81031: नह प्रत्यारम्भे

Padacheda: नह | S | 0 | 0 |

प्रत्यारम्भे | S | 7 | 1 |

Sutrartha


Vasu English Summary

The finite verb retains its accent in connection with नह when used in the sense of forbidding.

Vasu English Translation

The finite verb retains its accent in connection with नह when used in the sense of forbidding. When something urged by one, is rejected insultingly by another, then the reply made by the first tauntingly, with a negation, is pratyarambha. Thus A says to B: “Eat this please”. B rejects the offer repeatedly, in anger or jest. Then A in anger or jest says “No, you will eat”-as नह भोक्ष्यसे ॥ Here भोक्ष्यसे retains its accent, which is acute on the middle, for से becomes accentless as it follows अदुपदेश (6.1.186), and स्य becomes udatta by the प्रत्ययस्वर (3.1.3).

Another example is नहाध्येष्यसे ‘No, you will study’. Why do we say, ‘when asseverative? Observe नह वै त꣡स्मिंश्च लोके꣡ द꣡क्षिणमिच्छ॒न्ति॒ “Verily in that world they do not wish for fee”. Here it is pure negation. तस्मिन् is first acute by फिट् accent, लोक꣡ is final acute because it is formed by अच् of पचादि (3.1.134), द꣡क्षिण is first acute, because it is a Pronoun ending in अ (स्वाङ्गशिटामदन्तानाम् Phit II.6) and इच्छन्ति is anudatta by (8.1.28).

Kashika

नह इत्येतेन युक्तं प्रत्यारम्भे तिङन्तं नानुदात्तं भवति। चोदितस्यावधीरणे उपालिप्सया प्रतिषेधयुक्तः प्रत्यारम्भः क्रियते। नह भो॒क्ष्यसे॑। नह अ॒ध्ये॒ष्यसे॑। प्रत्यारम्भ इति किम् ? न॑ह व॑ै त॑स्मिन्नमु॑ष्मिन् लोके॑ द॑क्षिणामिच्छन्ति (काठ० सं० ९.१२)॥

Siddhanta Kaumudi

नहेत्यनेन युक्तं तिङन्तं नानुदात्तम् । प्रतिषेधयुक्त आरम्भः प्रत्यारम्भः । नह भोक्ष्यसे । प्रत्यारम्भे किम् । नह वैतस्मिंल्लोके दक्षिणमिच्छन्ति ॥

Padamanjari

नहेति निपातसमाहारः प्रतिषेधे वर्तते । प्रत्यारम्भःउपुनरारम्भः । तस्य विषयमाह - चोदितस्येति । भुङ्क्ष्व, अधीष्वेत्येवं चोदितस्य कर्तष्यतयोपन्यस्तस्य भोजनादेरवधीरणेऽवज्ञाते सति तस्यावधीरयितुरुपालिप्सयाऊपालब्धुमिच्छया तस्यैव भोजनादेः प्रतिषेधेन सम्बन्धः प्रत्यारम्भः, पुनरुपन्यासः क्रियते इति यावत् ॥

Nyaas

नहेत्ययं निपातसमुदायः प्रतिषेधे वर्तते। तेन युक्तं तिङन्तं प्रत्यारम्भविषये न निहन्यते। पुनरारम्भः=प्रत्यारम्भः। स च यत्र विषये क्रियते तद्दर्शयितुमाह -चोदितस्य इत्यादि। भुङक्ष्याधीष्वेत्येवं चोदितं विहितं यत्? कर्तव्यतयोपन्यस्तं भोजनादौ यदा तत्? कर्त्तुं न प्रवर्तते नाद्रियते, अवधीर्यत इति यावत्; तदा तस्यादधीरणेऽदज्ञाने सति तमवधीरयितारमुपालब्धुं या इच्छा तथोपालिप्सयैतस्यैव भोजनादेरवधीरितस्य प्रतिषेधेन सम्बन्धः प्रत्यारम्भः। प्रत्यारम्भः क्रियते इति। प्रतिषेधसम्बद्धस्य पुनरुपन्यासः क्रियत इत्यर्थः। नह भोक्ष्यसे, नहाध्येध्यसे इति। भुजेरिङश्च लृट्, थासः से (3.4.80) , अदुपदेशत्वात्? ङित्त्वाच्च तयोर्धात्वोर्लसार्वधातुकमनुदात्तम्। स्यः प्रत्ययस्वरेणोदात्तः। इच्छन्ति इति। इषु इच्छायाम् (धातुपाठः-135), तुदादित्वाच्छ, डषुगमियमां छः (7.3.77) ॥

Prakriyasarvasvam

<karika>प्राक्प्रेरितस्य धिक्कारे ह्युपालम्भार्थमस्य तु । सनिषेधं पुनर्वक्यं प्रत्यारम्भः प्रकीर्तितः ॥ ९०० ॥</karika> तस्मिन्नर्थे नहयुतं तिङन्तं न निहन्यते । कृष्ण भुङ्क्ष्वेति मात्रोक्ते नाहं भोक्ष्य इतीरिते । कुपिता सा यशोदाह कृष्ण त्वं नह भोक्ष्यसे । ९०१ ॥