83051: पञ्चम्याः परावध्यर्थे¶
Padacheda: पञ्चम्याः | S | 6 | 1 |
परौ | S | 7 | 1 |
अध्यर्थे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The विसर्ग of the Ablative -5th case is changed to स् before परि meaning ‘over’.
Vasu English Translation¶
The विसर्ग of the Ablative -5th case is changed to स् before परि meaning ‘over’. The word Chhandas is understood here also. Thus दिवस्परि प्रथमं जज्ञे (Rig X. 45. I) अग्निर्हिमवतस्परि ॥ दिवस्परि, महस्परि ॥
Why do we say ‘of the Ablative’? Observe अहिरिव भोगैः पर्येति बाहुम् ॥ Why do we say “before परि”? See एभ्योवा एतल्लोकेभ्यः प्रजापतिः समैरयत् ॥ Why do we say ‘when परि means ‘over’’? See दिवः पृथिव्याः प्रर्योज उद्भृतम् (Rig. VI.47.27). Here परि has the sense of “on all sides”.
Kashika¶
छन्दसीत्येव। पञ्चमीविसर्जनीयस्य सकारादेशो भवति परौ परतोऽध्यर्थे। दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे (ऋ० १०.४५.१)। अग्निः हि॒मव॑त॒स्परि॑ (शौ०सं० ४.९.९)। दि॒वस्परि॑ (ऋ० १.१२१.१०)। महस्परि। पञ्चम्या इति किम्? अहि॑रिव भो॒गैः पये᐀्॑ति बा॒हुम् (ऋ० ६.७५.१४)। पराविति किम् ? एभ्यो वा एतल्लोकेभ्यः प्रजापतिः समैरयत्। अध्यर्थ इति किम् ? दि॒वस्पृ॑थि॒व्याः पर्योज॒ उद्भृ॑तम् (ऋ० ६.४७.२७)। अत्र परिः सर्वतोभावे, अध्यर्थ उपरिभावः॥
Siddhanta Kaumudi¶
पञ्चमीविसर्गस्य सः स्यादुपरिभवार्थे परिशब्दे परतः । दिवस्परि प्रथमं जज्ञे (दि॒वस्परि॑ प्रथमं ज॑ज्ञे) । अध्यर्थे किम् । दिवस्पृथिव्याः पर्योजः (दि॒वस्पृ॑थि॒व्याः पर्योजः॑) ॥
Padamanjari¶
अध्यर्थ इति । परेरिदं विशेषणम् । हिमवतस्परि, हिमवत उपरीत्यर्थः । व्यत्ययेन षष्ठयाः स्थाने पञ्चम्याः प्रयोगः । पर्योज उद्भतमिति । अत्र परिः सर्वतोभावे वर्तते ॥
Nyaas¶
अध्यर्थम् इति। परेरिदं विशेषणम्। हिमवतस्परि इति। हिमवत उपरीत्यर्थः। पञ्चमी च सुब्ब्यत्ययेन षष्ठ्याः स्थाने वेदितव्या। दिवः पृथिव्याः इत्यादि। सर्वतोभावे परिशब्दोऽत्र वर्तते॥
Prakriyasarvasvam¶
उपरिभावरूपोऽधेरर्थः । तद्वाचिनि परी परे पञ्चम्या विसर्गस्य सः स्यात् । दिवस्परि प्रथमम् । उपरिभावरूपोऽधेरर्थः । तद्वाचिनि परौ परे पञ्चम्या विसर्गस्य सः स्यात् । दिवस्परि प्रथमम् ।