11019: ईदूतौ च सप्तम्यर्थे

Padacheda: ईदूतौ | S | 1 | 2 |

च | S | 0 | 0 |

सप्तम्यर्थे | S | 7 | 1 |

Sutrartha

सप्तम्यर्थे प्रयुक्तः ईकारान्तः / ऊकारान्तः शब्दः प्रगृह्यसंज्ञकः भवति ।

व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा वर्तते ‘प्रगृह्यम्’ इति संज्ञा । अष्टाध्याय्याम् ईदूदेद्द्विवचनं प्रगृह्यम् (1.1.11) इत्यतः ईदूतौ च सप्तम्यर्थे (1.1.19) एतैः नवभिः सूत्रैः प्रगृह्यसंज्ञा दीयते । अस्य सूत्रसमूहस्य इदम् अन्तिमम् (नवमं) सूत्रम् । ये ईकारान्तशब्दाः ऊकारान्तशब्दाः सप्तमीविभक्तेः अर्थं प्रदर्शयन्ति, तेषाम् अनेन सूत्रेण प्रगृह्यसंज्ञा विधीयते । वस्तुतः लौकिकसंस्कृते विद्यमानानि सप्तमीविभक्तेः रूपाणि ईकारान्तानि उत ऊकारान्तानि नैव सन्ति । अतः भाषायाम् विद्यमानानाम् शब्दानाम् विषये अनेन सूत्रेण प्रगृह्यसंज्ञा न हि दीयते । परन्तु वेदेषु कुत्रचित् ईकारान्त/ऊकारान्तप्रातिपदिकात् परस्य सप्तमीविभक्तिप्रत्ययस्य सुपां सुलुक्पूर्वसवर्णा… (7.1.39) इत्यनेन लोपः कृतः दृश्यते । एतादृशे लोपे कृते अवशिष्टम् ईकारान्तम् / ऊकारान्तं प्रातिपदिकम् प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इत्यनेन प्रत्ययलक्षणां पदसंज्ञां संप्राप्य सप्तमीविभक्तेः एव अर्थं बोधयति । एतादृशस्य पदसंज्ञकस्य प्रातिपदिकस्य अनेन सूत्रेण प्रगृह्यसंज्ञा भवति । यथा - ‘सोमो गौरी अधिश्रितः’ (ऋग्वेदः 9.12.3) इति वाक्ये ‘गौरी’ इति शब्दः वस्तुतः सप्तम्येकवचनस्य रूपम् अस्ति । प्रक्रिया इयम् —

गौरी + ङि  + अधिश्रितः [**स्वौजस्...** (4.1.2) इति सप्तम्येकवचनस्य विवक्षायाम् ङि-प्रत्ययः]
→ गौरी + अधिश्रितः । [**सुपां सुलुक्पूर्वसवर्णा...** (7.1.39)  इत्यनेन ङि-प्रत्ययस्य लोपः । प्रत्ययस्य लोपे कृते अपि **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यनेन प्रत्ययलक्षणां पदसंज्ञा भवति । अयं 'गौरी' शब्दः सप्तमीविभक्तेः अर्थम् दर्शयति, अतः **ईदूतौ च सप्तम्यर्थे** (1.1.19) इत्यनेन अयं प्रगृह्यसंज्ञकः अपि भवति । प्रगृह्यसंज्ञायां सत्याम् **प्लुतप्रगृह्या अचि नित्यम्** (6.1.125) इत्यनेन 'गौरी' शब्दस्य अच्सन्धौ प्रकृतिभावः विधीयते, अतः अत्र  **इको यणचि** (6.1.77) इति यणादेशः नैव सम्भवति ।

दलकृत्यम्

  1. ‘सप्तम्यर्थे’ इत्यत्र ‘अर्थ’ग्रहणस्य प्रयोजनम् — अस्मिन् सूत्रे आचार्येण ‘सप्तम्यर्थे’ इति शब्दः प्रयुक्तः अस्ति । अत्र ‘अर्थ’ शब्दस्य ग्रहणेन आचार्यः एतत् प्रतिपादयति यत् सप्तमीविभक्तेः अर्थः स्वतन्त्ररूपेण ध्वन्यते चेदेव अस्य सूत्रस्य प्रयोगः करणीयः, नान्यथा । इत्युक्ते, यदि कश्चन सप्तम्यन्तशब्दः कस्यांश्चित् वृत्तौ (समासवृत्तौ, तद्धितवृत्तौ, कृदन्तवृत्तौ आदिषु) भागं गृह्णाति, तर्हि तत्र तस्य सप्तम्यन्तपदस्य अर्थस्य अपेक्षया वृत्तेः अर्थः प्रधानत्वं स्वीकरोति, सप्तम्यन्तपदस्य अर्थः च स्वतन्त्ररूपेण न अवशिष्यते इति कारणात् तस्य सप्तम्यन्तपदस्य प्रगृह्यसंज्ञा अपि नैव भवति । यथा, ‘वाप्याम् अश्वः’ इत्यत्र समस्तपदनिर्माणप्रक्रियायाम् ‘वापी’शब्दात् विहितस्य सुँ-प्रत्ययस्य लोपे कृते अपि तत्र प्रगृह्यसंज्ञा न विधीयते । सम्पूर्णा प्रक्रिया इयम्‌ —

वाप्याम् अश्वः [**संज्ञायाम्** (2.1.44) इति सप्तमीतत्पुरुषसमासः]
→ वापी ङि अश्व सुँ [समासस्य अलौकिकविग्रहः । **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा ।]
→ वापी अश्व [**सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्यययोः लोपः । प्रत्ययस्य लोपे कृते अपि **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यत्र सुप्-प्रत्ययलक्षणा पदसंज्ञा विधीयते । अतः अत्र 'वापी' इति ईकारान्तशब्देन वस्तुतः सप्तमीविभक्तेः अर्थः ध्वन्यते । परन्तु अयं शब्दः समासे प्रयुक्तः अस्ति अतः अस्य शब्दस्य अर्थः उत्तरपदेन सम्बन्धितः वर्तते,  अस्यां स्थितौ अत्र 'वापी' शब्दस्य प्रगृह्यसंज्ञा न भवति ।]
→ वाप्यश्व [प्रगृह्यसंज्ञायाः अभावात् प्रकृतिभावः नैव विधीयते, अतः **इको यणचि** (6.1.77) इति यणादेशे कृते रूपं सिद्ध्यति ।]
  1. ईत्, ऊत्, इत्यत्र तकारग्रहणस्य प्रयोजनम् — अस्मिन् सूत्रे ‘ईत्’/’ऊत्’ इत्यत्र निर्दिष्टः तकारः केवलम् उच्चारणार्थः अस्ति, तपरकरणार्थं न । दीर्घ-वर्णेन सवर्णग्रहणंं न भवति, अतः अत्र तपरकरणम् नैव आवश्यकम् ।

Sutrartha (English)

An ईकारान्त and an ऊकारान्त word that represents the meaning of सप्तमी gets the term ‘प्रगृह्य’.

Vasu English Summary

The final ई and ऊ of words giving the sense of the locative case are प्रगृह्य।

Vasu English Translation

The final ई and ऊ of words giving the sense of the locative case are प्रगृह्य। This sūtra finds its scope in the Vedic literature generally. There is a sūtra (7.1.39) which declares that “in the Vedic Sanskrit, the case-affixes sup are often replaced either by सु (I.S.), or are altogether elided, or they are changed into a letter homogeneous with the prior letter, or आ, or आत्, or शे, or या, or डा, or ड्या, or याच्, or आल् takes their place.” Let us take the example where a case-affix is changed into a letter homogeneous with the prior. Thus the case-affix of the seventh case is ङि (इ). In forming the 7.S. of तनू “body,” we have तनू+इ. The इ will be changed into a homogeneous letter with ऊ and we have तनू+ऊ=तनू “in the body,” as, अध्यस्यां मामकीतनू (for मामक्यां तन्वाम्). This is the Vedic form, the secular form being तन्वाम्. Similarly गौरी+इ = गौरी “on the Gauri,” as सोमो गौरी अधिश्रितः (Rig Veda IX.12.3). It is in such cases, therefore, that the long ī and ū are used in the sense of locative, and are pragrihya.

It is only long ī and ū which are pragrihya, and not any other vowel, though used in the sense of locative. Thus by the same aphorism (VII.I.39) ḍå (â) may be employed to denote the seventh case-affix. Thus अग्नि+ङि = अग्नि+डा = अग्ना “in the fire,” as, प्रियः सूर्ये प्रियो अग्ना भवाति य इन्द्राय सुतसोमो ददाशत् (Rig Veda V.37.5). Here अग्ना though in the locative case, its final is not pragrihya. Therefore अग्ना+इति = अग्नेति.

The ई and ऊ must be of the 7th case. Therefore मति+टा (3rd S.) = मति+इ (letter homogeneous with the prior) = मती ‘with wisdom’. Here ī is in the sense of the instrumental case and is not pragrihya. Thus मती+इति = मतीति.

The word अर्य is used in the aphorism, in order to exclude the application of this rule to cases like the following. Thus in forming the compound of वाप्याम् “in the well” and अश्व “horse”, the case-affix is elided, and we get वापी + अश्व. Here, no doubt, the word वापी is in the locative case, though the case-affix is elided; but we cannot say that the long ई of vâpî has the sense of the locative. Here, therefore, we shall have sandhi; as, वाप्यश्वः “the horse near the well.” In other words, the present aphorism is not to apply to the final ई or ऊ of words standing as the prior member of a compound term (pûrva-pada); for words like वापी &c., in the above example, can never, by themselves and alone, denote the locative case; while words like गौरी, formed in the way described already, give the sense of the locative, even alone, though they be placed anywhere in a sentence.

Bhashya

इर्दूतौ च सप्तम्यर्थे ॥ इर्दूतौ सप्तमीत्येव ॥। इर्दूतौ सप्तमीत्येव सिद्धं नार्थोऽर्थग्रहणेन। ॥ लुप्तेऽर्थग्रहणाद् भवेत् ॥ लुप्तायां सप्तम्यां प्रगृह्यसञ्ज्ञा न प्राप्नोति। क्व। सोमो गौरी अधिश्रितः। इष्यते चात्रापि स्यादिति। तच्चान्तरेण यत्नं न सिध्यतीत्येवमर्थमर्थग्रहणम्। नात्र सप्तमी लुप्यते। किं तर्हि। पूर्वसवर्णोऽत्र भवति। ॥ पूर्वस्य चेत् सवर्णोऽसावाडाम् भावः प्रसज्यते ॥ यदि पूर्वसवर्ण आट् आम् भावश्च प्राप्नोति। एवं तर्हि आहायमीदूतौ सप्तमीति। न चास्ति सप्तमी इर्दूतौ। तत्र वचनाद् भविष्यति। ॥ वचनाद् यत्र दीर्घत्वम् ॥ नेदं वचनाल्लभ्यम्। अस्ति ह्यन्यदेतस्य वचने प्रयोजनम्। किम्। यत्र सप्तम्या दीर्घत्वमुच्यते। दृतिं न शुष्कं सरसी शयानम् इति। सति प्रयोजने इह न प्राप्नोति। सोमो गौरी अधिश्रित इति । ॥ तत्रापि सरसी यदि ॥ तत्रापि सिद्धम्। कथम्। यदि सरसी शब्दस्य प्रवृत्तिरस्ति। अस्ति च लोके सरसीशब्दस्य प्रवृत्तिः। कथम्। दक्षिणापथे हि महान्ति सरांसि सरस्य इत्युच्यन्ते । ॥ ज्ञापकं स्यात् तदन्तत्वे ॥ एवं तर्हि ज्ञापयत्याचार्यो - न प्रगृह्यसञ्ज्ञायां प्रत्ययलक्षणं भवतीति। किमेतस्य ज्ञापने प्रयोजनम्। कुमार्योरगारं कुमार्यगारम्। वध्वोरगारं वध्वगारम्। प्रत्ययलक्षणेन प्रगृह्यसञ्ज्ञा न भवति। ॥ मा वा पूर्वपदस्य भूत् ॥ अथवा पूर्वपदस्य मा भूदित्येवमर्थमर्थग्रहणम्। वाप्यमश्वो वाप्यश्वः। नद्यमातिर्नद्यातिः । अथ क्रियमाणेऽप्यर्थग्रहणे कस्मादेवात्र न भवति। जहत्स्वार्था वृत्तिरिति। अथाजहत्स्वार्थायां वृत्तौ दोष एव। अजहत्स्वार्थायां च न दोषः। समुदायार्थोऽभिधीयते। इर्दूतौ सप्तमीत्येव लुप्तेऽर्थग्रहणाद् भवेत्। पूर्वस्य चेत् सवर्णोऽसावाडाम्भावः प्रसज्यते ॥ 1 ॥ वचनाद् यत्र दीर्घत्वं तत्रापि सरसी यदि। ज्ञापकं स्यात् तदन्तत्वे मा वा पूर्वपदस्य भूत् ॥ 2 ॥

Kashika

शाकल्यस्येतावनार्ष इति निवृत्तम् । ईदन्तमूदन्तं च शब्दरूपं सप्तम्यर्थे वर्तमानं प्रगृह्यसंज्ञं भवति। अध्यस्यां मामकी तनू (पै०सं० ६.६.८)। मामक्यां तन्वामिति प्राप्ते। मामक्याम् , मामकी इति। तन्वाम् ,तनू इति। सोमो॑ गौ॒री अधि॑ श्रि॒तः (ऋ० ९.१२.३)। ईदूताविति किम् ? प्रि॒यः सूये᐀्॑ प्रि॒यो अ॒ग्ना भ॑वाति (ऋ० ५.३७.५)। अग्निशब्दात् परस्याः सप्तम्या डादेशः। सप्तमीग्रहणं किम् ? धीती मती सुष्टुती। धीत्या मत्या सुष्टुत्या इति प्राप्ते। अर्थग्रहणं किम् ? वाप्यश्वः। नद्यातिः। तपरकरणमसन्देहार्थम् ।

ईदूतौ सप्तमीत्येव लुप्तेऽर्थग्रहणाद् भवेत् ।

पूर्वस्य चेत्सवर्णोऽसावाडाम्भावः प्रसज्यते॥ १॥

वचनाद् यत्र दीर्घत्वं तत्रापि सरसी यदि।

ज्ञापकं स्यात्तदन्तत्वे मा वा पूर्वपदस्य भूत्॥ २॥

Siddhanta Kaumudi

सप्तम्यर्थे पर्यवसन्नमीदूदन्तं प्रगृह्यं स्यात् । सोमो गौरी अधिश्रितः । मामकी तनू इति । सुपां सुलुक् (SK3561) इति सप्तम्या लुक् । अर्थग्रहणं किम् । वृत्तावर्थान्तरोपसङ्क्रान्ते माभूत् । वाप्यामश्वो वाप्यश्वः ॥

Balamanorama

ईदूतौ च सप्तम्यर्थे - ईदूतौ च ।प्रगृह्र॑मित्यनुवर्तते । तच्च द्विवचनान्ततया विपरिणम्यते । शब्दस्वरूपस्य विशेष्यत्वात्तदन्तविधिः ।ईदूतौ च सप्तम्या॑वित्येव सिद्धेऽर्थग्रहणाद्यत्र सप्तम्या लुकियः शिष्यते स लुप्यमानार्थाभिधायी॑ इति न्यायेन प्रकृतेरेव सप्तम्यर्थे पर्यवसानं तथाविधत्वमीदूदन्तयोर्गम्यते । तथाच सप्तम्यर्थे पर्यवसन्नावीदूदन्तौ शब्दौ प्रगृह्रौ स्त इत्यक्षरार्थः । फलितमाह — सप्तम्यर्थ इत्यादिना । सोमो गौरी इति । गौर्यामित्यर्थः ।सुपां सुलु॑गिति सप्तम्या लुक् । प्रगृह्रत्वे प्रकृतिभावान्न यण् । वातप्रमीत्यादिसप्तम्यन्तं तु नात्रोदाहरणम्, तत्र सप्तम्या लुप्तत्वाऽभावेन प्रकृतेः सप्तम्यर्थेऽप्रवृत्तेः । मामकी तनू इति । मामक्यां तन्वामित्यर्थः ।सुपां सुलु॑गिति सप्तम्यालुक् । प्रगृह्रेभ्यः परत इतिशब्दप्रयोगस्य पदकारैर्नियमितत्वात् पदपाठे ‘मामकी इति’तनू इती॑त्यत्र प्रगृह्रत्वफलं बोध्यम् । ननु ‘ईदूतौ च सप्तम्याः’ इत्येव सूत्र्यताम् । षटआ चाऽर्थद्वारा संबन्धो विवक्ष्यतां, ततश्च सप्तम्यर्थे विद्यमानमीदूदन्तमित्यर्थस्यार्थग्रहणं विनैव लाभादर्थग्रहणं किमर्थमिति पृच्छति — अर्थग्रहणं किमिति । कस्म#ऐ प्रयोजनायेत्यर्थः ।कि॑मित्यव्ययम् । वृत्ताविति । अर्थग्रहणसामर्थ्याल्लुप्तसप्तम्यर्थमात्रे पर्यवसन्नमित्यर्थो विवक्षितः । ततश्च समासवृत्तौ लुप्तसप्तमीके ईदूदन्तपूर्वपदे सप्तम्यर्थमतिलङ्घ्य उत्तरपदार्थे प्रवृत्ते सति प्रगृह्रसंज्ञा न भवति । मा भूदिति । ‘माङि लुङ्’ सर्वलकारापवादः । वाप्यआ इति । ‘वाप्याम् — अआ’ इति विग्रहे सुप्सुपेति समासे ‘वाप्यआ’ इति रूपमित्यर्थः । अत्र वाप्यामिति सप्तम्या अधिकरणत्वमवगतं, तच्चाधिकरणकारकं क्रियापेक्षं । तत्र वाप्यामआओ वर्तत इति क्रियाध्याहारे वर्तमानक्रियायां वाप्या विद्यमानेऽओ लक्षमया प्रवृतिंत पुरस्कृत्य समासो वक्तव्यः । एवं च समासे लुप्तसप्तमीकस्य वापीशब्दस्य सप्तम्यर्थमतिलङ्घ्य तत्संसृष्टे आधेयभूतेऽओऽपि प्रवृत्तेः सप्तम्यर्थमात्राविश्रान्त्यभावान्न प्रगृह्रत्वमिति भावः ।

Tattvabodhini

ईदूतौ च सप्तम्यर्थे - ईदूतौ च । ईदूताविति किम् ।प्रियः सूर्ये प्रियो अग्ना भवाति॑ । ग्निशब्दात्परस्याः सप्तम्याःसुपां सुलु॑गित्यादिनाडा॑देशः । पदकारैः प्रगृह्रेषु इतिशब्दुप्रयोगस्य नियमितत्वेन इहापि पदकाले इतिशब्दप्रयोगप्रसङ्गः, स चाऽनिष्ट इति बोध्यम् । सप्तमीग्रहणं किम् , धीती, मती, सुष्टुती । धीत्या, मत्या, सुष्टुत्या इति प्राप्ते तृतीयैकवचनस्य पूर्वसवर्ण ईकारः । ततःअकः सवर्णे दीर्घः॑ इत्येकादेशः । न त्विहसुपां सुलु॑गिति लुक्, ह्रस्वश्रवणापत्तेः । सोमो गौरी इति ।वातप्रमी अत्र॑ययी आसक्त॑ इत्याद्युदाहरणे सत्यप्यूकारान्तस्य लौकिकोदाहरणाभावादुभयोरपि वेद एवोदाहरणमुक्तम् । मामकी तनू इति । यद्यप्यत्र संहितायां प्रगृह्रप्रयोजनं नास्ति, तथापिमामकी इति॑तनू इति॑ पदकाले तदस्त्येव,स्वायां तनू ॠत्व्येनाधमाना॑-मित्यत्र तु संहिताकालेऽप्यस्ति, तथापिऋत्यकः॑ इति पाक्षिकप्रकृतिभावेनाप्येतत्सिद्धं, छन्दसि रूपान्तरस्यापादयितुमशक्यत्वादिति बोध्यम् । सप्तम्या लुगिति । यदि धीत्यादाविव विभक्तेः पूर्वसवर्णे कृते सवर्णदीर्घ एकादेश इति व्याख्यायेत तदा एकादेशं बाधित्वा परत्वादाङ्गत्वात्वाच्चआण्नद्याः॑इत्याट् ङेराम् च स्यादिति भावः । अर्थग्रहणं किमिति ।वाप्यआ॑ इत्यत्र यो वापीशब्दः सतु वाप्यधिकरणकद्रव्ये उपसङ्कान्तः ।सोमो गौरी॑ इत्यत्र गौरीशब्दस्तु सप्तम्यर्थमात्रे पर्यवसन्नः, न तु तदधिकरणकद्रव्ये उपसङ्कान्तः, वृत्त्याभावादिति भेदः ।

Padamanjari

शाकल्यस्येताविति निवृतमिति । अस्वरितत्वात् । इह चश्ब्देन प्रत्नेन प्रकृतमनुकृष्यते, तत्र संज्ञाया अननुवृतौ विधेयं नास्तीति सैवानुकृष्यते । मामक्यां तन्वामिति प्राप्त इति । सप्तम्यर्थं दर्शयति । मामकीतनूशब्दौ शुपां सुलुक्’ इति लुप्तसप्तमीकौ । मामकी इति, तनू इतीति । कार्योदाहरणे । गौरी अधिश्रित इति तु संहितापाठेऽपि कार्योदाहरणमिति । स एव तत्र दर्शतः । अग्ना भवातीति । रूपप्रत्युदाहरणम्, कार्यं तु पदकाले । धीतीत्यादि । धीति-मति-सुष्टुअतिशब्देभ्यः परस्य तृतीयेकवचनस्य पूर्वसवर्ण ईकारः, तद्दर्शयतिधीत्या, मत्येत्यादिना । वाप्यश्वः, नद्यातिरिति । शंज्ञायाम्’ इति सप्तमीसमासः । अथ क्रियमाणेऽप्यर्थग्रहणे कस्मादेवात्र न भवति, अस्ति ह्यत्रापि सप्तम्यर्थः ? उच्यते; जहत्स्वार्था वृत्तिरिति पक्षे समासस्यैवार्थवत्वात्पूर्वोतरपदयोर्वर्णवदानर्थक्यमिति सप्तम्यर्थो नास्ति । अजहत्स्वार्थायामपि वृतावुपसर्जनपदं न स्वार्थमात्रे पर्यवस्याति; किन्तु तत्संसृष्टे प्रधानार्थे । तत्रार्थग्रहणसामर्थ्याद्यावानर्थो वाक्ये सप्तम्यन्तेनाभिधीयते केवलोऽसंसृष्टरूपस्तसयैव ग्रहणमिति संसृष्टे न भविष्यति । तपरकरणं गुणान्तरभिन्नानां तुल्यकालानां ग्रहणार्थमिति चेत्, न; अभेदकत्वाद् गुणानाम् । भिन्नकालानां प्लुतानां निवृत्यर्थमिति चेत्, न; अनण्त्वादसंभावाच्च । न हि सप्तम्यर्थवृत्ति प्लुतान्तं सम्भवतीत्यत आह-तपरकरणमित्यादि । ईदूतावित्यादि । ‘ईदूतौ सप्तमी’ इत्येवास्तु, ङार्थोऽर्थग्रहणेन । लुप्तेऽर्थग्रहणाद्भवेदिति । असत्यर्थग्रहणे संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधात् सप्तम्या एव संज्ञा स्यात्, ततश्च शोमो गौरी अधिश्रितः’ इत्यत्र न स्याल्लुप्तत्वात् । अर्थग्रहणे त्वर्थनिमितेयं संज्ञा, न तु प्रत्ययश्रवणनिमिता । अतः ‘लुप्तेऽर्थग्रहणाद्भवेत्’। नात्र सप्तमी लुप्यते, पूर्वसवर्णोऽत्र भवति-सुपां सुलुगिति । ततोऽकः सवर्णे दीर्घत्वेन तस्यादिवत्वात् सप्तमीग्रहणेन ग्रहणाद् अस्त्येव सप्तमीति शङ्कतेपूर्वस्य चेदिति । दूषयति-आडाम्भाव इति । यदि ह्यत्र पूर्वसवर्णः स्यात्, दीर्घा देशं बाधित्वाऽऽडामौ स्याताम्, अतो लुगेव युक्तः । तस्मादर्थग्रहणं कर्तव्यम् ? न कर्तव्यम्, यस्मात्सर्वत्रैव लुका भाव्यमिति न क्वचित्सप्तम्यस्ति । उच्यते चेदम्-‘तत्र वचनसामर्थ्यात्संज्ञाविधावपि तदन्तविधिर्भविष्यति । नेदं वचनाल्लभ्यम्,यतो वचनाद्यत्र दीर्घत्वं तत्रैव स्याद्-दृतिं न शुष्कं सरसीशयानम् ‘ इति । अत्र हि सरः शब्दात्परस्य ङिशब्दस्य ‘इयाडियाजीकाराणामुपसङ्ख्यानम्’ इतीकारे कृते सप्तम्येव श्रूयते इति तत्रैव स्याद्, न गौरी इत्यादौ । तत्रापि सरसी यदि । तत्रापि सिद्धम्, कथम् ? यदि सरसीशब्दो विद्यते । असंदिग्धे संदिग्धाभधानमेतद्, शास्त्राणि चेत्प्रमाणं स्युरिति यथा । अस्ति च सरसीशब्दः, दक्षिणापथे महान्ति सरांसि शरस्यः’ उच्यन्ते । ततश्च सरसीशब्दोऽपि लुप्तसप्तमीक एवेति वचनातदन्तविधिरित्येतदेव स्थितम् । एवं तर्हि-ज्ञापकं स्यातदन्तत्वे । ‘ईदूदेद्’ इत्यत्र चत्वारः पक्षा उपन्यस्ताः, तत्र तदन्तत्वे इत्यनेन तृतीयचतुर्थपक्षावुपलक्षयति । तत्र ज्ञापकं स्याद्-इह प्रगृह्यप्रकरणे प्रत्यलक्षणं न भवतीति; यदि स्यात्, पूर्वोक्तन्यायेन संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेराश्रयणात् लुप्तायामपि सप्तम्यां प्रत्ययलक्षणेन सप्तम्यन्तमिति संज्ञा भविष्यति, किमर्थग्रणेन ? तेन तदन्तत्वे यो दोष उक्तः-प्रत्ययलक्षणेन संज्ञा प्राप्नोति, स न भवतीति संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेरभावादेव तदन्तपक्षस्तत्र नैव स्थित इत्याह - मा वेति ॥

Prakriyasarvasvam

सप्तम्यर्थवन्तावीदूदन्तौ प्रगृह्याख्यौ । गौरी अधिश्रितः । स्वाया१न्तन्ू इति । छन्दसि सुपां सुलुग्वक्ष्यते । अनेन² ङेर्लुक् । गौर्यां, तन्वां, इति चार्थः । सर्वनामसु त्वशब्दोऽनुदात्तः । उदात्तोऽप्यस्तीति केचित् । अनुदात्तस्त्वच्छन्दः पठ्यते इत्यन्ये । इन्धेर्लिटि छान्दसत्वादामभावे ‘इन्धिभवतिभ्यां च’ (१—२—६) इति संयोगादपि लिटः कित्त्वान्नलोप । तशब्दस्य एशि इन्धए । द्वित्वम् । सवर्णदीर्घः । पुत्र ईंधे अथर्वणः । एतल्लोकेऽप्यस्तीति केचित् ।