च धातवः घुसंज्ञकाः भवन्ति ।

व्याकरणशास्त्रस्य संज्ञासु अन्यतमा संज्ञा ‘घु’ इति अनेन सूत्रेण दीयते । ‘दाप्’ तथा ‘दैप्’ एतौ धातू वर्जयित्वा येषाम् धातूनाम् कुत्रचित् ‘दा’ उत ‘धा’ इति रूपं श्रूयते, तेषाम् सर्वेषाम् ‘घु’ इति संज्ञा भवति ।

दारूपाः धातवः

येषाम् धातूनाम् प्रक्रियायां कुत्रचित् ‘दा’ इति परिवर्तनं भवति, ते सर्वे ‘दारूपाः’ धातवः । धातुपाठे आहत्य षट् धातवः दारूपाः सन्ति -

  1. दाप् (लवने, अदादिः) - (2.0054)

  2. दैप् (शोधने, भ्वादिः) - (1.1073)

  3. डुदाञ् (दाने, जुहोत्यादिः) - (3.0010)

  4. दाण् (दाने, भ्वादिः) - (1.1079)

  5. दो (अवखण्डने, दिवादिः) - (4.0043)

  6. देङ् (रक्षणे, भ्वादिः) - (1.1117)

एतेषु ‘दाप्’ तथा ‘दैप्’ एतौ वर्जयित्वा अन्येषाम् चतुर्णाम् ‘घु’संज्ञा भवति ।

धारूपाः धातवः

येषाम् धातूनाम् प्रक्रियायां कुत्रचित् ‘धा’ इति परिवर्तनं भवति, ते सर्वे ‘धारूपाः’ धातवः । धातुपाठे आहत्य द्वौ धातू धारूपौ स्तः -

  1. डुधाञ् (धारणपोषणयोः, जुहोत्यादिः) - (3.0011)

  2. धेट् (पाने, भ्वादिः) - (1.1050)

एतयोः द्वयोः अपि ‘घु’ इति संज्ञा भवति ।

प्रयोजनम्

घुसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः उच्यन्ते । यथा, घुसंज्ञकस्य दा-धातोः तकारादि-कित्-प्रत्यये परे ‘दद्’ इति आदेशः भवति -

डुदाञ् (दाने, जुहोत्यादिः)
दा + क्त [**निष्ठा** (3.2.102) इति क्तप्रत्ययः]
--> दा + त [**लशक्वतद्धिते** (1.3.8), **तस्य लोपः** (1.3.9)
--> दद् + त [**दो दद् घोः** (7.4.46)  इति घुसंज्ञकस्य 'दा' इत्यस्य दद्-आदेशः ।]
--> दत् + त [**खरि च** (8.4.55) इति चर्त्वम्]
--> दत्त

प्रयोगः

अष्टाध्याय्यां ‘घु’संज्ञायाः साक्षात् निर्देशः अष्टसु सूत्रेषु कृतः अस्ति ।

  1. स्थाघ्वोरिच्च (1.2.17)

  2. गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु (2.4.77)

  3. उपसर्गे घोः किः (3.3.92)

  4. घुमास्थागापाजहातिसां हलि (6.4.66)

  5. घ्वसोरेद्धावभ्यासलोपश्च (6.4.119)

  6. घोर्लोपो लेटि वा (7.3.70)

  7. दो दद्घोः (7.4.46)

8. नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च (8.4.17) अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः प्रयोगः भवितुम् अर्हति ।

सूत्रे ‘अदाप्’ इति ग्रहणस्य प्रयोजनम्

‘अदाप्’ इति स्पष्टनिर्देशात् दाप् (लवने, (2.0054)) तथा दैप् (शोधने, (1.1073)) एतयोः दारूपयोः धात्वोः अनेन सूत्रेण घुसंज्ञा न भवति । तथा क्रियते चेत् उपरिनिर्दिष्टानि सूत्राणि एतेषां विषये अपि कार्यं कृत्वा अनिष्टरूपाणां सिद्धिं कुर्युः । यथा, क्त-प्रत्यये परे दो दद्घोः (7.4.46) इत्यनेन अङ्गस्य ‘दद्’ इति सर्वादेशे कृते ‘दत्त’ इति अनिष्टं रूपं सिद्ध्येत् (इष्टरूपम् तु उभयोः विषये ‘दातम्’ इत्येव अस्ति) । एवमेव लुङ्लकारस्य रूपसिद्धौ गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु (2.4.77) इत्यनेन सिच्-प्रत्ययस्य लोपे कृते ‘अदात्’ इति अनिष्टं रूपं जायेत (इष्टरूपम् तु उभयोः विषये ‘अदासीत्’ इति अस्ति) । अतः अत्र एतयोः घुसंज्ञा अत्र ‘अदाप्’ इति निर्देशं कृत्वा निषिध्यते ।

Sutrartha (English)

Except for the verbs दाप् and दैप्, all other verbs that are referred to as ‘दारूपाः’ or ‘धारूपाः’ are known as ‘घु’.

Vasu English Summary

The words having the form of दा ‘to give’ and धा ‘to place’ are called घु।

Vasu English Translation

The words having the form of दा ‘to give’ and धा ‘to place’ are called घु। This defines the word ghu. Four verbs have the form of दा, or assume it by the application of (6.1.45), and two, of धा; they are called घु. The ghu verbs have certain peculiarities of conjugation to be described hereafter.

The घु verbs are the following:- डुदाञ् “to give,” as प्रणिददाति; दाण् “to give,” as, प्रणिदाता; दो “to cut,” as, प्रणिद्यति; देङ् “to pity” as, प्रणिदयते, डुधाञ् “to place” as प्रणिदधाति, धेट् to “feed” as, प्रणिधयति.

In the above examples, because of the verbs being घु, the न of प्रनि is changed into ण by (8.4.17).

Similarly दाप् “to cut” and दैप् “to clean” not being called घु, rules (7.4.46) and (7.4.47) do not apply to them. Thus दा+क्त = दातं ‘what is cut,’ as, दातं बर्हिः. So also अवदातं “washed” as, अवदातं मुखं “a bright face.” But with दा “to give,” &c. दा+क्त = दद्+त (7.4.46) = दत्तः “given;” so also we have प्र+दा+क्त = प्रत्तम् (7.4.47). The word घु occurs in sûtra (6.4.66), &c. The word dåp includes also daip by the paribhâshâ given under (3.4.19), ऐ changed into आ by (6.1.45).

Bhashya

दाधा घ्वदाप् ॥ घुसञ्ज्ञायां प्रकृतिग्रहणं शिदर्थम् ॥ घुसञ्ज्ञायां प्रकृतिग्रहणं कर्तव्यम्। दाधाप्रकृतयो घुसञ्ज्ञा भवन्तीति वक्तव्यम्। किं प्रयोजनम्। आत्वभूतानामियं सञ्ज्ञा क्रियते सा आत्वभूतानामेव स्यात्। अनात्वभूतानां न स्यात्। ननु च भूयिष्ठानि घुसञ्ज्ञाकार्याणि आर्धधातुके तत्र चैते आत्वभूता दृश्यन्ते। शिदर्थम्। शिदर्थं प्रकृतिग्रहणं कर्तव्यम्। शित्यात्वं प्रतिषिध्यते तदर्थम्। प्रणिदयते प्रणिद्यति प्रणिधयतीति। भारद्वाजीयाः पठन्ति। ॥ घुसञ्ज्ञायां प्रकृतिग्रहणं शिद्विकृतार्थम् ॥ घुसञ्ज्ञायां प्रकृतिग्रहणं कर्तव्यम्। किं प्रयोजनम्। शिदर्थं विकृतार्थं च। शित्युदाहृतम्। विकृतार्थं खल्वपि। प्रणिदाता। प्रणिधाता। किं पुनः कारणं न सिध्यति। लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति प्रतिपदं ये आत्वभूतास्तेषामेव स्यात्। लक्षणेन ये आत्वभूतास्तेषां न स्यात्। अथ क्रियमाणेपि प्रकृतिग्रहणे कथमिदं विज्ञायते दाधाः प्रकृतयः इति, आहोस्विद् दाधां प्रकृतय इति। किं चातः। यदि विज्ञायते दाधाः प्रकृतय इति स एव दोषः आत्वभूतानामेव स्यात्। अनात्वभूतानां न स्यात्। अथ विज्ञायते दाधां प्रकृतय इति, अनात्वभूतानामेव स्यादात्वभूतानां न स्यात् । एवं तर्हि नैवं विज्ञायते दाधाः प्रकृतय इति। नापि दाधां प्रकृतय इति। कथं तर्हि? दाधा घुसञ्ज्ञा भवन्ति प्रकृतयश्चैषामिति । तत्तर्हि प्रकृतिग्रहणं कर्तव्यम् ? न कर्तव्यम्। इदं प्रकृतमर्थग्रहणमनुवर्तते। क्व प्रकृतम्? इर्दूतौ च सप्तम्यर्थे इति। वक्ष्यामि। दाधाध्वदाप् अर्थे इति । नैवं शक्यम्। ददातिना समानार्थान् रातिरासतिदाशतिमंहतिप्रीणातिप्रभृतीनाहुः। तेषामपि घुसञ्ज्ञा प्राप्नोति। तस्मान्नैवं शक्यम्। न चेदेवं प्रकृतिग्रहणं कर्तव्यमेव । न कर्तव्यम्। शिदर्थेन तावन्नार्थः प्रकृतिग्रहणेन। अवश्यं तत्र मार्थं प्रकृतिग्रहणं कर्तव्यम्। प्रणिमयते प्रण्यमयतेत्येवमर्थम्। तत् पुरस्तादपक्रक्ष्यते धुप्रकृतौ माप्रकृतौ चेति । यदि प्रकृतिग्रहणं क्रियते प्रनिमिनोति प्रनिमीनाति - अत्रापि प्राप्नोति। अथाक्रियमाणेऽपि प्रकृतिग्रहणे इह कस्मान्न भवति। प्रनिमाता प्रनिमातुं प्रनिमातव्यमिति। आकारान्तस्य ङितो ग्रहणं विज्ञायते। यथैव तर्हि अक्रियमाणे प्रकृतिग्रहणे आकारान्तस्य ङितो ग्रहणं विज्ञायते एवं क्रियमाणेपि प्रकृतिग्रहणे आकारान्तस्य ङितो ग्रहणं विज्ञास्यते। विकृतार्थेन चापि नार्थः। दोष एवैतस्याः परिभाषाया लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति। गामादाग्रहणेष्वविशेष इति । ॥ समानशब्दप्रतिषेधः ॥ समानशब्दानां प्रतिषेधो वक्तव्यः। प्रनिदारयति। प्रनिधारयति। दा धा घुसञ्ज्ञा भवन्तीति घुसञ्ज्ञा प्राप्नोति। ॥ समानशब्दाप्रतिषेधोऽर्थवद्ग्रहणात् ॥ समानशब्दानामप्रतिषेधः। अनर्थकः प्रतिषेधः अप्रतिषेधः। घुसञ्ज्ञा कस्मान्न भवति। अर्थवद्ग्रहणात्। अर्थवतोर्दाधोर्ग्रहणम्। न चैतावर्थवन्तौ। ॥ अनुपसर्गाद्वा ॥ अथवा यत्क्रियायुक्ताः प्रादयस्तं प्रति गत्यपसर्गसञ्ज्ञा भवन्ति। न चैतौ दाधौ प्रति क्रियायोगः। यद्येवम् इहापि तर्हि न प्राप्नोति। प्रणिदापयति। प्रणिधापयति। अत्रापि नैतौ दाधावर्थवन्तौ। नाप्येतौ दाधौ प्रति क्रियायोगः । ॥ न वाऽर्थवतो ह्यागमस्तद्गुणीभूतस्तद्ग्रहणेन गृह्यते यथान्यत्र ॥ न वा एष दोषः। किं कारणम्? अर्थवत आगमस्तद्गुणीभूतोऽर्थवद्ग्रहणेन गृह्यते। यथान्यत्र। तद्यथा अन्यत्रापि अर्थवत आगमोऽर्थवद्ग्रहणेन गृह्यते। क्वान्यत्र। लविता चिकीर्षितेति। युक्तं पुनर्यन्नित्येषु शब्देष्वागमशासनं स्यात्? न नित्येषु नाम शब्देषु कूटस्थैरविचालिभिर्वर्णैर्भवितव्यमनपायोपजनविकारिभिः। आगमश्च नामापूर्वः शब्दोपजनः। अथ युक्तं यन्नित्येषु शब्देष्वादेशाः स्युः। बाढं युक्तम्। शब्दान्तरैरिह भवितव्यम्। तत्र शब्दान्तराच्छब्दान्तरस्य प्रतिपत्तिर्युक्ता । आदेशास्तर्हीमे भविष्यन्ति। अनागमकानां सागमकाः। तत् कथम्? सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः। एकदेशविकारे हि नित्यत्वं नोपपद्यते । दीडः प्रतिषेधः स्थाघ्वोरित्त्वे। ॥ दीङः प्रतिषेधः स्थाघ्वोरित्त्वे वक्तव्यः ॥। उपादास्तास्य स्वरः शिक्षकस्येति। मीनातिमिनोतीत्यात्त्वे कृते स्थाघ्वोरिच्चेतीत्त्वं प्राप्नोति। कुतः पुनरयं दोषो जायते। किं प्रकृतिग्रहणादाहोस्विद् रूपग्रहणात् ? रूपग्रहणादित्याह। इह खलु प्रकृतिग्रहणाद् दोषो जायते। उपदिदीषते। सनि मीमाघुरभलभेति। नैष दोषः। दाप्रकृतिरित्युच्यते। न चेयं दाप्रकृतिः। आकारान्तानामेजन्ताः प्रकृतयः। एजन्तानामपीकारान्ताः। न च प्रकृतेः प्रकृतिः प्रकृतिग्रहणेन गृह्यते। स तर्हि प्रतिषेधो वक्तव्यः। न वक्तव्यः। घुसंज्ञा कस्मान्न भवति? संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येत्येवं न भविष्यति। ॥ दाप् प्रतिषेधे न दैप्यनेजन्तत्वात् ॥ दाप् प्रतिषेधे दैपिप्रतिषेधो न प्राप्नोति। अवदां मुखम्। ननु चात्त्वे कृते भविष्यति। तद्ध्यात्त्वं न प्राप्नोति। किं कारणम्। अनेजन्तत्वात्। सिद्धमनुबन्धस्यानेकान्तत्वात्। सिद्धमेतत्। कथम्। अनुबन्धस्यानेकान्तत्वात्। अनेकान्ता अनुबन्धाः। पित्प्रतिषेधाद्वा। अथवा दाधा घ्वपिदिति वक्ष्यामि। तच्चावश्यं वक्तव्यम्। अदाबिति ह्युच्यमाने इहापि प्रसज्येत प्रणिदापयतीति। शक्यं तावदनेनाबिति ब्रुवता बान्तस्य प्रतिषेधो विज्ञातम् । सूत्रं तर्हि भिद्यते । यथान्यासमेवास्तु। ननु चोक्तं दाप् प्रतिषेधे न दैपीति। परिहृतमेतत् सिद्धमनुबन्धस्यानेकान्तत्वादिति। अथैकान्तेषु दोष एव। एकान्तेष्वपि न दोषः। आत्त्वे कृते भविष्यति। ननु चोक्तं तद्ध्यात्त्वं न प्राप्नोति। किं कारणमनेजन्तत्वादिति। पकारलोपे कृते भविष्यति। नह्ययं तदा दाप् भवति। भूतपूर्वगत्या भविष्यति। एतच्चात्र युक्तम्। यत्सर्वेष्वेव सानुबन्धकग्रहणेषु भूतपूर्वगतिर्विज्ञायते। अनैमित्तिको ह्यनुबन्धलोपस्तावत्येव भवति। अथवाचार्यप्रवृत्तिर्ज्ञापयति नानुबन्धकृतमनेजन्तत्वमिति। यदयमुदीचां माङो व्यतिहारे इति मेङः सानुबन्धकस्यात्त्वभूतस्य ग्रहणं करोति। अथवा दाबेवायं न दैबस्ति। कथमवदायति। श्यन् विकरणो भविष्यति ।

Kashika

दारूपाश्चत्वारो धातवो धारूपौ च द्वौ दाब्दैपौ वर्जयित्वा घुसंज्ञका भवन्ति। डुदाञ् — प्रणिददाति। दाण् — प्राणिदाता। दो — प्रणिद्यति । देङ् — प्रणिदयते। डुधाञ् — प्रणिदधाति। धेट् — प्रणिधयति वत्सो मातरम् । अदाबिति किम् ? दाप् लवने — दातं बर्हिः। दैप् शोधने — अवदातं मुखम् । घुप्रदेशाः — घुमास्थागापाजहातिसां हलि (६.४.६६) इत्येवमादयः॥

Siddhanta Kaumudi

दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप्दैपौ विना ॥

Laghu Siddhanta Kaumudi

दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप्दैपौ विना। घ्वसोरित्येत्त्वम्। देहि। दत्तम्। अददात्, अदत्त। दद्यात्, ददीत। देयात्, दासीष्ट। अदात्। अदाताम्। अदुः॥

Balamanorama

दाधा घ्वदाप् - आशीर्लिङि घुसंज्ञाकार्यं वक्ष्यन्घुसंज्ञां दर्शयति — दाधाघ्वदाप् ।दे॑त्यनेन स्वाभाविकाऽऽकारान्तयोः ‘डु दाञ् दाने’ ‘दाण् दाने’ इत्यनयोः, कृतात्वयोः ‘दो अवखण्डने’ ‘देङ् रक्षणे’ इत्यनयोर्लाक्षणिकयोश्च, ‘धे’ त्यनेन स्वाभाविकाकारान्तस्यडु धाञ् धारणपोषणयो॑रित्यस्य, लाक्षणिकस्य ‘धेट् पाने’ इत्यस्य च ग्रहणम् ।गामादाग्रहणेष्वविशेषः॑ इति परिभाषाबलात्तत्र दाग्रहणेन धारूपस्यापि ग्रहणाच्च । अत एवदो दद्धो॑रित्त्र धेण्निवृत्त्यर्थं दाग्रहणमर्थवत्, दधातेर्हिभावविधानादेव निवृत्तिसिद्धेः । तदाह — दारूपा धारूपाश्चेति ।

Tattvabodhini

दाधा घ्वदाप् - दाधा घ्वदाप् । इह दारूपाश्चत्वारः — डुदाञ् दाने । दाण् दाने । दो अवखण्डने । देङ् रक्षणे । धारुपौ तु द्वौ - डुधाञ् धारणपोषणयोः । धेट् पाने । अनुबन्धानामनेकान्तत्वात्आदेच उपदेशे॑ इत्यात्वेदोदेङ्धेटामनुकरणे दादारूपत्वमस्ति । एवं च दाश्च दाश्च दाश्च दाः । धाश्च धाश्च धौ । दाश्च धौ च दाधा इति विग्रहः । दाप्दैपौ विनेति । दाप् लवने । दैप् शोधने — एतद्भिन्ना इत्यर्थः । दैपः पित्त्वमिह प्रतिषेधार्थं, न त्वनुदात्तार्थम्,अनुदात्तौ सुप्पितौ॑ इति प्रत्ययस्यैव पितोऽनुदात्तत्वात् । न च दैपो लाक्षणिकत्वान्नाऽस्य प्रतिषेध इति शङ्क्यं, पित्करणस्यानर्थक्यप्रसङ्गात् । इदमेव च दैपः पित्त्वंगामादाग्रहणेष्वविशेषः॑ इति परिभाषाया ज्ञापकमित्याहुः । अदाबिति किम् । दातं बर्हिः । लूनमित्यर्थः । इहदो दद्धो॑रिति दद्भावो न । अवदातं मुखम् । शुद्धमित्यर्थः । इह तुअच उपसर्गा॑ दिति तादेशो न ।

Padamanjari

किमिदं प्रयोगस्थानामनुकरणम्-प्रयोगे ये दाधारूपाः श्रूयन्ते, ते घुसंज्ञा भवन्तीति ? आहोस्वित् उपदेशे धातुपाठेऽपस्थितानां यावतामनुकरणं दाधारूपं संभवति तेषामिति ? किं चातः ? यदि प्रयोगस्थानामनुकरणम्, शिति न प्राप्नोति, दो-प्रणिद्यति, देङ्-प्रणिदयते, दाण्-प्रणियच्छति, धेट्-प्रणिधयति; किं कारणम् ? अदाधारूपत्वात् । प्रणिदाता प्रकणिधाता इत्यादावेव तु स्यात् । किमुच्यते शिति न प्राप्नोतीति, यावता दोदेङ्धेटामशित्यप्यात्वे कृतेऽपि लाक्षणिकत्वान्न प्राप्नोति ? नैष दोषः; ‘गामादाग्रहणेष्वविशेषः’ इति दोदेङे तावद्गृह्यएते । अस्याश्च परिभाषाया दैपः पित्वं लिङ्गम्; अन्यथा हि लाक्षणिक्त्वादेवास्य ग्रहणं न भविष्यति । ‘दो दद् घोः’ इत्यत्र च ‘दः’ इत्येतद्धेण्निवृत्यर्थं सतस्य घुसंज्ञां ज्ञापयति, दधातेस्तु ‘दधातेर्हिः’ इति ह्यादेशाविधानादेव दद्भावाप्रसङ्गः । यदि ‘गामादाग्रहणेष्वविशेषः’ तर्हि अर्थवत्परिभाषापि निवर्तेत, तत्र को दोषः ? प्रनिदारयति-अत्रापि प्राप्नोति । अस्तु, णत्वं कस्मान्न भवति ? ‘उपसर्गात्’ इत्यनुवर्तते, सम्बन्धिशब्दश्चायमुपसर्ग इति, तस्मादेवं विज्ञास्यामः-गदादीनां य उपसर्गस्तत्रस्थान्निमितादुतरस्य तानेव गदादीन्प्रत्युपसर्गस्य नेरिति । प्रनिदारयतीत्यत्र च यं प्रत्युपसर्गो नासौ दारूपः, यश्च दारूपः न तं प्रत्युपसर्गः, तस्यानर्थकत्वाद् । अतः शित्येव दोषः । उपदेशस्थानां त्वनुकरणे दोदेङ्धेडनुकरणानामपि ‘आदेच उपदेशेशिति’ इत्यात्वसद्भावातेषां दाण्दाञ्धाञां च सर्वेषां सिद्ध्यति । आत्वधिषयेऽप्येकदेशविकृतस्यानन्यत्वात् सिद्धम् । सर्वेषां च स्वरूपेणानुक्रियमाणत्वात् लक्षणप्रतिपदोक्तयोर्निरनुबन्धकेति च परिभाषयोरनुपस्थानम्, नापि प्रनिदारयतीत्यत्र प्रसङ्गः, न हि ‘दीङ्’ इत्येतदनुकरणस्यात्वमस्ति । कृतात्वमपि किञ्चिन्मात्रसाधर्म्यादनुकरणं न विरुध्यते, यथा गवित्ययमाहेति कृतावादेशमपि गोशब्दस्येति निर्दोषं द्वितीयं पक्षमाश्रित्याह-दारूपाश्चत्वार इत्यादि । एवं च दीङेऽनुकरणस्यात्वाभावात् तृजादिषु ‘मीनातिमिनोतिदीङम्’ इत्यात्वे दारूपस्यापि घुसंज्ञा न भवति, प्रनिदाता-णत्वं न भवति । उपादास्तास्य स्वरः शिक्षकस्य-श्थाध्वोरिच्च’ इतीत्वं न भवति । केचितु संज्ञामिच्छन्ति । तेषामप्युपादास्तेत्यत्र न भवति, ‘ सन्निपातलक्षणो विधिरनिमितं तद्विघातस्य’ इति । ठ्प्रणिददातीत्यादौ नेर्गदेति णत्वम् । प्रणिद्यतीति-‘ओतः श्यनि’ । दातं बर्हिरति । लूनमित्यर्थः । घुसंज्ञाया अभावाद् ‘दो दद् घोः ‘ इति न भवति । अवदातमित्यत्र च ‘अच उपसर्गातः’ इति न भवति । ननु दाब्दैपोरननुकरणादेव न भविष्यति, अस्मदायतं खल्वनुकरणं दाप्दैपोर्न करिष्यामः, तन्न; असति तस्मिन्प्रतिपदोक्तमेव दाधारूपमनुकरणं गृह्यते । सति तु तस्मिन् यावतामनुकरणं दाधारूपं सम्भवति लाक्षणिकं प्रतिपदोक्तं वा, तावतां सर्वेषामनुकरणं भवति । ‘उदीचां माङे व्यतीहारे’ इति च मेङः कृतात्वास्य निर्द्देशो ज्ञापयति-ङानुबन्धकृतमनेजन्तत्वम्’ इति । न हि ‘माङ् माने’ इत्यस्य व्यतीहारे वृत्तिः सम्भवति, तेन दैपः पकारे श्रूयमाण एवात्वं भवतीति अदाबिति प्रतिषेधो भवति । संज्ञाप्रवृत्तिसमये च यद्दाब्रूपम्, तस्य प्रतिषेध इति प्रणिदापयतीत्यत्र प्रगेव पुकः प्रवृतां घुसंज्ञामाश्रित्य णत्वं भवति । ‘दाधा घ्वपित्’ इति वक्तव्यम्, पित् घुसंज्ञो न भवतीति । बकारो वा द्वयोरनुबन्धः, सूत्रमपि बकारान्तमेव पठितव्यम् । भाष्यवार्तिकविरोधस्तु महापदमञ्जर्यामस्माभिः प्रपञ्चितः ॥

Nyaas

दाधा इति। दारूपाणां चतुर्णां कृतैकशेषाणां धारूपयोद्र्वयोश्च कृतैकशेषयोद्र्वन्द्वः। ननु च लक्षण प्रततिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्, न तु लाक्षणिकस्य` (व्या।प।3), इत्यनया परिभाषया दो अवखण्डने (धातुपाठः-1148), देङरक्षणे (धातुपाठः-962), धेट् पाने (धातुपाठः-902) इत्येतेषां ग्रहणं न स्यात्? नैतदस्ति; तस्या हि परिभाषायाः गामादाग्रहणेष्वविशेषः (व्या।प।124) इत्यपवादोऽस्ति, तेन सत्यपि लाक्षणिकत्वेदोदेङौ तावद् गृह्रेते। धेटोऽपि लिङ्गाद् ग्रहणमनुमीयते। तत् पुनर्लिङं दैपः पकारानुबन्धः,स हि अदाप् इति दाप्प्रतिषेधसामान्य-ग्रहणार्थः क्रियते। यदि चास्याः परिभाषाया इह व्यापारः स्यात्, दैपः पकारानुबन्धकरणमनर्थकं स्यात्। लाक्षणिकत्वादेव ह्रस्य ग्रहणं न भविष्यतीति किं प्रतिषेधेऽस्यग्रहणेन? ननु लाक्षणिकमपि दारूपं धारूपं च धेटो नोपपद्यत एव, सानुबन्धकस्य ह्रनेजन्तत्वादात्त्वानुपपत्तेः? नैष दोषः यदयम् उदीचां माङो व्यतीहारे (3.4.19) इति मेङ सानुबन्धकस्यात्त्वभूतस्य निर्देशं करोति , तज्ज्ञापयति- नानुबन्धकृत-मनेजन्तत्वम्`(शा।प।15) इति। ननु च माङ माने (धातुपाठः-1142) इत्यस्याप्यसौनिर्देशः स्यात्, तत् कथं ज्ञापकम्? नैतदस्ति। मेङ प्रणिदाने (धातुपाठः- 961) इत्ययमेव व्यतीहारे वर्तते, न माङ माने (धातुपाठः-1142) इति। तस्मान् मेङ एवायं कृतात्त्वस्य निर्देशो ज्ञापनार्थः। प्रणिददाति इति। नेर्गदनदपतपदघुमास्यतिहन्ति (8.4.17) इत्यादिना घुसञ्ज्ञायां सत्यामिह णत्वं भवति। प्रणिदाता इति। तृजन्तम्।प्रणिद्यति इति। ओतः श्यनि (7.3.71) इत्योकारलोपः। अशिद्विषये दारूपोऽयं भवतीत्यत्र घुसञ्ज्ञा प्रवर्तत एव। दातं बर्हिः इति। घुसञ्ज्ञाया अभावात् दोदद्घोः (7.4.46) इति ददादेशो न भवति। अवदातम् इति। अत्रापि निष्ठा (3.2.102) इति क्तप्रत्ययः।अत्र अच उपसर्गात्तः (7.4.47) इति तकारादेशो न भवति।

Prakriyasarvasvam

लवनशोधनार्थौ दाप्दैपौ मुक्त्वा दाधारूपा धातवो घुसंज्ञाः । <karika>डुदाञ् दाने च दाण् दाने देङ् त्राणे दोऽवखण्डने । डुधाञ् धेट् पान इत्येषां दाधारूपत्वमात्वतः ॥ ९१ ॥</karika>