11016: सम्बुद्धौ शाकल्यस्येतावनार्षे

Padacheda: सम्बुद्धौ | S | 7 | 1 |

शाकल्यस्य | S | 6 | 1 |

इतौ | S | 7 | 1 |

अनार्षे | S | 7 | 1 |

Sutrartha

सम्बोधन-एकवचनरूपस्य ओकारः अवैदिके ‘इति’ शब्दे परे शाकल्यस्य मतेन प्रगृह्यसंज्ञकः भवति ।

व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा वर्तते ‘प्रगृह्यम्’ इति संज्ञा । अष्टाध्याय्याम् ईदूदेद्द्विवचनं प्रगृह्यम् (1.1.11) इत्यतः ईदूतौ च सप्तम्यर्थे (1.1.19) एतैः नवभिः सूत्रैः प्रगृह्यसंज्ञा दीयते । अस्य सूत्रसमूहस्य इदम् षष्ठं सूत्रम् । सम्बोधन-एकवचनस्य रूपाणाम् अन्ते विद्यमानस्य ओकारस्य लौकिकसंस्कृते ‘इति’ शब्दे परे अनेन सूत्रेण विकल्पेन प्रगृह्यसंज्ञा विधीयते । संस्कृते उकारान्तशब्दानाम् सम्बोधनस्य एकवचनस्य रूपाणि एव ओकारान्तानि सन्ति । यथा - धेनो, साधो, भानो - आदयः । एतेषाम् परः यदा ‘इति’ अयम् शब्दः प्रयुज्यते, तदा शाकल्यमुनेः मतेन एतेषाम् अन्ते विद्यमानस्य ओकारस्य प्रगृह्यसंज्ञा भवति । यथा, ‘भानो इति’, ‘धेनो इति’, ‘विष्णो इति’ एतादृशेषु उदाहरणेषु सम्बुद्धि-एकवचनस्य रूपाणाम् अन्ते विद्यमानः ओकारः शाकल्यमतेन प्रगृह्यसंज्ञकः ज्ञेयः, अतः तन्मतेन एतेषु उदाहरणेषु प्लुतप्रगृह्या अचि नित्यम् (6.1.125) इत्यनेन प्रकृतिभावे प्राप्ते, अच्सन्धिः न विधीयते ।

दलकृत्यम्

  1. सूत्रे ‘अनार्षे’ ग्रहणस्य प्रयोजनम् — अस्मिन् सूत्रे ‘अनार्षे’ इति निर्देशः कृतः अस्ति । ‘आर्ष’ इति शब्दः अत्र वेदानां निर्देशार्थम् प्रयुक्तः अस्ति । अतः ‘अनार्षे’ इति ग्रहणात् इदं सूत्रं वैदिकवाङ्मयस्य विषये नैव प्रयोक्तव्यम् — इति विषयः स्पष्टी भवति । वैदिकवाङ्मये तु ‘इति’ शब्दे परे अपि सम्बोधनस्य ओकारस्य शाकल्यमतेन अपि प्रगृह्यत्वम् नास्ति — इति अत्र आशयः । यथा - ‘ब्रह्मबन्धो इति’ , ‘अध्वर्यो इति’ एतयोः वैदिकवाक्ययोः विद्यमानस्य सम्बोधनस्य एकवचनस्य अन्ते विद्यमानस्य ओकारस्य प्रगृह्यसंज्ञा न भवति, अतः अग्रे सन्धिः अपि कर्तुं शक्यते — ब्रह्मबन्धविति, अध्वर्यविति ।

  2. सूत्रे शाकल्यग्रहणस्य प्रयोजनम् — अस्मिन् सूत्रे ‘शाकल्यस्य’ इति निर्देशः विकल्पविधानार्थम् अस्ति । इत्युक्ते, ‘भानो इति’, ‘धेनो इति’ इत्यत्र सर्वत्र ओकारस्य विकल्पेन एव प्रगृह्यसंज्ञा भवति इति आशयः । अतः विकल्पसंज्ञायाः अभावपक्षे एचोऽयवायावः (6.1.78) इति अयादेशं कृत्वा ‘भानविति, धेनविति’, तथा च अग्रे विकल्पेन लोपः शाकल्यस्य (8.3.19) इति वकारलोपं कृत्वा ‘भान इति’, ‘धेन इति’ एतानि रूपाणि अपि सिद्ध्यन्ति —

  1. भानो + इति → भानो इति [सम्बुद्धौ शाकल्यस्येतावनार्षे (1.1.16) इति वैकल्पिकप्रगृह्यसंज्ञा, अतः प्लुतप्रगृह्या अचि नित्यम् (6.1.125) इत्यनेन अच्सन्धौ प्रकृतिभावः ]

  2. भानो + इति → भानविति [प्रगृह्यसंज्ञायाः अभावे एचोऽयवायावः (6.1.78) इति अयादेशः]

  3. भानो + इति → भान इति [प्रगृह्यसंज्ञायाः अभावे एचोऽयवायावः (6.1.78) इति अयादेशः, ततश्च लोपः शाकल्यस्य (8.3.19) इति वैकल्पिकः वकारलोपः]

Sutrartha (English)

According to Shakalya, the ओकार at end of the सम्बोधन-एकवचन form, when followed by the word ‘इति’ in a non vedic context, gets the term प्रगृह्य.

Vasu English Summary

The final ओ of a vocative singular (2.3.49) before the word इति according to शाकल्य , in a secular or non-vedic literature is a प्रगृह्य।

Vasu English Translation

The final ओ of a vocative singular (2.3.49) before the word इति according to शाकल्य , in a secular or non-vedic literature is a प्रगृह्य। This sūtra gives the opinion of the Rishi Sakalya, so that it is an optional rule. Thus both forms वायविति (formed according to the general rule of sandhi) and वायो इति (where ओ is pragrihya) are correct.

In ârsha literature the sandhi is imperative, not optional, as एता गा ब्रह्मबन्धवित्यब्रवीत्.

The mention of the name of any sage, such as that of Sakalya in this sūtra, serves generally one of the two purposes :- (1) either it makes the rule an optional one, vibhåshartham, or (2) the mention is merely for the sake of showing respect to the particular sage, the rule would have stood as well without such mention; pujártham, as the word Kåsyapa in sutra (1.2.15).

Kashika

ओदिति वर्तते । संबुद्धिनिमित्तो य ओकारः स शाकल्यस्याचार्यस्य मतेन प्रगृह्यसंज्ञो भवति, इति शब्देऽनार्षेऽवैदिके परतः। वायो इति, वायविति। भानो इति, भानविति। संबुद्धाविति किम् ? गवित्ययमाह। अत्रानुकार्यानुकरणयोर्भेदस्याविवक्षितत्वादसत्यर्थवत्त्वे विभक्तिर्न भवति। शाकल्यग्रहणं विभाषार्थम् । इताविति किम् ? वायोऽत्र। अनार्ष इति किम्? एता गा ब्रह्मबन्ध इत्यब्रवीत् (काठ०सं० १०.६)॥

Siddhanta Kaumudi

सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिके इतौ परे । विष्णो इति । विष्ण इति । विष्णविति । अनार्ष इति किम् । ब्रह्मबन्धवित्यब्रवीत् ॥

Laghu Siddhanta Kaumudi

सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिके इतौ परे। विष्णो इति, विष्ण इति, विष्णविति॥

Balamanorama

सम्बुद्धौ शाकल्यस्येतावनार्षे - संबुद्धौ शाकल्यस्येति । सम्बुद्धाविति निमित्तसप्तमी, ओदित्यनुवृत्तेन सहाऽन्वेति ।प्रगृह्र॑मित्यनुवर्तते, स च पुंलिङ्गतया विपरिणम्यते । ऋषिः=वेदः ।तदुक्तमृषिणे॑त्यादौ तथा दर्शनात् । ऋषौ भवः — आर्षः, न आर्षः-अनार्षः । अवैदिके इतिशब्दे परत इत्यर्थः । शाकल्यग्रहणाद्विकल्पस्तदाह — संबुद्धिनिमित्तक इति । विष्णो इतीति । अत्र ओकारो ‘ह्रस्वस्य गुण’ इति सम्बुद्धिनिमित्तकः । अत्र ओदन्तत्वेऽपि निपातत्वाऽभावादप्राप्ते विभाषेयम् ।विष्ण॑वितीति प्रगृह्रत्वाऽभावे रूपम् ।

Tattvabodhini

सम्बुद्धौ शाकल्यस्येतावनार्षे - संबुद्धौ । ऋषिर्वेदःतदुक्तमृषिणा॑ इत्यादौ तथा दर्शनादित्याभिप्रेत्याह-अवैदिक इति । संबुद्धौ किम् । अहो इति । अत्र परत्वाद्विकल्पो मा भूत् । न चओ॑दिति सूत्रस्य निरवकाशत्वं शङ्क्यम् ,अहो ईशा॑ इत्यादौ तस्य सावकाशत्वात् । इताविति किम् । पटोऽत्र ।

Nyaas

सम्बुद्धिनिमित्तः इति। सम्बुद्धिर्निमित्तं यस्य स तथोक्तः। एतेन सम्बुद्धौ इत्यस्य निमित्तसप्तमीत्वं दर्शयति। परसप्तम्यां त्वस्याम् हे त्रपो`इत्यत्र न स्यात्, `स्वमोर्नपुंसकात् (7.1.23) इति सम्बुद्धेर्लुप्तत्वादिति भावः। सम्बुद्धौ च (7.3.106) इति वर्तमाने ह्रस्वस्य गुणः (7.3.108) इत्यनेन यो गुणो विधीयते, स सम्बुद्धिनिमित्तः, तस्य सम्बुद्धिनिमित्तत्वमुपादाय विहितत्वात्। गवित्ययमाह इति। केनचिद् गौरिति वक्तव्ये शक्तिवैकल्याद् गो इत्युक्तम्, तमन्यो यदानुकरोति, तत्रैतत् प्रत्युदाहरणम्। ननु चानुकार्येणार्थेनार्थवत्त्वात् प्रतिपदिकत्वे सति विभक्त्यात्र भवितव्यमित्यत आह- अत्र इत्यादि। अत्रानुक्रियमाणस्यानुकरणस्य यदि भेदो विवक्ष्यते, ततोऽर्थवत्तायां सत्यां स्याद्विभक्तिः, स तु न विवक्ष्यत इति कुतस्तस्याः प्रसङ्गः? न हीह शब्दशास्त्रे वस्तुनः सत्तैव शब्-संस्कारस्य प्रधानं कारणम्, किं तर्हि, विवक्षा च। सा चेह नास्ति। शाकल्यग्रहणं विभाषार्थम् इति। एतेन पूजार्थताशङ्कां निरस्यति। यदि हि पूजार्थमेव तत् स्यात्, विकल्पो न भवेदिति भावः॥

Praudhamanorama

ऋषिर्वेदः ‘तदुक्तमृषिणा’ इत्यादौ तथा दर्शनादित्यभिप्रेत्याह- अवैदिक इति। सम्बुद्धौ किम्? अहो इति। अत्र परत्वाद्विकल्पो मा भूत्। यत्तु ‘ओत्’ इत्यत्र निपातानुवृत्तेरिह च संबुद्धिग्रहणस्य प्रत्युदाहरणं वृत्यादावुक्तं गवित्ययमाहेति। तन्न, तत्र प्रगृह्रसञ्ज्ञासत्त्वेऽपि प्रकृतिभावाप्रसक्तेः। इकोऽसवर्णे (6.1.127) इत्यत्र हि पदान्तग्रहणमनुवर्तत इत्यकरे स्पष्टम्। एवं च प्लुतप्रगृह्या (6.1.125) इति सूत्रे तत्सम्बन्ध आवश्यकः। गविति च न पदम्। अनुकार्यानुकरणयोरभेदविवक्षया अर्थवत्वाभावेन विभक्तेरनुत्पादात्॥

Prakriyasarvasvam

तन्मते अवैदिके इतौ परे संबुद्धावोत् प्रगृह्यसंज्ञः स्यात् । विष्णो इति । अत्र पदव्यक्त्यर्थ इतिप्रयागः । अन्यमते विष्णविति ।

Sarala

ओत् (१.१.१५) इत्यतः ईदूदेद्द्विवचनं प्रगृह्यम् (१.१.११) इत्यतः “ओत्” इति “प्रगृह्यम्” इति चानुवर्तते । ऋषिशब्दो वेदवाचीत्यभिप्रेत्याह - सम्बुद्धिनिमित्तक इति । शाकल्यो लोपस्य स्मर्ता, पाणिनिर्नेति व्याख्यानानुसारेण शाकल्यमते विष्ण इतीत्युदाहृतम् ॥

Sudha

** विष्णो इतीति ।** “विष्णो-इति” इति स्थितावत्र सम्बुद्धौ शाकल्यस्येतावनार्षे (1.1.16) इत्यनेन सम्बुद्धिनिमित्तकस्य ओकारस्य अवैदिके इतौ परे प्रगृह्यसंज्ञायां प्लुतप्रगृह्या अचि नित्यम् (6.1.125) इत्यनेन प्रकृतिभावे च सति “विष्णो इति” इति रूपं सिद्ध्यति । स च प्रकृतिभावो विकल्पेन भवति । तदभावे एचोऽयवायावः (6.1.78) इत्यनेन अवादेशे लोपः शाकल्यस्य (8.3.19) इत्यनेन विकल्पेन लोपे “विष्ण इति” इति रूपम् । वलोपाभावे च “विष्णविति” इति रूपम् ॥