11016: सम्बुद्धौ शाकल्यस्येतावनार्षे ==================================== **Padacheda:** सम्बुद्धौ | S | 7 | 1 | शाकल्यस्य | S | 6 | 1 | इतौ | S | 7 | 1 | अनार्षे | S | 7 | 1 | Sutrartha --------- **सम्बोधन-एकवचनरूपस्य ओकारः अवैदिके 'इति' शब्दे परे शाकल्यस्य मतेन प्रगृह्यसंज्ञकः भवति ।** व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा वर्तते 'प्रगृह्यम्' इति संज्ञा । अष्टाध्याय्याम् **ईदूदेद्द्विवचनं प्रगृह्यम्** (1.1.11) इत्यतः **ईदूतौ च सप्तम्यर्थे** (1.1.19) एतैः नवभिः सूत्रैः प्रगृह्यसंज्ञा दीयते । अस्य सूत्रसमूहस्य इदम् षष्ठं सूत्रम् । **सम्बोधन-एकवचनस्य रूपाणाम् अन्ते विद्यमानस्य ओकारस्य लौकिकसंस्कृते 'इति' शब्दे परे अनेन सूत्रेण विकल्पेन प्रगृह्यसंज्ञा विधीयते ।** संस्कृते उकारान्तशब्दानाम् सम्बोधनस्य एकवचनस्य रूपाणि एव ओकारान्तानि सन्ति । यथा - धेनो, साधो, भानो - आदयः । एतेषाम् परः यदा 'इति' अयम् शब्दः प्रयुज्यते, तदा **शाकल्यमुनेः मतेन एतेषाम् अन्ते विद्यमानस्य ओकारस्य प्रगृह्यसंज्ञा भवति** । यथा, 'भानो इति', 'धेनो इति', 'विष्णो इति' एतादृशेषु उदाहरणेषु सम्बुद्धि-एकवचनस्य रूपाणाम् अन्ते विद्यमानः ओकारः शाकल्यमतेन प्रगृह्यसंज्ञकः ज्ञेयः, अतः तन्मतेन एतेषु उदाहरणेषु **प्लुतप्रगृह्या अचि नित्यम्** (6.1.125) इत्यनेन प्रकृतिभावे प्राप्ते, अच्सन्धिः न विधीयते । **दलकृत्यम्** 1. **सूत्रे 'अनार्षे' ग्रहणस्य प्रयोजनम्** — अस्मिन् सूत्रे 'अनार्षे' इति निर्देशः कृतः अस्ति । 'आर्ष' इति शब्दः अत्र वेदानां निर्देशार्थम् प्रयुक्तः अस्ति । अतः 'अनार्षे' इति ग्रहणात् इदं सूत्रं वैदिकवाङ्मयस्य विषये नैव प्रयोक्तव्यम् — इति विषयः स्पष्टी भवति । **वैदिकवाङ्मये तु 'इति' शब्दे परे अपि सम्बोधनस्य ओकारस्य शाकल्यमतेन अपि प्रगृह्यत्वम् नास्ति** — इति अत्र आशयः । यथा - 'ब्रह्मबन्धो इति' , 'अध्वर्यो इति' एतयोः वैदिकवाक्ययोः विद्यमानस्य सम्बोधनस्य एकवचनस्य अन्ते विद्यमानस्य ओकारस्य प्रगृह्यसंज्ञा न भवति, अतः अग्रे सन्धिः अपि कर्तुं शक्यते — ब्रह्मबन्धविति, अध्वर्यविति । 2. **सूत्रे शाकल्यग्रहणस्य प्रयोजनम्** — अस्मिन् सूत्रे 'शाकल्यस्य' इति निर्देशः विकल्पविधानार्थम् अस्ति । इत्युक्ते, 'भानो इति', 'धेनो इति' इत्यत्र सर्वत्र **ओकारस्य विकल्पेन एव प्रगृह्यसंज्ञा भवति** इति आशयः । अतः विकल्पसंज्ञायाः अभावपक्षे **एचोऽयवायावः** (6.1.78) इति अयादेशं कृत्वा 'भानविति, धेनविति', तथा च अग्रे विकल्पेन **लोपः शाकल्यस्य** (8.3.19) इति वकारलोपं कृत्वा 'भान इति', 'धेन इति' एतानि रूपाणि अपि सिद्ध्यन्ति — 1) भानो + इति → **भानो इति** [**सम्बुद्धौ शाकल्यस्येतावनार्षे** (1.1.16) इति वैकल्पिकप्रगृह्यसंज्ञा, अतः **प्लुतप्रगृह्या अचि नित्यम्** (6.1.125) इत्यनेन अच्सन्धौ प्रकृतिभावः ] 2) भानो + इति → **भानविति** [प्रगृह्यसंज्ञायाः अभावे **एचोऽयवायावः** (6.1.78) इति अयादेशः] 3) भानो + इति → **भान इति** [प्रगृह्यसंज्ञायाः अभावे **एचोऽयवायावः** (6.1.78) इति अयादेशः, ततश्च **लोपः शाकल्यस्य** (8.3.19) इति वैकल्पिकः वकारलोपः] Sutrartha (English) ------------------- According to Shakalya, the ओकार at end of the सम्बोधन-एकवचन form, when followed by the word 'इति' in a non vedic context, gets the term प्रगृह्य. Vasu English Summary -------------------- The final ओ of a vocative singular (2.3.49) before the word इति according to शाकल्य , in a secular or non-vedic literature is a प्रगृह्य। Vasu English Translation ------------------------ The final ओ of a vocative singular (2.3.49) before the word इति according to शाकल्य , in a secular or non-vedic literature is a प्रगृह्य। This *sūtra* gives the opinion of the *Rishi* *Sakalya*, so that it is an optional rule. Thus both forms वायविति (formed according to the general rule of *sandhi*) and वायो इति (where ओ is *pragrihya*) are correct. In *ârsha* literature the *sandhi* is imperative, not optional, as एता गा ब्रह्मबन्धवित्यब्रवीत्. The mention of the name of any sage, such as that of *Sakalya* in this *sūtra*, serves generally one of the two purposes :- (1) either it makes the rule an optional one, *vibhåshartham*, or (2) the mention is merely for the sake of showing respect to the particular sage, the rule would have stood as well without such mention; *pujártham*, as the word *Kåsyapa* in *sutra* (1.2.15). Kashika ------- ओदिति वर्तते । संबुद्धिनिमित्तो य ओकारः स शाकल्यस्याचार्यस्य मतेन प्रगृह्यसंज्ञो भवति, इति शब्देऽनार्षेऽवैदिके परतः। वायो इति, वायविति। भानो इति, भानविति। संबुद्धाविति किम् ? गवित्ययमाह। अत्रानुकार्यानुकरणयोर्भेदस्याविवक्षितत्वादसत्यर्थवत्त्वे विभक्तिर्न भवति। शाकल्यग्रहणं विभाषार्थम् । इताविति किम् ? वायोऽत्र। अनार्ष इति किम्? एता गा ब्रह्मबन्ध इत्यब्रवीत् (काठ०सं० १०.६)॥ Siddhanta Kaumudi ----------------- सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिके इतौ परे । विष्णो इति । विष्ण इति । विष्णविति । अनार्ष इति किम् । ब्रह्मबन्धवित्यब्रवीत् ॥ Laghu Siddhanta Kaumudi ----------------------- सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिके इतौ परे। विष्णो इति, विष्ण इति, विष्णविति॥ Balamanorama ------------ **सम्बुद्धौ शाकल्यस्येतावनार्षे** - संबुद्धौ शाकल्यस्येति । सम्बुद्धाविति निमित्तसप्तमी, ओदित्यनुवृत्तेन सहाऽन्वेति ।प्रगृह्र॑मित्यनुवर्तते, स च पुंलिङ्गतया विपरिणम्यते । ऋषिः=वेदः ।तदुक्तमृषिणे॑त्यादौ तथा दर्शनात् । ऋषौ भवः — आर्षः, न आर्षः-अनार्षः । अवैदिके इतिशब्दे परत इत्यर्थः । शाकल्यग्रहणाद्विकल्पस्तदाह — संबुद्धिनिमित्तक इति । विष्णो इतीति । अत्र ओकारो 'ह्रस्वस्य गुण' इति सम्बुद्धिनिमित्तकः । अत्र ओदन्तत्वेऽपि निपातत्वाऽभावादप्राप्ते विभाषेयम् ।विष्ण॑वितीति प्रगृह्रत्वाऽभावे रूपम् । Tattvabodhini ------------- **सम्बुद्धौ शाकल्यस्येतावनार्षे** - संबुद्धौ । ऋषिर्वेदःतदुक्तमृषिणा॑ इत्यादौ तथा दर्शनादित्याभिप्रेत्याह-अवैदिक इति । संबुद्धौ किम् । अहो इति । अत्र परत्वाद्विकल्पो मा भूत् । न चओ॑दिति सूत्रस्य निरवकाशत्वं शङ्क्यम् ,अहो ईशा॑ इत्यादौ तस्य सावकाशत्वात् । इताविति किम् । पटोऽत्र । Nyaas ----- `सम्बुद्धिनिमित्तः` इति। सम्बुद्धिर्निमित्तं यस्य स तथोक्तः। एतेन `सम्बुद्धौ` इत्यस्य निमित्तसप्तमीत्वं दर्शयति। परसप्तम्यां त्वस्याम् `हे त्रपो`इत्यत्र न स्यात्, `स्वमोर्नपुंसकात्` (7.1.23) इति सम्बुद्धेर्लुप्तत्वादिति भावः। **सम्बुद्धौ च** (7.3.106) इति वर्तमाने `ह्रस्वस्य गुणः` (7.3.108) इत्यनेन यो गुणो विधीयते, स सम्बुद्धिनिमित्तः, तस्य सम्बुद्धिनिमित्तत्वमुपादाय विहितत्वात्। `गवित्ययमाह` इति। केनचिद् गौरिति वक्तव्ये शक्तिवैकल्याद् `गो` इत्युक्तम्, तमन्यो यदानुकरोति, तत्रैतत् प्रत्युदाहरणम्। ननु चानुकार्येणार्थेनार्थवत्त्वात् प्रतिपदिकत्वे सति विभक्त्यात्र भवितव्यमित्यत आह- `अत्र` इत्यादि। अत्रानुक्रियमाणस्यानुकरणस्य यदि भेदो विवक्ष्यते, ततोऽर्थवत्तायां सत्यां स्याद्विभक्तिः, स तु न विवक्ष्यत इति कुतस्तस्याः प्रसङ्गः? न हीह शब्दशास्त्रे वस्तुनः सत्तैव शब्-संस्कारस्य प्रधानं कारणम्, किं तर्हि, विवक्षा च। सा चेह नास्ति। `शाकल्यग्रहणं विभाषार्थम्` इति। एतेन पूजार्थताशङ्कां निरस्यति। यदि हि पूजार्थमेव तत् स्यात्, विकल्पो न भवेदिति भावः॥ Praudhamanorama --------------- ऋषिर्वेदः 'तदुक्तमृषिणा' इत्यादौ तथा दर्शनादित्यभिप्रेत्याह- अवैदिक इति। सम्बुद्धौ किम्? अहो इति। अत्र परत्वाद्विकल्पो मा भूत्। यत्तु 'ओत्' इत्यत्र निपातानुवृत्तेरिह च संबुद्धिग्रहणस्य प्रत्युदाहरणं वृत्यादावुक्तं गवित्ययमाहेति। तन्न, तत्र प्रगृह्रसञ्ज्ञासत्त्वेऽपि प्रकृतिभावाप्रसक्तेः। **इकोऽसवर्णे** (6.1.127) इत्यत्र हि पदान्तग्रहणमनुवर्तत इत्यकरे स्पष्टम्। एवं च **प्लुतप्रगृह्या** (6.1.125) इति सूत्रे तत्सम्बन्ध आवश्यकः। गविति च न पदम्। अनुकार्यानुकरणयोरभेदविवक्षया अर्थवत्वाभावेन विभक्तेरनुत्पादात्॥ Prakriyasarvasvam ----------------- तन्मते अवैदिके इतौ परे संबुद्धावोत् प्रगृह्यसंज्ञः स्यात् । विष्णो इति । अत्र पदव्यक्त्यर्थ इतिप्रयागः । अन्यमते विष्णविति । Sarala ------ **ओत्** (१.१.१५) इत्यतः **ईदूदेद्द्विवचनं प्रगृह्यम्** (१.१.११) इत्यतः "ओत्" इति "प्रगृह्यम्" इति चानुवर्तते । ऋषिशब्दो वेदवाचीत्यभिप्रेत्याह - **सम्बुद्धिनिमित्तक इति** । शाकल्यो लोपस्य स्मर्ता, पाणिनिर्नेति व्याख्यानानुसारेण शाकल्यमते विष्ण इतीत्युदाहृतम् ॥ Sudha ----- ** विष्णो इतीति ।** "विष्णो-इति" इति स्थितावत्र **सम्बुद्धौ शाकल्यस्येतावनार्षे** (1.1.16) इत्यनेन सम्बुद्धिनिमित्तकस्य ओकारस्य अवैदिके इतौ परे प्रगृह्यसंज्ञायां **प्लुतप्रगृह्या अचि नित्यम्** (6.1.125) इत्यनेन प्रकृतिभावे च सति "विष्णो इति" इति रूपं सिद्ध्यति । स च प्रकृतिभावो विकल्पेन भवति । तदभावे **एचोऽयवायावः** (6.1.78) इत्यनेन अवादेशे **लोपः शाकल्यस्य** (8.3.19) इत्यनेन विकल्पेन लोपे "विष्ण इति" इति रूपम् । वलोपाभावे च "विष्णविति" इति रूपम् ॥