82062: क्विन्प्रत्ययस्य कुः

Padacheda: क्विन्प्रत्ययस्य | S | 6 | 1 |

कुः | S | 1 | 1 |

Sutrartha

क्विन्प्रत्ययान्तशब्दस्य पदान्ते कवर्गादेशः भवति ।

ये शब्दाः क्विन्-प्रत्ययान्ताः सन्ति, तेषामन्तिमवर्णस्य पदान्ते कवर्गादेशः भवति । यथा - ‘स्पृश्’ अयं धातुः सुबन्ते उपपदे स्पृशोऽनुदके क्विन् (3.2.58) इत्यनेन क्विन्-प्रत्ययं प्राप्नोति । क्विन्-अयं सर्वापहारी प्रत्ययः, अतः घृतस्पृश् + क्विन् → घृतस्पृश् इत्येव प्रातिपदिकं सिद्ध्यति । अत्र तृतीयाद्विवचनस्य भ्याम्-प्रत्यये परे ‘घृतस्पृश् + भ्याम्’ इत्यत्र अङ्गस्य पदसंज्ञायां सत्याम् व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (8.2.36) इत्यनेन षत्वं भवति । अग्रे षकारस्य झलां जशोऽन्ते (8.2.39) इति जश्त्वे डकारे कृते तस्य वर्तमानसूत्रेण कवर्गादेशः गकारः विधीयते, अतः ‘घृतस्पृग्भ्याम्’ इति रूपं सिद्ध्यति ।

शास्त्रविषयः - अस्मिन् सूत्रे प्रयुक्तः ‘क्विन्प्रत्यय’ इति शब्दः बहुव्रीहिसमासघटितः अस्ति, अतः — क्विन्-प्रत्ययः यस्मात् सम्भवति तस्य शब्दस्य (अन्यस्मिन् प्रत्यये परे अपि) पदान्ते कवर्गादेशः भवति — इति अर्थः अत्र सिद्ध्यति इति अत्र व्याख्यानेषु स्पष्टीक्रियते । अतः केवलात् (अनुपपदात्) स्पृश्-धातोः क्विप्-प्रत्यये कृते अपि प्रकृतसूत्रस्य प्रयोगः अवश्यमेव भवति । यथा, स्पृश् + क्विप् + भ्याम् → स्पृग्भ्याम् ।

Sutrartha (English)

The word ending in a क्विन्-प्रत्यय gets a कवर्गादेश at पदान्त ।

Vasu English Summary

A अङ्ग (stem) formed with the affix क्विन् under स्पृशोऽनुदके क्विन् (3.2.58) etc. substitutes, at the end of a word, a guttural for the final consonant.

Vasu English Translation

A अङ्ग (stem) formed with the affix क्विन् under स्पृशोऽनुदके क्विन् (3.2.58) etc. substitutes, at the end of a word, a guttural for the final consonant. The word पदस्य is understood here. The word क्विन्प्रत्यय is a Bahuvrihi meaning ‘that stem which has kvin as its affix.’ For the final consonant of such a stem, a guttural is substituted. As घृतस्पृक् (3.2.58), हलस्पृक्, मन्त्रस्पृक् ॥

The sutra could have been क्विनः कुः; the word प्रत्यय is used in the sutra to show the Bahuvrihi compound; so that the व् of क्विन् may not be changed to a guttural. Moreover this Bahuvrihi also indicates that the roots which take the क्विन् affix, change their final to a guttural before other affixes than क्विन् ॥ Thus the roots सृज् and दृश् take क्विन् to form स्रक् and दृक् nouns by (3.2.59), (3.2.60). The guttural change will take place even when these roots are declined as verbs: as, मानो अस्राक् मानो अद्राक्, where अस्राक् and अद्राक् are the Aorist of सृज् and दृश् ॥ The augment अट् is not elided, though the मा is added (6.4.75) as a Vedic diversity. The ईट् augment also does not take place as a Vedic irregularity. The augment अम् is added by (6.1.58), and the vowel is lengthened by Vriddhi by (7.2.3). Thus अट् + सृज् + सिच् + तिप् = अस्रज् (6.1.58) = अस्राक् (7.2.3) and (8.2.62). Otherwise it would have been ष by (8.2.36). So also in दृग्भ्यां, दृग्भिः, the श् is changed to a guttural, though the noun दृश् is a क्विप् formed noun and not formed by क्विन्; and this is so, because the verb दृश् does take क्विन् also.

Objection:- If this be so, there ought to be guttural change in रज्जुसृड्भ्यां from the root सृज् with क्विप्? Answer:- The guttural change however in not desired here.

In gutturalisation, ज is changed to ग, and श to ख, which both become क by वावसाने (8.4.56)

Bhashya

क्विन्प्रत्ययस्य कुः प्रत्ययग्रहणं किमर्थं न क्विनः कुरित्येवोच्येत?॥ क्विनः कुरितीयत्युच्यमाने वकारस्यैव तु(1) कुत्वं प्रसज्येत॥ ननु च लोपे कृते न भविष्यति॥ अनवकाशं कुत्वं लोपं बाधेत(1)॥ सावकाशं कुत्वम्॥ कोऽवकाशः?॥ अनन्त्यः॥ कथं पुनः सत्यन्त्येऽनन्त्यस्य(2) कुत्वं स्यात्?॥ आचार्यप्रवृत्तिर्ज्ञापयति नान्त्यस्य कुत्वं भवतीति यदयं क्विनः कुरिति कवर्गनिर्देशं करोति, इतरथा हि तद्गुणमेवाऽयं निर्दिशेत्॥ इदं तर्हि प्रयोजनं-येभ्यः क्विन्प्रत्ययो विधीयते तेषामन्यप्रत्ययान्तानामपि पदान्ते(3) कुत्वं यथा स्यात्,-मानो अस्राक्। मानो अद्राक्॥ क्विनः कुरिति वक्तव्ये(4) प्रत्ययग्रहणं कृतम्। क्विन्प्रत्ययस्य सर्वत्र पदान्ते कुत्वमिष्यते॥1॥

Kashika

पदस्येति वर्तते। क्विन्प्रत्ययस्य सर्वत्र पदान्ते कुत्वमिष्यते। क्विन् प्रत्ययो यस्माद् धातोः स क्विन्प्रत्ययः, तस्य पदस्यालोऽन्त्यस्य कवर्गादेशो भवति। स्पृशोऽनुदके क्विन् (३.२.५८) — घृतस्पृक् । हलस्पृक्। मन्त्रस्पृक्। क्विनः कुरिति वक्तव्ये प्रत्ययग्रहणं कृतं बहुव्रीहिविज्ञानार्थम्, क्विन् प्रत्ययो यस्माद् विहितस्तस्मादन्यस्मिन्नपि प्रत्यये कुत्वं यथा स्यात्। मा नो अस्राक्। मा नो अद्राक् । सृजिदृशिभ्यां हि क्विन् विहितः,तयोर्लुङि कुत्वमेतत्। माङ्योगेऽपि छान्दसत्वादडागमः। ईट् च न भवति बहुलं छन्दसि (७.३.९७) इति। तथा दृग्भ्याम्, दृग्भिरिति क्विबन्तस्यापि दृशेः कुत्वं भवति। एवं च सति रज्जुसृड्भ्यामित्यत्रापि कुत्वं प्राप्नोति। अथ तु नेष्यते, प्रतिविधानं कर्तव्यमिति॥

Siddhanta Kaumudi

क्विन्प्रत्ययो यस्मात्तस्य कवर्गोऽन्तादेशः स्यात्पदान्ते । नस्य कुत्वेनाऽनुनासिको ङकारः । युङ् । नश्चापदान्तस्येति नुमोऽनुस्वारः । परसवर्णः । तस्याऽसिद्धत्वात् चोः कुः (SK378) इति कुत्वं न । युञ्जौ । युञ्जः । युञ्जम् । युञ्जौ । युजः । युग्भ्यामित्यादि । असमासे किम् ॥

Laghu Siddhanta Kaumudi

क्विन्प्रत्ययो यस्मात्तस्य कवर्गोऽन्तादेशः पदान्ते। अस्यासिद्धत्वाच्चोः कुरिति कुत्वम्। ऋत्विक्, ऋत्विग्। ऋत्विजौ।ऋत्विग्भ्याम्॥

Balamanorama

क्विन्प्रत्ययस्य कुः - क्विन्प्रत्ययस्य कुः ।पदस्ये॑त्यधिकृतम् । ‘झलाञ्जशोऽन्ते’ इत्यतेऽन्त इत्यनुवर्तते । क्विन् प्रत्ययो यस्मात् स क्विन्प्रत्ययः, तस्येति बहुव्रीहिः । क्विन्नन्तस्येति तु नार्थः, तथासतिक्विनः कु॑रित्येव ब्राऊयात्, प्रत्ययग्रहणपरिभाषाया क्विन्नन्तस्येत्यर्थलाभात् । तदाह — क्विन्प्रत्ययो यस्मादित्यादिना । बहुव्रीहेः प्रयोजनं तु घृतस्पृश्शब्दानिरूपणे मूल एव वक्ष्यते । कुरिति कवर्गो गृह्रते, उदित्त्वात् । अणिदित्सूत्रे ‘अप्रत्यय’ इत्येतदणैव संबध्यते, नतूदिता, उदित्करणसामर्थ्यात् । तेन कुरिति विधायमानोपि सवर्णग्राहकः । ननु नकारस्य कुत्वे कखगघङा पञ्चापि पर्यायेण प्राप्नुयुः, स्थानत आन्तर्यस्य पञ्चस्वप्यभावात्, स्पृष्टप्रयत्नत आन्तर्यस्य पञ्चस्वप्यविशिष्टत्वात्, घोषसंवारनादवता अल्पप्राणवता च नकारेण गकारस्यापि आन्तर्यसत्त्वात् । अत आह — नस्येति । नासिकास्थानत आन्तर्यादिति भावः । युङिति । ‘युजिर्योगे ।’ रूधादिः । युनक्तीति युङ् । नुमि कृते तदीयनकारस्य ‘चोः कुः’ इति कुत्वं न प्रानोतीतिक्वन्प्रत्ययस्ये॑त्यारम्भः । अथ औजसादिषु विशेषमाह — नश्चेति । नुम इति । ‘युजेरसमासे’ इति विहितस्ये॑ति शेषः । परसवर्ण इति ।अनुस्वारस्य ययी॑ति परसवर्णो ञकारो, नासिकास्तथानत आन्तर्यादिति भावः । तेन युञ्जावित्यादि सिद्धम् । नन्विह ञकारस्य झलि जकारे परेचोः कु॑रिति कुत्वं कुतो न स्यादित्यात आह — तस्येति । परसवर्णस्येत्यर्थः । युग्भ्यामिति । ‘स्वादिषु’ इति पदत्वाज्जकारस्य गकार इति भावः ।

Tattvabodhini

क्विन्प्रत्ययस्य कुः - क्विन्प्रत्ययस्य । क्विनः कु ॑ रित्युक्तेऽपि प्रत्ययग्रहणे तदन्तग्रहणात्क्किन्नन्त्स्य ग्रहणे सिद्धे प्रत्ययग्रहणं बहुव्रीहिविज्ञानार्थमित्याशयेन व्याचष्टे — क्विन्प्रत्ययो यस्मादितिष.बहुव्रीह्राश्रयणफलं तुस्पृ॑गित्यादि स्फुटीबविष्यति ।

Padamanjari

क्विनः कुरिति वक्तव्ये इति । न हि क्विन्प्रत्ययत्वं व्यभिचरतीति भावः । न चैवमुच्यमाने’वेरपृक्तस्य’ इति लोपं बाधित्वा क्विन एव वकारस्य कुत्वं घकारः प्राप्नोतीति शङ्कनीयम्; तथा क्विन इति प्रत्यग्रहणपरिभाषया तदन्तस्य ग्रहणे सति क्विनो वकारस्य लोपे कर्तव्ये सति कुत्वस्यासिद्धत्वात् राल्लोपऽ एव भवति, तस्मिंश्च सति पश्चाद्भवत्कुत्वं परिशिष्टस्य धातोरेव भविष्यति । स्यादेतत् - क्विबादिषु सावकाशं लोपं विशेषविहितं कुत्वमपवादो वचनप्रामाण्यादिति न्यायेन बाधेतेति ? तन्न; एवं हि वर्गग्रहणमनर्थकंस्यात् । अनेकस्य स्थानिनोऽनेकादेशप्रतिपतये हि वर्गग्रहणम्, वकारस्यैव तु स्थानित्वे घकार एव निर्दिश्येत,’वर्गाणां तृतीयचतुर्थाः’ इति शिक्षायां वकारघकारयोर्गुणसाम्यप्रतिपादनात् । तस्मात्’क्विनः कुः’ इत्येव वक्तव्यम् । बहुव्रीहिविज्ञानार्थमिति । बहुव्रीहिविज्ञानार्थमिति । बहुव्रीहिश्चोपलक्षणेऽपि भवति, यथा - चित्रगुरानीयतामिति गवामभावेऽपि चित्रगवीभिरुपलक्षितस्यानयनं भवति, तथेहाप्यसत्यपि क्विपि क्विनोपलक्षितस्य धातोः कार्यं भवतीति । अस्राग्, अद्रागिति । सृजिदृशिभ्याम्’माङ् लुङ्’ , इतिप्, च्लेः सिच्, हल्ङ्यादिलोपः,’वदव्रज’ इति वृद्धिः । अत्र व्रश्चादिषत्वे प्राप्ते कुत्वम् - जस्य गः, शस्य खः, तस्यापि जश्त्वम्,’वावसाने’ इति चर्त्वम् - ककारः ।’पूर्वत्रासिद्धम्’ इत्यसिद्धत्वं षत्वे कुत्वस्य नास्ति; प्रत्ययग्रहणसामर्थ्यात् षत्वापवादत्वात् कुत्वस्य । क्विबन्तस्यापीति । द्रष्टेत्यादौ तु न भवति; अपदान्तत्वात् । एवं च सतीत्यादि । तद्वदेव । दृग्भ्यामिति कुत्वमुदाहृतम् । प्रतिविधातव्यमिति । प्रतिविधानं कर्तव्यमिति । प्रतिविधानं वचनमेव ॥

Nyaas

घृतस्पृक् इति। अत्र शकारस्य विवृत्तकरणस्य आआसानुप्रदानस्याघोषस्य तादृश एव खकारः, तस्य जश्त्वम् -गकारः। गकारस्यापि चर्त्वम् -ककारः।अथ प्रत्ययग्रहणं किमर्थम्, न क्विन इत्येवोच्येत, न हि क्विन्? प्रत्ययत्वं व्यभिचरति। एवमुच्यमाने लोपापवादः क्विन एव कुत्वं स्यादित्येतच्च नाशङ्कनीयम्, तथा हि -क्विन्निति प्रत्ययग्रहणं यत्र प्रत्ययग्रहणं प्रत्ययग्रहणपरिभाषया (भो।प।सू।7) क्विन्नन्त उपस्थापिते क्विनो लोपे कर्तव्ये कुत्वस्यासिद्धत्वात्? पूर्वं लोपेनैव भवितव्यम्। तस्मिन्? सति पश्चाद्भवत्कुत्वं परिशिष्टस्य धातोरेव भविष्यिति? इत्यत आह -क्विनः कुरिति वक्तव्ये इत्यादि। असति हि प्रत्ययग्रहणे क्विन्प्रत्ययान्तस्यैव पदान्तस्य स्यात्, मान्यप्रत्ययान्तस्य, तस्यापि चेष्यते। तस्मात्? प्रत्ययग्रहणं क्रियते। प्रत्ययग्रहणे सति बहुव्रीहिर्लभ्यते। तेन बहुव्रीहिणा यस्माद्विहितः स धातुरूपलक्ष्यत इति सर्वस्य सिध्यति। मानो अरुआआक्, मानो अद्राक् इति। सृज विसर्गे (धातुपाठः-1414) दृक्षिर्? प्रेक्षणे (धातुपाठः-988), लुङ्, च्लेः सिच्? (3.1.44) , तिप्, सृजिदृशोर्झल्यमकिति (6.1.58) इत्यमागमः, वदव्रज (7.2.3) इत्यादिना वृद्धिः, हल्ङ्यादिलोपः (6.1.66) , अडागमः, अनेन कृत्वम्। सृजिदृशिभ्यां क्विन्विहितः इति। ऋत्विक् (3.2.59) इत्यादिना सृजेः क्विन्विहितः। दृशेरपि त्यवादिषु दुशेरनालोचने कञ्च (3.2.60) इत्यनेन। कथं पुनरत्राडागमः, यावता न माङयोगे (6.4.74) इति प्रतिषिद्धोऽसो? इत्यत आह-माङ्योगेऽपि इत्यादि। छान्दसौ ह्रेतौ प्रयोगौ। तेन सत्यपि माङ्योगे बहुलं छन्दस्यामाङ्योगेऽपि (6.4.75) इत्यडागमो भवत्येव। अस्तिसिचोऽपृक्ते (7.3.96) इतीट्? तर्हि कस्मान्न भवति? इत्याह-ईट्? च न भवति` इत्यादि।प्रत्ययग्रहणाद्यथा क्विन्प्रत्ययस्य लुगन्तस्य कृत्वं भवति, दृग्भ्यामित्या दौदृशेः क्विबन्तस्यापि। एवम् इत्यादि। प्रत्ययग्रहणात्? क्विन्प्रत्ययो यस्माद्विहितः, तस्यान्यप्रत्ययान्तस्यापि कुत्वं भवतीत्यस्मिन्नर्थे व्यवस्थिते रज्जुसृङ्भ्यामित्यत्रापि ब्राश्चादिसूत्रेण (8.2.36) षत्वं यत्? प्राप्नोति तद्बाधित्वा कृत्वेन भवितव्यम्। अथ तु नेष्यते, प्रतिविधानं कर्तव्यम् इति। [नास्ति -प्रांउ।पाठे] प्रतिविधानमुत्तरसूत्रे वाग्रहणं यत्? तदुभयोर्योगयोः शेषः। व्यवस्थितविभाषा च, तेनेह न भविष्यतीति। एवञ्च सति रज्जुसृभ्याम्, रज्जुसृङ्भ्य इति भवितव्यम्॥

Praudhamanorama

पदान्ते इति। यत्तु प्राचोक्तं झलीति; तन्न, झलीत्यस्याऽसन्निहितत्वात् निष्फलत्वाच्च। यत्तु तत्पौत्रेण व्याख्यातम्— ‘झलो झलि’ इत्यतो मण्डूकप्लत्या झलीत्यस्मिन्ननुवर्तमानेऽपि न कश्चिद्दोष इति; तन्न, स्पष्ट इत्यदावतिव्याप्तेः।

Prakriyasarvasvam

<karika>क्विन्प्रत्ययवतो धातोः पदत्वेऽन्त्यस्य कुर्भवेत् । तेन शस्य कवर्गत्वे हस्तस्पृगिति सिध्यति ॥ ८९ ॥</karika> एवं जलं स्पृशन् जलस्पृक् । उदकशब्दे तूदकस्पर्श इत्यणैव ।

Sudha

क्विन्प्रत्ययस्य कुरिति । **पदस्य**(8.1.16) इत्यधिकृतम् । **झलां जशोऽन्ते**(8.2.39) इत्यतोऽन्त इत्यनुवर्तते । क्विन् प्रत्ययो यस्मात् सः क्विन्प्रत्ययः तस्येति बहुव्रीहिः । तदाह - क्विन्प्रत्ययो यस्मादित्यादिना । ऋत्विक् । ऋतौ उपपदे यज् धातोः **ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च**(3.2.59) इति क्विनि **वचिस्वपियजादीनां किति**(6.1.15) इति सम्प्रसारणे **सम्प्रसारणाच्च**(6.1.108) इति पूर्वपरयोः स्थाने पूर्वरूपैकादेशे ऋतु इज इति जाते **इको यणचि**(6.1.77) इति यणि ऋत्विज् क्विन् अत्र **लशक्वतद्धिते**(1.3.8) इति ककारस्येत्सञ्ज्ञायां लोपे च **हलन्त्यम्**(1.3.3) इति नस्येत्सञ्ज्ञायाम् लोपे च इकारस्योच्चारणार्थत्वेन तस्मिन् गते व् कारस्य **अपृक्त एकाल् प्रत्ययः**(1.2.41) इति अपृक्तसंज्ञायां **वेरपृक्तस्य**(6.1.67) इत्यपृक्तसञ्ज्ञकस्य वस्य लोपे **कृदतिङ्**(3.1.93) इति क्विनः कृत्संज्ञायां कृदन्तत्वात्प्रातिपदिकसञ्ज्ञायां सावागते सोरुकारे गते ऋत्विज् + स् इति स्थिते **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्**(6.1.68) इति स् लोपे **क्विन्प्रत्ययस्य कुः**(8.2.62) इति कवर्गान्तादेशे आन्तरतम्यात् जकारस्य गकारे जाते **वाऽवसाने**(8.4.56) इति चर्त्वेन वा ककारे ‘ऋत्विक्’ इति । चर्त्वाभावे ‘ऋत्विग्’ इति । ऋत्विग्भ्याम् । ऋविज् + भ्याम् अत्र **स्वादिष्वसर्वनामस्थाने**(1.4.17) इति पदसञ्ज्ञायां **क्विन्प्रत्ययस्य कुः**(8.2.62) इति कुत्वे ॠत्विग्भ्याम् इति ।

Sutra Prayogas

  • **** (भट्टिकाव्यम्): क्विन्प्रत्ययस्य कुः इति कुत्वम्।

  • दधृक् (भट्टिकाव्यम्): क्विन्प्रत्ययस्य कुः इति कुत्वम्।