82033: वा द्रुहमुहष्णुहष्णिहाम्¶
Padacheda: वा | S | 0 | 0 |
द्रुहमुहष्णुहष्णिहाम् | S | 6 | 3 |
Sutrartha¶
द्रुहँ, मुहँ, ष्णुहँ तथा ष्णिहँ - एतेषांं धातूनाम् हकारस्य पदान्ते झलि परे वा विकल्पेन घकारादेशः भवति, घकारादेशाभावे औत्सर्गिकः ढकारादेशः भवति ।
एतत् सूत्रम् द्रुहँ (जिघांसायाम्), मुहँ (वैचित्ये), ष्णुहँ (उद्गिरणे) तथा ष्णिहँ (प्रीतौ) - एतेषां चतुर्ण्णाम् धातूनाम् विषये अस्ति । एतेभ्यः द्रुह्-धातोः हकारस्य दादेर्धातोर्घः (8.2.32) इत्यनेन नित्यम् घकारादेशे प्राप्ते, तथा च अन्येषां त्रयाणाम् घकारादेशे अप्राप्ते; प्रकृतसूत्रेण एतेषां चतुर्ण्णाम् विषये हकारस्य विकल्पेन घकारादेशः विधीयते । घकारादेशस्य अभावे हो ढः (8.2.31) इत्यनेन औत्सर्गिकः ढकारादेशः अपि भवति । उदाहरणानि एतानि - 1. द्रुह्-धातोः क्त-प्रत्ययान्तरूपम् - द्रुह् + क्त [निष्ठा (3.2.102) → द्रुह् + त [इत्संज्ञालोपः] → द्रुघ् + त [वा द्रुहमुहष्णुहष्णिहाम् (8.2.33) इत्यनेन विकल्पेन हकारस्य घकारः] → द्रुघ् + ध [झषस्तथोर्धोऽधः (8.2.40) इत्यनेन झष्-वर्णात् परस्य तकारस्य धकारः] → द्रुग् + ध [झलां जश् झशि (8.4.53) इत्यनेन जश्त्वम्] → द्रुग्ध घकारादेशस्य अभावे प्रक्रिया इयम् भवति - द्रुह् + क्त [निष्ठा (3.2.102) → द्रुह् + त [इत्संज्ञालोपः] → द्रुढ् + त [वा द्रुहमुहष्णुहष्णिहाम् (8.2.33) इत्यनेन विकल्पेन हकारस्य घकारे न कृते हो ढः (8.2.31) इति औत्सर्गिकः ढकारः] → द्रुढ् + ध [झषस्तथोर्धोऽधः (8.2.40) इत्यनेन झष्-वर्णात् परस्य तकारस्य धकारः] → द्रुढ् + ढ [ष्टुना ष्टुः (8.4.41) इति ष्टुत्वम् ] → द्रु + ढ [ढो ढे लोपः (8.3.13) इति ढकारस्य ढकारे परे लोपः । एतस्य कृते ष्टुत्वम् सिद्धमस्ति ।] → द्रूढ [ढ्रलोपे पूर्वस्य दीर्घोणः (6.3.111) इति अण्-वर्णस्य दीर्घादेशः । एतस्य कृते ढकारलोपः सिद्धः अस्ति] अत्र निर्दिष्टः धातुः ‘द्रुह्’ (= द् + र् + उ + ह्) इति अस्ति, दृह् (द् + ऋ + ह्) इति नास्ति एतत् स्मर्तव्यम् । 2. मुह्-धातोः तृच-प्रत्ययान्तस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - मुह् + तृच् + सुँ [ण्वुल्तृचौ (3.1.133) इति तृच्-प्रत्ययः । स्वौजस्.. (4.1.2) इति प्रथमैकवचनस्य सुँ-प्रत्ययः] → मोह् तृ सुँ [पुगन्तलघूपधस्य च (7.3.86) इति गुणः] → मोह् त् अन् स् [ऋदुशनस्पुरुदंसोऽनेहसां च (7.1.94) इत्यनेन अङ्गस्य ‘अनङ्’ आदेशः ] → मोह् तान् स् [अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् (6.4.11) इति अङ्गस्य उपधादीर्घः] → मोह् तान् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इत्यनेन सुँ-प्रत्ययस्य लोपः] → मोह् ता [नलोपः प्रातिपदिकान्तस्य (8.2.7) इति नकारस्य लोप] → मोघ् ता [वा द्रुहमुहष्णुहष्णिहाम् (8.2.33) इत्यनेन विकल्पेन हकारस्य घकारः] → मोघ् धा [झषस्तथोर्धोऽधः (8.2.40) इति तकारस्य धकारः] → मोग् धा [झलां जश् झशि (8.4.53) इति घकारस्य गकारः] → मोग्धा घकारादेशस्य अभावे प्रक्रिया इयम् भवति - मुह् + तृच् + सुँ [ण्वुल्तृचौ (3.1.133) इति तृच्-प्रत्ययः । स्वौजस्.. (4.1.2) इति प्रथमैकवचनस्य सुँ-प्रत्ययः] → मोह् तृ सुँ [पुगन्तलघूपधस्य च (7.3.86) इति गुणः] → मोह् त् अन् स् [ऋदुशनस्पुरुदंसोऽनेहसां च (7.1.94) इत्यनेन अङ्गस्य ‘अनङ्’ आदेशः ] → मोह् तान् स् [अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् (6.4.11) इति अङ्गस्य उपधादीर्घः] → मोह् तान् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इत्यनेन सुँ-प्रत्ययस्य लोपः] → मोह् ता [नलोपः प्रातिपदिकान्तस्य (8.2.7) इति नकारस्य लोप] → मोढ् ता [वा द्रुहमुहष्णुहष्णिहाम् (8.2.33) इत्यनेन विकल्पेन हकारस्य घकारे न कृते हो ढः (8.2.31) इति औत्सर्गिकः ढकारः] → मोढ् धा [झषस्तथोर्धोऽधः (8.2.40) इति तकारस्य धकारः] → मोढ् ढा [ष्टुना ष्टुः (8.4.41) इति ष्टुत्वम् ] → मोढा [ढो ढे लोपः (8.3.13) इति ढकारस्य ढकारे परे लोपः । एतस्य कृते ष्टुत्वम् सिद्धमस्ति ।] ष्णुहँ तथा ष्णिहँ धातोः धात्वादे षः सः (6.1.64) इत्यनेन षकारस्य सकारे कृते, ष्टुत्वनिवृत्या णकारस्यापि नकारं कृत्वा ‘स्नुह्’ / ‘स्निह्’ एते सिद्ध्यतः । एतयोः प्रक्रिया अपि मुह्-धातुवद् एव अस्ति । यथा, स्नुह् + क्त = स्नुग्ध, स्नूढ । स्निह् + क्त = स्निग्ध, स्नीढ ।
Sutrartha (English)¶
A हकार occurring at end of verbs द्रुहँ, मुहँ, ष्णुहँ and ष्णिहँ at पदान्त or when followed by a झल् letter is converted optionally to a घकार.
Vasu English Summary¶
The ह of 1. द्रुह् 2. मुह् 3.ष्णुह् and 4. ष्णिह् is optionally changed to ध before a झल् (all consonant except semi-vowels and nasals) letter or at the end of a word.
Vasu English Translation¶
The ह of 1. द्रुह् 2. मुह् 3.ष्णुह् and 4. ष्णिह् is optionally changed to ध before a झल् (all consonant except semi-vowels and nasals) letter or at the end of a word. Thus द्रुहः, द्रोढा or द्रोग्धा, मित्रधुक्, मित्रधुट्, मुह, उन्मोग्धा, उन्मोढा, उन्मुक्, उन्मुट्, ष्णुह, उत्स्नोग्धा, उत्स्नोढा, उत्स्नुक्, उत्स्नुट्, ष्णिह, स्नेग्धा, स्नेढा, स्निक्, स्निट् ॥
The root द्रुह would have taken always घ by the last sutra, this makes it optional. The others would not have got घ but for this sutra.
These roots belong to Radhadi sub-class of Divadi gana: and are taught there in this very order (Divadi 89-91). By belonging to Radhadi sub-division, the इट् is optional (7.2.45). Instead of making the sutra वाद्रुहादीनाम्, this longer formation of the aphorism indicates that the rule applies to यङ्लुक् also, as दोध्रुक् or दोध्रुट् ॥ See (7.1.6), for if the roots were taught not specifically but by गण, then the rule would not apply to yan luk.
Kashika¶
द्रुह मुह ष्णुह ष्णिह इत्येतेषां धातूनां हकारस्य वा घकारादेशो भवति झलि परतः, पदान्ते च। द्रुह — द्रोग्धा, द्रोढा। मित्रध्रुक्, मित्रध्रुट्। मुह — उन्मोग्धा, उन्मोढा। उन्मुक् , उन्मुट्। ष्णुह — उत्स्नोग्धा, उत्स्नोढा। उत्स्नुक्, उत्स्नुट्। ष्णिह — स्नेग्धा, स्नेढा। स्निक् , स्निट्। द्रुहेर्दादित्वाद् घत्वं नित्यं प्राप्तम्, इतरेषामप्राप्तमेव घत्वं विकल्प्यते॥
Siddhanta Kaumudi¶
एषां हस्य वा घः स्याज्झलि पदान्ते च । पक्षे ढः । ध्रुक् । ध्रुग् । ध्रुट् । ध्रुड् । द्रुहौ । द्रुहः । ध्रुग्भ्याम् । ध्रुड्भ्याम् । ध्रुक्षु । ध्रुट्त्सु । ध्रुट्सु । एवं मुहष्णुहष्णिहाम् ॥ विश्ववाट् । विश्ववाड् । विश्ववाहौ । विश्ववाहः । विश्ववाहम् । विश्ववाहौ ॥
Laghu Siddhanta Kaumudi¶
एषां हस्य वा घो झलि पदान्ते च। ध्रुक्, ध्रुग्, ध्रुट्, ध्रुड्। द्रुहौ। द्रुहः। ध्रुग्भ्याम्, ध्रुड्भ्याम्। ध्रुक्षु, ध्रुट्त्सु, ध्रुट्सु॥ एवं मुक्, मुग् इत्यादि॥
Tattvabodhini¶
वा द्रुहमुहष्णुहष्णिहाम् - वा द्रुह ।द्रुह जुघांसायाम्,मुह वैचित्ये॑,ष्णुह उ द्रिरणे॑,ष्णिह प्रीतौ॑ । द्रुहेर्दादित्वान्नित्यं प्राप्ते अन्येषामप्राप्ते उभयत्र विभाषेयम् । ननु द्रुहादयो दिवादिष्वनेनैव क्रमेण पठन्ते, तत्रवा द्रुहादीनाम्इत्येवास्तु, दिवाद्यन्तर्गणस्य पुषादेरन्तर्गणो रधादिस्तदन्तर्गणो द्रुहदिस्तु । रधादिगणसमाप्तये स्निहधातोरनन्तरं वृत्करणस्य कृतत्वेनाऽतिप्रसङ्गशङ्कया निरवकाशत्वात् । मैवम्, तथाहि सति यङ्लुकि दोध्रुडित्यादि न सिध्येत्निर्दिष्टं यद्गणेन चे॑ति निषेधात् ।
Padamanjari¶
द्रुहादय एते दिवादिष्वनेनैव क्रमेण प्रपठ।ल्न्ते, रधादित्वाद्विकल्पितेटः । तत्र’वा द्रुहादीनाम्’ इति वक्तव्ये प्रतिपदपाठो यङ्लुक्यपि यथा स्यात् - दोध्रुक्, दोध्रुट्; अन्यथा’निर्द्दिष्ट्ंअ यद्गणेन च’ इति न स्यात् ॥
Nyaas¶
द्रूहेः इति। द्रुह जिघांसायम् (धातुपाठः-1197) इत्यस्य। इतरेवाम् इति। मुह वैचित्त्ये (धातुपाठः-1198), ष्णुह उद्गिरणे (धातुपाठः-1199), ष्णिह प्रीतौ (धा।प।1200)-इत्येषामप्राप्तेः। पुनरेषं घत्वं स्यात्, अदकारादित्वात्॥
Praudhamanorama¶
द्रुहेर्दादित्वात् नित्यं प्राप्तेऽन्येषामप्राप्ते उभयत्र विभाषेयम्। ननु द्रुहादयो दिवादिषु अनेनैव क्रमेण पठ्यन्ते, तत्र वा द्रुहादीनामित्येवास्तु, दिवाद्यन्तर्गणस्य पुषाद्यन्तर्गणो रधादिः, तदन्तर्गणो द्रुहादिरस्तु। मैवम्। तथा हि सति यङ्लुकि न स्यात्, ‘निर्दिष्टं यद्गणेन च’ इति निषेधात्। दोध्रुक्, दोध्रुट्।
Prakriyasarvasvam¶
एषां झलि पदान्ते च हस्य वा घः स्यात् । द्रोघ् तृ । घत्वजश्त्वे । द्रोग्धा । घत्वाभावे ढत्वधत्वष्टुत्वढलोपाः । द्रोढा । एवं मोग्धा मोढा । स्नोग्धा स्नोढा । स्नेग्धा स्नेढा ।
Sudha¶
वा द्रुहेति । ‘दादेः’इत्यतो घ इत्यनुवर्तते । झलीति, पदस्येति, अन्ते इति पूर्ववदनुवर्तते, तदाह - एषामिति । ध्रुक् - ध्रुग्, ध्रुट् – ध्रुड् । द्रुह जिघांसायाम् अस्मात् क्विपि तस्य सर्वापहारलोपे कृदन्तत्वात्प्रातिपदिकसंज्ञायां सावागते उकारलोपे द्रुह् + स् इति स्थिते **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्**(6.1.68) इति स् लोपे **हो ढः**(8.2.31) इति ढत्वे प्राप्ते तं बाधित्वा **दादेर्धातोर्घः**(8.2.32) इति घत्वे प्राप्ते तं बाधित्वा **वा द्रुहमुहष्णुहष्णिहाम्**(8.2.33) इत्यनेन विकल्पेन हस्य घत्वे **एकाचो बशो भष् झषन्तस्य स्ध्वोः**(8.2.37) इति भष्भावेन दकारस्य धकारे जाते घस्य च **झलां जशोऽन्ते**(8.2.39) इति गत्वे **वाऽवसाने**(8.4.56) इति विकल्पेन चर्त्वे ‘ध्रुक’ इति । चर्त्वाभावपक्षे ‘ध्रुग्’ इति रूपम् । घत्वाभावपक्षे - **हो ढः**(8.2.31) इति ढत्वे भष्भावे ढस्य जश्त्वेन डत्वे तस्य विकल्पेन चर्त्वे ‘ध्रुट्’ इति, चर्त्त्वाभावपक्षे ‘ध्रुड्’ इति रूपम् । ध्रुग्भ्याम्, ध्रुड्भ्याम् । ‘द्रुह-भ्याम्’ अत्र **वा द्रुहमुहष्णुहष्णिहाम्**(8.2.33) इति घत्वे भष्भावे घस्य जश्त्वे च इति । घत्वाभावे **हो ढः**(8.2.31) इति हस्य ढत्वे भष्भावे ढस्य जश्त्वे च कृते ‘ध्रुड्भ्याम्’ इति । ध्रुक्षु । द्रुह् + सु अत्र **वा द्रुहमुहष्णुहष्णिहाम्**(8.2.33) इति घत्वे भष्भावे **आदेशप्रत्यययोः**(8.3.59) इति षत्वे **खरि च**(8.4.55) इति चर्त्वे ‘ध्रुक्षु’ इति । ध्रुट्त्स । घत्वाभावपक्षे **हो ढः**(8.2.31) इति ढत्वे भष्भावे ढस्य जश्त्वे ‘डः सि धुट्’ इति धुटि चर्त्वे ढस्य चर्त्वे च ‘ध्रुट्त्सु’ इति रूपम् । ध्रुट्सु । धुडभावपक्षे - हस्य ढः, भष्भावः, ढस्य जश्त्वेन डः, तस्य चर्त्वेन ट: ‘ध्रुट्सु’ इति रूपम् । एवमिति । भष्भाववर्जमिति शेषः । मुह् इति । सौ – मुक्, मुग्, मुट् मुड् । मुग्भ्याम्, मुड्भ्याम् । मुक्षु, मुट्त्सु मुट्सु ।