82041: षढोः कः सि¶
Padacheda: षढोः | S | 6 | 2 |
कः | S | 1 | 1 |
सि | S | 7 | 1 |
Sutrartha¶
षकारस्य ढकारस्य च सकारे परे ककारादेशः भवति ।
षकारात् परः यदि सकारः आगच्छति, तर्हि षकारस्य अनेन सूत्रेण ककारादेशः भवति । तथैव, ढकारात् परः यदि सकारः आगच्छति, तर्हि ढकारस्य अनेन सूत्रेण ककारादेशः भवति । उदाहरणे एतादृशे -
अदादिगणस्य द्विष् धातोः मध्यमपुरुषैकवचनस्य सि-प्रत्यये परे द्वेक्षि एतत् रूपमनेन प्रकारेण सिद्ध्यति -
द्विष् + सि → द्वेष् + सि [पुगन्तलघूपधस्य च (7.3.86) इत्यनेन इकारस्य गुणः एकारः] → द्वेक् सि [षढोः कः सि (8.2.41) इत्यनेन षकारस्य ककारः] → द्वेक् षि [आदेशप्रत्यययोः (8.3.59) इत्यनेन सकारस्य षकारः] → द्वेक्षि [क् + ष् = क्ष् ] 2) अदादिगणस्य लिह् धातोः मध्यमपुरुषैकवचनस्य सि-प्रत्यये परे लेक्षि इति रूपं अनेन प्रकारेण सिद्ध्यति - लिह् + सि → लेह् + सि [पुगन्तलघूपधस्य च (7.3.86) इत्यनेन इकारस्य गुणः एकारः] → लेढ् सि [हो ढः (8.2.31) इत्यनेन झलि परे हकारस्य ढकारः] → लेक् + सि [षढोः कः सि (8.2.41) इत्यनेन ढकारस्य ककारः] → लेक् षि [आदेशप्रत्यययोः (8.3.59) इत्यनेन सकारस्य षकारः] → लेक्षि [क् + ष् = क्ष् ] ज्ञातव्यम् - यद्यपि इदम् सूत्रम् ‘पदस्य’ अधिकारे आगच्छति, तथापि अयं ककारादेशः अपदान्तषकारढकारयोः एव भवति, यतः पदान्तषकारढकारयोः झलां जशोऽन्ते (8.2.39) इत्यनेन जश्त्वं विधीयते ।
Sutrartha (English)¶
षकार and ढकार not occurring at end of a पद are converted to ककार when followed by सकार.
Vasu English Summary¶
क is substituted for ष or ढ before स।
Vasu English Translation¶
क is substituted for ष or ढ before स। Thus for ष of विष् we have विवेक्ष्यते, अवेक्ष्यत्, विविक्षति ॥ For ढ of लिड् (लिढ (8.2.31)) we have लेक्ष्यति, अलेक्ष्यत्, लिलिक्षति ॥
For the स of the affix स्य &c, is substituted ष by (8.3.59).
Why do we say “before स”? Observe पिनष्टि, लेढि ॥
Kashika¶
षकारढकारयोः ककारादेशो भवति सकारे परतः। षकारस्य — पिष् — पेक्ष्यति। अपेक्ष्यत्। पिपिक्षति। ढकारस्य — लिह — लेक्ष्यति। अलेक्ष्यत्। लिलिक्षति। सीति किम् ? पिनष्टि। लेढि॥
Siddhanta Kaumudi¶
षस्य ढस्य च कः स्यात्सकारे परे । इति तु न भवति । जश्त्वं प्रत्यसिद्धत्वात् । केचित्तु व्रश्च (SK294)आदिसूत्रे दादेर्धातोः (SK325) इति सूत्राद्धातोरित्यनुवर्तयन्ति । तन्मते जश्त्वेन जकारे । निज्भ्याम् । निज्भिः । जश्त्वम् । श्चुत्वम् । चर्त्वम् । निच्शु । चोः कुः (SK378)इति कुत्वं तु न भवति । जश्त्वस्यासिद्धत्वात् ॥<!मांसपृतनासानूनां मांस्पृत्स्नवो वाच्याः शसादौ वा !> (वार्तिकम्) ॥ पृतः । पृता । पृद्भ्याम् । पक्षे सुटि च रमावत् । गोपा विश्वपावत् । मतिः प्रायेण हरिवत् । स्त्रीत्वान्नत्वाभावः । मतीः । नात्वं न । मत्या ॥
Laghu Siddhanta Kaumudi¶
यक्ष्यति, यक्ष्यते। इज्यात्, यक्षीष्ट। अयाक्षीत्, अयष्ट॥ {$ {! 9 वह !} प्रापणे $} (धातुपाठे (01.1159)) ॥ वहति, वहते। उवाह। ऊहतुः। ऊहुः। उवहिथ॥
Balamanorama¶
षढोः कः सि - तत्र धुडभावपक्षे निश्-सु इति स्थितेव्रश्चे॑ति षत्वे तस्य षकारस्य जश्त्वात्प्राक् ककारमाशङ्कितुमाह — षढोः कः सि । षश्च ढश्चेति द्वन्द्वः ।सी॑ति सप्तमी । तदाह — षस्येत्यादिना । इति तु न भवतीति । षकारस्य ककारो न भवतीत्यर्थः । जश्त्वं प्रत्यसिद्धत्वादिति । ‘झलाञ्जशोऽन्ते’ इत्यपक्षयाषढोः कः सी॑त्यस्य परत्वादिति भावः । शसादिषु निशादेशाऽभावपक्षे सुटि च रमावत् । व्रश्चादिसूत्रे मतान्तरमाह-केचित्त्विति । ‘एकाचो वशः’ इत्युत्तरसूत्रे धातोरित्यस्यानुवृत्त्या मध्येऽपि तदनुवृत्तेरौचित्यादिति भावः । अनुवृत्तं च धातोरित्येतच्छशयोरेव विशेषणम्, व्रश्चादिषु धातुत्वाऽव्यभिचारात् । जश्त्वेनेति । निश्म्यामित्यादौ निशित्यस्य धातुत्वाऽभावात्षत्वाऽभावे ‘झलाजशोऽन्ते’ इति जश्त्वेन शकारस्य स्थानसाम्याज्जकार इत्यर्थः । निज्भ्यामित्यत्र कुत्वमाशङ्क्याह — कुत्वं तु नेति । जश्त्वस्यासिद्धत्वादिति ।कुत्वं प्रती॑ति शेषः । निच्शु इति । निश्सु इति स्थिते शस्य जश्त्वेन जः, तस्य श्चुत्वेन शः, जस्य चर्त्वेन चः, शस्य छत्वविकल्पः ।मासपृतना । मांस, पृतना, सानु इत्येतेषां मांस्, पृत्, स्नु इत्यादेशा वाच्या इत्यर्थः । ‘पद्दन्नो’ इति सूत्रे वार्तिकमेतत् । अत एवाह — शसादौ वेति ।पद्दन्नि॑ति सूत्रस्य विकल्पेन प्रवृत्तेरिति भावः । मांससानुशब्दयोरस्त्रीलिङ्गत्वात्पृतनाशब्दस्यैव शसादौ पृदादेशमुदाहरति — पृत इति । पक्षे इति । पृदादेशाऽभावपक्षे इत्यर्थः । गोपा विआपावदिति । आबन्तत्वाऽभावान्न सुलोप इत्यर्थः । इत्यादन्ताः । अथ इदन्ताः । प्रायेणेति । प्रायशब्दो बहुलपर्यायः । ‘प्रायोभूम्नि’ इत्यमरः । इह तु ईषदूनत्वे वर्तते । प्रकृत्यादित्वात्तृतीया । मतिशब्द ईषदूनहरिशब्दवत्प्रत्येतव्य इत्यर्थः । शसि विशेषमाह — स्त्रीत्वान्नत्वाभाव इति ।तस्माच्छसो नः पुंसी॑तिनत्वस्य पुंस्त्वे विधानादिति भावः । तृतीयैकवचने घित्वान्नाभावमाशङ्क्याह — नात्वं नेति ।आङो नाऽस्त्रिया॑मिति नात्वविधावस्त्रियामिति पर्युदासादिति भावः ।
Tattvabodhini¶
षढोः कः सि - केचित्त्विति । परिशिष्टकारादयः । निच्शु इति । अत्रशश्छोट#ई॑ति पक्षे छत्वं बोध्यम् ।मांसपृतनासानूनां मांस्पृत्स्नवो वाच्याः शसादौ वा । मांसपृतनेति । पृतना -सेना । नात्वं नेति ।अस्त्रियां॑मिति पर्युदासादिते भावः ।
Nyaas¶
पेक्ष्यति इति। पिष्लृ सञ्चूर्णने (धातुपाठः-1452), लृट्। अपेक्ष्यत् इति। लृङ्। पिपिक्षति इति। सन्, हलन्ताच्च (1.2.10) इति कित्त्वाद्गुणाभावः।पिनष्टि इति। रूधादित्वात्? श्नम्। लेढि इति। अदादित्वाच्छपरो लुक्॥
Praudhamanorama¶
केचित्त्विति। परिशिष्टकारादयः।
Prakriyasarvasvam¶
षढोः सादौ प्रत्यये परे कः स्यात् । दृक् स । ‘इण्कोः’ (८-३-५७) इत्यधिकारे
Sutra Prayogas¶
व्यकार्क्षीद् (भट्टिकाव्यम्): प-ढोः कः सि इति कत्वम्।
विजिघृक्षु (भट्टिकाव्यम्): पढोः कः सि इति कत्वम्।
अधाक्षीद्राजन् (भट्टिकाव्यम्): षढोः कः सि इति कत्वम्।
अदाङ्क्षुर् (भट्टिकाव्यम्): षढोः कः सि इति कत्वम्।
अप्राक्षीच्च (भट्टिकाव्यम्): षढोः कः सि इति कत्वम्।
तोक्ष्यति (भट्टिकाव्यम्): षढोः कः सि इति कत्वम्।
वक्ष्यति (भट्टिकाव्यम्): षढोः कः सि इति कत्वम्।