83033: मय उञो वो वा¶
Padacheda: मयः | S | 5 | 1 |
उञः | S | 6 | 1 |
वः | S | 1 | 1 |
वा | S | 0 | 0 |
Sutrartha¶
संहियाताम् पदान्ते विद्यमानात् मय्-वर्णात् परस्य उञ्-शब्दस्य स्वरे परे विकल्पेन वकारादेशः भवति ।
<pt> मय् = ञकारम् विहाय सर्वाणि वर्गीयव्यञ्जनानि । <light> आहत्य चतुर्विंशतिः वर्णाः ।</light> </pt> चादयोऽसत्वे (1.4.57) अस्मिन् सूत्रे निर्दिष्टे चादिगणे उञ् इति कश्चन निपातः विद्यते ।अस्य शब्दस्य कोऽपि विशिष्टः अर्थः नास्ति, अयं शब्दः सामान्यरूपेण सम्बोधनस्य अर्थे कोपं / वैमत्यं दर्शयितुम् प्रयुज्यते । अस्मिन् उञ्-शब्दे ञकारः इत्संज्ञकः अस्ति, तस्य लोपे कृते “उ” इति अवशिष्यते, तस्य निपात एकाजनाङ् (1.1.14) इत्यनेन प्रगृह्यसंज्ञा भवति, अतः प्लुतप्रगृह्या अचि नित्यम् (6.1.125) इत्यनेन अच्-वर्णे परे प्रकृतिभावः (सन्धेः अभावः) अपि जायते । अस्याम् स्थितौ, यदि अस्मात् उञ्-शब्दात् पूर्वम् पदान्त-मय्-वर्णः विद्यते, तथा च उञ्-शब्दस्य अनन्तरम् स्वरः वर्तते, तर्हि उञ्-शब्दस्य उकारस्य प्रकृतिभावं बाधित्वा विकल्पेन वकारादेशः भवति ** — इति प्रकृतसूत्रस्य अर्थः । कानिचन उदाहरणानि एतादृशानि — <listsp> 1. “किम् उ उक्तम्” इत्यत्र मकारात् परः उञ्-शब्दः, तस्मात् परः च स्वरः विद्यते, अतः उकारस्य प्रकृतसूत्रेण विकल्पेन वकारादेशे कृते “किम् व् उक्तम् → किम्वुक्तम्” इति सिद्ध्यति । पक्षे “किमु उक्तम्” इति अपि जायते । उञ्-शब्दस्य प्रगृह्यत्वात् अग्रे सन्धिः न भवति । किम्वुक्तम् इत्यत्र प्रकृतसूत्रेण सिद्धः वकारः **मोऽनुस्वारः (8.3.23) इत्यस्य कृते असिद्धः अस्ति, अतः अत्र मकारस्य अनुस्वारादेशः न भवति । 2. “तद् उ अस्तु” इति स्थिते प्रकृतसूत्रेण उ-इत्यस्य विकल्पेन वकारादेशे कृते “तद्वस्तु” इति सिद्ध्यति । पक्षे “तदु अस्तु” इति जायते । उञ्-शब्दस्य प्रगृह्यत्वात् अग्रे सन्धिः न भवति । 3. “वाग् उ एषा” इति स्थिते प्रकृतसूत्रेण उ-इत्यस्य विकल्पेन वकारादेशे कृते “वाग्वेषा” इति सिद्ध्यति । पक्षे “वागु एषा” इति जायते । उञ्-शब्दस्य प्रगृह्यत्वात् अग्रे सन्धिः न भवति । </listsp>
**उञि च पदे (8.3.21) सूत्रस्य बलीयस्त्वम्**
अवर्णात् परः विद्यमानात् पदान्तयकारात् / पदान्तवकारात् परे यदि उञ् इति शब्दः विद्यते, तर्हि **उञि च पदे (8.3.21) इत्यनेन पदान्तयकारस्य / पदान्तवकारस्य नित्यम् लोपः भवति । एतादृशे लोपे कृते प्रकृतसूत्रस्य प्राप्तिरेव न सम्भवति ।** । यथा, “वने उ अयम्” इति स्थिते एचोऽयवायावः (6.1.78) इत्यनेन एकारस्य अयादेशे कृते, “वनय् उ अयम्” इत्यवस्थायाम् उञि च पदे (8.3.21) इत्यनेन पदान्तयकारस्य लोपः भवति, येन “वन उ अयम्” इति जायते । अस्यां स्थितौ प्रकृतसूत्रस्य सम्भवः एव नास्ति । एवमेव, “साधो उ अयम्” इति स्थिते एचोऽयवायावः (6.1.78) इत्यनेन ओकारस्य अवादेशे कृते, “साधव् उ अयम्” इत्यवस्थायाम् उञि च पदे (8.3.21) इत्यनेन पदान्तयकारस्य लोपः भवति, येन “साध उ अयम्” इति जायते । अस्यां स्थितौ अपि प्रकृतसूत्रस्य सम्भवः एव नास्ति ।
‘किम् + उञ् + इति’ इत्यत्र रूपगणना
पदान्त-मय्-वर्णात् विद्यमानः यः उञ्-शब्दः, तस्मात् परः यदि “इति” अयम् शब्दः अवैदिकसन्दर्भे (इत्युक्ते, लौकिकसंस्कृतस्य वाक्येषु) विद्यते, तर्हि उञः (1.1.17) इति सूत्रेण “उञ्”-शब्दस्य विकल्पेन एव प्रगृह्यसंज्ञा भवति, तथा च प्रगृह्यसंज्ञकस्य उञ्-इत्यस्य स्थाने ऊँ (1.1.18) इति सूत्रेण विकल्पेन “ऊँ”-आदेशः अपि विधीयते । अस्यां स्थितौ अन्ते अनेकानि रूपाणि सम्भवन्ति । यथा, “किम् उ इति” इत्यत्र आहत्य विंशतिः रूपाणि भवितुम् अर्हन्ति, यानि अधः क्रमेण प्रदर्शितानि सन्ति — 1. उञ्-इत्यस्य उकारस्य प्रगृह्यसंज्ञा, तस्य च ऊँ-आदेशः क्रियते चेत् द्वे रूपे सम्भवतः —
किम् उ इति [**उञः** (1.1.17) इति प्रगृह्यसंज्ञा ।]
→ किम् ऊँ इति [**ऊँ** (1.1.18) ]
→ किमूँ इति
→ किमूँ इति / किमूँ इतिँ [**अणोऽप्रगृह्यस्यानुनासिकः** (8.4.57) इति इकारस्य वैकल्पिकः अनुनासिकादेशः]
** — आहत्य 2 रूपे **
2. उञ्-इत्यस्य उकारस्य प्रगृह्यसंज्ञा क्रियते परन्तु ऊँ-आदेशः न क्रियते चेत् अग्रे **मय उञो वो वा (8.3.33) इति सूत्रेण उञ्-इत्यस्य विकल्पेन वकारादेशं कृत्वा आहत्य अष्टौ रूपाणि भवन्ति** —
किम् उ इति
→ किम् व् इति [**उञः** (1.1.17) इति प्रगृह्यसंज्ञा, अतः उकारस्य यणादेशः न भवति । परन्तु **मय उञो वो वा** (8.3.33) इति सूत्रेण मञ्-वर्णात् परस्य उञ्-इति निपातस्य वकारादेशः विधीयते । वकारादेशे कृते तस्य असिद्धत्त्वात् **मोऽनुस्वारः** (8.3.23) इति अनुस्वारादेशः न भवति ।
→ किम् व् इति / किम् म् व् इति [**अनचि च** (8.4.47) इत्यनेन मकारस्य वैकल्पिकं द्वित्वम् । ]
→ किम् व् इति / किम् व् व् इति / किम् म् व् इति / किम् म् व् व् इति [<!यणो मयो द्वे वाच्ये !> इति वार्त्तिकेन प्रत्येकम् रूपे विद्यमानस्य यण्-वर्णस्य (वकारस्य) वैकल्पिकं द्वित्वम् ।]
→ किम्विति / किम्वितिँ / किम्व्विति / किम्व्वितिँ / किम्म्विति / किम्म्वितिँ / किम्म्व्विति / किम्म्व्वितिँ [**अणोऽप्रगृह्यस्यानुनासिकः** (8.4.57) इति इकारस्य वैकल्पिकः अनुनासिकादेशः]
** — आहत्य 8 रूपाणि **
3. उञ्-इत्यस्य उकारस्य प्रगृह्यसंज्ञा क्रियते परन्तु ऊँ-आदेशः न क्रियते, तथा च **मय उञो वो वा (8.3.33) इति वकारादेशः अपि न क्रियते चेत् द्वे रूपे सम्भवतः **—
किम् उ इति
→ किमु इति [**उञः** (1.1.17) इति प्रगृह्यसंज्ञा, अतः यणादेशः न भवति । अग्रे **मय उञो वो वा** (8.3.33) इत्यपि सूत्रं न प्रवर्तते ।
→ किमु इति / किमु इतिँ [**अणोऽप्रगृह्यस्यानुनासिकः** (8.4.57) इति इकारस्य वैकल्पिकः अनुनासिकादेशः]
** — आहत्य 2 रूपे **
**4. उञ्-इत्यस्य उकारस्य प्रगृह्यसंज्ञा न क्रियते चेत् उकारस्य यणादेशे वकारः, ततः च मकारस्य अनुस्वारादेशः भवति; येन आहत्य अष्टौ रूपाणि जायन्ते **—
किम् उ इति
→ किम् व् इति [**इको यणचि** (6.1.77) इति उकारस्य यणादेशे वकारः भवति ।]
→ किं विति [**मोऽनुस्वारः** (8.3.23) इति अनुस्वारादेशः]
→ किंविति / किं[ं]विति [अनुस्वारः शर्-प्रत्याहारे (अतश्च यर्-प्रत्याहारे) स्वीक्रियते, अतः **अनचि च** (8.4.47) इत्यनेन अनुस्वारस्य वैकल्पिकं द्वित्वं भवति । अत्र द्वितीयम् अनुस्वारं दर्शयितुम् [ं] इति चिह्नं प्रयुक्तम् अस्ति ।]
→ किंविति / किव्ँविति / किं[ं]विति / किंव्ँविति [द्वयोः अपि रूपयोः **वा पदान्तस्य** (8.4.59) इति अनुस्वारस्य यय्-वर्णे परे (वकारे परे) वैकल्पिकः परसवर्णः]
→ किंविति / किंवितिँ / किव्ँविति / किव्ँवितिँ / किं[ं]विति / किं[ं]वितिँ / किंव्ँविति / किंव्ँवितिँ [**अणोऽप्रगृह्यस्यानुनासिकः** (8.4.57) इति इकारस्य वैकल्पिकः अनुनासिकादेशः]
** — आहत्य 8 रूपाणि **
अनेन प्रकारेण अत्र आहत्य विंशतिः रूपाणि सिद्ध्यन्ति । प्रौढमनोरमायां तु इतोऽपि अष्टौ रूपाणि दत्तानि सन्ति । तत्र “किम् ऊँ इति” अस्यां स्थितौ, “ऊँ” इत्यत्र स्थानिवदादेशोऽनल्विधौ (1.1.56) इति स्थानिवद्भावेन “उञ्” इत्यस्य आरोपणं कृत्वा, तस्य स्थाने मय उञो वो वा (8.3.33) इति सूत्रेण वैकल्पिकः अनुनासिकः वकारः क्रियते । ततः “किम् व्ँ इति” अस्यां स्थितौ अनचि च (8.4.47) इत्यनेन मकारस्य वैकल्पिकं द्वित्वम् तथा च <!यणो मयो द्वे वाच्ये!> इत्यनेन वँकारस्य वैकल्पिकं द्वित्वम् कृत्वा आहत्य चत्वारि रूपाणि, ततश्च अणोऽप्रगृह्यस्यानुनासिकः (8.4.57) इत्यनेन इकारस्य वैकल्पिके अनुनासिकादेशे कृते आहत्य अष्टौ रूपाणि भवन्ति । यद्यपि प्रौढमनोरमायाम् एतानि परिगणितानि सन्ति, तथापि अयं पक्षः नैव उचितः इति शब्दरत्ने स्पष्टीकृतम् अस्ति । मय उञो वो वा (8.3.33) इत्यत्र विद्यमानः वकारः विधीयमानः अस्ति, अतः सः अनुनासिक-सवर्णस्य ग्रहणं नैव करोति, अतश्च अत्र “ऊँ” इत्यत्र स्थाने अनुनासिकवकारादेशः नैव सम्भवति इति अत्र कारणम् वर्तते । वस्तुतस्तु, अत्र स्थानिवद्भावः कथं सम्भवति इत्यपि अपरः प्रश्नः अस्ति एव ! अतः अत्र प्रौढमनोरमायाम् उक्तानि अष्टौ अधिकानि रूपाणि अनुचितानि एव ग्राह्याणि ।
Sutrartha (English)¶
In the context of संहिता, when a letter of the मय् प्रत्याहार occurring at end of a पद is followed by word उञ् which in turn is followed by a स्वर, then the word उञ् is optionally converted to a वकार.
Vasu English Summary¶
व् is optionally the substitute of the Particle उ when it is preceded by मय् consonant (all consonants with the exception of the semi-vowels, sibilants, ह and ञ) and is followed by a vowel.
Vasu English Translation¶
व् is optionally the substitute of the Particle उ when it is preceded by मय् consonant (all consonants with the exception of the semi-vowels, sibilants, ह and ञ) and is followed by a vowel. Thus शमु अस्तु वेदिः or शम्वस्तु वेदिः, तद् उ अस्य रेतः or तद्वस्य रेतः, किम् उ आवपनम् or किम्वावपनम् ॥ The उ is a Pragrihya by (1.1.14), and therefore would have remained unchanged, this ordains व् optionally. This व being considered asiddha, the म् is not changed to anusvara in किम्वावपनम्, शम्वस्तु &c, by (8.3.23).
When this उ is followed by इति, and preceded by a मय् consonant, then by (1.1.17), it is optionally प्रगृह्य, and it may be replaced by ऊँ ॥ When it is not a pragrihya, then it is changed to व् by यणादेश (6.1.77), or to व् by the present sutra. In the case of यणादेश व्, there is anusvara by (8.3.23), as किंविति ॥ When it is a Pragrihya, then it is changed to व् by the present sutra as किम्विति or किमु इति ॥ So also with ऊँ substitute, where the व्ँ will be nasal : as किम्विँति, or ऊँ will remain unchanged, as किम् ऊँ इति ॥ Thus we have five forms with इति ॥
Bhashya¶
मय उञ्ञो वो वा किमर्थं मय उत्तरस्य उञ्ञो वो वेत्युच्यते(2) नेको यणचीत्येव सिद्धम्?॥ न सिध्यति। प्रगृह्यः प्रकृत्येति प्रकृतिभावः प्राप्नोति॥ यदि पुनस्तत्रैवोच्येत-इको यणचि मय उञ्ञो वेति?॥ नैवं शक्यमिह हि दोषः स्यात्-किम्वावपनं महत्। मोऽनुस्वारो हलीत्यनुस्वारः प्रसज्येत। वत्वे पुनः सत्यसिद्धत्वान्न भविष्यति॥ मय उञ्ञो वो वा॥
Kashika¶
मय उत्तरस्य उञो वा वकारादेशो भवत्यचि परतः। शम्व॑स्तु (मा०सं० २३.४४) वेदिः, शमु अस्तु वेदिः। तद्वस्य परेतः, तदु अस्य परेतः। किम्वा॒वप॑नम् (मा०सं० २३.९), किमु आवपनम्। प्रगृह्यत्वादुञः प्रकृतिभावे प्राप्ते वकारो विधीयते। तस्यासिद्धत्वाद् हलीति मोऽनुस्वारः (८.३.२३) न भवति॥
Siddhanta Kaumudi¶
मयः परस्य उञो वो वा स्यादचि । किमु उक्तम् । किम्वुक्तम् । वत्वस्यासिद्धत्वान्नानुस्वारः ॥
Laghu Siddhanta Kaumudi¶
मयः परस्य उञो वो वाऽचि। किम्वुक्तम्, किमु उक्तम्॥
Balamanorama¶
मय उञो वो वा - मय उञो वो वा । ‘मय’ इति पञ्चमी, ‘उञ’ इति षष्ठी । ‘ङमो ह्रस्वादचि’ इत्यतोऽचीत्युवर्तते, तदाह — मयः परस्येति । किम्वुक्तमिति ।किमु उक्त॑मिति स्थिते मकारोत्तरोकारस्य उञो ‘निपात एकाच्’ इति नित्यं प्रगृह्रत्वात्प्रकृतिभावाद्यणभावे प्राप्ते वत्ववचनमिदम् । ननु तर्हीको यणचीत्यनन्तरमेवमय उञो वे॑ति पठितव्यं, वग्रहणाऽभावेन लाघवात् । त्रिपाद्यां पाठे वग्रहणस्यापि कर्तव्यत्वेन गोरवादित्यत आह — वत्वस्येति । यदि षष्ठस्य प्रथमे पादे इको यणचीत्यत्रैव मय उञो यणादेशविकल्पो विधीयेत,तर्हि किम्वुक्तमित्यत्र ‘मोऽनुस्वार’ इति मकारस्य वकारे परेऽनुस्वारः स्यात् । त्रिपाद्यां वत्वविधौ तु तस्याऽसिद्धत्वान्नानुस्वारः । त्रिपाद्यामनुस्वारविध्यपेक्षया वत्वविधेः परत्वादिति भावः ।
Tattvabodhini¶
मय उञो वो वा - ॒प्रगृह्र॑मित्यनुवर्तनादाह — प्रगृह्रश्चेति । ननु दीर्घोच्चारणसामर्थ्यादेव प्रकृतिभावासिद्धौ किमनेन प्रगृह्रत्वेनेति चेदत्राहुः-प्रगृह्राप्रगृह्रयोद्र्वयोरप्युञोरादेशापत्तौ प्रगृह्रादेशे प्रकृतिभावादिष्टसिद्धावपि अप्रगृह्रादेशस्याऽनुनासिको वकारः स्यात्तद्वारणाय प्रगृह्रत्वाश्रयणमिति । आदेशस्यास्य स्थानिवत्त्वेनोञ्त्वादुञ इति प्रगृह्रत्वविकल्पे प्राप्ते नित्यार्थं तदाश्रयणमित्यन्ये । यदि तुप्रगृह्र॑मित्यस्य स्थानिविशेषणत्वं स्वीकृत्यप्रगृह्रस्योञः ऊँ इत्यमादेशः॑ इति व्याख्यायते, तदा दीर्घानुनासिकोक्तिवत्प्रगृह्रश्चेत्युक्तिरपि स्वरूपकथनमेवेति बोध्यम् । ऊँ इत्यत्र यदि शाकल्यस्येति नापेक्ष्यते, तदा प्रगृह्रस्योञो नित्यमादेशः स्यात्ततश्चविति॑ऊँ अत् ॑ एते द्वे रूपे स्याताम्, तस्माच्छाकल्यग्रहणानुवृत्त्या आदेशविकल्पे सिद्धे त्रीणि रूपाणि सिध्यन्तीति कैयटस्तदाह — अयमादेषो वा स्यादिति । व(त्व)स्यासिद्धत्वादिति । अत एवेदं त्रिपाद्यां विधीयते । प्रकृतिभावमात्रबाधनार्थत्वे हिइको य॑णित्यनन्तरंमय उञो वे॑त्येवावक्ष्यत्, यणं चाऽन्ववर्तयिष्यत् ।
Padamanjari¶
ठिको यणचिऽ इत्यनेनैव सिद्धत्वान्नार्थोऽनेन ? - इत्याशङ्क्याह - प्रगृह्यत्वादिति । प्रगृह्यत्वं च’निपात एकाजनाङ्’ इति । एवमपि ठिको यणचिऽ इत्यस्यानन्तरम्’मय उञो वा’ इति वक्तव्यम्, एवं हि वग्रहण न कर्तव्यं भवति ? तत्राह - तस्यासिद्धत्वादिति । यदा त्वितिपर उञ् भवति मयश्च परः, तदा ठुञःऽ इति प्रकगृह्यसंज्ञाया विकल्पः, Äषादेशश्च; तत्र यदा प्रगृह्यसंज्ञा न भवति तदानेन वत्वं च प्राप्नोति यणादेशश्च, तत्रास्य वत्वस्यासिद्धत्वाद्यणादेशे सत्यनुस्वारोऽपि भवति - किंविति । प्रगृह्यसंज्ञाअपक्षे त्वनेन वा वत्वम् - किव्विति, किमु इति । Äषादेशस्यापि स्थानिवद्भावादनेन पक्षे वकारो भवति, स चान्तरतमत्वादनुनासिकः, तच्चतुर्थं रूपम् । Äषादेशस्यैव वत्वाभावपक्षे श्रवणम्, तत्पञ्चमं रूपम् ॥
Nyaas¶
मयः इति प्रत्याहारस्य ग्रहणम्, न तु अय वय मय इति धातोः। कुत एतत्? व्याप्तिन्यायात्। किमर्थमिदमुच्यते, यावता इको यणचि (6.1.77) इत्युञो वकारः सिद्ध एव, विकल्पार्थमिति चेत्? स्यादेतत् -यदि इको यणचि इति नित्यं स्यात्, तस्माद्विकल्पार्थं वचनमिति? एतच्च न; पदान्ताद्वा (6.1.76) इत्यतो वेत्यनुवर्त्तिष्यते, सा च व्यवस्थितविभाषा विज्ञायते। तेनोञो विकल्पेन यन्मवतीत्याह -प्रगृह्रत्वात् इत्यादि। प्रगृह्रत्वं पुनः उञः (1.1.17) इति प्रगृह्रसंज्ञाविधानात्। तस्मिन्? सति प्लुतप्रगृह्या अचि नित्यम् (6.1.125) इति प्रकृतिभावः प्राप्नोति, तस्मिन्? प्राप्ते वकारो विधीयते। एवमपि इको यणचि इत्यस्यानन्तरमुञो यण्? वकारो विधेयः एवं हि व इति न कर्तव्यं भवति; यणः प्रकृतत्वात्। वेति वचनं न कर्तव्यं भवति; पदान्ताद्वा (6.1.76) इत्यतो वाग्रहणं मण्डूकप्लुत्याऽनुवर्तते? इत्याह -असिद्धत्वात् इत्यादि। तत्र ह्रुच्यमाने वकारस्य [नास्ति -कांउ।पाठे] सिद्धत्वाद्धलि विधीयनानोऽनुस्वारः स्यात्, न चेष्यते, तस्मादिहैव क्रियते। इह क्रिममाणो मोऽनुस्वारो न भवति, वत्वस्यासिद्धत्वात्॥
Praudhamanorama¶
मयः परस्येति। परादिति तु प्राचः प्रमादः। ‘षष्ठीनिर्दिष्टस्य हि आदेशा उच्यन्ते’ इति भाष्यात् आदेशविधौ स्थानिनः षष्ठ्या एव न्याय्यत्वाच्च। असिद्धत्वादिति। अत एवेदं वत्वं त्रिपाद्यां विधीयते। प्रकृतिभावमात्रबाधनार्थत्वे हि इको यण्— (6.1.77) इत्यनन्तरं मय उञो वेत्येवावक्ष्यत्। यणं चान्वर्तयिष्यत्। इह मय उञ इतौ परे अष्टाविंशतिरूपाणि। तथा हि ‘उञः’ इति प्रगृह्यत्वे— ‘किमु इति’। वत्वपक्षे — ‘किम्विति’। ऊँ आदेशे - ‘किमूँ इति’। आदेशस्य स्थानिवत्वेन मय उञ— (8.3.33) इति प्रकृतिभावापवादभूते आन्तरतम्यादनुनासिके वकारे—‘किम्विंति’ । अनुनासिकाननुनासिकयोर्वकारयोः ‘ मयो यण’ इति द्वित्वस्य मकारस्य अनचि च (8.4.87) इति द्वित्वस्य च विकल्पेन वत्वपक्षे रूपाष्टकम्। तदभावे द्वयमिति दशकम्। प्रहगृह्यसञ्ज्ञाविरहपक्षे मय उञ— (8.4.64) इति वत्वस्यासिद्धत्वात् इको यण्- (6.1.77) इति यणेव, तस्य सिद्धत्वान्मोऽनुस्वारे वा पदान्तस्य (8.4.59) इति परसवर्णपक्षे अनुनासिकाननुनासिकवकारद्वयोपेतमेकादशं रूपम्। अनुनासिकस्य द्वित्वे हलो यमाम् (8.4.64) इति लोपस्य वैकल्पिकत्वादकरणे त्रिवकारं द्वादशं रूपम्। परसवर्णाभावपक्षे अनुस्वारस्य यर्त्वात्त्र्वापाक्षिके द्वित्वे द्वे। संकलनया चतुर्दश। इतिशब्देकारस्य अणोऽप्रगृह्रस्य (8.4.57) इत्यनुनासिकविकल्पा-दष्टाविंशतिरिति॥ इत्यच्सन्धिः॥
Prakriyasarvasvam¶
मयः परस्य उञो वा वत्वं स्यात् । शम्वस्तु वेदिः अस्य वत्वस्यासिद्धया न ‘मोनुस्वारः’ (८-३-२३) । वत्वाभावे ‘निपात एकाजनाङ्’ (१-१-१४) । इति प्रगृह्यत्वादसन्धिर्ह्यः । उञो लोके प्रयोगाभावादनयोः छान्दसत्वम् ।
Sarala¶
ङमो ह्रस्वादचि ङमुण्नित्यम् (८.३.३२) इत्यतोऽचीत्यनुवर्तते । अत आह - अचीति । इको यणचि (६.१.७७) इत्युत्तरं मय उञो वो वा (८.३.३३) इति सूत्रकरणेनापि प्रकृतिभावलाभः, त्रिपाद्यां तत्सूत्रकरणन्तु वत्वस्याऽसिद्धत्वादनुस्वारवारणायेत्याशयेनोक्तं - किम्वुक्तमिति ॥
Sudha¶
किम्वुक्तमिति । “किम् उ उक्तम्” इत्यवस्थायाम् मय उञो वो वा (8.3.33) इति सूत्रेण मयः परस्य उञः (‘उ’ इत्यस्य) ‘व्’ आदेशो भवति; अचि (‘उक्तम्’) घटकोकारे परे, तेन “किम् व् उक्तम्” इति जाते ‘अज्झिनं परेण संयोज्यम्’, “किम्वुक्तम्” इति निष्पन्नम् । व् आदेशो विकल्पेन भवति, तदभावे च निपात एकाजनाङ् (1.1.14) इत्यनेन प्रगृह्यसंज्ञायां प्रकृतिभावे च “किमु उक्तम्” इति जायते ॥
Sutra Prayogas¶
परिणिंसकः (भट्टिकाव्यम्): वा निंस - निक्ष - निन्दाम् इति णत्वम् ।