82036: व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः¶
Padacheda: व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राज-च्छ-शाम् | S | 6 | 3 |
षः | S | 1 | 1 |
Sutrartha¶
व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज् - एतेषां शब्दानाम् , शकारान्तशब्दानाम् छकारान्तशब्दानाम् च झलि परे तथा च पदान्ते षकारादेशः भवति ।
अनेन सूत्रेण निर्दिष्टः षकारादेशः अलोऽन्त्यस्य (1.1.52) इत्यनेन स्थानिनः अन्तिमवर्णस्य स्थाने विधीयते । उदाहरणानि - 1) व्रश्च् + तुमुन् → व्रष्टुम् । षकारादेशात् परमत्र ष्टुना ष्टुः (8.4.41) इति ष्टुत्वमपि भवति । 2) भ्रस्ज् + तृच् → भ्रष्टा । अत्र स्कोः संयोगाद्योरन्ते च (8.2.29) इत्यनेन सकारलोपे कृते, वर्तमानसूत्रेण षकारादेशः भवति । ततश्च ष्टुना ष्टुः (8.4.41) इति ष्टुत्वमपि भवति । 3) सृज् + क्त → स्रष्ट । अत्र आदौ वर्तमानसूत्रेण षकारादेशः भवति, ततश्च ष्टुना ष्टुः इति ष्टुत्वमपि भवति । 4) मृज् + तिप् → मार्ष्टि । प्रक्रिया इयम् - मृज् + तिप् लट्-लकारस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् ‘ति’ प्रत्ययः → मृज् + शप् + ति [कर्तरि शप् (3.1.68) इति औत्सर्गिकं विकरणम् शप् ] → मृज् + ति [अदिप्रभृतिभ्यः शपः (2.4.72) इत्यनेन शप्-इत्यस्य लुक्] → मार्ज् + ति [मृजेर्वृद्धिः (7.2.114) इति ऋकारस्य वृद्धि-आदेशः । सः च उरण् रपरः (1.1.51) इति रपरः] → मार्ष् + ति [व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (8.2.36) इति षकारादेशः] → मार्ष् टि [ष्टुना ष्टुः (8.4.41) इति ष्टुत्वम्] → मार्ष्टि 5) यज् + तृच् → यष्टा । षकारादेशात् परमत्र ष्टुना ष्टुः (8.4.41) इत्यनेन ष्टुत्वम् विधीयते । 6) सम्राज् + भ्याम् → सम्राड्भ्याम् । अत्र वर्तमानसूत्रेण पदान्ते जकारस्य षत्वम्, ततः च झलां जशोऽन्ते (8.2.39) इति जश्त्वे डकारः भवति । 7) भ्राज् + भ्याम् → भ्राड्भ्याम् । 8) च्छकारान्तशब्दाः - यथा - प्रच्छ् + तुमुन् → प्रष्टुम् । वर्तमानसूत्रेण ‘च्छ्’ इति समुदायस्य षत्वं भवति, यतः सूत्रे ‘च्छ्’ इत्यस्य निर्देशः कृतः अस्ति । 9) शकारान्तशब्दाः - यथा - विश् + भ्याम् → विड्भ्याम् । अत्र वर्तमानसूत्रेण पदान्ते शकारस्य षत्वम्, ततः च झलां जशोऽन्ते (8.2.39) इति जश्त्वे डकारः भवति ।
Sutrartha (English)¶
The laster letter of the word व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज् and शकारान्त / च्छकारान्त words gets षकारादेश at पदान्त, or when झल् letter is in front.
Vasu English Summary¶
For the final consonants of 1. व्रश्च् 2. भ्रस्ज् 3. सृज् 4. मृज् 5. यज् 6. राज् and 7. भ्राज् and for the final छ and श , there is substituted ष् or at the end of a word.
Vasu English Translation¶
For the final consonants of 1. व्रश्च् 2. भ्रस्ज् 3. सृज् 4. मृज् 5. यज् 6. राज् and 7. भ्राज् and for the final छ and श , there is substituted ष् or at the end of a word. Thus व्रश्च् :- व्रष्टा, व्रष्टुम्, व्रष्टव्यम्, मूलवृट् ॥ भ्रष्टा । भ्रष्टुम् । भ्रष्टव्यम् । धानाभृट् । सृज् । स्रष्टा । स्रष्टुम् । स्रष्टव्यम् । रज्जुसृट् । मृज । मार्ष्टा । मार्ष्टुम् । मार्ष्टव्यम् । कंसपरिमृट् । यज । यष्टा । यष्टुम् । यष्टव्यम् । उपयट् । राज् । सम्राट् । स्वराट्, विराट्, विभ्राट् ॥ The श ending words would have been changed to जश्-letters and the others to Gutturals; this sutra debars that by ordaining ष ॥ In मूलवृट् and धानाभृट् there is vocalisation by (6.1.16), the स् is elided by (8.2.19), and ष becomes जश्-letter ड्, which becomes र् by (8.4.56). The word शब्दप्राट् is formed by क्विप्, there is lengthening and no vocalisation.
The roots राज् and भ्राज् are never followed by a jhal beginning affix, because such affixes will always take इट् augment. These roots are, therefore, mentioned here, for the sake of the change of their ज् to ष्, when at the end of a word. Some, however, form nouns like राष्टिः, भ्राष्टिः with क्तिन् affix from these roots by (3.3.94), vartika, and इट् augment is prevented by (7.2.9).
Of roots ending in छ we have प्रच्छ :- प्रष्टा, प्रष्टुम्, प्रष्टव्यम्, शब्दप्राट् ॥ According to one view, the letter छ should not be mentioned in this sutra: for by (6.4.19), छ is always changed to श, and this श will be changed to ष by the present sutra. Others hold, that the change of छ to श by (6.4.19) is confined before कित् or ङित् affixes, and therefore the mention of छ is necessary in this sutra; moreover the ष् substitution here, and the श् substitution in (6.4.19). refer to the conjunct letter च्छ (with the augment तुक्). For if it were not so, then छ alone being changed to ष्, the त् of तुक् would be changed to ट्, and we should have पृट्ष्टः instead of पृष्टः ॥
Of roots ending in श् we have लिश् :- लेष्टा, लेष्टुम्, लेष्टव्यम्, लिट्; विश् :- वेष्टा, वेष्टुम्, वेष्टव्यम्, विट् ॥
Kashika¶
व्रश्च भ्रस्ज सृज मृज यज राज भ्राज इत्येतेषाम्, छकारान्तानाम्, शकारान्तानां च षकार आदेशो भवति झलि परतः, पदान्ते च। व्रश्च — व्रष्टा। व्रष्टुम्। व्रष्टव्यम्। मूलवृट्। भ्रस्ज — भ्रष्टा। भ्रष्टुम्। भ्रष्टव्यम्। धानाभृट्। सृज — स्रष्टा। स्रष्टुम्। स्रष्टव्यम्। रज्जुसृट्। मृज — मार्ष्टा। मार्ष्टुम्। मार्ष्टव्यम्। कंसपरिमृट्। यज — यष्टा। यष्टुम्। यष्टव्यम्। उपयट्। राज — सम्राट्। स्वराट्। विराट्। भ्राज — विभ्राट्। राजभ्राजोः पदान्तार्थं ग्रहणम्, झलादिराभ्यामिटा पर्यवपद्यते। केचित् तु राष्टिर्भ्राष्टिरिति क्तिन्नन्तम् इच्छन्ति। छकारान्तानाम् — प्रच्छ — प्रष्टा। प्रष्टुम्। प्रष्टव्यम्। शब्दप्राट्। च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यत्र क्ङितीत्यनुवर्तत इति छग्रहणमिह क्रियते। शकारान्तानाम् — लिश् — लेष्टा। लेष्टुम्। लेष्टव्यम्। लिट्। विश् — वेष्टा। वेष्टुम्। वेष्टव्यम्। विट्॥
Siddhanta Kaumudi¶
व्रश्चादीनां सप्तानां छशान्तयोश्च षकारोऽन्तादेशः स्याज्झलि पदान्ते च । षस्य जश्त्वेन डकारः । निड्भ्याम् । निड्भिः । सुपि डः सीति पक्षे धुट् । चर्त्त्वम् । तस्यासिद्धत्वाच्चयो द्वितीया इति टतयोष्ठथौ न । न पदान्ताट्टोः इति ष्टुत्वं न । निट्त्सु । निट्सु ॥
Laghu Siddhanta Kaumudi¶
झलि पदान्ते च। जश्त्वचर्त्वे। राट्, राड्। राजौ। राजः। राड्भ्याम्॥ एवं विभ्राट्, देवेट्, विश्वसृट्॥ परौ व्रजेः षः पदान्ते (वार्त्तिकम्) । परावुपपदे व्रजेः क्विप् स्याद्दीर्घश्च पदान्ते षत्वमपि। परिव्राट्। परिव्राजौ॥
Balamanorama¶
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः - ब्राश्चभ्रस्ज । व्रश्चादयः सप्त धातवः । छशौ वर्णौ, ताभ्यां शब्दरूपविशेष्यमादाय तदन्तविधिः ।झलो झली॑त्यतोझली॑त्यनुवर्तते ।पदस्ये॑त्यधिकृतम् ।स्कोःसंयोगाद्योरन्ते चे॑त्यतोऽन्ते इत्यनुवर्तते । तदाह — व्रश्चादीनामिति । अन्तादेश इत्यलोऽन्त्यसूत्रलभ्यम् । षस्य जश्त्वेनेति । प्रकृतसूत्रेण शस्य षत्वे तस्य षकारस्य ‘स्वादिषु’ इति पदत्वाज्झलाञ्जशोऽन्ते॑ इति जश्त्वेन स्थानसाम्याड्डकारे निड्भ्यामित्यादि रूपमित्यर्थः । सुपीति । निश्-सु इति स्थितेव्रश्चे॑ति षत्वे तस्य जश्त्वेन डकारे ‘ङसि धुट्’ इति कदाचिद्धुडागमः । चर्त्वमिति ।डधयो॑रिति शेषः । स्थानसाम्याड्डस्य टः, धस्य तः । तस्येति । चर्त्वस्येत्यर्थः । ठथौ नेति । धुडभावपक्षे टस्य ठो न, धुट्पक्षे तस्य थो नेत्यर्थः । ‘नादिन्याक्रोशे’ इति सूत्रस्थभाष्ये ‘चयो द्वितीया’ इत्यस्य पाठदर्शनात्तदपेक्षया चर्त्वस्य परत्वम् । अथ तकारस्य ष्टुत्वेन टकारमाशङ्क्य आह — न पदान्तादिति । ‘स्वादिषु’ इति पदत्वं बोध्यम् । निट्त्सु इति । धुट्पक्षे रूपम् । तदभावपक्षे तु निट्सु ।
Tattvabodhini¶
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः - टतयोष्ठथौ नेति । धुडभावे टस्य ठो न, धृट्पक्षे तु तस्य थो नेति विवेकः । न भवतीति । जशत्वात्प्राक् षस्य कुत्वं न भवतीत्यर्थः ।
Padamanjari¶
अत्र शकारान्तस्य जश्त्वे प्राप्ते, इतरेषां तु कुत्वे तदपवादः षत्वं विधीयते । मूलवृट्, धानामृडिति । ग्रहिज्यादिना सम्प्रसारणम्,’स्कोः संयोगाद्योः’ इति सलोपः, षकारस्य जश्त्वम् - डकारः,’वावसाने’ इति पक्षे टकारः । झलादिराभ्यामित्यादि । पर्यवपद्यतेउव्यवधीयते । राष्टिः, भ्राष्टिरिति ।’गुरोश्च हलः’ इत्यकारे प्राप्ते’क्तिन्नाबादिभ्यः’ इति क्तिन्प्रत्ययः,’तितुत्रतथ’ इत्यादिनेट्प्रतिषेधः । शब्दप्राडिति ।’क्विब्वचि’ इत्यादिना क्विप्, दीर्घत्वम्, सम्प्रसारणाभावश्च । च्छग्रहणमनर्थकम्;’च्छ्वोः शूड्’ इत्यादिना च्छस्य शत्वे कृते शान्तानामित्येव षत्वं सिद्धम् ? अत आह - च्छ्वोः शूडित्यादि ॥
Nyaas¶
ओ व्रश्चू छेदने (धातुपाठः-1292), भ्रस्जो पाके [भ्रस्ज इत्येव धातुपाठः] (दा।पा।1284), सृज विसर्गे (धातुपाठः-1178), मृजू शुद्धौ` (धातुपाठः-1066), यज देवपूजासङ्गतिकरणदानेषु (धातुपाठः-1002), राजू दीप्तौ (धातुपाठः-822), टु भ्राजृ टृभ्राशृ टुभ्लाशृ दीप्तौ (धातुपाठः-823,824,825)। छ इति च्छकारान्तावां ग्रहणम्; श इति शकारान्तानाम्। अत्र च शकारस्य जश्त्वे प्राप्ते, इतरेषां तु कत्वे तदपवादः षकारो विधीयते। व्रष्टा इति। स्कोः संयोगाद्योः (8.2.29) इति सकारलोपः, ऊदित्त्वात्? पक्ष इडभावः। मीलबृट्, धानाभृट्? इति। `ग्रहिज्या (6.1.16) इति सूत्रेण सम्प्रसारणम्। रुआष्टा इति। सृजिदृशोर्झल्यमकिति (6.1.58) इत्यमागमः। मार्ष्टा [मार्ष्टीति का। मुद्रितपाठ] इति। मृजेर्वृद्धिः (7.2.114) । उपयट् ति। यदेः विजुपे छन्दसि (3.2.73) इति विच्। सम्राट् इति। मो राजि समः क्वौ (8.3.25) इति समो मकारस्य मकारादेशः।किं पुनः कारणं राजभ्राजोर्झल्युदाहरणं न प्रदर्शितम्? इत्याह -राजभ्राजोः इत्यादि। झलत्वं कस्मान्न भवतीत्याह -झलादिराभ्याम् इत्यादि। आभ्यां परो यो झलादिः स इटा पर्यवपद्यत इतीङ्विधीयते; सेट्त्वादनयोः। इतरेष्वाद्यचतुर्थे। विभाषितेटौ, स्वरतीत्यादिसूत्रेम (7.2.44) शेषास्त्वानिटः; एकाचः (7.2.10) इतीटृप्रतिषेधात्। तस्मात्? तेषामुभयार्थमेव ग्रहणम्। राष्टिः भ्राष्टिः इति। क्वितन्नाबादिभ्यश्च (वा।307) इति क्तिन्प्रत्ययः, तितुत्र (7.2.9) इत्यादिनेट्प्रतिषेधः। शब्दप्राट् इति। शब्दं पृच्छतीति क्विव्वचि (वा।288) इत्यादिना क्विप्, दीर्घश्च।अथ किमर्थं छग्रहणम्, यावता च्छ्वोः शूडनूमासिके च (6.4.19) इति च्छकारस्य शकारे कृते शकारान्तत्वादेव पृष्ट इत्यादौ षत्वं भविष्यति? इत्यत आह -च्छदोः शूट् इत्यादि। अत्र इत्यादि। इतिकरणौ हेतौ। तत्र हि अनुनासिकस्य क्विझलोः क्ङिति (6.4.15) इत्यनुवर्तते, तेन च्छग्रहणं क्रियते; अन्यथा पृष्टः, पृष्टवानित्याद्येव सिध्यत्; न तु प्रष्टा, प्रष्टुमित्यादि; तृजादावक्ङिति शत्वाभावात्। एतच्च सूत्रकारमतेनोत्तम्। केचिदाचार्याः छग्रहणमिह सूत्रे प्रत्याचक्षत एव। तथा हि -च्छ्रवो शूडनुनासिके च (6.4.19) इत्यत्रोक्तम् -केचिदिह क्ङितीत्येतन्नानुवरत्तयन्ति। कथं द्युभ्याम्, द्युभिरित्यूठि कृते? **दिव उत्** (6.1.131) इति तपरकरणान्मात्राकालो भविष्यतीति। `छशां षः (8.2.36) इत्यत्र च्छग्रहणं न कर्तव्यम्, अनेनैव हि सर्वत्र शकारो विधीयते` इति।लेष्टा इति। लिश अल्पीभावे (धातुपाठः-1179) वेष्टा इति। विश प्रवेशने (धातुपाठः-1424)॥
Prakriyasarvasvam¶
व्रश्चादिधातूनां छशान्तानां च झलि पदान्ते च षत्वं स्यात् । इति तकारे परे छस्य षः । ष्टुत्वम् । प्रष्टा । ‘परिमुसिविवाच्चः ॥” पकारादिभ्यः परो यश्चकारः तदन्तानां धातूनामिण् न । पचिर्विच्यादेरित्यर्थः ।
Sudha¶
व्रश्चभ्रस्जेति । अत्र **झलो झलि**(8.2.26) इत्यतो झलीत्यनुवर्तते । **पदस्य**(8.1.16) इत्यधिकृतम् । **स्कोः संयोगाद्योरन्ते च**(8.2.29) इत्यतोऽन्ते चेत्यनुवर्तते । तदाह - झलि पदान्ते चेति । राट्, राड् । राज् + सु इत्यत्र सोर्लोपे **व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः**(8.2.36) इति षकारान्तादेशे **झलां जशोऽन्ते**(8.2.39) इति षस्य डत्वे **वाऽवसाने**(8.4.56) इति डस्य टत्वे कृते ‘राट्’ इति रूपम् । पक्षे ‘राड्’ इति । राड्भ्याम् । राज् + भ्याम् इत्यत्र **स्वादिष्वसर्वनामस्थाने**(1.4.17) इति पदसंज्ञायां **व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः**(8.2.36) इति षत्वे **झलां जशोऽन्ते**(8.2.39) इति डत्वे ‘राड्भ्याम्’ इति रूपम् । राज् + सु इत्यत्र **स्वादिष्वसर्वनामस्थाने**(1.4.17) इति पदत्वात् षत्वं जश्त्वं च । **डः सि धुट्**(8.3.29) इति धुटि राट्त्सु । तदभावे ‘राट्सु’ । एवं विभ्राडिति । राज् शब्दवत् षत्वादीत्यर्थः । परौ व्रजेरिति । औणादिकसूत्रमेतत् । (उणादिः 2.58) इत्यादिपूर्वसूत्रात् क्विबिति दीर्घ इति चानुवर्तते । पदान्त इति ष इत्यनेनैव सम्बध्यते । तदाह - परावुपपदे इत्यादिना । परिव्राट् । परिपूर्वकत्रजधातुतः इति क्विपि व्रजेश्व दीर्घत्वे कृते च षत्वे क्विपो लोपे सावागते सोर्लोपे **झलां जशोऽन्ते**(8.2.39) इति षस्य डत्वे **वाऽवसाने**(8.4.56) इति डस्य टत्वे ‘परिव्राट्’ । पक्षे - ‘परिव्राड्’ ।
Vartika¶
परौ व्रजेः षः पदान्ते ।
Sutra Prayogas¶
वेदांस्त्रिदशानयष्ट (भट्टिकाव्यम्): व्रश्च भ्रस्ज इत्या- दिना पत्वम् ।
द्राक्षीर्मृषा (भट्टिकाव्यम्): व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः इत्यादिना षत्वम् ।
प्रष्टव्यं (भट्टिकाव्यम्): ब्रश्च इति पत्वम्।
बिभ्रक्षुर (भट्टिकाव्यम्): ब्रश्च इति पः।
अदाङ्क्षुर् (भट्टिकाव्यम्): ब्रश्च इत्यादिना षत्वम्।
अप्राक्षीच्च (भट्टिकाव्यम्): चश्च इत्यादिना षत्वम्।