83062: सः स्विदिस्वदिसहीनां च¶
Padacheda: सः | S | 1 | 1 |
स्विदि-स्वदि-सहीनाम् | S | 6 | 3 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
स is substituted for the स् after the reduplicate of षण् Desiderative of the Causatives of 1. स्विद् 2. स्वद् and 3. सह्।
Vasu English Translation¶
स is substituted for the स् after the reduplicate of षण् Desiderative of the Causatives of 1. स्विद् 2. स्वद् and 3. सह्। The स substitute of स् debars the cerebral change. In other words, the स of these roots remains unchanged. As सिस्वेदयिषति, सिस्वादयिषति and सिसाहयिषति ॥
Kashika¶
स्विदि स्वदि सहि इत्येतेषां ण्यन्तानां सनि षभूते परतोऽभ्यासादुत्तरस्य सकारस्य सकारादेशो भवति। स्विदि — सिस्वेदयिषति। स्वदि — सिस्वादयिषति। सहि — सिसाहयिषति। सकारस्य सकारवचनं मूर्धन्यनिवृत्त्यर्थम्॥
Siddhanta Kaumudi¶
अभ्यासेणः परस्य ण्यन्तानामेषां सस्य स एव न षः षणि परे । सिस्वेदयिषति । सिस्वादयिषति । सिसाहयिषति । स्थादिष्वभ्यासेनेति नियमान्नेह । अभिसुसूषति । शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः । सरूपः प्रत्ययो नेष्टः सन्नन्तान्न नसिष्यते ॥ (भाष्यं) । शैषिकाच्छैषिकः सरूपो न, तेन शालीये भव इति वाक्यमेव । न तु छान्ताच्छः । सरूपः किम् । अहिच्छत्रे भव आहिच्छत्रः । आहिच्छत्रे भव आहिच्छत्रीयः । अण्णन्ताच्छः । तथा मत्वर्थात्सपरूपः स न । धनवानस्यास्ति । इह मतुबन्तान्मतुप् न । विरूपस्तु स्यादेव । दण्डिमती शाला । सरूप इत्यनुषज्यते । अर्थद्वारा सादृश्यं तस्यार्थः । तेन इच्छासन्नन्तात्सन्न । स्वार्थसन्नन्तात्तु स्यादेव । जुगुप्सिषते । मीमांसिषते ॥
Balamanorama¶
सः स्विदिस्वदिसहीनां च - सः स्विदि । सः स्विदीति छेदः ।स्तौतिण्योरेव षण्यभ्यासा॑दिति सूत्रं स्तौतिवर्जमनुवर्तते । ‘सहे साडः सः’ इत्यतः स इति षष्ठन्तं च । तदाह — अभ्यासेण इति । सकारविधिर्नियमार्थ इत्याह — सस्य स एवेति । सुनोतेः सनिस्तौतिण्योरेवे॑ति नियमादुत्तरखण्डस्य षत्वाऽभावे अभिसुसूषतीत्यत्रउपसर्गात्सुनोती॑त्यभ्यासस्य षत्वमाशङ्क्याऽऽह — स्थादिष्वेवेति । शैषिकादिति । सन्विधायकसूत्रस्थमिदं वार्तिकम् । शैषिकात्सरूपः शैषिकः प्रत्ययो न । मतुबर्थीयात्सरूपो मतुबर्थिकः प्रत्ययो नेत्यन्वयः । शेषाधिकारे । विहितः शैषिकः । भवार्थे अधायात्मादित्वाठ्ठञ् । मतुबर्थे भवो — मतुबर्तीयः । गहादित्वाच्छः । मतुबर्थोऽस्यास्तीति मतुबर्थिकः । ‘अत इनिठनौ’ इति ठन् । शालीये इति । शालायां भवः शालीयः ।वृद्धाच्छः॑ । शालीये भव इत्यर्थे शालीयशब्दात्पुनः छो नेत्यर्थः । आहिच्छत्रे भव इति । आहिच्छत्रशब्दो भवार्थे अणन्तः । ततो भवार्थे ‘वृद्धाच्छः’ इति छ एव भवति नतु पुनरणिति भावः । ननु जुगुप्सिषते इत्यादौ कथं सन्नन्तात् सन्नित्यत आह — सरूप इत्यनुषज्यते इति ।सन्नन्तान्न सनिष्यते॑ इत्यत्रापि सरूप इत्यनुषज्यते इत्यर्थः । नन्वेवमपि जुगुप्सिषते इत्यत्र सरूपस्य सनः कथं प्रवृत्तिरित्यत आह — अर्थद्वारेति । शब्दतो वैरूप्यस्याऽसंभवादर्थद्वारकमेव सारूप्यं विवक्षितमिति भावः । तेनेति । इच्छासन्नन्तादिच्छासन्नेति लभ्यते इत्यर्थः । स्वार्थेति । स्वार्थसन्नन्तात्तु इच्छासन् भवत्येवेत्यर्थः । इति सन्नन्तप्रक्रिया ॥ इति बालमनोरमायाम् सन्नन्तप्रक्रिया॥अथ सर्वसमासशेषप्रकरणम् । — — — — — — — — — — अथ प्रसङ्गात्सर्वसमासोपयुक्तं प्रकीर्णकं प्रकरणमारभते — कृत्तद्धितेति । कृदन्ताः, तद्धितघटिताः, समासाः, एकशेषाः, सनादिप्रत्ययान्तधातवश्चेति वृत्तयः पञ्चविधा इत्यर्थः । वृत्तिसामान्यलक्षणमाह — परार्थाभिधानं वृत्तिरिति ।समर्थः पदविधि॑रिति सूत्रे भाष्ये स्थितमेतत् । अभिधानमिति करणे ल्युट् । सामान्ये नपुंसकम् । विग्रहवाक्यावयवपदार्थेभ्यः । परः=अन्यो योऽयं विशिष्टैकार्थः, तत्प्रतिपादिका वृत्तिरित्यर्थः । प्रक्रियादशायां प्रत्येकमर्थवत्त्वेन प्रथमविगृहीतानां पदानां समुदायशक्त्या विशिष्टैकार्थप्रतिपादिका वृत्तिरिति यावत् । समुदायशक्तिश्चसमर्थः पदविधि॑रिति परिभाषया लभ्या । तत्र समासतद्धितयोः पदविधित्वं स्पष्टमेव,सुप्सुपे॑त्यनुवर्त्त्य समासविधानात्, सुबन्तात्तद्धितोत्पत्तेः । वक्ष्यमाणत्वात् । कृतामपि केषाचित्कर्मण्य॑णिति उपपदनिमित्तकानां पदविधित्वमस्त्येव ।सुप आत्मनःक्य॑जित्यादीनामपि पदविधित्वमस्त्येव । एकशेषविधावपि द्वन्द्व इत्यनुवृत्तेद्र्वन्द्वविषये तद्विधानादेकार्थीभावोऽस्त्येवेति मञ्जूषादौ विस्तरः । वृत्त्यार्थवबोधकमिति । यद्यपि वृत्तावेव समुदायशक्त्याविशिष्टैकार्थप्रतिपातिपादकता, नतु वाक्ये इति समर्थसूत्रे भाष्ये प्रपञ्चितम्, तथापि समासवृत्तियोग्यविभक्त्यन्तपदानां पृथक्प्रयुज्यमानानां समूहो विग्रहवाक्यमिति बोध्यम् । परिनिष्ठितत्वादिति । व्याकरणसंस्कृतत्वादित्यर्थः । प्रयोगानर्ह इति । व्याकरमसंस्कृतत्वाऽभावादित्यर्थः ।यथे॑त्युदाहरणप्रदर्शने । राज्ञः पुरुष इति ।लौकिकविग्रहवाक्य॑मिति शेषः । राजन्-अस्-पुरुषृसु इति ।अलौकिकविग्रहवाक्य॑मिति शेषः । अविग्रहो नित्यसमास इति । सौकिकविग्रहवाक्यरहित इत्यर्थः । समासस्य नित्यत्वादिति भावः । अस्वपदेति । समस्यमानपदसमानार्थकपदान्तरकृतविग्रहो वा नित्यसमास इत्यर्थः । संज्ञाविषयसमासे तु वाक्येन संज्ञानवगमेऽपि वृत्तिघटकपदज्ञापनाय समस्यमानपदार्थबोधकवाक्यप्रयोगो भवत्येव । तत्र समासनित्यत्ववादस्तु वाक्यस्य वृत्तिसमानार्थकत्वाऽभावाद्गौण इत्याहुः । चतुर्विध इति । अव्ययीभावः, तत्पुरुषः, बहुव्रीहिः, द्वन्द्वश्चेति चतुर्विध इत्यर्थः । प्रायोवाद इति ।प्राय॑सित्यव्ययं बाहुल्ये । बाहुल्याभिप्रायकश्च तस्य चातुर्विध्यप्रवाद इत्यर्थः । कुत इत्यत आह — अव्ययीभावेति । बहुर्भूतानामपीति ।समासाना॑मिति शेषः । प्रायोऽभिप्राय इति । बाहुल्यतात्पर्यक इत्यर्थः । सूपप्रतीति । इह द्वन्द्वे चे॑त्यनन्तरं श्रुतम्-॒अभावा॑दिति पदम्-अव्यीभावे इत्यनन्तरं, तत्पुरुषे इत्यनन्तरं, बहुव्रीहावित्यनन्तरं चान्वेति । सूपप्रतीत्यव्ययीभावे उत्तरपदार्थप्रधानतया, उन्मतगङ्गं देशः, लोहितगङ्गं देश इत्यव्ययीभावेऽन्यपदार्थप्रधानतया पूर्वपदार्थप्राधान्याऽभावादित्यर्थः । अतिमालादौ तत्पुरुषे पूर्वपदार्थप्रधानतया उत्तरपदार्थप्राधान्याऽभावादित्यर्थः । ‘द्वित्रा’ इति बहुव्रीहौ उभयपदार्थप्रधानतयाऽन्यपदार्थप्राधान्याऽभावादित्यर्थः ।दन्तोष्ठ॑मित्यादिद्वन्द्वे समाहारस्यैव प्रधानतया उभयपदार्थप्राधान्याऽभावादित्यर्थः । तत्पुरुषविशेषः कर्मधारय इति ।तत्पुरुषः समानाधिकरणः कर्मधारय॑ इत्युक्तेरिति भावः । तद्विशेषो द्विगुरिति । कर्मधारयविशेष इत्यर्थः ।सङ्ख्यापूर्वो द्विगुः॑ इत्यादिरिति भावः । अनेकपदत्वमिति । द्वित्रिचतुरादिपदकत्वमित्यर्थः । ‘अनेकमन्यपदार्थे’ इति बहुव्रीहिगतस्यानेकग्रहणस्य द्वन्द्वविधावप्यनुवृत्तेरिति भावः । क्वचिदेवेति । ‘द्व्यह्नजात’ इत्यादावित्यर्थः । इत्युक्तमिति ।भाष्यादा॑विति शेषः । किंचेति-अव्ययमिदं विशेषान्तरप्रदर्शने । सुपां सुपेति । सुबन्तानां-सुबन्तेन तिङन्तेन प्रातिपदिकेन धातुना च समासः । अथेति पूर्ववाक्यव्यवच्छेदे । तिङामिति । तिङन्तानां तिङन्तेन सुबन्तेन च समास इत्येवं षड्विधः समासो ज्ञेय इत्यर्थः । सुपेति । सुपेत्यस्यादाहरणं वक्ष्यत इत्यर्थः । राजपुरुष इति । ‘राज्ञ’ इत्यस्य षष्ठन्तस्य ‘पुरुष’ इति सुबन्तेन समासः । तिङेति । सुपां तिङेत्यस्योदाहरणं वक्ष्यत इत्यर्थः । पर्यभूषयदिति ।सह सुपे॑त्यत्रसहे॑ति योगविभागात्परीति सुबन्तस्य तिङन्तेन समासः । नाम्नेति । सुपां प्रातिपदिकेन समासे उदाहरणं वक्ष्यत इत्यर्थः । कुम्भकार इति ।उपपदमति॑ङिति कुम्भस्येति षष्ठन्तस्य कारेति प्रातिपदिकेन समासः,गतिकारकोपपदानां कृद्भिः सह समास वचनं प्राक् सुबुत्पत्ते॑रित्युक्तेरिति भावः । धातुनेति । सुपां धातुना समासे उदाहरणं वक्ष्यत इत्यर्थः । कटप्रूरिति । क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं च॑ इति वार्तिकेन ‘प्रु गतौ’ इति धातुना समासो निपातितः, नतु तिङन्तेनोपपदसमास इति भ्रमितव्यं, क्विब्विधाविह सप्तमीनिर्देशाऽभावेन उपपदत्वाऽभावात् । अथ सुपां धातुनोदाहरणान्तरमाह — अजरुआमिति ।नमिकम्पिस्म्यजसकमिहि#ंसदीपो रः॑ इति सूत्रे रप्रत्ययविधौ जस्धातुना सह नञ्समासो निपातितः । तिङां तिङेति । समासे उदाहरणं वक्ष्यत इत्यर्थः । पिबतखादतेति । मयूरव्यंसकादित्वात्तिङन्तस्य तिङन्तेन समासः । तिङा सुपेति । समासे उदाहरणं वक्ष्यत इत्यर्थः । कृन्तविचक्षणेति । हे विचक्षण !कृन्त=छिन्द्धीत्यर्थः । इह तिङन्तस्य सुबन्तेन समासः कथमित्यत आह-एही डादय इति । अत्र सुपां तिङेत्यनेनैव तिङां सुबन्तेनेत्यस्यापि ग्रहणात्समासस्य षड्विधत्वं चिन्त्यम् । पञ्चविधत्वमेव युक्म्, उभयत्रापि सुप्तिङ्घटितत्वाऽविशेषादित्याहुः । अन्ये तु सुपां तिङेत्यनेन सुबन्तपूर्वपदकतिङन्तोत्तरपदकसमासस्य ग्रहणम् । तिङां सुबन्तेनेत्यनेन तु तिङन्तपूर्वपदकसुबन्तोत्तरपदकसमासस्य ग्रहणमित्याहुः । *****इति बालमनोरमायाम् सर्वसमासशेषः ।*****अथ शैषिकाः प्रकरणम् । — — — — — — — -
Tattvabodhini¶
सः स्विदिस्वदिसहीनां च - नियमान्नेहेति । न चाऽत्र नियमादेव निषेधेसुनोतेः स्यसनो॑रिति सन्विषये निर्विषयं स्यादिति वाच्यम्, अभिसुसूषतेरप्रत्ययःअभिसुसू॑रित्यत्र षत्वनिषेधाय तस्यावश्यकत्वात् । एतच्च काशिकायां स्पष्टम् । * शैषिकेति । एतच्च श्लोकवार्तिकमिति केचित् । भाष्यमिति बहवः । शेषे भवः शैषिकः । अध्यात्मादित्वाठ्ठञ् । मतुबर्थे रभवो मतुबर्थीयः । गहादित्वाच्छः । मतुबर्थोऽस्यास्तीति मतुबर्थिकः ।अत इनिठनौ॑ इति ठन् । इति तत्त्वबोधिन्यां सन्नन्तप्रक्रिया ।कृत्तद्धितसमासेकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः । प्रसङ्गादाह — कृत्तद्धितेत्यादि । पञ्च वृत्तय इति । पञ्चानांवृत्तिः॑इति पूर्वचार्याणां संज्ञा इहाप्याश्रीयत इति भावः । तल्लक्षणमाह -परार्थेति । प्रत्ययार्थन्तर्भावेण परपदार्थान्तर्भावेन वा यो विशिष्ट[ऽर्थः] स परार्थः । स चाभिधीयते येन तत्परार्थीभिधानम् । अतएव तिङन्ते वृत्तिर्न भवति, तत्रैकार्थीभावानभ्युपगमात् । अन्यथाभृदु पचती॑त्यादौ फले मृदुत्वान्वयो न स्यात्,सबिशेषणानां वृत्तिर्न भवति, वृत्तस्य च विशेषणयोगोने॑त्यभ्युपगमादित्येके । समर्थसूत्रे कैयटस्त्वाह — ॒परस्य शब्दस्य योऽर्थस्तस्याभिधानं शब्दान्तरेण यत्र सा वृत्तिरित्यर्थः । यथा राजपुरुष इत्यत्र राजशब्देन वाक्यावस्थायामनुक्तः पुरुषार्थोऽभिधीयते॑इति । अविग्रह इति । लौकिकविग्रहरहित इत्यर्थः । अस्वपदेति । समस्यमानयावत्पदाऽघटित इत्यर्थः । द्वन्द्वबहुब्राईह्रोरेवेति । अनेकग्रहणतदनुवृत्तिभ्यां तद्विधानाद्वहुपदसमासत्वं यतोरेव संभवतीति भावः । क्वचिदेवेति ।व्द्यह्नजात॑इत्यादौ । नाम्नेति । प्रातिपदिकेनेत्यर्थः । कुम्भकार इति । अत्र हि सुबुत्पत्तेः प्रागेवोपपदसमासः । कटप्रूः अजरुआमिति ।क्विब्वचिप्रच्छी॑ति वार्तिके,नमिकम्पी॑ति सूत्रे चकटप्रूः॑अजरुआ॑मिति निपातनाद्धातुना समासः । पिबतखादतेति॥आख्यातमाख्यातेने॑ति मयूरव्यंसकादौ पाठात्समासः । इति तत्त्वबोधिन्यां सर्वसमासशेषः ।
Padamanjari¶
‘स’ इत्यविभक्तिको निर्देशः । ण्यन्तानामिति । षत्वप्राप्तौ सत्वमुच्यते, षत्वप्राप्तिश्च ण्यन्तानामिति सामर्थ्यलभ्यमेतत्, किमर्थं पुनः सकारस्य सकार उच्यते ? अत आह - सकारस्येति । नेति प्रतिषेध एव वक्तव्ये सकारवचनं लाघवे विशेषाभावात् ॥
Nyaas¶
स इत्यविभक्तिकोऽयं निर्देशः। नेति प्रतिषेध एव क्रियतामित्यादेशनीयम्; लाघवकृते विशेषाभावात्। सिस्वेदयिषति इत्यादि। ञिष्विदा गात्रप्रक्षरणे (धातुपाठः-1188) रुवद स्वर्द आस्वादने (धातुपाठः-18,19), षह मर्षणे (धातुपाठः-852) -एभ्यो णिव्, ततः सन्। ननु च सकारस्य सकारविधाने न कश्चिद्विषेषः, तत्किमर्थं सकार उच्यते? इत्याह -सकारस्य इत्यादि। य एषां धात्वादेः षः सः (6.1.64) इति सकारः कृतः, तस्यादेशत्वान्मूर्धन्ये प्राप्ते वचनम्॥
Prakriyasarvasvam¶
ण्यन्तानामेषां षण्णि परेऽभ्यासस्थादिणः परस्य सस्य स एव, न षत्वम् । सिस्वेदयिषति । सिस्वादयिषति । सिसाहयिषति । ‘स्थादिष्वभ्यासेन—’(८-३-६४) इत्यत्र स्थादिष्वेवाभ्यासस्य षत्वं, न सुनोत्यादीनामिति नियमात्—अभिसुसूषति । अत्राभ्यासात्परस्य षत्वमपि स्तौतिण्योरेवेति नियमान्न । सुसूषतेः क्विपि अतो लोपे सुसूरित्यत्र रुत्वेन पणभावादभ्यासात्परस्य षत्वे प्राप्ते ‘सुनोतेः स्यसनोः’ (८-३-११७) इति निषेधो ज्ञेयः । अत एव सुवतिसूयत्यादीनां सुषूरिति स्यात् । ‘अत्रापि द्विवचनादौ तु पणस्तीति सुसूषौ, सुसूषः इति । अनेः सन् । अनिनिषति ।