84027: नश्च धातुस्थोरुषुभ्यः¶
Padacheda: नः | S | | | 1
च | S | 0 | 0 |
धातुस्थ-उरु-षुभ्यः | S | 5 | 3 |
Sutrartha¶
Vasu English Summary¶
In the छन्दस् , the न of (the Pronoun) नस् is changed into ण , when it comes after a root having a र or ष or after the words उरु and षु (सु)।
Vasu English Translation¶
In the छन्दस् , the न of (the Pronoun) नस् is changed into ण , when it comes after a root having a र or ष or after the words उरु and षु (सु)। Thus अग्ने रक्षाणः (Rig VII.15.13). ‘O Agni protect us’. शिक्षा णो अस्मिन् (Rig. VII.32.26) ‘Teach us this’. उरु :- उरुणस्कृधि (Rig. VIII.75.11) षु — अभीषुणः सखीनाम् (Rig IV. 31.3). ऊर्ध्व ऊषुणः ऊतये (Rig. I.36.13).
The word नस् is here the pronoun नस्, which is the substitute, in certain cases, of अस्मद् (8.1.21) and does not mean here the नस् substitute of नासिका ॥ In the next sutra, however, both नस् are taken. धातुस्थ means ‘that which exists in a dhatu’, namely र् and ष् when occurring in a root. The word उरु means the word-form उरु; and षु means सुञ्, and is exhibited with ष-change. It does not mean the affix सु of the Locative Plural. Therefore, not here इन्द्रो धता गृहेषु नः ॥ The word रक्षा is the 2rd Person singular, Imperative, the lengthening is by (6.3.135). The root शिक्ष् has the sense of दान in the Veda. कृधी is 2nd Person singular Imperative of कृ (6.4.102), the visarga of नः is changed to स् by (8.3.50). In अभीषु there is lengthening by (6.3.134): so also in ऊषुणः &c.
Kashika¶
नस् इत्येतस्य नकारस्य णकारादेशो भवति, धातुस्थाद् निमित्तादुत्तरस्योरुशब्दात् षुशब्दात् च छन्दसि विषये। धातुस्थात् तावत् — अग्ने॒ रक्षा॑ णः॒ (ऋ० ७.१५.१३)। शिक्षा॑ णो अ॒स्मिन् (ऋ० ७.३२.२६)। उरुशब्दात् — उ॒रु ण॑स्कृधि (ऋ० ८.७५.११)। षुशब्दात् — अ॒भी षु णः॒ सखी॑नाम् (ऋ० ४.३१.३)। ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ (ऋ० १.३६.१३)। अस्मदादेशोऽयं नस्शब्दो बहुवचनस्य वस्नसौ (८.१.२१) इति॥
Siddhanta Kaumudi¶
धातुस्थात् । अग्ने रक्षा णः (अग्ने॒ रक्षा॑ णः) । शिक्षा णो अस्मिन् (शिक्षा॑ णो अ॒स्मिन्) । उरु णस्कृधि (उ॒रु ण॑स्कृधि) । अभीषु णः (अ॒भीषु णः॑) । मो षु णः (मो षु णः॑) ॥ इत्यष्टमोऽध्यायः ॥
Balamanorama¶
उपसर्गादनोत्परः (उपसर्गाद् बहुलम्) - ॒अनोत्परः॑ इत्यपनीय तत्स्थानेबहुल॑मिति च कृत्वा भाष्यकार आहेत्यर्थः । तथाच फलितं सूत्रमाह — उपसर्गाद्बहुलं । निमित्तादिति । रेपाषकारात्मकादित्यर्थः । ‘उपसर्गादनोत्परः’ इति यथाश्रुते तु ‘प्र णो नय’ इत्यादावव्याप्तिः, ‘प्र न #ः पूषा’ इत्यादावतिव्याप्तिश्चेति भावः । प्रणस इति । प्रगता नासिका यस्येति विग्रहः ।उपसर्गाच्चे॑त्यच्, नासिकाया नस् ।उपसर्गाद्बहुल॑मिति णत्वमिति भावः । वेरिति । वेः परो यो नासिकाशब्दः स ग्रादेशं प्राप्नोतीति भावः । विग्र इति । विगता नासिका यस्येति विग्रहः, प्रकृतवार्तिकेन नासिकाशब्दस्य ग्रादेश इति भावः । विगता नासिका यस्येति विग्रहे अचि नसादेशे टापि च विनसेति भट्टिप्रयोगो न युज्यते, ग्रादेशस्यास्य नसादेशं प्रत्यपवादत्वादित्याक्षिपति — कथं तर्हीति । समाधत्ते — विगतयेति । विगता नासिका । प्रादिसमासः । अबहुव्रीहित्वान्न ग्रादेशः । किंतु टायांपाद्द॑न्निति नसादेशे विनसेति तृतीयान्तं रूपम् ।उपलक्षिते॑त्यध्याहार्यमिति भावः ।
Tattvabodhini¶
उपसर्गादनोत्परः (उपसर्गाद् बहुलम्) - उपसर्गादनोत्परः । अनोत्परः किम् । प्रनो मुञ्चतमित्यत्र णत्वं मा भूत् । तद्भङ्क्त्वेति ।अनोत्पर॑इत्यपनीय बहुलग्रहणं च कृत्वेत्यर्थः । अन्यथा प्रणो नयेत्यादावव्याप्तिः, प्र नः पूषेत्यादौ त्वतिव्याप्तिः प्रसज्येतेति भावः । प्रणसैथि । प्रगता नासिका अस्येति विग्रहः । कथं तर्हीति । ग्रख्ययोरन्यतरेण भाव्यमिति प्रश्नः । नासिकयेति । तथा च विनसेति न प्रथमान्तं, किं तुपद्दन्न॑ इति नसादेशे तृतीयान्तमिति भावः ।
Padamanjari¶
धातौ तिष्ठतीति धातुस्थो रेफः, षकारश्च । ऊरु इति स्वरूपग्रहणम्, षु इति कृतषत्वस्य सुञो ग्रहणम्, न सप्तमीबहुवचनस्य; तेन इन्द्रो धता गृहेषु न इत्यत्र न भवति । नसिति नासिकादेशस्यास्मदादेशस्य च सामान्येन ग्रहणम्, ततोऽत्रास्मदादेश एव कार्यी; तस्यैव धातुस्थादिभ्यः परस्य सम्भवात्, उतरसूत्रे तूभयोः कार्यित्वम् । रक्षा ण इति । रक्षेति लोण्मध्यमपुरुषैकवचनान्तम्,’द्व्यचो’ तस्तिङ्ःऽ इति दीर्घः । शिक्षा ण इति । शिक्षतिर्दानकर्मा च्छन्दसि । उरुणस्कृधीति । कृञो लोट्, सेर्हिः’श्रुशृणुपृकृवृभ्यश्च्छन्दसि’ इति हेर्धिरादेशः,’कः करत्’ इत्यादिना विसर्जनीयस्य रुत्वम् । अभीषु ण इति । ठिकः सुञिऽ इति दीर्घः । एवमूषु ण इत्यत्रापि ॥
Nyaas¶
धातौ तिष्ठतीति धातुस्थः, सुपि स्थः (3.2.4) इति कप्रत्ययः। ऊर्विति, ष्विति च स्वरूपग्रहणम्। नसिति नासिकादेशस्यास्मदादेशस्य च सामान्येन ग्रहणम्। तत इहास्मदादेश एव कार्यी, नेतरः; इतरस्य धातुस्थादिभ्यः परस्यासम्भवात्। उत्तरत्र हि नासिकादेशस्य कार्यित्वं भविष्यति। रक्षा णः इति। रक्ष पालने (धातुपाठः-658) इत्यस्माद्धातोर्लोट्, मध्यमपुरुषैकवचनान्तात्? परस्यास्मदो द्वितीयान्तस्य बहुवचनस्य अस्नसौ (8.1.21) इति नसादेशः, द्व्यचोऽतस्तिङः (6.3.135) इति पूर्वपदस्य दीर्घः। शिक्षा णः इति। शिक्षा विद्योपादाने (धातुपाठः-605) इत्यस्मात्? तथाविधादेवास्मदो नसादेशः। उरुणस्कृधि इति। कृञो लोट्? सिप्, सेह्र्रपिच्च (3.4.87) इति हिरादेशः। श्रुशृणुपृकृबृभ्यश्छन्दसि (6.4.102) इति हेर्विरादेशः। कःकरत् (8.3.50) इत्यादिना विसर्जनीयस्य सत्वम्। अभीषु णः इति। इकः सुञि (6.3.134) इति दीर्घः, सुञः (8.3.109) इति षत्वम्। एवं ऊष्र्व ऊषु णः इत्यत्राप्युकारस्य निपातस्य च (6.3.136) इयानेन दीर्घः, सुञः` (8.3.109) इतीति षत्वञ्। चकारेण छन्दसि (8.4.25) इत्यनुकृष्यते, उत्तरत्रानुवृत्तिनिरासार्थम्॥
Prakriyasarvasvam¶
धातुस्थनिमित्ताद् उरुषुभ्यां च परस्य नसो णः स्यात् । अग्ने रक्षाणः । उरु णस् कृद् । उरुणः । अभीषुणः सखीनाम् । ‘उपसर्गाद् बहुलम् (८-४-२८) इति नासिकादेशस्य अस्मदादेशस्य च नसो नस्य णत्वं स्यात् । तत्र नासिका- देशस्योक्तम् । प्रणो देवी सरस्वती । बहुलोक्तेः प्र नो मुञ्चतम् । क्षुम्नादिषु पाठात् नृप्नोतीत्यस्य णत्वं न । ‘शात्’ (८-४-४४) ऋत्वनिषेधस्य छान्दसात् विकल्पात् तैत्तिरीयाणामश्नातीत्यादि ।