83044: इसुसोः सामर्थ्ये

Padacheda: इसुसोः | S | 6 | 2 |

सामर्थ्ये | S | 7 | 1 |

Sutrartha

इस्/उस्-प्रत्यययोः विसर्गस्य कवर्गे पवर्गे च परे सामर्थ्ये विकल्पेन षकारादेशः भवति ।

अस्य सूत्रस्य अर्थं ज्ञातुम् ‘सामर्थ्यम्’ तथा इस्/उस्-प्रत्ययानां विषये किञ्चित् अधिकम् पश्यामः । 1) सामर्थ्यम् - ‘एकस्य पदस्य अन्येन पदेन सह अन्वयस्य शक्तिः’ सामर्थ्यम् नाम्ना ज्ञायते । यथा - ‘गच्छति राज्ञः पुत्र’, अस्मिन् वाक्ये ‘राज्ञः’ पदस्य सम्बन्धः ‘पुत्रः’ अनेन सह अस्ति, अतः ‘राज्ञः’ तथा ‘पुत्रः’ एतयोर्शब्दयोर्मध्ये ‘सामर्थ्यम्’ अस्तीति उच्यते । परन्तु - ‘भवति दर्शनं राज्ञः, पुत्रः चोरस्य धावति’ अस्मिन् वाक्ये ‘राज्ञः’ शब्दस्य अन्वयः ‘दर्शनम्’ अनेन सह अस्ति, ‘पुत्र’ अनेन सह न । अतः अत्र ‘राज्ञः’ तथा ‘पुत्रः’ एतयोः शब्दयोर्मध्ये सामर्थ्यम् नास्तीति उच्यते । सामान्यरूपेण सन्धिं कर्तुम् केवलं संहिता आवश्यकी अस्ति , सामर्थ्यम् न । यथा, ‘भवति दर्शनं राज्ञः, पुत्रः चोरस्य धावति’ अस्मिन् वाक्ये यद्यपि ‘राज्ञः’ तथा ‘पुत्रः’ एतयोर्मध्ये सामर्थ्यम् नास्ति, तथापि विसर्गस्य कुप्वोः ≍क≍पौ च (8.3.37) इत्यनेन उपध्मानीयं कृत्वा ‘भवति दर्शनं राज्ञः≍पुत्रः चोरस्य धावति’ इति अपि वाक्यनिर्माणं भवति । परन्तु अस्मिन् सूत्रे उक्तः विधिः संहिता तथा सामर्थम् - उभावपि स्तः चेदेव भवति । एतत् स्पष्टीकर्तुमस्मिन् सूत्रे ‘सामर्थ्ये’ इति लिखितमस्ति । 2) इस्/उस्-प्रत्ययः - एतौ द्वौ उणादि-प्रत्ययौ स्तः । भिन्नैः उणादिसूत्रैः अनयोः प्रत्यययोः विधानं भवति । अर्चिस्, सर्पिस्, शोचिस्, छदिस्, हविस् - एते शब्दाः इस्-प्रत्ययान्तशब्दाः सन्ति, तथा धनुस्, चक्षुस्, जनुस्, वपुस्, तनुस्, आयुस् - एतादृशाः शब्दाः उस्-प्रत्ययान्तशब्दाः सन्ति । इदानीमस्य सूत्रस्य अर्थः स्पष्टः स्यात् - यदि इस्/उस् -प्रत्ययस्य विसर्गात् परः कवर्गस्य / पवर्गस्य वर्णः आगच्छति, तर्हि तस्य विसर्गस्य सामर्थ्ये सति विकल्पेन षकारः भवति । यथा - 1. ‘त्वम् सर्पिः पिब’ अस्मिन् वाक्ये सर्पिस्-शब्दस्य सकारस्य रुँत्वविसर्गे ‘सर्पिः’ इति जायते । अस्य विसर्गस्य पकारे परे वर्तमानसूत्रेण वैकल्पिकः षकारः विधीयते - ‘त्वम् सर्पिष्पिब’ । अत्र सर्पि-शब्दस्य पिब-शब्देन सह अन्वयः अस्ति, अतः अत्र सन्धिः भवति । अयम् षत्वम् वैकल्पिकमस्ति, अतः षत्वाभावे कुप्वोः ≍क≍पौ च (8.3.37) इत्यनेन विकल्पेन उपध्मानीयं कृत्वा ‘त्वम् सर्पि≍पिब’ / त्वम् सर्पिःपिब’ एते द्वे वाक्ये अपि सिद्ध्यतः । 2. ‘तिष्ठतु सर्पिः, पिब त्वमुदकम्’ - अस्मिन् वाक्येऽपि सर्पिस्-शब्दस्य सकारस्य रुँत्वविसर्गे ‘सर्पिः’ इति जायते । अत्रापि विसर्गात् परः पकारः अस्ति । परन्तु अत्र ‘सर्पिः’ सब्दस्य सामर्थ्यम् ‘तिष्ठतु’ इत्यनेन सह अस्ति, पिब-इत्यनेन सह न । अतः अत्र वर्तमानसूत्रेण षत्वं न भवति । अतः कुप्वोः ≍क≍पौ च (8.3.37) इत्यनेन विकल्पेन उपध्मानीयं कृत्वा ‘तिष्ठतु सर्पि≍पिब त्वमुदकम्’ / ‘तिष्ठतु सर्पिः पिब त्वमुदकम्’ एते द्वे वाक्ये एव सिद्ध्यतः । 3. सः यजुः करोति → सः यजुष्करोति, सः यजुः≍करोति, सः यजुःकरोति । अत्रापि ‘यजुः’-शब्दस्य ‘करोति’-शब्देन सह अन्वयः अस्ति, अतः अत्र वर्तमानसूत्रेण विकल्पेन विसर्गस्य षकारादेशः भवति । विकल्पाभावे कुप्वोः ≍क≍पौ च (8.3.37) इत्यनेन वैकल्पिकमुपध्मानीयं अपि भवति । 4. रामः करोति यजुः, कृष्णः गच्छति → रामः करोति यजु≍कृष्णः गच्छति , रामः करोति यजुःकृष्णः गच्छति । अत्र यजुः-शब्दस्य कृष्ण-शब्देन सह अन्वयः नास्ति, अतः अत्र यजुः-शब्दस्य विसर्गस्य षकारादेशः न भवति । कुप्वोः ≍क≍पौ च (8.3.37) इत्यनेन विकल्पेन उपध्मानीयं कृत्वा वाक्यद्वयं तु सिद्ध्यतः एव । ज्ञातव्यम् - वस्तुतः सामर्थ्यस्य प्रकारद्वयमस्ति - ‘व्यपेक्षा’, तथा ‘एकार्थीभाव’ । एकार्थीभावसामर्थ्यम् तत्र उच्यते यत्र द्वयोः शब्दयोः मेलनेन तृतीयस्य भिन्न-अर्थवाचिनः शब्दस्य निर्माण भवति । व्यपेक्षासामर्थ्यम् तत्र उच्यते यत्र द्वयोः शब्दयोर्मध्ये वाक्ये कश्चन सम्बन्धः अस्ति । उदाहरणानि एतानि - 1) राज्ञः पुत्रः गच्छति - अस्मिन् वाक्ये ‘राज्ञः’ तथा ‘पुत्रः’ एतयोर्मध्ये व्यपेक्षा-सामर्थ्यमपि अस्ति, एकार्थीभाव-सामर्थ्यमपि अस्ति । अतः अत्र ‘राजपुत्रः गच्छति’ इत्यपि वक्तुं शक्यते । 2) उद्यानमुपगृहमस्ति - अस्मिन् वाक्ये ‘उप’ तथा ‘गृहम्’ एतयोर्मध्ये एकार्थीभाव-सामर्थ्यमस्ति, परन्तु व्यपेक्षा-सामर्थ्यम् नास्ति, यतः उप-शब्दस्य गृह-शब्देन सह कोऽपि सम्बन्धः नास्ति । केवलं समासं कर्तुमुप-शब्दस्य योजनम् कृतमस्ति । 3) सः मम गृहम् गच्छति - अत्र ‘गृहम्’ तथा ‘गच्छति’ एतयोर्मध्ये व्यपेक्षासामर्थ्यमस्ति, परन्तु एकार्थीभाव-सामर्थ्यम् नास्ति, यतः अत्र एतयोः द्वयोः शब्दयोः मेलनेन तृतीयस्य शब्दस्य निर्माणम् भवितुम् न अर्हति । अस्मिन् सूत्रे प्रयुक्तः ‘सामर्थ्ये’ अयं शब्दः व्यपेक्षा-सामर्थ्यार्थमस्ति । 4) भवति दर्शनं राज्ञः, पुत्रः चोरस्य धावति - अत्र ‘राज्ञः’ तथा ‘पुत्रः’ एतयोर्मध्ये कीदृशमपि सामर्थ्यम् नास्ति । अस्मिन् सूत्रे प्रयुक्तः ‘सामर्थ्य’ अयम् शब्दः व्यपेक्षासामर्थ्यस्य निर्देशं करोति । इत्युक्ते, वर्तमानसूत्रस्य प्रयोगार्थम् व्यपेक्षासामर्थ्यमावश्यकमस्ति । काशिकाकारः अस्मिन् विषये वदति - ‘ सामर्थ्यम् इह व्यपेक्षा, न पुनः एकार्थीभावः, उभयं वा’ ।

Sutrartha (English)

The विसर्ग of the इस्/उस्-प्रत्यय when followed by a letter from कवर्ग or पवर्ग is optionally converted to a षकार whenever the words involved in the सन्धि are associated with each other.

Vasu English Summary

For the विसर्ग of words ending in इस् and उस् before a hard guttural or a labial, there is optionally substituted ष् when the two words stand in correlation with one another.

Vasu English Translation

For the विसर्ग of words ending in इस् and उस् before a hard guttural or a labial, there is optionally substituted ष् when the two words stand in correlation with one another. The ष is understood here. Thus सर्पिष्करोति or सर्पिः करोति, यजुः करोति or यजुष्करोति ॥

Why do we say ‘when the two words are correlated’? Observe तिष्ठतु सर्पिः, पिब त्वमुदकम्, where सर्पिः is not in construction with पिब, but with तिष्ठतु ॥

The word सामर्थ्ये here means व्यपेक्षा or mutual relation of two words; and not “having the same meaning”, or it may mean both. In fact सामर्थ्य is equivalent to आकाङ्क्षा i.e. the syntactical want of another word to complete the sense. It does not here mean ‘compound’. For it being a पदविधिः the word समर्थः is understood here (समर्थः पदविधिः (2.1.1)). The employment of the word सामर्थ्य here indicates that it is a different samarthya from that of (2.1.1). It does not denote एकार्थीभावः or ऐकार्थ्य which is the samarthya of compounds where two or more words denote one object. The samarthya here means vyapeksha, which is thus defined नानाभूतयोः, पदार्थयो र्यौ शब्दौ, तयो र्यो योगः “the syntactical union of two words expressing two different ideas”.

Kashika

ष इति संबध्यते। इस् उस् इत्येतयोर्विसर्जनीयस्यान्यतरस्यां षकारादेशो भवति सामर्थ्ये कुप्वोः परतः। सर्पिष्करोति, सर्पिः करोति। यजुष्करोति, यजुः करोति। सामर्थ्य इति किम्? तिष्ठतु सर्पिः, पिब त्वमुदकम्। सामर्थ्यमिह व्यपेक्षा, न पुनरेकार्थीभावः, उभयं वा॥

Siddhanta Kaumudi

एतयोर्विसर्गस्य षः स्याद्वा कुप्वोः । सर्पिष्करोति । सर्पिःकरोति । धनुष्करोति । धनुः करोति । सामर्थ्यमिह व्यपेक्षा । सामर्थ्ये किम् । तिष्ठतु सर्पिः, पिब त्वमुदकम् ॥

Tattvabodhini

इसुसोः सामर्थ्ये - व्यपेक्षाविरहेऽपीति ।तिष्ठतु सर्पिष्कुण्डिकामानाये॑त्यादावित्यर्थः ।

Padamanjari

तिष्ठत्वित्यादि । अत्रसपरिरित्यस्य तिष्ठत्वित्यनेन सम्बन्धः,’पिब’ इत्यस्य तूदकमित्यनेनेति परस्परलसम्बन्धाभावादसामर्थ्यम् । सामर्थ्यमिह व्यपेक्षेति । अवधारणमत्र द्रष्टव्यम् -व्यपेक्षैवेति । प्रयोजनमुतरत्र वक्ष्यते । न पुनरेकार्थीभाव इति । अत्राप्यवधारणं द्रष्टव्यम् - एकार्थीभाव एव गृह्यत इति यतन्न व्यपेक्षैवेत्यर्थः । ननु च सामर्थ्यशब्दः सामान्यशब्दः, न च सामान्यशब्दः प्रकरणादिकमन्तरेण विशेषेऽवतिष्ठते, तत्कथं व्यपेक्षैव सामर्थ्यं गृह्यते, न पुनरेकार्थीभाव इत्युच्यते, उभयं तु कस्मान्न गृह्यते ? अत आह - उभयं वेति । नेत्येव; उभयमपि गृह्यत इति यतदपि नैवेत्यर्थः । अयं भावः - पदविधित्वादेव समर्थपरिभाषोपस्थानात् सामर्थ्ये लब्धे पुनः सामर्थ्यग्रहणादिष्टस्य व्यपेक्षालक्षणस्यैव सामर्थ्यस्य परिग्रहः; नेतरस्य, नाप्युभयोरिति ॥

Nyaas

यदि अचिंशुचिहुसृयिच्छादिच्छृदिभ्य इसिः (द।उ।9-30), जनेरुसिः (द।उ।9-37) इत्यनुवर्तमाने अतिंतपृवपियजितनिधानितपिभ्यो नित् (द।उ।9।39) इत्येषं सपिं#ः, यजुरादयः शब्दा इसुस्प्रत्ययान्ता व्युत्पाद्यन्ते -इति दर्शनम्, ततश्च केनचिदप्राप्त एव षत्वे कुप्वोः (8.3.37) इत्यादिना जिह्वामूलीयादिषु प्राप्तेष्विदं वचनम्। अथ अथादयोऽव्युत्पन्नानि प्रातिपदिकानि (पु।प।वृ।70) इति दर्शनम्। ततोऽप्रात्ययविसर्जनीयत्वात्? इदुदुपधस्य चाप्रत्ययस्य (8.3.41) इति नित्ये षत्वे प्राप्तेऽयमारम्भः। सामर्थ्ये सति इति। कुप्वोर्निमित्तत्वेनाश्रयणात्? तदादिनैव शब्दान्तरेण सह सामर्थ्यं वेदितव्यम्। सर्पिष्करोतीत्यत्र सर्पिः साधनं करोतीत्येवं साध्यां क्रियामपेक्षते, करोतीत्यर्थोऽपि[करोत्यर्थोऽपि -करोत्यर्थोऽपि -प्रांउ।पाठः] साध्यः। साधनं सर्पिरित्यस्ति सामर्थ्यम्।तिष्टतु सर्पिः पिब त्वमुदकम् इति। अत्र सर्पिरित्यत्र पिबेत्यनेन सामर्थ्यं नास्ति। तथा हि -पिबेत्ये तदुदुकमपेक्षते, सर्पिरित्येतत्तु तिष्टत्विति। अथ परमसपिःकुण्डिकेत्यत्र विभाषया षत्वं समासे कस्मान्न भवति? इत्याह -सामर्थ्यमिह इत्यादि। दाशब्दोऽप्यर्थे वर्तते; अनेकार्थत्वादव्ययस्य। न पुनः इत्यस्यैकार्थीभाव इत्यनेन, उभय इत्येनेन च सम्बन्धः। अवधारणं चात्र द्रष्टव्यम्; व्यवच्छेदफलकत्वात्? सर्ववाक्यानाम्। तदयमत्रार्थः -सामर्थ्यमिह व्यपेक्षैवाश्रयते, उभयं तु कथं नाश्रयितुं युक्तम्; न हि सामान्यशब्दाः प्रकरणादिकमन्तरेण विशेषेष्ववतिष्ठन्ते, न चेह प्रकरणादिकमस्ति तथाविधं किञ्चिद्येन व्यपेक्षालक्षणमेव सामर्थ्य ग्रहीतव्यम्? नैषः दोषः; कार्यकालं संज्ञापरिभाषम् (व्या।प।58) इति, इह पदस्य इति वर्तते, तत्र पदाधिकारादेव समर्थपरिभाषाया उपस्थानात्? सामर्थ्ये लब्धे यतः सामर्थ्यग्रहणं क्रियगते तस्येदं प्रयोजनम् -इष्टसामर्थ्यस्य परिग्रहो यथा स्यात्। इह च व्यपेक्षालक्षणमेवेष्टं सामर्थ्यमिति तदेवाश्रयितुं युक्तम्; नैकार्थीभावः, नाप्युभयमिति॥

Prakriyasarvasvam

सम्बद्धार्थत्वे इसुसन्तयोर्विसर्गस्य कुप्वोर्वा सः स्यात् । हविष्खादति । सर्पिष्पिबति । धनुष्कर्षति । वपुष्पश्यति । विकल्पात् हविः खादति इत्यादि । मिथोऽसम्बन्धे तु न । तिष्ठतु सर्पिः पिबोदकम् ।

Sutra Prayogas

  • बहिष्-करिष्यन् (भट्टिकाव्यम्): इसुसोः सामर्थ्ये इति विसर्जनीयस्य पत्वं पक्षे।