11012: अदसो मात्

Padacheda: अदसः | S | 6 | 1 |

मात् | S | 5 | 1 |

Sutrartha

‘अदस्’ शब्दस्यरूपेषु मकारात् अनन्तरम् विद्यमानस्य दीर्घ-ईकारस्य, दीर्घ-ऊकारस्य, दीर्घ-एकारस्य च ‘प्रगृह्यम्’ इति संज्ञा भवति ।

व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा वर्तते ‘प्रगृह्यम्’ इति संज्ञा । अष्टाध्याय्याम् ईदूदेद्द्विवचनं प्रगृह्यम् (1.1.11) इत्यतः ईदूतौ च सप्तम्यर्थे (1.1.19) एतैः नवभिः सूत्रैः प्रगृह्यसंज्ञा दीयते । अस्य सूत्रसमूहस्य इदम् द्वितीयं सूत्रम् । अनेन सूत्रेण अदस्-शब्दस्य रूपेषु मकारात् अनन्तरम् विद्यमानस्य दीर्घ-ईकारस्य, दीर्घ-ऊकारस्य, दीर्घ-एकारस्य च प्रगृह्यसंज्ञा भवति — इति अस्य सूत्रस्य आशयः । एतादाशानि रूपाणि एतानि —

1) पुंलिङ्गे - अमू (प्रथमा/द्वितीया-द्विवचनम्) - अत्र विद्यमानः मकारोत्तरः ऊकारः प्रगृह्यसंज्ञकः भवति । 2)पुंलिङ्गे - अमी (प्रथमाबहुवचनम्) - अत्र विद्यमानः मकारोत्तरः ईकारः प्रगृह्यसंज्ञकः भवति । 3) स्त्रीलिङ्गे - अमू (प्रथमा/द्वितीया-द्विवचनम्) - अत्र विद्यमानः मकारोत्तरः ऊकारः प्रगृह्यसंज्ञकः भवति । 3) नपुंसकलिङ्गे - अमू (प्रथमा/द्वितीया-द्विवचनम्) - अत्र विद्यमानः मकारोत्तरः ऊकारः प्रगृह्यसंज्ञकः भवति ।

इत्युक्ते, संक्षेपेण अदस्-शब्दस्य ‘अमी’ तथा ‘अमू’ एतयोः रूपयोः अन्ते विद्यमानौ ईकार-ऊकारौ प्रकृतसूत्रेण प्रगृह्यसंज्ञकौ भवतः । प्रगृह्यत्वात् **प्लुतप्रगृह्याः अचि नित्यम् (6.1.125) इत्यनेन अच्सन्धौ प्रकृतिभावे कृते ‘अमी आसाते’, ‘अमू आसाते’ एतादृशेषु प्रयोगेषु इको यणचि (6.1.77) इति यणादेशः न भवति ।**

अस्मिन् सूत्रे ‘मात्’ इति ग्रहणस्य प्रयोजनम्

‘अदस्’ शब्दस्य सर्वाणि ईकारान्तरूपाणि, ऊकारान्तरूपाणि च मकारोपधानि एव सन्ति । अतः अस्मिन् सूत्रे ‘मात्’ इति किमर्थं स्वीक्रियते इति प्रश्नः उपतिष्ठते । तस्य समाधानम् इदम् — अव्ययसर्वनाम्नाम् अकच् प्राक्टेः (5.3.71) इति सूत्रेण अदस्-शब्दात् ‘अकच्’ इति स्वार्थिकं प्रत्ययं कृत्वा ‘अदकस्’ इति किञ्चन शब्दः सिद्ध्यति । अदसो मात् (1.1.12) इत्यत्र कृतेन ‘अदस्’ इति निर्देशेन तन्मध्यपतितस्तद्ग्रहणेन गृह्यते’ इति परिभाषाम् आश्रित्य अदकस्-शब्दस्य अपि ग्रहणं भवति । अस्य अदकस्-शब्दस्य पुंलिङ्गे प्रथमाबहुवचनस्य ‘अमुके’ इति एकारान्तम् रूपम् विद्यते । अस्य ‘अमुके’ इति रूपस्य अन्ते विद्यमानस्य एकारस्य प्रगृह्यसंज्ञा नैव इष्यते, यतः ‘अमुकेऽत्र’ एतादृशाः कृतसन्धिप्रयोगाः भाषायाम् प्राचर्येण प्रयुक्ताः सन्ति । अतः अत्र ‘अमुके’ इत्यस्य एकारस्य प्रगृह्यसंज्ञां निवारयितुम् अदसो मात् (1.1.12) इति सूत्रे ‘मात्’ इति शब्दस्य ग्रहणं कृतम् अस्ति ।

Sutrartha (English)

The forms of the अदस् word which end in मी / मू / मे are known as ‘प्रगृह्य’.

Vasu English Summary

The same letters after the म् of the pronoun अदस् are प्रगृह्य।

Vasu English Translation

The same letters after the म् of the pronoun अदस् are प्रगृह्य। In the pronoun अदस्, the dual termination in ई, ऊ or ए will be pragrihya by force of the last sūtra, but the present sûtra makes this addition, that in the case of अदस्, all terminations ending in ई, ऊ or ए and preceded by म, of whatever number they may be, will be pragrihya. As a matter of fact, there are only two such terminations satisfying the above conditions namely अमी and अमू. The rule may therefore be put in the following words of Dr. Max Muller:- “The terminations of अमी and अमू nom. plur. masc. and nom. dual of the pronoun अदस् are pragrihya.” As अमी अश्वाः “Those horses”, and अमू आसते. There is no example of the word adas ending in ए.

Why do we say “of the word adas”? The letters ई, ऊ, ए following after the म् of any other word will not be pragrihya. As शमी+अत्र = शम्यत्र “this sami tree.”

Why do we say “after the letter म्”? Because in the example अमुके+अत्र = अमुकेऽत्र, “those here,” the ए, preceded not by म् but by the क of अकच् (5.3.71) is not pragrihya, which it would have been by the influence of sūtra II, which includes ए as well as ई and ऊ, and from which the word dual is not supplied here, else this rule would be useless.

Bhashya

अदसो मात् ॥ मात्प्रगृह्यसञ्ज्ञायां तस्यासिद्धत्वादयावेकादेशप्रतिषेधः ॥ मात् प्रगृह्यसञ्ज्ञायां तस्य इर्त्वस्य ऊत्वस्य चासिद्धत्वादयावेकादेशाः प्राप्नुवन्ति तेषां प्रतिषेधो वक्तव्यः। अमी अत्र। अमी आसते।अमू अत्र। अमू आसते। ननु च प्रगृह्यसञ्ज्ञावचनसार्मथ्यादयादयो न भविष्यन्ति। ॥ वचनार्थो हि सिद्धे ॥ नेदं वचनाल्लभ्यम्। अस्ति ह्यन्यदेतस्य वचने प्रयोजनम्। किम्। यत् सिद्धे प्रगृह्यकार्यं तदर्थमेतत् स्यात्। अणोऽप्रगृह्यस्यानुनासिक इति ॥ नैकं प्रयोजनं योगारम्भं प्रयोजयति। यद्येतावत् प्रयोजनं स्यात् तत्रैवायं ब्रूयादणोऽप्रगृह्यस्यानुनासिकोऽदसो नेति। ॥ विप्रतिषेधाद्वा ॥ अथवा प्रगृह्यसञ्ज्ञा क्रियतामयादयो वेति। प्रगृह्यसञ्ज्ञा भविष्यति विप्रतिषेधेनेति। नैष युक्तो विप्रतिषेधः। विप्रतिषेधे परमित्युच्यते। पूर्वा च प्रगृह्यसञ्ज्ञा परेऽयादयः। परा प्रगृह्यसञ्ज्ञा करिष्यते। सूत्रविपर्यासः कृतो भवति। एवं तर्हि परैव प्रगृह्यसञ्ज्ञा। कथम्। कार्यकालं सञ्ज्ञापरिभाषम्। यत्र कार्यं तत्रोपस्थितं द्रष्टव्यम्। प्रगृह्यः प्रकृत्येत्युपस्थितमिदं भवति अदसो मादिति। एवमप्ययुक्तो विप्रतिषेधः। कथम्। द्विकार्ययोगो हि विप्रतिषेधः। नचात्रैको द्विकार्ययुक्तः। एचामयादयः। इर्दूतोः प्रगृह्यसञ्ज्ञा। नावश्यं द्विकार्ययोग एव विप्रतिषेधः। किं तर्हि असंभवोपि। स चास्त्यत्रासंभवः। कोऽसावत्रासंभवः? प्रगृह्यसञ्ज्ञाऽभिनिर्वर्तमाना अयादीन् बाधते। अयादयोऽभिनिर्वर्तमानाः प्रगृह्यसञ्ज्ञाया निमित्तं विघ्नन्तीत्येषोऽसंभवः। सत्यसंभवे युक्तो विप्रतिषेधः। एवमप्ययुक्तो विप्रतिषेधः। सतोर्हि विप्रतिषेधो भवति। न चात्रेत्वोत्वे स्तः। नापि मकारः। उभयमप्यसिद्धम् । ॥ आश्रयात् सिद्धत्वं च यथा रोरुत्वे ॥ आश्रयात् सिद्धत्वं भविष्यति। तद्यथा रुरुत्वे आश्रयात् सिद्धो भवति । किं पुनः कारणं रुरुत्वे आश्रयात् सिद्धो भवति। न पुनर्यत्रैव रुः सिद्धस्तत्रैवोत्वमप्युच्येत । नैवं शक्यम्। ॥ असिद्धे ह्युत्वे आद्गुणाप्रसिद्धिः ॥ असिद्धे ह्युत्वे आद्गुणस्याप्रसिद्धिः स्यात्। वृक्षोऽत्र। प्लक्षोऽत्र। तस्मात् तत्राश्रयात् सिद्धत्वमेषितव्यम्। यथा तत्राश्रयात् सिद्धत्वं भवति। एवमिहाप्याश्रयात् सिद्धत्वं भविष्यति। ॥ अथवा प्रगृह्यसञ्ज्ञावचनसार्मथ्यादयादयो न भविष्यन्ति ॥ अथवा योगविभागः करिष्यते। अदसः। अदसः परे इर्दादयः प्रगृह्यसञ्ज्ञा भवन्तीति। ततो मात्। माच्च परे इर्दादयः प्रगृह्यसञ्ज्ञा भवन्तीति। अदस इत्येव। किमर्थो योगविभागः। एको यत् तत् सिद्धे प्रगृह्यकार्यं तदर्थः। अपरो यदसिद्धे । इहापि तर्हि प्राप्नोति। अमुया। अमुयोरिति। किं च स्यात् यद्यत्र प्रगृह्यसञ्ज्ञा स्यात्। प्रगृह्याश्रयः प्रकृतिभावः प्रसज्येत । नैष दोषः। पदान्तप्रकरणे प्रकृतिभावः। न चैष पदान्तः । एवमप्यमुकेऽत्र,अत्रापि प्राप्नोति। द्विवचनमिति वर्तते। यदि द्विवचनमिति वर्तते अमी अत्र न प्राप्नोति । एवं तर्हि एदन्तमिति निवृत्तम्। अथवाहायमदसो मादिति। न च इर्त्वोत्वे स्तः। नापि मकारः। तत एवं विज्ञास्यामः मार्थादीदाद्यर्थानामिति। ॥ उक्तं वा ॥ किमुक्तम्। अदस इर्त्वोत्वे स्वरे बहिष्पदलक्षणे सिद्धे वक्तव्ये। प्रगृह्यसञ्ज्ञायां चेति । ॥ तत्र सकि दोषः ॥ तत्र सककारे दोषो भवति। अमुकेऽत्र । नवा ग्रहणविशेषणत्वात्। न माद्ग्रहणेन इर्दाद्यन्तं विशेष्यते, किं तर्हि। इर्दादयो विशेष्यन्ते मात्परे ये इर्दादय इति ।

Kashika

अदसः सम्बन्धी यो मकारस्तस्मात् पर ईदूदेतः प्रगृह्यसंज्ञा भवन्ति। अमी अत्र। अमी आसते। अमू अत्र। अमू आसाते। एकारस्य नास्त्युदाहरणम् । अदस इति किम् ? शम्यत्र। दाडिम्यत्र । मादिति किम् ? अमुकेऽत्र॥

Siddhanta Kaumudi

अस्मात्परावीदूतौ प्रगृह्यौ स्तः । अमी ईशाः । रामकृष्णावमू आसाते । मात् किम् । अमुकेऽत्र । असति माद्ग्रहणे एकारोऽप्यनुवर्तेत ॥

Laghu Siddhanta Kaumudi

अस्मात्परावीदूतौ प्रगृह्यौ स्तः। अमी ईशाः। रामकृष्णावमू आसाते। मात्किम्? अमुकेऽत्र॥

Balamanorama

अदसो मात् - अदसो मात् । ‘अदस’ इत्यवयवषष्ठी । अदश्शब्दावयवान्मकारादित्यर्थः ।ईदू॑दितिप्रगृह्र॑मिति चानुवर्तते ।मा॑दिति दिग्योगे पञ्चमी । परसभ्दोऽध्याहार्यः । तदाह — अस्मात्पराविति । अदश्शब्दावयवमकारात्परावित्यर्थः ।ए॑दिति नानुवर्तते, अदश्शब्दे मकारात्परस्यैकारस्याऽसंभवात् ।द्विवचन॑मित्यपि नानुवर्तते, अदश्शब्दे मकारात्परस्य ईकारस्य ‘अमी’ इति बहुवचनत्वात्, ऊकारस्य च मकारात्परस्य तत्र द्विवचनान्तेष्वेव सत्त्वेन व्यावर्त्त्याऽभावात् । अमी ईशा इति । अदश्शब्दाज्जसि त्यदाद्यत्वं पररूपत्वं । जसश्शी । आद्गुणः । ‘अदे’ इति स्थिते एकारस्यएत ई॑दिति ईत्त्वं, दस्य च मत्त्वम् । तदेवम्-॒अमी॑#इति रूपम् । अत्र ईकारस्य द्विवचनत्वा.ञभावात्पूर्वसूत्रेण प्रगृह्रसंज्ञा न प्राप्तेत्यनेन सा विधीयते । रामकृष्णावमू इति । पुंलिङ्गाददश्शब्दात्प्रथमाद्विवचने औङि, त्यदाद्यत्वं, पररूपत्वं । वृद्धिरेचि । अदौ इति स्थिते, अदसोऽसेरित्यौकारस्य ऊत्वं, दस्य मत्वम् । अमू इति रूपम् । यद्यप्ययमूकारो द्विवचनं भवति, तथापि पूर्वसूत्रेण प्रगृह्रत्वे कर्तव्ये उत्वमत्वयोरसिद्धतया दकारादौकारस्यैव शास्त्रदृष्टआ सत्त्वात्पूर्वस#ऊत्रेण तस्य प्रगृह्रत्वं न प्राप्तमित्यनेन विधीयते ।अदसो मा॑दिति सूत्रं प्रति तु उत्वमत्वे नासिद्धे, आरम्भसामर्थ्यात् । पूर्वसूत्रस्य तु तत्र न सामर्थ्यं, हरी एतौ, विष्णू इमावित्यादौ चरितार्थत्वात् ।स्त्रियौ फले वा अमू आसाते॑ इति स्त्रीलिङ्गो नपुंसकलिङ्गश्च अदश्शब्दो नात्रोदाहरणम् । तथाहि स्त्रीलिङ्गददश्शब्दादौङि, त्यदाद्यत्वे, पररूपत्वे, टापि, ‘ओङ आप’ इति शीभावे, आद्गुणे, उत्वमत्वयोरमू इत्येव रूपम् । तथा नपुंसलिङ्गात्तस्मादौङि, त्यदाद्यत्वे, पररूपत्वे, नपुंसकाच्चेति शीभावे, आद्गुणे, उत्वमत्वयोरमू #इत्येव रूपम् । अत्र पूर्वसूत्रेणैव प्रगृह्रत्वं सिद्धम् । उत्वमत्वयोरसिद्धत्वेऽप्येकारस्य द्विवचनस्य सत्त्वात् । अतः पुंलिङ्ग एव अदश्शब्दोऽत्रोदाहरणमिति प्रदर्शयितुं ‘रामकृष्णा’ वित्युक्तम् । मात्किमिति । ‘अदस’ इत्येव सूत्रमस्तु, माद्ग्रहणस्य किं प्रयोजनमिति प्रश्नः । अमुकेत्रेतिअव्ययसर्वनाम्नामकच् प्राक्टेः॑ #इत्यकचि अदकश्शब्दाज्जसि, त्यदाद्यत्वं, पररूपत्वम्, जसश्शी, आद्गुणः उत्वमत्वे । ‘अमुके’ इति रूपम् । अत्र एकारस्य प्रगृह्रत्वनिवृत्त्यर्थं माद्ग्रहणम् । कृते च तस्मिन्नेकारस्य म#आत्परत्वाऽभावान्न प्रगृह्रत्वमिति भावः । नन्वेवमपि माद्ग्रहणं व्यर्थम्, एद्ग्रहणमननुवर्त्त्य ईदूतोरेवाऽत्र प्रगृह्रत्वविधानाब्युपगमेन ‘अमुके’ इत्यत्र प्रगृह्रत्वप्रसक्तेरेवाऽभावादित्यत आह — असतीति ।अदसो मा॑दित्यत्र ईदूदेतामेकसमासपदोपात्तानां मध्ये ईदूतोद्र्वयोरनुवृत्तौ एतोऽप्यनुवृत्तिप्रसक्तौ माद्ग्रहणादेतोऽनुवृत्तिः प्रतिबद्धा । माद्ग्रहणाऽभावे तु बाधकाऽभावादेतोऽप्यनुवृत्तिः स्यात् । ततश्च ‘अमुके’ इत्यत्रापि एकारस्य प्रगृह्रत्वप्रसक्तौ तन्निवृत्त्यर्थं माद्ग्रहणम् । कृते तु तस्मिन्नेतोऽनुवृत्तिप्रतिबन्धादमुके इत्यत्र न प्रगृह्रत्वम् । तथाच एकाराननुवृत्तिफलसकं माद्ग्रहणमिति भावः ।

Tattvabodhini

अदसो मात् - अदसो मात् । इह एकारो नानुवर्तते, असंभवादित्यभिप्रेत्याह-ईदूताविति । अदसः किम् । शम्यत्र, वाम्यत्र । ननूकारानुवृत्तिव्र्यर्था,स्त्रियौ फले वा अमू आसाते॑ इत्यत्र पूर्वेणैव सिद्धेः । मुत्वस्यासिद्धत्वेऽप्येकारान्तत्वादत आह — रामकृष्णाविति । पुंसि पूर्वेण न सिध्द्यति, औकारान्तत्वादिति भावः ।अदसो मा॑दिति सूत्रं प्रति मूत्वमीत्वं च नाऽसिद्धम्, आरम्भसामर्थ्यात् । अमुकेऽत्रेति । स्त्रीलिङ्गद्विवचनस्य तु पूर्वसूत्रेण प्रगृह्रत्वे प्रकृतिभाव एव । अमुकेऽत्र । एकारोऽप्यनुवर्तेतेति । तथाच एकाराननुवृत्तितात्पर्यग्रहफलकं माद्ध्रहणमिति भावः ।

Padamanjari

‘स्वरितेनाधिकारः’ इत्यत्र द्वौ पक्षौ-अर्थाधिकारः, शब्दाधिकारश्चेति । तत्रार्थाधिकारो नाम-यस्य यस्मिन्सूत्रे स्वरितत्वं प्रतिज्ञातं तत्र तस्य योऽर्थः स उतरत्राधिक्रियत इति । शब्दाधिकारस्तु स एव शब्दोऽविवक्षितार्थोऽधिकृतस्ततत्सूत्रानुगुणमर्थं प्रतिपादयतीति । तत्रार्थाधिकारे पूर्वत्रेदादिभिस्तदन्तं प्रत्यायितम्, इहानुवृतम् ‘मात्’ इत्यनेन विशेष्येतेति ‘अमुकेऽत्र’ इत्यत्रापि प्रसङ्गः, शब्दाधिकारे त्विदादिमात्रस्येहानुवृतस्यापि विशेष्याभावादसति तदन्तविधौ ‘मात्’ इत्यनेन विशेषणाददोष इति तमाश्रित्याह-ऽतस्मात्परे ईदूदेदन्ताऽ इति । ऽप्रगृह्यसं ज्ञाऽ इति । प्रगृह्यशब्दः संज्ञा येषां ते तथोक्ताः । यद्यपि पूर्वसूत्र एव प्रगृह्यशब्दः संज्ञात्वेन विनियुक्तः, तथापीह संज्ञिनो न प्रत्याययति; स्वरूपपदार्थकस्यैव तस्येहानुवृतेः । किमर्थमिदमुच्यते, यावता स्त्रीनपुंसकयोर्द्विवचने मुत्वस्यासिद्धत्वेऽप्येकारान्तत्वात् पूर्वेणैव सिद्धा संज्ञा; स्वरसन्धिप्रकरणे च मुत्वस्यासिद्धत्वादेकारस्यैव विकारप्रसङ्गे प्रकृतिभावोऽपि सिद्धः,अनुनासिकपर्युदासश्च कार्यकालपक्षे लिङ्गत्रयेऽपि द्विवचने सिद्धः ? ‘अणोऽप्रगृह्यस्य’ इत्यत्रोपस्थितेन पूर्वसूत्रेण संज्ञायां क्रियमाणायां मुत्वस्य सिद्धत्वात् । अतोऽनुनासिकपर्य्युदासेऽद्विवचनार्थोऽयमारम्भः, प्रकृतिभावे तु पुंसि द्विवचनार्थश्च । नन्वारब्धेऽप्यस्मिन्यथोद्देशपक्षे संज्ञायां कर्तव्यायां मुत्वमीत्वयोराश्रयात्सिद्धत्वेऽपि स्वरसन्धिप्रकरणे तयोरसिद्धत्वादयावेकादेशप्रसङ्गः, अमी आसते इत्ययादेशः, अमू आसाते इति पुंस्यावादेशः, अमी अत्र इति ‘एङः पदान्तादति’ इत्येकादेशः । न च संज्ञाया वैयर्थ्यम्; अनुनासिकपर्युदासेनार्थवत्वात् । तत्र हि कर्तव्ये मुत्वमीत्वयोरसिद्धत्वाभावाद्ययोरनेन संज्ञा कृता तावेव ?न, न तं प्रति । कार्यकालपक्षे तु संज्ञायामपि कर्तव्यायामाश्रयात् सिद्धत्वं नाश्रयणीयम्;’अणोऽप्रगृह्यस्य’ इत्यत्रोपस्थितेऽस्मिन् कर्तव्ये मुत्वमीत्वयोः सिद्धत्वात्, तावता चास्य चरितार्थत्वात् । तदेवमुभयोरपि पक्षयोः स्वरसन्धिः स्यादेव ? उच्यते; यद्यनुनासिकपर्युदास एव प्रयोजनमभविष्यद् ‘अणोऽप्रगृह्यस्यानुनासिकोऽदसो न ‘ इत्येवावक्ष्यत् । अमुके, अमुयेत्यादावनण्त्वादनवसानत्वाच्चाप्रसङ्गः । अतः संज्ञारम्भसामर्थ्यात् प्रकृतिभावार्थत्वमप्यस्य विज्ञायते, तच्च स्वरसन्धिप्रकरणे मुत्वमीत्वयोः सिद्धत्वमन्तरेणानुपपन्नमित्युभयोरपि पक्षयोः सामर्थ्यादसिद्धत्वबाधः । ऽमादिति किमिऽति । ‘अदस’ इति षष्ठी, अमी अमू इत्यत्र च मूत्वमीत्वयोः स्थानिनावेकादेशावन्तवद्भावाददस्-शब्दग्रहणेन गृह्यएते इति तदादेशयोरपि तद्ग्रहणेन ग्रहणादस्ति तावदिष्टसिद्धिः । एदिति च निवर्तिष्यते, न च मात्परावीदूतौ सम्भवत इत्यतिप्रसङ्गोऽपि नास्तीति प्रश्नः । ऽअमुकेऽत्रेतिऽ । एकयोगनिर्द्दिष्टानामेकदेशानुवृत्तिर्दुर्ज्ञानेति भावः । न च मादित्यस्मिन् सत्यपि एद्ग्रहणसामर्थ्यादत्र प्रसङ्गः; मादित्यस्य वैयर्थ्यप्रसङ्गात् । न च विकल्पः; अतुल्यबलत्वात् । तद्धि पूर्वत्र चरितार्थम्, मादिति त्वकृतार्थम् । न चानुवृत्तिसामर्थ्यम्; अन्यानुरोधेनाप्यनुवृत्तिसम्भवात् ॥

Nyaas

अदसः सम्बन्धी यो मकारः इति। अवयनवावयविभावलक्षणेन सम्बन्धेन षष्ठी।अमी अत्र इति अदस्शब्दात् परस्य जसः शी (7.1.17) त्यदाद्यत्वम् (7.1.102) ,अतो गुणो` (6.1.94) पररूपत्वम्, ईकारेण सह आद्गुणः (6.1.87) एत ईद्बहुवचने (8.2.81) इतीत्त्वम्, दस्य च मत्वम्, (8.2.80) । अयमद्विवचनार्थ आरम्भः। अमू आसाते इति। अदसो द्विवचनमौ। त्यदाद्यत्वम्,**वृद्धिरेचि** (6.1.88) इति वृद्धिः; अदसोऽसेर्दादुदो मः (8.2.80) इत्यौकारस्य दीर्घस्य स्थाने तादृश एवान्तरतम्यादुकरः।अत्राप्यूकारादिकार्यमसिद्धमिति पूर्वेणाप्राप्तिः। अतः पूर्वात्रासिद्धम् (8.2.1) इत्यस्य बाधनार्थं आरम्भः। कथं पुनः पूर्वत्रासिद्धम् (8.2.1) इत्येतच्छक्यं बाधितुम्, वचनसामर्थ्यात्? नैतदस्ति; यत् सिद्धे प्रगृह्रकार्यम् अणोऽप्रगृह्यस्यानुनासिकः (8.4.57) इति, तदर्थं वचनं स्यात्, नैतदेवम्; न ह्रेकं प्रयोजनं योगारम्भं प्रयोजयति। यदि ह्रेतावत् प्रयोजनं स्यात्, तत्रैवेदं ब्राऊयात्, अणोऽप्रगृह्रस्यानुनासिकः, अदसो न इति। शम्य्तर, दाडिम्यत्र इति। षिद् गौरादिभ्यश्च (4.1.41) इति ङीष्, यस्येति च (6.4.148) इत्यकारलोपः। भवत्ययंमकारात्पर ईकारः, न त्वदः सम्बन्धीति। अमुकेऽत्र इति। अव्ययसर्वनाम्नाम् (5.3.71) इत्यकच्, जसः शी (7.1.17) , आद्गुणः (6.1.87) , पूर्ववदुत्वमत्वे अमुके इतिस्थिते परत्र चात्रशब्दे एङः पदान्तादति (6.1.109) इति पूर्वरूपत्वम्।

Praudhamanorama

ईदूताविति। ननु उकारानुवृत्तिर्व्यर्था, स्त्रियौ फले वा अमू आसाते इत्यत्र पूर्वेणैव सिद्धेः, मुत्वस्यासिद्धत्वेऽप्येकारान्तत्वादत आह— रामकृष्णाविति। पुंसि पूर्वेण न सिध्यति, औकारान्तत्वादिति भावः। अदसो मात् (1.1.12) इति सूत्रं प्रति तु मूत्वमीत्वे नासिद्धे, आरम्भसामथ्र्यात्। एकारोऽपीति। तथा च एकाराननुवृत्तितात्पर्यग्रहणफलकं माद्ग्रहणमिति भावः। अत्रेदं चिन्त्यम्- ईदूत्सप्तम्यर्थे प्रगृ ह्यम्, अदसः, एच्च द्विवचनमित्येव कुतो न सूत्रितम्। एवं हि पूर्वसूत्रस्थमीदूद्ग्रहणं प्रकृतसूत्रे माद्ग्रहणं च मास्तु। एकदेशानुवृत्तिक्लेशोऽपि नेति॥

Prakriyasarvasvam

अदः शब्दस्य मात् परावीदूतौ प्रगृह्याख्यौ । अमी अच्युताः । अमू अङ्गने ।

Sarala

ईदूदेद्द्विवचनं प्रगृह्यम् (१.१.११) इत्यतः “ईदूदेत्” इत्यनुवृत्तावपि अदस्शब्दसम्बन्धिमकारात्परस्यैकारस्याऽसम्भवादाह - ईदूताविति । अत्र द्विवचनाननुवृत्तिरितिसूचनाय बहुवचनमुदाहृतम् - अमी इतिअमुकेत्रेति । असति माद्ग्रहणे एकारोऽप्यनुवर्त्तेत, माद्ग्रहणे कृते तु मकारादव्यवहितपरस्यैकारस्याऽसम्भव इति न तदनुवृत्तिः ॥

Sudha

अदसो मादिति । अदसः इत्यवयवषष्ठी, तेन अदश्शब्दावयवमकारात्परस्येकारस्य सत्वात्प्रगृह्यसंज्ञायाम् प्लुतप्रगृह्या अचि नित्यम् (6.1.125) इत्यनेन प्रकृतिभावे “अमी ईशाः” इति रूपम् । एवमेव “रामकृष्णावमू-आसातेे” इत्यत्रापि प्रगृह्यसंज्ञां कृत्वा प्रकृतिभावो विधेयः । मात् किमिति । असति माद्ग्रहणे एकारोऽप्यनुवर्तेत । तेन च “अमुकेऽत्र” अत्र प्रगृह्यसंह्ञापूर्वकप्रकृतिभाव आपद्येत इति भावः ॥