83021: उञि च पदे

Padacheda: उञि | S | 7 | 1 |

च | S | 0 | 0 |

पदे | S | 7 | 1 |

Sutrartha

अकारात् परस्य पदान्तयकारवकारयोः संहितायाम् उञ्-पदे परे लोपः भवति ।

चादयोऽसत्वे (1.4.57) अस्मिन् सूत्रे निर्दिष्टे चादिगणे “उञ्” इति कश्चन निपातः विद्यते ।अस्य शब्दस्य कोऽपि विशिष्टः अर्थः नास्ति, अयं शब्दः सामान्यरूपेण सम्बोधनस्य अर्थे कोपं / वैमत्यं दर्शयितुम् प्रयुज्यते । उञ् is just a filler word in the language, typically used like ‘oh no’, when one wants to except some kind of anger or disagreement. अस्मिन् शब्दे परे अकारात् परस्य पदान्तयकारस्य पदान्तवकारस्य च संहितायाम् लोपः शाकल्यस्य (8.3.19) इत्यनेन प्राप्तं वैकल्पिकं लोपं बाधित्वा प्रकृतसूत्रेण नित्यं लोपः भवति । यथा — 1. तद्-शब्दस्य प्रथमा-एकवचनस्य रूपे परे ‘उञ्’ इति शब्दः विद्यते चेत् प्रकृतसूत्रस्य प्रयोगेण रूपसिद्धिः भवति —

तद् + सुँ + उञ् + एकाग्नि
→ तद् स् उ एकाग्नि [इत्संज्ञालोपः]
→ सद् स् उ एकाग्नि [**तदो सः सावनन्त्ययोः** (7.2.106) इति तकारस्य सकारः]
→ स अ स्  उ एकाग्नि [**त्यदादीनामः** (7.2.102) इति दकारस्य अकारः]
→ स स् उ एकाग्नि [**अतो गुणे** (6.1.97) इति पररूपः अकारः]
→ स रुँ उ एकाग्नि [**ससजुषोः रुः** (8.2.66) इति रुँत्वम्]
→ स य् उ एकाग्नि [**भोभगोअघोअपूर्वस्य योऽशि** (8.3.17) इति यकारः]
→ स उ एकाग्नि [**लोपः शाकल्यस्य** (8.3.19) इत्यनेन विकल्पेन यकारलोपे प्राप्ते **उञि च पदे** (8.3.21) इति  नित्यम् यकारलोपः]
  1. “वने उ अस्मिन्” इत्यत्र प्रकृतसूत्रस्य प्रयोगेण नित्यम् यकारलोपः क्रियते —

वने उ अस्मिन्
→ वनय् उ अस्मिन् [**एचोऽयवायावः** (6.1.78) इति अवादेशः]
→ वन उ अस्मिन् [**लोपः शाकल्यस्य** (8.3.19) इत्यनेन विकल्पेन यकारलोपे प्राप्ते **उञि च पदे** (8.3.21) इति  नित्यम् यकारलोपः]
  1. “साधो उ अहम्” इत्यत्र प्रकृतसूत्रस्य प्रयोगेण नित्यम् वकारलोपः क्रियते —

साधो उ अहम्
→ साधव् उ अहम् [**एचोऽयवायावः** (6.1.78) इति अवादेशः]
→ साध उ अहम् [**लोपः शाकल्यस्य** (8.3.19) इत्यनेन विकल्पेन वकारलोपे प्राप्ते **उञि च पदे** (8.3.21) इति  नित्यम् वकारलोपः]

लक्षणसिद्धस्य उञ्-शब्दस्य विषये सूत्रस्य अप्राप्तिः

लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् अनया परिभाषया प्रकृतसूत्रेण केवलम् प्रतिपदोक्त-उञ्-शब्दस्यैव ग्रहणं क्रियते, न हि सूत्रप्रयोगेण सिद्धस्य उञ्-शब्दस्य । अतएव, वेञ्-धातोः वकारस्य क्त-प्रत्यये परे वचिस्वपियजादीनां किति (6.1.15) इत्यनेन सम्प्रसारणे कृते सिद्धः उकारः यद्यपि लुप्त-ञकारेण सह ‘उञ्’ इति शब्दरूपम् स्वीकरोति, तथापि तस्य प्रकृतसूत्रेण ग्रहणं नैव भवति; अतश्च “तन्त्र + सुँ + उतम्” इत्यत्र ससजुषोः रुः (8.2.66) इति रुँत्वे कृते, भोभगोअघोअपूर्वस्य योऽशि (8.3.17) इति यत्वे कृते लोपः शाकल्यस्य (8.3.19) इत्यनेन केवलम् विकल्पेन यकारलोपः भवति, प्रकृतसूत्रेण नित्यम् लोपः न विधीयते । अतः “तन्त्रयुतम्” तथा च “तन्त्र उतम्” एते द्वे अपि रूपे सिद्ध्यतः ।

सूत्रे विद्यमानः ‘पदे’ इति शब्दः व्यर्थः

अस्मिन् सूत्रे निर्दिष्टः निपातसंज्ञकः ‘उञ्’ शब्दः पदसंज्ञकः एव अस्ति, अतः तस्य निर्देशार्थम् पुनः ‘पदे’ इति शब्दः अस्मिन् सूत्रे न आवश्यकः । अपि च, इदं सूत्रम् स्वयमेव पदाधिकारे विद्यते, अतः अत्र पुनः ‘पदे’ इति ग्रहणम् अनावश्यकम् एव अस्ति । अयमेव विषयः तत्त्वबोधिन्याम् ‘वस्तुतस्तु उत्तरत्र अपि न उपयुज्यते, पदस्य इत्यनुवृत्त्या एव निर्वाहात्’ इति निर्देशेन स्पष्टीकृतः अस्ति । अस्य सूत्रस्य भाष्ये तु उत्तरार्थं तर्हि पदग्रहणं कर्तव्यम् इति निर्देशः कृतः अस्ति । प्रकृतसूत्रे विद्यमानः “पदे” इति शब्दः अग्रे ङमो ह्रस्वादचि ङमुण्नित्यम् (8.3.32) इत्यस्मिन् सूत्रे उपयुज्यते, यतः तत्र हस्व-अकारात् परेभ्यः ङकारणकारनकारेभ्यः परस्य पदादि-अच्-वर्णस्य एव ङमुडागमः इष्यते । अतएव “दण्डिन्” इत्यत्र ‘दण्डिन्’शब्दस्य ह्रस्व-इकारात् अनन्तरम् विद्यमानः यः नकारः, तस्मात् परस्य आकारस्य (अपदादित्वात्) नकारागमः न भवति । यद्यपि अयं दोषः ङमो ह्रस्वादचि ङमुण्नित्यम् (8.3.32) इत्यस्मिन् सूत्रे “पदस्य” इत्यधिकारग्रहणेन, तथा च पदान्तङकारणकारनकारेभ्यः परस्य अच्-वर्णस्य आगमः भवति इति उक्त्वा निवारयितुम् शक्यते; तथापि तदर्थम् “पदस्य” इति शब्दस्य “पदात्” इति विभक्तिपरिवर्तनं आवश्यकं वर्तते, तादृशम् च न करणीयम् — इति नागेशेन प्रदीपोद्द्योते निर्दिष्टम् अस्ति । जिज्ञासवः अस्मिन् विषये अधिकं ज्ञातुम् ङमो ह्रस्वादचि ङमुण्नित्यम् (8.3.32) इति सूत्रस्य सूत्रार्थः द्रष्टव्यः । वस्तुतस्तु, भुवश्च महाव्याहृतेः (8.2.71) अस्मिन् सूत्रे “महाव्याहृतेः” इति शब्दस्य ग्रहणेन लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति परिभाषा पाणिनिस्वीकृता अस्ति वा इति प्रश्नः जायते । अतः अस्याः परिभाषायाः अनुपस्थितौ, अप्रयोगे वा अपि “वेञ्” धातोः सम्प्रसारणे कृते प्राप्तस्य “उञ्” शब्दस्य विषये इदं सूत्रम् नैव प्रवर्तेत इति स्पष्टीकर्तुम् पाणिनिना अस्मिन् सूत्रे “पदे” इति शब्दः स्थापितः स्यात् इति युक्ततरम् प्रतिभाति </b> ।

Sutrartha (English)

A पदान्तयकार and a पदान्तवकार coming after an अकार is removed when followed by the पद उञ् in the context of संहिता.

Vasu English Summary

व् and य् (preceded by अ or आ and the end of a पद) and followed by उ , when it is a word, are elided necessarily.

Vasu English Translation

व् and य् (preceded by अ or आ and the end of a पद) and followed by उ , when it is a word, are elided necessarily. The particle उ is a full pada or word. That Particle is meant here by the word उञ्, and not the उञ्, which is a root obtained by the samprasarana of वेञ् ॥ Thus स उ एकविंशतिः, स उ एकाग्निः ॥

Why do we use the word पदे “उ when it is a pada”? So that the rule may not apply to उञ् the form assumed by वेञ् by samprasarana as तन्त्रे उतं = तन्त्रयुतम् ॥ Objection:- उञ् could never have meant the form assumed by वेञ्, for the samprasarana of वेञ् is उ, the ञ् is merely indicatory. Moreover the maxim of lakshana-pratipadokta &c, will prevent the inclusion of this उञ् resulting from vocalisation, when there is a separate Particle उञ् ॥

Answer:- The word पदे is used here for the sake of the subsequent sutras like (8.3.32). So that ङ्मुट् may come before a word beginning with a vowel, and not before a vowel which is an affix. Thus there is no double in न् in परमदण्डिना ॥ This is also a nitya rule, and not optional. Had it been optional, there would have been no necessity of this aphorism, because (8.3.19), would have been enough.

Bhashya

उञ्ञि च पदे पद इति किमर्थम्?॥ तन्त्रे उतं, तन्त्रयुतं, तन्त्र उतम्॥ ॥ पद इति शक्यमवक्तुम्(2)॥ पदे इति शक्यमवक्तुम्(3)। कस्मान्न भवति-तन्त्रे उक्तं तन्त्रयुत तन्त्र उतमिति(3)?॥ लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति॥ उत्तरार्थं तर्हि पदग्रहणं कर्तव्यं-ङमो ह्रस्वादचि ङमुण्नित्यमित्यपदे मा भूत्-दण्डिना शकटिना॥ उञ्ञि च पदे॥

Kashika

अवर्णपूर्वयोर्व्योः पदान्तयोर्लोपो भवत्युञि च पदे परतः। स॑ उ॒ एकविं॒श॑व॒र्तनिः (मै०सं० २.७.२०)। स उ एकाग्निः। पद इति किम्? तन्त्र उतम्, तन्त्रयुतम्। वेञः संप्रसारणे कृत उञिति भूतपूर्वण ञकारेण शक्यते प्रतिपत्तुमिति। अथोञित्येवंरूपो निपातः प्रतिपदोक्तोऽस्ति, तदा लाक्षणिकत्वाद् वेञादेशस्य ग्रहणमिह नास्ति, उत्तरार्थं पदग्रहणं क्रियते॥

Siddhanta Kaumudi

अवर्णपूर्वयोः पदान्तयोर्यवयोर्लोप उञि पदे । स उ एकाग्निः । पदे किम् । तन्त्रयुतम् । वेञः संप्रसारणे रूपम् । यदि तु प्रतिपदोक्तो निपात उञिति ग्रहीष्यते तर्ह्युत्तरार्थं पदग्रहणम् ॥

Balamanorama

उञि च पदे - उञि च पदे । अपूर्वस्येति, पदस्येति, व्योरिति लोप इति चानुवर्तते । तदाह — अवर्णेति । स उ एकाग्निरिति । ‘उ’ इति निपातः । सस् उ इति स्थिते सस्य रुः, भोभगो इत्यपूर्वत्वाद्यत्वम् । लोपश्शाकल्यस्येति विकल्पनिवृत्त्यर्थमिदम् । वकारोदाहरणं तुअसा उ एकाग्नि॑रिति वृत्तिः । पदे किमिति । उञः पदत्वाऽव्यभिचारात्पदे इति तद्विशेषणस्य किं प्रयोजनमिति प्रश्नः । तन्त्रयुतमिति । तन्त्रे-उतमिति विग्रहः । अयादेशः । अत्र यकारस्य लोपनिवृत्त्यर्थं पदग्रहणमिति भावः । नन्वत्र उञ्परकत्वाऽभावादेव लोपनिवृत्तिसम्भवात्पदग्रहणं व्यर्थमेवेत्यत आह — वेञ, इति । ‘वेञ् तन्तुसन्ताने’ इत्यतः क्तप्रत्यये, ‘वचिस्वपियजादीनाम्’ इति वकारस्य संप्रसारणे उकारे, पूर्वरूपे, उतमिति रूपम् । अत्र उञ्परकत्वे ।ञपि तस्य उञः पदत्वाऽभावात्तस्मिन् परे यस्य लोपो न भवतीत्यर्थः । ननु स उ एकाग्निरित्यत्र उञ् प्रतिपदोक्तः, चादौ पठितत्वात् । उतमित्यत्र तु उञ् लाक्षणिकः , संप्रसारणादिविधिनिष्पन्नत्वात् । ततश्चलक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहण॑मिति परिभाषया चादिपठितस्यैव उञोऽत्र ग्रहणं भविष्यति । नतु उतमित्यत्र उञोऽपि । अतः पदग्रहणं व्यर्थमेवेत्यत आह-यदीति । उत्ररार्थमिति । ङमो ह्रस्वादचीत्यर्थमित्यर्थः । एतच्चात्रैव भाष्ये स्पष्टम् ।

Tattvabodhini

उञि च पदे - उत्तरार्थं पदग्रहणमिति । वस्तुतस्तूत्तरत्रापि नोपयुज्यते,पदस्ये॑त्यनुवृत्त्यैव निर्वाहात् ।उञि च पदे॑ इत्यतःपदे॑ इत्यनुवर्त्त्यअजादेः पदस्ये॑ति व्याख्यानात् ।परमदण्डिनावित्यादौ ङमुण्ने॑ति प्राचो व्याख्यानस्यङमो ह्स्वादची॑ति सूत्रे मनोरमायां निरस्तत्वाच्च । ननुहलि सर्वेषा॑मित्यत्रपदे॑ग्रहणानुवृत्तौहलादौ पदे॑ इति व्याख्यानलाभाद्वृक्षव्भ्यां वृक्षव्भिरित्यत्र वस्य नित्यं लोपो न भवति, किं तुलोपः शाक्ल्यस्ये॑ति वैकल्पिक एव लोपैत्यस्तिपदे॑-ग्रहणस्य प्रयोजनमिति चेन्मैवं; हलि सर्वेषा॑मित्यत्र वस्याऽननुवर्तितत्वात् । किंचमाभ्यां॑माभि॑रित्यत्र भ्यामादौ परतो यस्य विकल्पेनैव भवन्मते लोपः स्यात्, तत्रहलि सर्वेषा॑मित्यस्याऽप्रवृत्तेः । न चेष्टापत्तिः, भाष्यकारैर्दण्डिनेत्यत्र ङमुङ्वारणायङमो ह्रस्वादची॑त्यत्रानुवृत्त्यर्थं पदग्रहणमित्युक्तत्वात् । न च तदेव प्रयोजनमस्त्विति वाच्यं,ह्रस्वात्परो यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो नित्यं ङमु॑डिति व्याख्यानेनदण्डिने॑त्यत्र प्रसक्तयभावात् ।

Padamanjari

भूतपूर्वेण ञकारेणेति । भूलोदाहरणेऽपि भूतपूर्वेणैव ञकारेणोञिति प्रतिपतिः; अनुबन्धस्य प्रयोगेऽसमवायात् । उतरार्थमिति ।’ङ्मो ह्रस्वादच्छि ङ्मुण्नित्यम्’ इत्येष विधिरजादौ पदे यथा स्यात्, इद मा भूत् - दण्डिनेति । नैतदस्ति प्रयोजनम्;’पदस्य’ इति वर्तते । इह तर्हि परमदण्डिना, अत्र हि सुबन्तस्य समास इति पदत्वमस्ति ? नास्ति; उक्तं हि ठुतरपदत्वे चापदादिविधौऽ इति । तदेतत्पदग्रहणं तिष्ठतु तावत् । अयमपि नित्यार्थो योगः ॥

Nyaas

लोपः शाकल्यस्य (8.3.19) इति सिद्धे नियमार्थम् -उञि पद एव, नान्यत्रेति। अवर्ञपूर्वयोः इति। ओकारपूर्वस्य वकारस्यासम्भवाद्यकारस्य पूर्वेणैव सिद्धत्वादवर्णपूर्वयोरेवायं लोपो विज्ञायत इत्यवर्णपूर्वयोरित्युक्तम्। स उ इति। तच्छब्त्? सुः, त्यदाद्यत्वम्, तदोः सः सावनन्त्ययोः (7.2.106) इति सः, रुत्वाम्, तस्य यकारः, तस्यानेन लोपः। तन्त्रयुतम् इति। तन्त्रे इत्येतस्य सप्तम्यन्तस्य उतशब्दे निष्ठान्ते परतोऽयादेशः। ननु च उञि [उञ् -कांउ।पाठः] इत्युच्यते, न चायमुञ्, ञकाराभावात्? तत्किमेतन्निवृत्त्यर्थेन पदग्रहणेन? इत्यत आह -वेञः सम्प्रसारणे इत्यादि। सम्प्रसारणं तु वचिस्वपि (6.1.15) इत्यादिना। एवं तावदुञो निपातस्य प्रतिपदोक्तस्यास्तित्वमनपेक्ष्य पदग्रहणप्रयोजनं दर्शितम्। यदा तु तस्यास्तित्वमपेक्ष्यते, तदा प्रयोजनान्तरं दर्शयितुमाह -उत्तरार्थम् इति। ङमो ह्रस्वादचि ङमुण्? नित्यम् (8.3.32) इत्येष विधिरजादौ पदे यथा स्यात्, इह मा भूत् -परमदण्डिनेति। यद्युत्तरार्थम्, तत्रैव कस्मान्न कृतम्, कः पुनरेवं सिति लाभः? स्वरितत्वं न प्रतिज्ञायत इत्येष लाभः। इहापि क्रियमाणे लक्षणप्रतिपदोक्तपरिभाषा (व्या।प।3) नाश्रयणीया भवतीति समानम्। चकारोऽवर्णपूर्वस्यानुकर्वणार्थः; क्षन्यथा ह्रोतोऽनन्तरत्वात्? ततः परस्य यकारस्य लोपो विज्ञायेत? नैतदस्ति; एवं हि विज्ञायमाने निरर्थकमेवेदं सूत्रं स्यात्, पूर्वेणैव सिद्धत्वात्। नानर्थकम्, नियमार्थत्वात् -उङि पद एव यथा स्यात् -भो उ पदश्यतीति। असति ह्रस्मिन्नियमार्थे भो युतम्, भगो युतमित्यत्रापि नित्यो लोपः स्यात्। यदि तु निपातस्येदमुञो ग्रहणम्, तदा नियमार्थस्य व्यावत्र्यत्वं नास्तीति पूर्वापेक्षया चकारः समुच्चयार्थो द्रष्टवप्यः।उञीति ञकारोऽसन्देहार्थः। असति हि तस्मिन्? सप्तम्या औ इति निर्देशः स्यात्। ततश्च किमयमुकारस्य निर्देशः? उत्तेकारस्येति? सन्देहः स्यात्। ननु च क्रियमाणेऽपि तस्मिन्? किमुञीति निपातस्य ग्रहणम्? आहोस्विदुकारादारभ्य झभञ्` (मा।सू।8) इति ञकारस्येति सन्देहः स्यादेव? नैवम्; इदं तावद्भवान्? प्रष्टव्यः -किमुञिति प्रत्याहरे येऽन्तर्गता हलस्तेष्वेव नित्यो लोपः? उतान्येष्वपीति? किमत्र वक्तव्यम् -अन्येष्वपि इति? तथा हि वक्ष्यति -हलि सर्वेषाम् (8.3.22) इति। एवं तर्हि यद्यत्र प्रत्याहारग्रहणभिमतं स्यात्? एऔच् (मा।सू।4) इति चकारेण प्रत्याहरं गृह्णीयात् -उचि च पद इति। हल्यपि हलि सर्वेषाम् इत्यनेन भविष्यतीति। तत्राप्ययमर्थः -सन्देहः परिह्मतो भवति। अथ वा यद्यत्रोकारादीनामुञा प्रगत्याहरग्रहणभिमतं स्याद्धलीति लकारेण प्रत्याहरं गृहीत्वैकमेवेमं योगं कुर्यात् -उलि च पदे सर्वेषाम् इति। न हि योगविभागस्य किञ्चित्? प्रयोजनं पश्यामः। तस्मान्नात्रोकारादीनां प्रत्याहारग्रहणमिष्टम्। ततश्चोञो निपातस्यैव ग्रहणमित्यसन्दिग्धमेतत्॥

Prakriyasarvasvam

पदरूप उञि परे अवर्णपूर्वयोः पदान्तयोर्य्वोः नित्यं लोपः स्यात् । उभा उ नूनम् । अन्तेतवा उ । अत्रावायादेशयोः ‘लोपः शाकल्यस्य’ (८-३-१९) इति व्यलोपविकल्पे प्राप्ते नित्यमुक्तिः ।

Sutra Prayogas

  • अभिसोष्यनतं (भट्टिकाव्यम्): सुनोतेः स्यसनोः इति षत्वम्।