81029: न लुट्

Padacheda: न | S | 0 | 0 |

लुट् | S | 1 | 1 |

Sutrartha


Vasu English Summary

By the लुट् (Periphrastic Future) is not unaccented when it is preceded by a word which is not a finite verb.

Vasu English Translation

By the लुट् (Periphrastic Future) is not unaccented when it is preceded by a word which is not a finite verb. This restricts the scope of the last sutra which was rather too wide. Thus श्वः कर्त्ता꣡, श्वः कर्त्ता꣡रौ, मासेन कर्ता꣡रः ॥ The Sarvadhatuka affixes डा, रौ, रस्, are anudatta after the affix तासि by (6.1.186), the whole affix तास् becomes udatta (3.1.3) and where the टि portion of तास् i. e. the syllable आस्, is elided before the affix डा, there also the आ of डा becomes udatta, because the udatta has been elided. See (6.1.161).

Kashika

पूर्वेणातिप्रसक्ते प्रतिषेध आरभ्यते। लुडन्तं तिङन्तं नानुदात्तं भवति। श्वः क॒र्ता। श्वः क॒र्तारा॑ै। मासेन क॒र्तारः॑। तासेः परस्य लसार्वधातुकस्यानुदात्तत्वे सति सर्वतासिरेवोदात्तः। यत्र तु टिलोपः, तत्रोदात्तनिवृत्तिस्वरो भवति॥

Siddhanta Kaumudi

लुडन्तं न निहन्यते । श्वःकर्ता । श्वःकर्तारौ ॥

Padamanjari

श्वः कर्तेत्यादि । अथात्र निघाते प्रतिषिद्धेकः स्वरः श्रूयते ? इत्याह - तासेः परस्येति ॥

Nyaas

आः कर्ता इति। करोतेर्लुट्, तासिः, लुटः प्रथमस्य डारौरसः (2.4.85) इत्येकवचनस्य डादेशः, डिति टिलोपः। तासेः परस्य इत्यादि। आगमः प्रत्ययस्वरेणाद्युदात्तः। तस्य यत्र टिलोपो नास्ति -इर्तारो, कर्तार इत्यादौ, तत्र नास्यनुदात्तेन्ङित (6.1.180) इत्यादिना लसार्वधातुकस्यानुदात्तत्वे कृते तासेरेवोदात्तत्वं भवति। यत्र तु टिलोपस्तत्र `अनुदात्तस्य च यत्रोदात्तलोपः (6.1.155) इति लसार्वधातुकमेवोदात्तं भवति॥

Prakriyasarvasvam

<karika>अतिङन्ताल्लुडन्तं तु तिङन्तं न निहन्यते । तेन तासेः स्वरे चाहं कर्तास्मि हरिसेवनम् ॥ ८९९ ॥</karika>