82048: अञ्चोऽनपादाने

Padacheda: अञ्चः | S | 5 | 1 |

अनपादाने | S | 7 | 1 |

Sutrartha


Vasu English Summary

The निष्ठा त is changed to न after अञ्च् but not when it is in connection with an Ablative -5th case.

Vasu English Translation

The निष्ठा त is changed to न after अञ्च् but not when it is in connection with an Ablative -5th case. Thus समक्नौ शकुनेः पादौ = सङ्गतौ; तस्मात् पशवो न्यक्नाः ॥

Why do we say ‘when not in construction with an Ablative case’? Observe उदत्तमुदकं कूपात् = उद्धृतं ‘drawn out’.

The word व्यक्तम् is from the root अञ्जू व्यक्तिम्रक्षण कान्तिगतिषु, and not from the root अञ्च्; and hence the Nishtha is not changed.

Bhashya

अञ्ञ्चोऽनपादाने ॥ अञ्ञ्चेर्नत्वे व्यक्तप्रतिषेधः(1)॥ अञ्ञ्चेर्नत्वे व्यक्तस्य प्रतिषेधो वक्तव्यः। व्यक्तमनृतं कथयतीति॥ अञ्ञ्जिविज्ञानात्सिद्धम्॥ झ्र्अञ्ञ्जिविज्ञानात्सिद्धमेतत्(3)ट॥ नैतदञ्ञ्चे रूपम्। अञ्ञ्जेरेतद्रूपम्॥ अञ्ञ्चत्यर्थो वै गम्यते।. कः पुनरञ्ञ्चत्यर्थः?॥ अञ्ञ्चतिः प्रकाशने वर्तते। अञ्ञ्चितं गच्छति, प्रकाशयत्यात्मानमिति गम्यते॥ न वै लोकेऽञ्ञ्चितं गच्छतीति प्रकाशनं गम्यते॥ किं तर्हि?॥ समाधानं गम्यते। समाहितो भूत्वा गच्छतीति॥ एवं तर्ह्यञ्ञ्चतेरङ्कः, अङ्कश्च प्रकाशनम्। अङि्कता गाव इत्युच्यते, अन्याभ्यो गोभ्यः प्रकाश्यन्ते(4)॥ अञ्ञ्चत्यर्थ इति चेदञ्ञ्जेस्तदर्थत्वात्सिद्धम्(5)॥ अञ्ञ्चत्यर्थ इति चेदञ्ञ्जिरप्यञ्ञ्चत्यर्थे वर्तते॥ कथं पुनरन्यो नामाऽन्यस्यार्थे वर्तते?। कथमञ्ञ्जिरञ्ञ्चत्यर्थे(1) वर्तते?॥ अनेकार्था अपि धातवो भवन्तीति(2)॥ अस्ति पुनः क्व चिदन्यत्राऽप्यञ्ञ्जिरञ्ञ्चत्यर्थे वर्तते?॥ अस्तीत्याह। अञ्ञ्जेरञ्ञ्जनम्, अञ्ञ्जनं च प्रकाशनम्। अङ्क्तेऽक्षिणीःइत्युच्यते यत्तत्सितं(3) चाऽसितं चैतत्प्रकाशयति(4)। तथाऽञ्ञ्जेर्व्यञ्ञ्जनं, व्यञ्ञ्जनं च प्रकाशनम्। यत्तत्स्नेहेन मधुरेण च जडीकृतानामिन्द्रियाणां स्वस्मिन्नात्मनि व्यवस्थापनं स रागस्तद्व्यञ्ञ्जनम्। अन्वर्थं खल्वपि निर्वचनं व्यज्यतेऽनेनेति व्यञ्ञ्जनमिति॥ झ्र्अञ्ञ्चोऽनपाट।

Kashika

अञ्चतेरुत्तरस्य निष्ठातकारस्य नकारादेशो भवति, न चेदपादानं तत्र भवति। समक्नौ शकुनेः पादौ। तस्मात् पशवो न्यक्नाः (काठ० सं० २९.९)। अनपादान इति किम्? उदक्तमुदकं कूपात्। व्यक्तमित्येतदञ्जे रूपम्॥

Siddhanta Kaumudi

अञ्चो निष्ठातस्य नः स्यान्न त्वपादाने ॥

Balamanorama

अञ्चोऽनपादाने - अञ्चोऽनपादाने । न त्वपादाने इति । अपादानसमभिहव्याहारे असतीत्यर्थः ।

Padamanjari

न चेदपादानं तत्र भवतीति । तत्राञ्चत्यर्थे विषयेऽपादानं चेन्न भवतीत्यर्थः । समकाविति । सङ्गतावित्यर्थः ।’यस्य विभाषा’ इतीट्प्रतिषेधः, ठनिदिताम्ऽ इत्युपधालोपः । उदक्तमिति । उद्धतमित्यर्थः । व्यक्तमित्येतदिति । ठञ्जू व्यक्तिम्रक्षणकान्तिगतिषुऽ इत्यस्येदं रूपम्, नाञ्चतेः; तेन नत्वमिदं न भवतीति भावः ॥

Nyaas

न चेदपादानं तत्र भवति इति। तत्रेत्यनेनाञ्चतिः परामृश्यते। शब्दद्वारेणाञ्चत्यर्थं एवायमपादानस्य प्रतिषेधसामर्थ्याद्विज्ञायते। न ह्रञ्चतावपादानत्वं सम्भवति, किं तर्हि? तदर्थे क्रियाविषयत्वात्? कारकाणाम्। तदेतदुक्तं भवति -न चेदञ्चत्यर्थे विषयभूतेऽपादानं न भवतीति। समक्नौ इति। सङ्गतावित्यर्थः। अन्चु गतिपूजनयोः [अन्चू इति काशीमुद्रितः पाठः](धातुपाठः-188) इत्युदित्त्वाद्विभाषितेट्। [इत्यूदित्त्वात् -काशीमुद्रितः पाठः] तेन यस्य विभाषा (7.2.15) इति निष्ठायामिट्प्रतिषेधः, अनिदिताम् (6.4.24) इत्यनुनासिकलोपः। उदक्तमुदकम् इति। उद्धृतमुदकमित्यर्थः। अथ व्यक्तमित्यत्र नतवं कस्मान्न भवति? इत्याह -व्यक्तमित्येतत् इत्यादि। अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु [अन्चू इति। काशीमुद्रितः पाठः] (धातुपाठः-1458) इत्येतस्यैतद्रूपम्,ित्येतद्रूपम् -काशीमुद्रितः पाठः] नाञ्चतेः; ततो नत्वमिह न भवतीति भावः॥

Prakriyasarvasvam

अपादानयोगाभावे अञ्चेर्निष्ठानत्वं स्यात् । ‘अनिदितां—’ (६-४-२४) इति नलोपः । नत्वस्यासिद्ध्या झलि कुत्वं कः । समदनाविमौ । सङ्क्तावित्यर्थः । अपादाने तु कूपादुदक्तमुदकम्, उद्धृतं तत् ॥