11011: ईदूदेद्द्विवचनं प्रगृह्यम्

Padacheda: ईत्-ऊत्-एत् | S | 1 | 1 |

द्विवचनं | S | 1 | 1 |

प्रगृह्यम् | S | 1 | 1 |

Sutrartha

द्विवचनस्य दीर्घ-ईकारान्तम्, दीर्घ-ऊकारान्तम् तथा एकारान्तम् रूपम् ‘प्रगृह्य’संज्ञकम् भवति ।

व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा वर्तते ‘प्रगृह्यम्’ इति संज्ञा । अष्टाध्याय्याम् ईदूदेद्द्विवचनं प्रगृह्यम् (1.1.11) इत्यतः ईदूतौ च सप्तम्यर्थे (1.1.19) एतैः नवभिः सूत्रैः प्रगृह्यसंज्ञा दीयते । अस्य सूत्रसमूहस्य इदम् प्रथमं सूत्रम् । द्विवचनस्य तिङन्तं तथा सुबन्तं शब्दरूपम् यदि दीर्घ-ईकारान्तम् / दीर्घ-ऊकारान्तम् / एकारान्तम् अस्ति, तर्हि तस्य प्रगृह्यसंज्ञा भवति ** - इति अस्य सूत्रस्य आशयः । कानिचन **उदाहरणानि एतानि —

  1. ‘हरि’ शब्दस्य प्रथमाद्वितीयाद्विवचनम् हरी इति ईकारान्तत्वात् प्रगृह्यसंज्ञकं भवति ।

  2. ‘साधु’ शब्दस्य प्रथमाद्वितीयाद्विवचनम् साधू इति ऊकारान्तत्वात् प्रगृह्यसंज्ञकं भवति ।

  3. ‘माला’ शब्दस्य प्रथमाद्वितीयाद्विवचनम् माले इति एकारान्तत्वात् प्रगृह्यसंज्ञकं भवति ।

  4. ‘द्वि’ शब्दस्य स्त्रीलिङ्गनपुंसकलिङ्गयोः प्रथमाद्विवचनम् द्वितीयाद्विवचनम् च द्वे इति एकारान्तत्वात् प्रगृह्यसंज्ञकं भवति ।

  5. ‘पच्’ धातोः लट्लकारस्य द्विवचनस्य रूपाणि - पचेते, पचेथे, पचावहे एतानि एकारान्तत्वात् प्रगृह्यसंज्ञकं भवति ।

कानिचन प्रत्युदाहरणानि एतानि —

  1. ‘बाल’ शब्दस्य ‘बालौ’ इति रूपम् यद्यपि द्विवचनस्य अस्ति तथापि ईकारान्तम् / ऊकारान्तम् / एकारान्तम् नास्ति, अतः तस्य प्रगृह्यसंज्ञा न भवति ।

  2. ‘बाल’ शब्दस्य ‘बाले’ इति रूपम् यद्यपि एकारान्तम् अस्ति तथापि एतत् द्विवचनस्य रूपम् नास्ति (सप्तम्येकवचनस्य रूपम् अस्ति), अतः तस्य प्रगृह्यसंज्ञा न भवति ।

  3. ‘पच्’ धातोः ‘पचते’ इति रूपम् यद्यपि एकारान्तम् अस्ति तथापि एतत् द्विवचनस्य रूपम् नास्ति (एकवचनस्य रूपम् अस्ति), अतः तस्य प्रगृह्यसंज्ञा न भवति ।

प्रगृह्यसंज्ञाः प्रयोजनम्

अष्टाध्याय्यां प्रगृह्यसंज्ञायाः निर्माणस्य मुख्यं प्रयोजनम् अस्ति प्लुतप्रगृह्याः अचि नित्यम् (6.1.125) इत्यनेन विहितः अच्सन्धिविषयकः प्रकृतिभावः । प्रगृह्यसंज्ञकानाम् शब्दानाम् अच्-सन्धिः कदापि नैव भवति (तत्र प्रकृतिभावः भवति) — इति प्लुतप्रगृह्याः अचि नित्यम् (6.1.125) अस्य सूत्रस्य आशयः । यथा - ‘हरी एतौ’, ‘साधू इमौ’, ‘गङ्गे एते’, ‘द्वे अपि’, ‘पचेते अत्र’ एतेषु उदाहरणेषु संहितायाम् सत्याम् अपि अच्सन्धिः न भवति ।

अष्टाध्याय्यां प्रगृह्यसंज्ञायाः प्रयोगः

अष्टाध्याय्यां प्रगृह्यसंज्ञायाः प्रयोगः आहत्य त्रिषु स्थलेषु साक्षात् कृतः अस्ति —

  1. प्लुतप्रगृह्याः अचि नित्यम् (6.1.125)

  2. एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ (8.2.107)

  3. अणोऽप्रगृह्यस्यानुनासिकः (8.4.57)

विशिष्टप्रयोगानाम् ऊहः

कुत्रचित् साहित्ये दीर्घ-ईकारान्तस्य द्विवचनस्य रूपस्य अपि अच्सन्धिः कृतः दृश्यते । यथा, ‘मणीव’ इति कश्चन सन्धिः महाभारते कृतः अस्ति — <karika> मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम । शुद्धं हि दैवमेवेदं हठेनैवास्ति पौरुषम् ॥ <light>(महाभारते 12.177.12)</light> ॥ </karika> अत्र विद्यमानस्य ‘मणीव’ इति शब्दस्य ‘मणी + इव’ इति सन्धिच्छेदः स्वीक्रियते ।अत्र ‘मणी’ इति मणिशब्दस्य प्रथमाद्विवचनस्य रूपम् । अस्य शब्दस्य वस्तुतः ईदूदेद्द्विवचनं प्रगृह्यम् (1.1.11) इत्यनेन प्रगृह्यसंज्ञा भवेत्, अतश्च अचि परे प्लुतप्रगृह्या अचि नित्यम् (6.1.125) इत्यनेन प्रकृतिभावः भवेत् । परन्तु तादृशं क्रियते चेत् ‘मणीव’ इति शब्दः साधुत्वं न हि प्राप्नुयात् । अतः, अस्य साधुत्वार्थम् काशिकाकारेण <!ईदादीनां प्रगृह्यत्वे मणीवादीनां प्रतिषेधो वक्तव्यः!> इति वार्त्तिकसदृशः कश्चन सिद्धान्तः पाठितः अस्ति । अनेन सिद्धान्तेन ‘मणीव’ इत्यत्र, तथा च तादृशेषु ‘जम्पतीव’, ‘दम्पतीव’, ‘रोदसीव’ एतेषु अपि भिन्नेषु शब्देषु (प्रयोगसाधुत्वार्थम्) द्विवचनान्तस्य प्रगृह्यसंज्ञा एव निषिध्यते, येन सन्धिकार्यम् सुकरं भवति । परन्तु अयं सिद्धान्तः भाष्ये न कुत्रचित् लभ्यते अतः कैयटादिभिः सः उपेक्षितः अस्ति । सिद्धान्तकौमुद्याम् तु ‘व’ शब्दस्य ‘इव’ अस्मिन् अर्थे विधानं कृत्वा ‘मणी व = मणी इव’ इति अर्थविधानं कृतम् अस्ति, येन अच्सन्धेः प्राप्तिरेव संह्रियते ।

Sutrartha (English)

दीर्घ-ईकारान्त, दीर्घ-ऊकारान्त and एकारान्त forms of द्विवचन are known as ‘प्रगृह्य’.

Vasu English Summary

A dual case affix ending in ई or ऊ or ए is called प्रगृह्य , or excepted vowels which do not admit सन्धि or conjugation.

Vasu English Translation

A dual case affix ending in ई or ऊ or ए is called प्रगृह्य , or excepted vowels which do not admit सन्धि or conjugation. As a general rule, Sanskrit allows of no hiatus in a sentence. If a word ends in a vowel, and the next word begins with a vowel, the two vowels coalesce, according to certain rules. This is called sandhi. But pragrihyas are exceptions to this sandhi, “they are certain terminations, the final vowels of which are not liable to any sandhi rules.” (6.1.125). This sutra gives three of these terminations, viz., the duals of nouns or verbs ending in ई (ईत्), ऊ (ऊत्), ए (एत्). Thus:- कवी इमौ “these two poets,” so also वायू इति “two winds;” माले इति “these two garlands.” पचेते इति “they two cook” पचेथे इति “you two cook.” Here according to the general rule of sandhi, the final इ of कवी and the initial इ of इमौ ought to have coalesced into an ई, but it is not so, because कवी is the nominative dual of कवि.

Why do we say ending in ī, ū and e? Because when the dual ends in any other vowel this rule will not apply. As वृक्षौ+अत्र = वृक्षावत्र, “these two trees” (6.1.78). Of course it follows from the definition, that ई, ऊ, or ए of the dual number only are pragrihya; if these vowels terminate any other number they will not be pragřihya but will follow the general rule of sandhi, as कुमारी (I.S.) + अत्र = कुमार्य्यत्र, “the girl is here” (6.1.77).

Vart: The prohibition of मनीव &c., should be stated in treating of the pragrihya nature of ई, ऊ &c. Thus मनी (two gems) + इव = मनीव “like two gems”. So also दम्पतीव “like a couple,” जम्पतीव “like man and wife,” रोदसीव “like heaven and earth.” Some say that this vårtika is unneccessary. Because the final member of the above words is not इव, but the particle व only; which has the same meaning as iva.

Bhashya

ईदूदेद् द्विवचनं प्रगृह्यम् । किमर्थमीदादीनां तपराणां प्रगृह्यसंज्ञोच्यते ? तपरस्तत्कालस्येति तत्कालानां सवर्णानां ग्रहणं यथा स्यात्। केषाम्? उदात्तानुदात्तस्वरितानाम् । अस्ति प्रयोजनमेतत् । किं तर्हीति? प्लुतानां तु प्रगृह्यसञ्ज्ञा न प्राप्नोति । किं कारणम्? अतत्कालत्वात्। नहि प्लुतास्तत्कालाः । असिद्धः प्लुतस्तस्यासिद्धत्वात् तत्काला एव भवन्ति । सिद्धः प्लुतः स्वरसन्धिषु । कथं ज्ञायते सिद्धः प्लुतः स्वरसन्धिषु इति ? यदयं प्लुतः प्रकृत्येति प्लुतस्य प्रकृतिभावं शास्ति। कथं कृत्वा ज्ञापकम् ? सतो हि कार्यिणः कार्येण भवितव्यम् । किमेतस्य ज्ञापने प्रयोजनम् ? अप्लुतादप्लुते इत्येतन्न वक्तव्यं भवति । किमतो यत् सिद्धः प्लुतः स्वरसन्धिषु? सञ्ज्ञाविधावसिद्धः। तस्यासिद्धत्वात् तत्काला एव भवन्ति । सञ्ज्ञाविधौ च सिद्धः। कथम् ? कार्यकालं सञ्ज्ञापरिभाषम्। यत्र कार्यं तत्रोपस्थितं द्रष्टव्यम्। प्रगृह्यः प्रकृत्येत्युपस्थितमिदं भवति ईदूदेद् द्विवचनं प्रगृह्यमिति । किं पुनः प्लुतस्य प्रगृह्यसञ्ज्ञावचने प्रयोजनम् ? प्रगृह्याश्रयः प्रकृतिभावो यथा स्यात् । मा भूदेवम् । प्लुतः प्रकृत्येत्येवं भविष्यति । नैवं शक्यम्। उपस्थिते हि दोषः स्यात् । अप्लुतवदुपस्थिते इत्यत्र पठिष्यति ह्याचार्यः- “वद्वचनं प्लुतकार्यप्रतिषेधार्थम् । प्लुतप्रतिषेधे हि प्रगृह्यप्लुतप्रतिषेधप्रसङ्गोऽन्येन विहितत्वाद्’ इति। तस्मात् प्लुतस्य प्रगृह्यसंज्ञैषितव्या। प्रगृह्याश्रयः प्रकृतिभावो यथा स्यात् । यदि पुनर्दीर्घाणामतपराणां प्रगृह्यसंज्ञोच्येत? एवमप्येकार एव एकः सवर्णान् गृह्णीयात्, ईकारोकारौ न गृह्णीयाताम् । किं कारणम्? अनण्त्वात् । यदि पुनर्ह्रस्वानामतपराणां प्रगृह्यसंज्ञोच्येत । नैवं शक्यम् । इहापि प्रसज्येत । अकुर्वहि अत्र, अकुर्वह्यत्रेति । तस्माद् दीर्घाणामेव तपराणां प्रगृह्यसञ्ज्ञा वक्तव्या । दीर्घाणां चोच्यमाना प्लुतानां न प्राप्नोति । एवं तर्हि किं न एतेन यत्नेन यत् सिद्धः प्लुतः स्वरसन्धिषु इति? असिद्धः प्लुतः । तस्यासिद्धत्वात् तत्काला एव भवन्ति । कथं यत् तज्ज्ञापकमुक्तं प्लुतप्रगृह्या अचीति ? प्लुतभावी प्रकृत्येत्येवमेतद् विज्ञायते । कथं यत् तत्प्रयोजनमुक्तम् ? क्रियते तन्न्यास एव । अप्लुतादप्लुते इति । एवमपि यत् सिद्धे प्रगृह्यकार्यं तत् प्लुतस्य न प्राप्नोति। अणोऽप्रगृह्यास्यानुनासिक (8.4.57) इति । एवं तर्हि किं न एतेन यत्नेन कार्यकालं सञ्ज्ञापरिभाषमिति । यथोद्देशमेव सञ्ज्ञापरिभाषम् । अत्र चासावसिद्धः। तस्यासिद्धत्वात् तत्काला एव भवन्ति । कथं पुनरिदं विज्ञायते - ईदादयो यद् द्विवचनमाहोस्विद् ईदाद्यन्तं यद् द्विवचनमिति । कश्चात्र विशेषः ? <ऽ॥ ईदादयो द्विवचनं प्रगृह्या इति चेद् अन्त्यस्य विधिः॥ ऽ> ईदादयो द्विवचनं प्रगृह्या इति चेद् अन्त्यस्य प्रगृह्यसञ्ज्ञा विधेया। पचेते इति। पचेथे इति। वचनाद् भविष्यति। अस्ति वचने प्रयोजनम्। किम्? खट्वे इति। माले इति । अस्तु तर्हि ईदाद्यन्तं यद् द्विवचनमिति । <ऽ ॥ ईदाद्यन्तं यद् द्विवचनमिति चेदेकस्य विधिः ॥ ऽ> ईदाद्यन्तं द्विवचनमिति चेदेकस्य प्रगृह्यसञ्ज्ञा विधेया। खट्वे इति, माले इति । <ऽ॥ न वाऽद्यन्तवत्त्वात् ॥ ऽ> न वा एष दोषः। किं कारणम्? आद्यन्तवत्त्वात्। आद्यन्तवदेकस्मिन् कार्यं भवतीत्येवमेकस्यापि भविष्यति। अथवा एवं वक्ष्यामि- ईदाद्यन्तं यद् द्विवचनान्तमिति । <ऽ॥ ईदाद्यन्तं यद् द्विवचनान्तमिति चेल्लुकि प्रतिषेधः ॥ऽ> ईदाद्यन्तं यद् द्विवचनान्तमिति चेल्लुकि प्रतिषेधो वक्तव्यः। कुमार्योरगारं कुमार्यगारम् वध्वोरगारं वध्वगारम्। एतद्धीदाद्यन्तं श्रूयते, द्विवचनान्तं च भवति प्रत्ययलक्षणेन। <ऽ॥ सप्तम्यामर्थग्रहणं ज्ञापकं प्रत्ययलक्षणप्रतिषेधस्य ॥ऽ> यदयमीदूतौ च सप्तम्यर्थे इत्यर्थग्रहणं करोति तज्ज्ञापयत्याचार्यो न प्रगृह्यसञ्ज्ञायां प्रत्ययलक्षणं भवतीति। तत्तर्हि ज्ञापकार्थमर्थग्रहणं कर्तव्यम्? न कर्तव्यम्। ईदादिभिर्द्विवचनं विशेषयिष्यामः। ईदादिविशिष्टेन च द्विवचनेन तदन्तविधिर्भविष्यति। ईदाद्यन्तं यद् द्विवचनं तदन्तमीदाद्यन्तमिति। एवमप्यशुक्ले वस्त्रे शुक्ले समपद्येतां शुक्ल्यास्तां वस्त्रे इत्यत्र प्राप्नोति। अत्र हीदादि च द्विवचनं तदन्तं च भवति प्रत्ययलक्षणेन। अत्राप्यकृते शीभावे लुग् भविष्यति। इदमिह सम्प्रधार्यम्। लुक् क्रियतां शीभाव इति। किमत्र कर्तव्यम्? परत्वाच्छीभावः। नित्यो लुक्। कृते शीभावे प्राप्नोत्यकृतेऽपि। अनित्यो लुक्। अन्यस्याकृते शीभावे प्राप्नोति अन्यस्य कृते। शब्दान्तरस्य च प्राप्नुवन् विधिरनित्यो भवति। शीभावोऽप्यनित्यः। न हि कृते लुकि प्राप्नोति। उभयोरनित्ययोः परत्वाच्छीभावः। शीभावे कृते लुक्। अथापि कथञ्चिन्नित्यो लुक् स्यादेवमपि दोषः। वक्ष्यत्येतत्- पदसञ्ज्ञायामन्तग्रहणमन्यत्र सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थमिति। इदं चापि प्रत्ययग्रहणमयं चापि सञ्ज्ञाविधिः। अवश्यं खल्वस्मिन्नपि पक्षे आद्यन्तवद्भाव एषितव्यः। तस्मादस्तु स एव मध्यमः पक्षः ।

Kashika

ईत् ऊत् एत् इत्येवमन्तं द्विवचनं शब्दरूपं प्रगृह्यसंज्ञं भवति। अग्नी इति। वायू इति। माले इति। पचेते इति। पचेथे इति। ईदूदेदिति किम्? वृक्षावत्र। प्लक्षावत्र। द्विवचनमिति किम्? कुमार्यत्र। किशोर्यत्र। तपरकरणमसंदेहार्थम् । प्रगृह्यप्रदेशाः — प्लुतप्रगृह्या अचि (६.१.१२५) इत्येवमादयः। ईदादीनां प्रगृह्यत्वे मणीवादीनां प्रतिषेधो वक्तव्यः।

मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम (महाभारत १२.१७७.१२)।

दम्प॑तीव (ऋ०२.३९.२)। जम्पतीव। रोदसीव॥

Siddhanta Kaumudi

ईदूदेदन्तं द्विवचनं प्रगृह्यसंज्ञं स्यात् । हरी एतौ । विष्णू इमौ । गङ्गे अमू । पचेते इमौ । मणीवोष्ट्रस्येति तु इवार्थे वशब्दो वाशब्दो वा बोध्यः ॥

Laghu Siddhanta Kaumudi

ईदूदेदन्तं द्विवचनं प्रगृह्यं स्यात्। हरी एतौ। विष्णू इमौ। गङ्गे अमू॥

Balamanorama

ईदूदेद्द्विवचनं प्रगृह्यम् - ईदूदेद्द्विचनम् । ईच्च ऊच्च एच्चेति समाहारद्वन्द्वः । ईदूदेदिति द्विवचनविशेषणत्वात्तदन्तविधिः ।द्विवचन॑मित्यनेन तु प्रत्ययत्वे ।ञपि न तदन्तं गृह्रते,संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ती॑ति तन्निषेधात् । तदाह — ईदूदेदन्तमित्यादिना । हरी एताविति । अत्र ईकारस्य परादिवत्त्वाश्रयणाद्द्विवचनत्वम् । प्रगृह्रत्वे सति ‘प्लुतप्रगृह्रा’ इति प्रकृतिभावान्न यण् । विष्णू इमावित्यत्राप्येवम् । गङ्गे अमू इत्यत्र त्वयादेशो न भवति ।ईदूदेदन्त॑मिति तदन्तविधेः प्रयोजनं दर्शयितुमाह-पचेते इमाविति । तदन्तविध्यबावे ईदूदेदात्मकं द्विवचनं प्रगृह्रमिति लभ्येत । एवं सति ‘पचेते’ इत्यत्रइते इति द्विवचनस्य एद्रूपत्वाऽभावात्प्रगृह्रत्वं न स्यादिति भावः ।ईदूदेदन्तं यद्द्विचनान्त॑मिति व्याख्याने तु कुमार्योरगारं कुमार्यगारमित्यत्रातिप्रसङ्गः स्यात् ।ईदूदेदन्तं द्विवचन॑मिति व्याख्याने तु नातिप्रसङ्गः, ओसो द्विवचनस्य ईदूदेदन्तत्वाऽभावात् । ननुमणीवोष्ट्रस्य सम्बेते प्रियौ वत्सतरौ ममे॑ति भारतश्लोकेमणी इवे॑ति ईकारस्य प्रगृह्रत्वे सति प्रकृतिभावे सवर्णदीर्घो न स्यादित्यत आह-मणीवोष्ट्रस्येति ।वं प्रचेतसि जानीयादिवार्थे च तदव्यय॑मिति मेदिनी ।व वा यथा तथैवैवं साम्ये॑इत्यमरः ।

Tattvabodhini

ईदूदेद्द्विवचनं प्रगृह्यम् - ईदूदेदन्तमिति । अत्र विशेणेन तदन्तविध्याश्रयणं किम् ।पचेते इमा॑-विति यथा स्यात् ।हरी॑विष्णू॑ इत्यादिष्वेकादेशस्य परादिवद्भावाश्रयेण ईकारादीनां द्विवचनत्वादीदूदेद्रूपं द्विवचनमित्युक्तेऽपि प्रगृह्रत्वं सिध्यतीति बोध्यम् । द्विवचनमिति ।संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति॑,सुप्तिङन्त॑-मित्यन्तग्रहणाज्ज्ञापकात् । तेन कुमार्योर्वध्वोश्चागारं कुमार्यगारं वध्वगारमिति सिद्धम् ।द्विवचनान्तं प्रगृह्रं स्या॑दिति व्याकुर्वतः प्राचस्तु नेदं सिध्येत् । हरी एताविति । इह ह्रस्वसमुच्चितप्रकृतिभावो न,प्लुतप्रगृह्राः॑ इत्यत्र नित्यग्रहणादित्युक्तम् । अत्र वृत्तिकारेण — ॒मणीवादीनां प्रतिषेधो वक्तव्यः॑ इति पठित्वामणीव॑रोदसीव॑जंपतीवे॑त्युदाहृतम् । तच्च मुनित्रयानुक्तत्वादप्रमाणमिति कैयटादयः । एवं स्थितेमणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ ममे॑ति भारतप्रयोगं समर्थयते — इवार्थे इति । वशब्द इत्यादि ।वं प्रचेतसि जानीयादिवार्थे च तदव्यय॑मिति मेदिनी ।व वा यथा तथैवैवं साम्ये॑ इत्यमरः । कादम्बखण्डितदलानि व पङ्कजानी॑त्यादिप्रयोगदर्शनाच्चेति भावः ।

Padamanjari

अत्र चत्वारः पक्षाः सम्भवन्ति-ईदादि विशेष्यम्, द्विवचनं विशेषणम्, तत्र द्विवचनान्तत्वमीदादेर्न सम्भवतीति द्विवचनसंज्ञकमीदादि प्रगृह्यमिति प्रथमः पक्षः । ईदादि विशेषणम्, द्विवचनं विशेष्यम्, विशेषणेन तदन्तविधावीदाद्यन्तं द्विवचनमिति द्वितीयः पक्षः । प्रत्ययग्रहणपरिभाषया तदन्तविधौ सति पश्चाद् द्विवचनान्तस्येदादिभिर्विशेषणादीदाद्यन्तं द्विवचनान्तमिति तृतीयः । ईदादिविशिष्टेन द्विवचनेन तदन्तविधावीदाद्यन्तं यद् द्विवचनम्, तदन्तं प्रगृह्यमिति चतुर्थः । तत्राद्ये पक्षे-अग्नी, वायू, खट्वे इत्यादावेव स्यात्; एकादेशस्य परं प्रत्यादिवद्भावेन द्विवचनमीदादीति, पचेते पचेथे पचावहे इत्यादावेकारमात्रस्याद्विवचनत्वान्न स्यात् । तृतीये तु-कुमार्योरगारं कुमार्यगारम्, वध्वोरगारं वध्वगारम्; इत्यत्रापि स्यात्-एतद्धि प्रत्ययलक्षणेन द्विवचनान्तमीदाद्यन्तं च श्रूयते । यथा हि ‘तावकीनः’ इत्यादावादेशेन संख्याविशेषो व्यज्यते, तथेहापि सत्यां प्रगृह्यसंज्ञायां प्रकृतिभावेन द्वित्वमभिव्यज्येतेति स्याद् द्विवचनान्तस्यापि समासः । चतुर्थे कुमार्यगारमित्यादावप्रसङ्गः; द्विवचनस्यानीदाद्यन्तत्वात्, किन्त्वशुक्ले शुक्ले समपद्येतां शुक्ल्यास्तां वस्त्रे-अत्रापि प्राप्नोति, कथम् ? शुक्लशब्दाद्वस्त्रवृतेर्द्विवचनमौ, ङपुंसकाच्च’ इति शीभावः, ततश्च्विः, शीशब्दस्य शुपो धातु’ इति लुक्, ‘अस्य च्वौ’ तद्धितान्तत्वात्सुः, अव्ययत्वाल्लुक्; अत्र शीशब्द ईकारान्तं द्विवचनम्, तदन्तश्च समुदायः प्रत्ययलक्षणेनेति प्रगृह्यसंज्ञा प्राप्नोति । अयं च तृतीयेऽपि पक्षे समानो दोषः । किं च-संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधात् तदन्तपक्षोत्थानमेव नास्ति, अतो द्वितीयं पक्षमाश्रित्याह-ऽईद् ऊद् एद् इत्येवमन्तं द्विवचनमिऽति । नन्वस्मिन्नपि पक्षे ईदूतोः केवलयोरेव संभव इत्यग्नी इत्यादिकं यद्यपि सिध्यति, तथाप्येकारान्तस्य तु द्विवचनस्य ‘पचेते’ इत्यादौ सम्भवातत्रैव स्यात्, न खट्वे इत्यादौ; व्यपदेशिवद्भावेनात्रापि भविष्यति । किं पुनरत्र प्रमाणमयमेव पक्ष आश्रीयत इति ? तृतीयचतुर्थयोस्तावदसम्भव एव; संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधात् । संज्ञायाश्च संज्ञ्यपेक्षायामनन्तरश्रुतं द्विवचनमेव संज्ञीत्युक्तमिति प्रथमस्याप्यसम्भवः । अत्र चतुर्थः पक्षोऽसम्भवादेव निरस्तः; न दोषवत्वात् । शुक्ल्यास्तां वस्त्र इत्यत्र हि ‘अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्वाधते’ इति अन्तरङ्गमपि शीभावं बाधित्वा शुपो धातु’ इति लुकि कृतेऽनीकारान्तं द्विवचनं भवति । अग्नी इत्यादौ प्रगृह्यत्वात् ‘प्लुतः प्रगृह्या अचि’ इति प्रकृतिभावः । प्रत्युदाहरणेषु तदभावात् स्वरसन्धिः । तपरकरणं गुणान्तरभिन्नानां तत्कालानां ग्रहणार्थमिति चेत्, न; अभेदकत्वाद् गुणानाम् । भिन्नकालानां निवृत्यर्थमिति चेत्, न; ईदूतोरनण्त्वात् । स्यादेतत्-जातिपक्षे यद्यपि दीर्घोच्चारणसामर्थ्यात् प्रयत्नाधिक्यात् अकुर्वह्यत्रेत्यादौ ह्रस्वानां न स्यात्, प्लुतानां तु स्यादेव । एकारस्य त्वण्त्वादपि प्लुतस्य प्रसङ्गः, अतः प्लुतनिवृत्यर्थं तपरकरणमिति, तन्न; इष्टत्वात् । किमर्थं पुनः प्लुतानां प्रगृह्यसंज्ञेष्यते ? प्रगृह्याः प्रकृत्येति प्रकृतिभावो यथा स्यात् । मा भूदेवम्, प्लुतः प्रकृत्येत्येव भविष्यति । यत्र तर्हि प्लुताश्रयः प्रकृतिभावः प्रतिषिध्यते-‘अप्लुतवदुपस्थिते’ इति, तत्र प्रगृह्याश्रयः प्रकृतिभावो यथा स्याद् अग्नी3 इतीति । इह च अग्नी3 अप्रगृह्यस्येत्यनुनासिकपर्युदासो यथा स्यात् । अतः प्लुतानामपि प्रगृह्यसंज्ञाया इष्टत्वान्न तन्निवृत्यर्थमपि तपरकरणमित्यत आह-ऽतपरकरणमसन्देहार्थमिऽति । असति हि तस्मिन् समाहारद्वन्द्वे नपुंसकह्रस्वत्वे च कृते य्वीति निर्देशे सन्देहः स्यात् । इतरेतरयोगाद्वन्द्वेऽपि सन्देह एव । तस्मादसन्देहार्थं तपरकरणम् । यद्यसन्देहार्थमपि तपरत्वं क्रियते, तदेव प्लुतस्येष्टां संज्ञां व्यावर्तयति,तत् प्लुतस्य कथं संज्ञा ? मा भूत् प्लुतस्य, तस्य त्वसिद्धत्वात् स्थानिनि प्रवृता संज्ञा स्वारसन्धिमनुनासिकं च प्रतिभन्त्स्यति, सिद्धः प्लुतः स्वरसन्धिषु,प्लुतः प्रकृत्येति लिङ्गात् । अन्यथा कार्यिणोऽसत्वात्कस्य प्रकृतिभावो विधीयते ! यस्य च विकारप्रसङ्गः, प्लुतप्रकरणे तस्य प्रकृतिभावो विधेयः, प्लुतस्यासिद्धत्वेन तस्य विकाराप्रसङ्ग इति प्लुतस्यासतः प्रकृतिभावविधानमनुपपन्नम् । अस्तु, स्वरसन्धिप्रकरणे प्लुतः सिद्धः, संज्ञाविधावसिद्धः । संज्ञाविधौ च सिद्धः, कथम् ? कार्यकालं संज्ञापरिभाषम्, ततश्च प्रगृह्याः प्रकृत्येत्यत्रास्योपस्थानात् संज्ञापि स्वरसन्धिप्रकरणान्तर्गता । एवं तर्हि सिद्धः प्लुतः स्वरसन्धिष्विति नाश्रीयते, प्लुतभावी प्रकृत्येति स्थानिन एव प्रकृतिभावो विधास्यते ? एवमप्यनुनासिकपर्युदासो न सिध्यति, कार्यकालपक्षे संज्ञायामपि प्लुतस्य सिद्धत्वात् । एवं तर्हि ‘यथोद्देशं संज्ञापरिभाषम्’ ततश्चास्मिन् प्रदेशे संज्ञायां क्रियमाणायां प्लुतस्यासिद्धत्वात् स्थानिनि प्रवृता संज्ञा स्वरसन्धिमनुनासिकं च प्रतिभन्त्स्यति । ननु यद्यपि संज्ञायामसिद्धः प्लुतः, अनुनासिकपर्युदासे तु सिद्धः, ततश्च यस्यानेन संज्ञा कृता द्विमात्रस्य, न सोऽनुनासिकविधिं प्रति स्थानी, किन्तु त्रिमात्र एव । न च स्थानिवद्भावातस्यापि प्रगृह्यत्वम्, अल्विधित्वात् । अवश्यं च ‘सिद्धः प्लुतः स्वरसन्धिषु’ इत्याश्रयणीयम्, दण्ड-आ3ढकमिति प्लुतस्य सवर्णदीर्घेण निवृत्तिर्यथा स्यात् । तथा च ‘अङुण्’ इत्यत्र सर्वैरेव ग्रन्थकारैरुक्तम् । तथा सुश्लोका3 इति सउश्लोकेति - अत्रापि ‘अप्लुतवदुपस्थिते’ इति प्लुताश्रये प्रकृतिभावे प्रतिषिद्धे गुणो भवन् प्लुतमेव निवर्तयति, न तु स्थानिनम्; अन्यथा ह्यादेशरूपे प्लुतः श्रूयेत । तदिह यथोद्देशेऽपि संज्ञापरिभाषे, कथमिवेष्टसिद्धिः ? कथं वा ग्रन्थेषु पूर्वापरविरोधपरिहारः ? इति विपश्चितः प्रष्टव्याः । ऽमणीवादीनामिऽति ।शिद्धये’ इति शेषः । न पुनर्मणीवादीनामपरः प्रतिषेधो विधेयः । न चेदं वचनम्, भाष्यवार्तिककाराभ्यामपठितत्वात्; किन्तु मणीवादीनां निर्वाहः कर्तव्य इत्यर्थः । तत्र ‘मणीवोष्ट्रस्य लम्बेते’ इत्यत्र वाशब्दस्योपमानार्थस्य प्रयोगः । रोथसीवेत्यादौ थछान्दसत्वादिति निर्वाहः ॥

Nyaas

अत्रेदादि यद्द्विवचनम्,तत् प्रगृह्रमित्येवं वा विज्ञायते? ईदाद्यन्तं यद् द्विवचनम्, तत् प्रगृह्रमिति वा? तत्राद्ये पक्षे पचेते इत्यादौ प्रगृह्रसञ्ज्ञा न प्राप्नोति, न ह्रेकारमात्रमत्र द्विवचनम्; अपि तु आतेशब्द इति। इममाद्येपक्षे दोषं दृष्ट्वा द्वितीयं पक्षमाश्रित्याह- ईदूदेदित्येवमन्तमित्यादि । नन्वेतस्मिन्नपि पक्षे अग्नी इत्येवमादि न सिध्यति, ईदाद्येव ह्यत्र द्विवचनं न तदन्तम्? आद्यन्तवदेकस्मिन् (1.1.21) इत्यनेनान्तवद्भावो भवतीत्यदोषः। अग्नी इति। प्रथमयोः पूर्वसवर्णः (6.1.102) इति दीर्घत्वम्। अत्र प्रगृह्रसञ्ज्ञायां सत्याम्**प्लुतप्रगृह्या अचि नित्यम्** (6.1.125) इति प्रकृतिभावादितिशब्दे परतः अकः सवर्णे दीर्घत्वं (6.1.97) न भवति। वायु इत्यत्रापि इको यणचि (6.1.77) इति यणादेशः। शेषेष्वप्युदाहरणेष्वयादेशः। खट्वे इति। औङ आपः (7.1.18) इति शीभावः। आद्गुणः (6.1.87) । पचेते इति,`यजेते` इति। स्वरितेत्वादात्मनेपदम्, आताम्, टेरेत्त्वम्, आतो ङितः (7.2.81) इतीयादेशः लोपो व्योर्वलि (6.1.66) इति यलोपः। वृक्षावत्र, प्लक्षावत्र इति। भवत्येतद् द्विवचनम्; न त्वीदूदेदन्तम्। तेन प्रकृतिभावाभावादादेशो भवत्येव। कुमार्यत्र इति। वयसि प्रथमे (4.1.20) इति ङीपिकृते कुमारी इत्येतदीकारान्तम्, न तु द्विवचनान्तम्; तेनासति प्रकृतिभावे भवत्येव यणादेशः। अथ तपरकरणं किमर्थम्?प्लुतनिवृत्त्यर्थमिति चेत्, न; इष्टत्वात् प्लुतस्य। यथा च तपरत्वे क्रियमाणेऽपि प्लुतस्य प्रगृह्रसञ्ज्ञा सिध्यति, तथा भाष्ये असिद्धः प्लुतः, तस्यासिद्धत्वात् तत्काल एव`(म।भा।1।66) इत्यादिना प्रतिपादितम्। गुणान्तरभिन्नानां तत्कालानां ग्रहणार्थमिति चेत्,न; `अभेदकत्वाच्छास्त्रे गुणानाम् (सो।प।80) इत्यत आह- तपरकरणमसन्देहार्थम् इति। असति हि तपरकरण ईकारस्योकारस्य च यणादेशः स्यात्। ततश्च सन्देह एव स्यात्-किमिदं यकारवकारोयग्र्रहणम्, आहोस्विदिकारोकारयोरिति वक्तव्यः इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यातम्- वक्ष्यमाणं शाकल्यग्रहणमिहोपतिष्ठते सिंहावलोकितन्यायेन , सा च व्यवस्थित-विभाषा; तेन मणीवादीनां प्रतिषेधो भविष्यति, मणीव, दम्पतीव, रोदसीवेति। मणीवेत्या-दयः शब्दा द्विवचनान्ताः। तत्रासति प्रगृह्रत्वे अकः सवर्णे दीर्घः ( (6.1.97) एकादेशो भवत्येव।

Praudhamanorama

द्विवचनमिति॥ सुप्तिङन्तम् (1.4.14) इति अन्तग्रहणेन ‘सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति’ इति ज्ञापितत्वादिति भावः। तेनेह न । कुमार्योर्वध्वोश्चागारं कुमार्यगारं वध्वगारमिति। स्पष्टं चेदं भाष्यादौ। द्विवचनान्तं प्रगृह्यं स्यादिति तु प्राचः प्रमाद एव। हरी एताविति। इह शाकलं न। प्लुतप्रगृह्य— (6.1.125) इत्यत्र नित्यग्रहणादित्युक्तम्। अत्र वृत्तिकारः— ‘मणीवादिनां प्रतिषेधो वक्तव्यः’ इति पठित्वा मणीव, रोदसीव, दम्पतीव, जम्पतीवेत्युदाजहार। तच्च मुनत्रयानुक्तत्वादप्रमाणमिति कैयटहरदत्तादयः। एवं स्थिते— ‘मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम’॥ इति भारतप्रयोगं समर्थयते— वशब्द इति। ‘वं प्रचेतसि जानीयादिवार्थे च तदव्ययम्’ इति मेदिनी॥ ‘व वा यथा तथैवैवं साम्ये’ इत्यमरग्रन्थ्याख्यावसरे ‘शात्रवं व पपुर्यशः’ इति कालिदासप्रयोगस्याभियुक्तै-रुदाहृतत्वात्। ‘कादम्बखण्डितदलानि व पङ्कजानि’इत्यादिदर्शनाच्चेति भावः। यत्तु पाठान्तरं ‘वद्वा यथा तथा’ इत्यादि; तदयुक्तम्, नामलिङ्गानुशासनप्रक्रमे तद्धितवतेरननुगुणत्वात् अपत्यसमूहादिपर्यायमध्येऽण्फिञ्वुञादीनामनुक्तेश्च। अदसो मात् (1.1.12) ॥ इह एकारो नानुवर्तते, असम्भवात् इत्यभिप्रेत्याह—

Prakriyasarvasvam

ईदूदेदन्तं द्विवचनं प्रगृह्यसंज्ञम् । ‘प्लुतप्रगृह्या—’ (६-१-१२५) इति प्रकृतिभावः । हरी इमौ । दयालू उभौ । रमेते इह ।

Sarala

“पचेते” इत्यादौ प्रगृह्यत्वार्थं तदन्तविधिमाश्रित्योक्तम् - ईदूदेदन्तमिति आद्यन्तवदेकस्मिन् (१.१.२१) इति सूत्रानुसारादुदाहरति - हरी इत्यादि

Sudha

हरि एतावति । ** “हरी-एतौ” इत्यत्र **ईदूदेद् द्विवचनं प्रगृह्यम् (1.1.11) इत्यनेन सूत्रेण प्रगृह्यसंज्ञायाम् प्लुतप्रगृह्या अचि नित्यम् (6.1.125) इत्यनेन प्रकृतिभावे “हरी एतौ” इति निष्पन्नम् । एवमेव “विष्णू-इमौ”, “गङ्गे-अमू” इत्यत्र क्रमेण ऊकारान्तैकारान्तद्विवचनत्वात् ईदूदेद् द्विवचनं प्रगृह्यम् (1.1.11) इत्यनेन प्रगृह्यसंज्ञायां प्रकृतिभावे च “विष्णू इमौ”, “गङ्गे अमू” इति भवति ।