83099: एति संज्ञायामगात्¶
Padacheda: एति | S | 7 | 1 |
संज्ञायाम् | S | 7 | 1 |
अगात् | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
ष् is substituted for the स् when followed by ए and preceded by इण् or कु , when the word is a name and when the स् is not preceded by ग्।
Vasu English Translation¶
ष् is substituted for the स् when followed by ए and preceded by इण् or कु , when the word is a name and when the स् is not preceded by ग्। Thus हरयः सेना अस्य = हरिषेणः, परितः सेना अस्य = परिषेणः, so also वारिषेणः, जानुषेणी ॥ Why do we say ‘followed by ए’? Observe हरिसक्थम् ॥ Why do we say ‘when a Name’? Observe पृथ्वी सेना यस्य स = पृथुसेनो राजा (6.3.34). Why do we say ‘when the स is not preceded by ग्’? Observe विष्वक् सेनः ॥ The phrase इण्कोः is understood here also, so the rule does not apply to सर्वसेनः ॥
Kashika¶
एकारपरस्य सकारस्य मूर्धन्यादेशो भवतीण्कोरुत्तरस्यागकारात् परस्य संज्ञायां विषये। हरिषेणः। वारिषेणः। जानुषेणी। एतीति किम्? हरिसक्थम्। संज्ञायामिति किम्? पृथ्वी सेना यस्य स पृथुसेनो राजा। अगादिति किम्? विष्वक्सेनः। इण्कोरित्येव — सर्वसेनः।
Siddhanta Kaumudi¶
सस्य मूर्धन्यः । हरिषेणः । एति किम् । हरिसक्थम् । संज्ञायां किम् । पृथुसेनः । अगकारात् किम् । विष्वक्सेनः । इण्कोरित्येव । सर्वसेनः ॥
Balamanorama¶
एति संज्ञायामगात् - एति संज्ञायामगात् । एकारे परे सस्य षः स्यादित्यर्थः ।
Tattvabodhini¶
एति संज्ञायामगात् - एति संज्ञायामिति । सुषामाद्यन्तर्गणसूत्रमेतत् ।
Padamanjari¶
ठपदान्तस्यऽ इत्यधिकारादप्राप्तं षत्वं विधीयते, तरबादय एव तावतद्धिताः सम्भवन्तीत्याह - तरप्तमबिति । सर्पिष्टरमिति । सर्पिर्जातेः प्रकर्षाभावेऽपि सहचारिणो गुणस्य गन्धादेः प्रकर्षे प्रत्ययः । चतुष्टय इति ।’जसः शी’ । सर्पिष्ट इति । प्रतिप्रयोगे पञ्चम्यास्तसिः । आविष्ट।ल् इति । अव्ययात्यप्ऽ इत्यत्राविः शब्दात्’च्छन्दसि’ इति वचनात्यप् । सर्पिः सादिति ।’विभाषा सातिः कार्त्स्न्ये’ । ननु च’सात्पदाद्योः’ इति प्रतिषेधादेवात्र षत्वं न भविष्यति ? इत्यत आह - प्रत्ययसकारस्येति । भिन्द्यौस्तराम्, च्छन्द्यौस्तरामिति । भिदिच्छिदिभ्यां लिङ्, झेर्जुसि यासुट्,’तिङ्श्च’ इति तरप्,’किमेतिङ्व्ययघात्’ इति आमुप्रत्ययः । आदिग्रहणं शक्यमकर्तुम्,’ति’ इत्येव’यस्मिन्विधिस्तदादावल्ग्रहणे’ , पुंसः प्रतिषेधः, पुंस्त्वम्, पुंस्ता ॥
Nyaas¶
एति संज्ञायाम् इत्यादि। एतद्ग्रहणकवाक्यम्। अस्यैव एकारपरस्य इत्यादिना विवरणम्। एकारः परो यस्मादिति बहुव्रीहिः। एतेर्नतीत्यस्याः परसप्तमीत्वं दर्शयति। हरिषेमः इति। हरयः सेना ञस्येति बहुव्रीहिः, उपसर्वनह्रस्वत्वम्। पुवुसेनः इति। स्त्रियाः (6.4.79) इत्यादिना पूंवद्भावः। बिष्दक्सेनः इति। विष्वञ्चतीति ऋत्विक् (3.2.59) इत्यादिना क्विन्। अनिदिताम् (6.4.24) इति नलोपः। उगितश्च (6.3.45) इति ङीप्, अचः (6.4.138) इत्यकारलोपः, चौ (6.3.137) इति दीर्घः। विषूची सेनास्येति बहुव्रीहिः। उपसजनह्रस्वत्वम्। स्त्रियाः (6.4.79) त्यादिना पुंवद्भावः। क्वित्वस्य कुः (8.2.62) इति कुत्वम्। झलां जशोऽन्ते (8.2.39) इति जश्त्वं -गकारः। तस्य खरि च (8.4.54) इति चत्त्र्व -ककारः। तस्यासिद्धत्वाद्यकारः॥