74065: दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्तेऽलर्ष्यापनीफणत्संसनिष्यदत्करिक्रत्कनिक्रदद्भरिभ्रद्दविध्वतोदविद्युतत्तरित्रतःसरीसृपतंवरीवृजन्मर्मृज्यागनीगन्तीति च¶
Padacheda: दाधर्ति | T | | |
दर्धर्ति | T | | |
दर्धर्षि | T | | |
बोभूतु | T | | |
तेतिक्ते | T | | |
अलर्षि | T | | |
आपनीफणत् | T | | |
संसनिष्यदत् | T | | |
करिक्रत् | T | | |
कनिक्रदत् | T | | |
भरिभ्रत् | T | | |
दविध्वतः | T | | |
दविद्युतत् | T | | |
तरित्रतः | T | | |
सरीसृपतम् | T | | |
वरीवृजत् | T | | |
मर्मृज्य | T | | |
आगनीगन्ति | T | | |
इति | S | 0 | 0 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
In the छन्दस् (Vedas) are found the following eighteen irregularly reduplicated forms - 1. दाधर्ति 2. दर्धर्ति 3. दर्धर्षि 4. बोभूतु 5. तेतिक्ते 6. अलर्षि 7. आपनीफणत् 8. संसनिष्यदत् 9. करिक्रत् 10. कनिक्रदत् 11.भरिभ्रत् 12. द्दविध्वतः 13. दविद्युतत् 14. तरित्रतः 15. सरीसृपतम् 16. वरीवृजत् 17. मर्मृज्य and 18. आगनीगन्ति।
Vasu English Translation¶
In the छन्दस् (Vedas) are found the following eighteen irregularly reduplicated forms - 1. दाधर्ति 2. दर्धर्ति 3. दर्धर्षि 4. बोभूतु 5. तेतिक्ते 6. अलर्षि 7. आपनीफणत् 8. संसनिष्यदत् 9. करिक्रत् 10. कनिक्रदत् 11.भरिभ्रत् 12. द्दविध्वतः 13. दविद्युतत् 14. तरित्रतः 15. सरीसृपतम् 16. वरीवृजत् 17. मर्मृज्य and 18. आगनीगन्ति। The word छन्दसि is drawn in to this sutra, by force of च ॥ The form दाधर्त्ति, is either from the Causative of the root धृङ् अवस्थाने or from धृञ्, in the श्लु or यङ् लुक्, there is lengthening of the abhyasa and elision of णि ॥ (2) So also दर्धर्त्ति is the form in slu, with रुक् augment of the abhyasa. (3) दर्धर्षि if it be a form of यङ् लुक्, there is no irregularity. (4) बोभूतु is from भू in the Intensive (यङ् लुक्), Imperative, irregularly without guna. Question: There is no necessity of including this, because there would be no guna regularly even under (7.3.88)? Answer: The inclusion of बोभूतु is a jnapaka, indicating that in every other case, the guna is not prohibited in the Intensive (यङ् लुक्), as बोभेति, बोभवीति (लट् with ईट् (7.3.94)) (5) तेतिक्तं is from तिज् in the Intensive yan luk, atmanepada is irregular. Question: The यङ् is ङित् and therefore by pratyaya lakshana rule (1.1.62) read with (1.3.12), the यङ् लुक् will be atmanepadi, where is the necessity of reading this nipatan? Answer: The atmanepada nipatan is a jnapaka, that in the Intensive yan luk the atmanepada affixes are not employed. (6) अलर्षि is from the root ॠ (इयर्ति), in Present, 2nd Person, the र् of abhyasa is not elided, though required by (7.4.60), and this र् is changed to ल irregularly. This form is found in the 3rd Person also, as अलर्त्ति दक्षः ॥ (7) आ पमीफणत् is from फण् with आ augment, and शतृ affix is added to यङ् लुक्, and in the reduplicate मी is added. (8) संसनिष्यदत् is from स्यन्द with the Preposition सम्, in the Intensive yan luk, with शतृ affix, नि being added in the abhyasa, the root स is changed to ष ॥ The Preposition सं is not absolutely necessary, with other Prepositions also we have this form, as आ तमिष्यदत् ॥ (9) करिक्रत् is from कृ (करोति), in the Intensive yan luk, with शतृ, in the abhyasa there is no palatal change (7.4.62), and रि is added to the reduplicate. (10) कनिक्रदत् from क्रन्द् in the Aorist with अङ्, reduplication, there is no chutva ( VII.4.62) of the reduplicate, and the augment नि is added. In the secular literature, the form is अक्रन्दीत् ॥ (11) भरिभ्रत् from भृ (बिभर्ति) in yan luk with शतृ, without इ of (7.4.76), without jastva, and रि is added to the reduplicate. (12) दविध्वतः from ध्वृ (ध्वरते) in the yan luk, satr, plural number Nominative. The रि is added to the reduplicate, the ऋ is elided, दविध्वतः रश्मयः सूर्यस्य ॥ (13) दविद्युतम् is from dyut, yan luk with satr, there is no vocalisation of the reduplicate, with अ change and वि augment, (14) तरित्रतः from तृ (तरति) with slu, satr, genitive singular: and रि added to abhyasa. (15) सरीसृपत् from सृप् with slu, satr, Accusative with री added to abhyasa. (16) वरीवृजत् from वृज् with slu, satr and री augment. (17) मर्मृज from मृज् with लिट् (Perfect) णल्, म् added to abhyasa, and य added to the root, and there is no vriddhi, because there is no short penultimate now. In fact (7.2.114) is to be qualified by the words लघूपध from (7.3.86). (18) आ गनीगन्ति is from गम् with the Preposition आ, in the Perfect, with slu, there is no chutva ( VII.4.62), and augment मी is added. वक्ष्यन्ती वेदा गनीगन्ति कर्णम् ॥
The word इति in the aphorism indicates that other forms, similar to these, are also to be included.
Bhashya¶
दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्तेऽर्लष्याऽऽपनीफणत्संनिष्यदत्करिक्रत्कनिक्रदद्भरिभ्रद्दविध्वतोदविद्युतत्तरित्रतःसरीसृपतंवरिवृजन्मर्मृज्यागनीगन्तीति च दाधर्त्तीति किं निपात्यते ? ॥ धारयतेः(2) श्लावभ्यासस्य दीर्घत्वं णिलुक्च ॥ (धारयतेः श्लावभ्यासस्य दीर्घत्वं णिलुक्च निपात्यते ) ॥ अनिपात्यं, तूतुजानवदभ्यासदीर्घत्वं पर्णशुषिवण्णिलुग्भविष्यति ॥ धृङोवा श्लावभ्यासस्य(1) दीर्घत्वं परस्मैपदं च ॥ ( धृङो वा(2) श्लावभ्यासस्यदीर्घत्वं परस्मैपदञ्च निपात्यते । ) ॥ अनिपात्यं, तूतुजानवदभ्यासस्य दीर्घत्वं युध्यतिवत्परस्मैपदं(च(3)) भविष्यति ॥ दर्धर्तीति किं निपात्यते ? ॥ धारयतेः श्लावभ्यासस्य रुग्णिलुक्च(4) ॥ (धारयतेः(3) श्र्लावभ्यासस्य रुक्(2) णिलुक्च निपात्यते ।) ॥ अनिपात्यम् । देवा अदुह्रवद्रुट्पर्णशुषिवण्णिलुक्च भविष्यति ॥ धृङो वाऽभ्यासस्य रुक्परस्मैपदञ्च ॥ (धृङो वाऽभ्यासस्य रुक्परस्मैपदञ्च निपात्यते ।) । अनिपात्यम्, देवा अदुग्रवद्रुड्युध्यतिवत्परस्मैपदञ्च भविष्यति ॥ दर्धर्षीति किं निपात्यते ? ॥ धारयतेः श्र्लावम्यासस्य रुग्लिलुक्च ॥ (धारयतेः श्र्लावभ्यासस्य(3) रुग्णिलुक्च निपात्यते) ॥ अनिपात्यम्, देवा अदुह्रवद्रुट्पर्णशुषिवण्णिलुक्च भविष्यति ॥ धुङो वाऽभ्यासस्यरुक् परस्मैपदं च ॥ (धृङो वाऽभ्यासस्य रुक्परस्मैपदञ्च(5) निपात्यते) ॥ अनिपात्यम्, देवा अद्रह्रवद्रुड्युध्यतिवत्परस्मैपदं च भविष्यति ॥ बोभूत्विति किं निपात्यते ? ॥ भवतेर्यङ्लुगन्तस्याऽगुणत्वम् ॥ (भवतेर्यङ्लुगन्तस्याऽगुणत्वं) निपात्यते ॥ नैतदस्ति प्रयोजनं, सिद्धमत्राऽगुणत्वं भूसुवोस्तिङीति ॥ एवं तर्हि नियमार्थं भविष्यति - अत्रैव यङ्लुगन्तस्य गुणो न भवति नान्यत्रेति ॥ क्व मा भूत् ? ॥ बोभवतीति(6) । तेतिक्ते इति किं निपात्यते ? ॥ तिजेर्यङ्लुगन्तस्यात्मनेपदम् ॥ (तिजेर्यङ्लुगन्तस्यात्मनेपदं) निपात्यते ॥ नैतदस्ति प्रयोजनं, सिद्धमत्रात्मनेपदमनुदात्तङित आत्मनेपदमिति ॥ एतन्नियमार्थं(7) तर्हि भविष्यति अत्रव यङ्लुगन्तस्यात्मनेपदं भवति नान्यत्रेति ॥ क्व मा भूत् ? ॥ बेभिदीति चेच्छिदिति ॥
Kashika¶
दाधर्ति दर्धर्ति दर्धर्षि बोभूतु तेतिकते अलर्षि आपनीफणत् संसनिष्यदत् करिक्रत् कनिक्रदत् भरिभ्रत् दविध्वतः दविद्युतत् तरित्रतः सरिसृपतम् वरीवृजत् मर्मृज्य आगनीगन्ति इत्येतानि अष्टादश छन्दसि विषये निपात्यन्ते। दाधर्ति दर्धर्ति दर्धर्षि इति धारयतेः, धृङो वा श्लौ यङ्लुकि वा अभ्यासस्य दीर्घत्वं णिलोपश्च। दाधर्ति। एवं दर्धर्ति। श्लौ रुकभ्यासस्य निपात्यते। तथा दर्धर्षि इति। अत्र च यल्लक्षणेन अनुपपन्नं तत् सर्वं निपातनात् सिद्धम्। बोभूतु इति भवतेः यङ्लुगन्तस्य लोटि गुणाभावो निपात्यते। नैतदस्ति प्रयोजनम्, अत्र भूसुवोस्तिङि (7.3.88) इति गुणाभावः सिद्धः? ज्ञापनार्थं तर्हि निपातनम् एतत्। ज्ञापयति, अन्यत्र यङ्लुगन्तस्य गुणप्रतिषेधो न भवतीति। बोभोति, बोभवीति। तेतिक्ते तिजेः यङ्लुगन्तस्य आत्मनेपदं निपात्यते। यङो ङित्त्वात् प्रत्ययलक्षणेन आत्मनेपदं सिद्धम् एव? ज्ञापनार्थं तु आत्मनेपदनिपातनम्, अन्यत्र यङ्लुगन्तादात्मनेपदं न भवति। अलर्षि इति इयर्तेः लटि सिपि अभ्यासस्य हलादिः शेषापवादो रेफस्य लत्वं निपात्यते। सिपा निर्देशोऽतन्त्रम्, तिप्यपि दृश्यते अलर्ति दक्षः। आपनीफणतिति फणतेराङ्पूर्वस्य यङ्लुगन्तस्य शतरि अभ्यासस्य नीक् निपात्यते। संसनिष्यदतिति स्यन्देः संपूर्वस्य यङ्लुक्, शतर्येव अभ्यासस्य निक्, धातुसकारस्य षत्वं निपात्यते। न चास्य सम्पूर्वता तन्त्रम्, अन्यत्र अपि हि दृश्यते, आसनिष्यदतिति। करिक्रतिति करोतेः यङ्लुगन्तस्य शतरि चुत्वभ्यावः, अभ्यासककारस्य रिगागमो निपात्यते। कनिक्रदतिति क्रन्देः लुङि च्लेः अङादेशः, द्विर्वचनमभ्यासस्य, चुत्वाभावः, निगागमश्च निपात्यते। तथा चास्य हि विवरणं कृतम्। अक्रन्दीतिति भाषायाम्। भरिभ्रतिति बिभर्तेः यङ्लुगन्तस्य शतरि भृञाम् इत् (7.4.76) इति इत्वाभावो जश्त्वाभावोऽभ्यासस्य रिगागमः निपात्यते। दविध्वतः इति ध्वरतेः यङ्लुगन्तस्य शतरि जसि रूपम् एतत्। अत्र अभ्यासस्य विगागमः ऋकारलोपश्च निपात्यते। दविध्वतो रश्मयः सूर्यस्य। दविद्युततिति द्युतेः यङ्लुगन्तस्य शतरि अभ्यासस्य अम्प्रसारणाभावः अत्त्वम्, विगागमश्च निपात्यते। तरित्रतः इति तरतेः शतरि श्लौ षष्ठ्येकवचने अभ्यासस्य रिगागमः निपात्यते। सरीसृपतम् इति सृपेः शतरि श्लौ द्वितीयैकवचने अभ्यासस्य रीगागमः निपात्यते। वरीवृजतिति वृजेः शतरि श्लौ रीगागमः निपात्यते अभ्यासस्य। मर्मृज्य इति मृजेः लिटि णलि अभ्यासस्य रुगागमः धातोश्च युगागमो निपात्यते। ततो मृजेर्वृद्धिः (7.2.114) न भवति, अलघूपधत्वात्। लघूपधगुणे प्राप्ते वृद्धिरारभ्यते। आगनीगन्तीति आङ्पूर्वस्य गमेर्लति श्लौ अभ्यासस्य चुत्वाभावः नीगागमश्च निपात्यते। वक्ष्यन्ती वेदागनीगन्ति कर्णम्। इतिकरणम् एवं प्रकारणामन्येषामप्युपसङ्ग्रहार्थम्।
Siddhanta Kaumudi¶
एतेष्टादश निपात्यन्ते । आद्यास्त्रयो धृङो धारयतेर्वा । भवतेर्यङ्लुगन्तस्य गुणाभावः । तेन भाषायां गुणो लभ्यते । तिजेर्यङ्लुगन्तात्तङ् । इयर्तेर्लटि हलादिःशेषापवादो रेफस्य लत्वमित्वाभावश्च निपात्यते । अलर्षि युध्म खजकृत्पुरन्दर (अल॑र्षि युध्म खजकृत्पुरन्दर) । सिपा निर्देशो न तन्त्रम् । अलर्ति दक्ष उत (अल॑र्ति॒ दक्ष॑ उ॒त) । फणतेराङ्पूर्वस्य यङ्लुगन्तस्य शतरि अभ्यासस्य नीगागमो निपात्यते । अन्वापनीफणत् (अन्वा॒पनी॑फणत्) । स्यन्देः संपूर्वस्य यङ्लुकि शतरि अभ्यासस्य निक् । धातुसकारस्य षत्वम् । करोतेर्यङ्लुगन्तस्याभ्यासस्य चुत्वाभावः । क्रन्देर्लुङिच्लेरङ्द्विर्वचनमभ्यासस्य चुत्वाभावो निगागमश्च । कनिक्रदज्जनुपम् (कनि॑क्रदज्ज॒नुप॑म्) । अक्रन्दीदित्यर्थः । बिभर्तेरभ्यासस्य जश्त्वाभावः । वि यो भरिभ्रदोषधीषु (वि यो भरि॑भ्र॒दोष॑धीषु) । ध्वरतेर्यङ्लुगन्तस्य शतरि अभ्यासस्य विगागमो धातोर्ऋकारलोपश्च । दविध्वतो रश्मयः सूर्यस्य (दवि॑ध्वतो र॒श्मयः॒ सूर्य॑स्य) । द्युतेरभ्यासस्य संप्रसारणाभावोऽत्वं विगागमश्च । दविद्युतद्दीद्यच्छोशुचानः (दवि॑द्युत॒द्दीद्य॒च्छोशु॑चानः) । तरतेः शतरि श्लौ द्वितीयैकवचने रीगागमोऽभ्यासस्य । वृजेः शतरि श्लावभ्यासस्य रीक् । मृजेर्लिटि णल् अभ्यासस्य रुक् धातोश्च युक् । गमेराङ्पूर्वस्य लटि श्लावभ्यासस्य चुत्वाभावो नीगागमश्च । वक्ष्यन्ती वेदागनीगन्ति कर्णम् (वक्ष्यन्ती॒ वेदाग॑नीगन्ति कर्ण॑म्) ॥
Padamanjari¶
धारयतेरिति ।’घृङ् अवस्थाने’ ण्यन्तः । धृङे वेति । स एव प्रकृत्यन्तरम् । श्लौ यङ्लुकिचेति ।’श्लौ’ इत्येतद्धारयतेः, धृङे वेत्युभाभ्यां सम्बध्यते ।’यङ्लुकि च’ इत्येततु’धृङे वा’ इत्यनेनैव । तदयमर्थः - दाधर्तीति धारयतेः श्लौ णिलुगभ्यासदीर्घत्वं च निपात्यते, धृङे वा श्लावभ्यासदीर्घत्वम् । अत्र परस्मैपदमपि निपात्यम्, तस्यैव वा यङ्लुकि अभ्यासदीर्घत्वं निपात्यत इति । दर्धर्तीत्यत्र तु यङ्लुक् । पक्षे दाधर्तीति । निपातनेन प्राप्तस्य दीर्घत्वस्याभावो निपात्यते, रुग्रिकौ च लुकिऽ इत्येव रुक् सिद्धः । श्लुपक्षे तु रुगपि निपात्यः । दर्धर्षीत्यत्र यङ्लुक्, पक्षे न किञ्चिन्निपात्यम् । बोभूत्विति । यङ्लुगन्ताल्लोट् । बोभवीतीति । लट्,’यहो वा’ इति पक्षे ईट् । प्रत्ययलक्षणेनेति । यद्यपि ठनुदातङ्तिःऽ इति ङ्त्विनिमितमात्मनेपदं न प्रत्यनिमितम्; तथापि लोलूयते इत्यादौ यङ्न्तादात्मनेपदम्, तत्प्रत्ययस्य ङ्त्वाइदिति प्रत्ययलक्षणं भवत्येव । एवं चादादिषु’चर्करीतं परस्मैपदम्’ इति परस्मैपदग्रहणमनुवादः । कर्तर्येव चेदमात्मनेपदं नियम्यते इति भावकर्मणोर्यङ्लुगन्तादात्मनेपदं भवत्येव । करिक्रदिति । अत्र चुत्वाभाव एव निपात्यः, रिगागमस्तु रुग्रिकौ चऽ इत्येव सिद्धः । तथा चास्येति । असंय मन्त्रपदस्य ब्राह्मणे विवरणम् । भरिभ्रदिति । अत्रापि जश्त्वाभाव एव निपात्यः । जसि रूपमिति ।’नाभ्यस्ताच्छतुः’ इति नुमः प्रतिषेधः ॥
Nyaas¶
चकारश्छन्दसीत्यनुकर्षणार्थः। धारयतेः इति। धृञ्? धारणे (धातुपाठः-900) धृङ्? अवस्थाने (धातुपाठः-1412) धृङ्? अवध्वंसने (धातुपाठः-960) - इत्येताषां ण्यन्तानां ग्रहणम्, धृङो वा इति। अनन्तरोक्तयोरण्यन्तयोः। श्लौ यङ्लुकि वा इति। तत्र तावत्? दाधर्त्तीति - यदा धारयतेः श्लौ निपात्यते, तदा णिलोपोऽभ्यासस्य दीर्घत्वं निपात्यते। यदा तु यङ्लुकि, तदाऽनेकाच्त्वाद्यङ्? न प्राप्नोति, सोऽपि निपात्यते, उपधाह्रस्वत्वञ्च। णिलोपस्त्वार्धधातुकत्वादेव यङः **णेरनिटि** (6.4.51) इत्येवं सिद्धः। भ्यासस्य दीर्घत्वमपि **दीर्घोऽकितः** (7.4.83) इत्येवं सिद्धम्। `दर्धर्ति, दर्धर्षि इति। अत्रापि यदा धारयतेः श्लौ तदाऽभ्यासस्य रुगागमो णिलोपश्च। श्लुस्तु सर्वत्र बहुलं छन्दसि (7.4.78) इत्यनेनैव वेदितव्यः। यदा तु यङ्लुकि, तदा दीर्घोऽकितः (7.4.83) इत्यनेन दीर्घत्वे प्राप्ते तदभावश्च निपात्यते। यदा धृङः - दाधर्तीति श्लौ निपात्यते, तदा द्विर्वचने कृतेऽभ्यासस्य दीर्घत्वं निपात्यते। यदा तु तस्यैव धृङो यङ्लुकि तदाऽस्यासस्य ऋतश्च (7.4.92) इति प्राप्तस्य रुगादेरभावो निपात्यते। दर्घर्ति, दर्घर्षि इति। अत्रापि यदा ध#ऋङ्, श्लौ, तदाभ्यासस्य रुगागमो निपात्यते; यदा तु यङलुकि, तदा पूर्ववत्? प्राप्तस्य दीर्घस्याभावो निपात्यते, न तु रुगागमः; तस्य हि रुग्रिकौ च लुकि (7.4.91) इत्येवं सिद्धत्वात्? परस्मैपदं च व्यत्ययो बहुलम्` (3.1.85) इति। बोभूतु इति। अन्यत्र इति। लोट्प्रथमपुरुषस्यैकवचनापेक्षमन्यत्वं वेदितव्यम्। बोभवीति इति। अदादित्वाच्छपो लुक्? बहुलं छन्दसि (7.4.78) इति बहुलवचनत्वाद्भवति; यङो वा (7.3.94) इति पक्षे ईट्। तेतिषते इति। तिजेः इति। तिज निशाने (धातुपाठः-971) इत्येतस्य। ननु च यङो ङित्त्वात्? प्रत्ययलक्षणेनात्मनेपदं (1.1.61) सिद्धम्, एतत्? किमर्थं निपात्यते? इत्याह - यङो ङित्त्वात् इत्यादि। ज्ञापनार्थमात्मनेपदं सिद्धम्। ज्ञापनार्थमात्मनेपदं निपात्यत इति दर्शयति। ज्ञापनस्य तु प्रयोजनम् - अन्यत्र यङ्लुगन्तादात्मनेपदं न भवतीति - भावः, बोभवीतीति। अलर्षि इति। ऋ सृ गतौ (धातुपाठः-1098,1099) - इत्यस्य जौहोत्यादिकस्य उरत् (7.4.66) इत्यत्त्वे कृते रपरत्वे च हलादिशेषः प्राप्नोति, तदपवादौ रेफस्य लत्वं निपात्यते। किं पुनः कारणं सिपा निर्देशोऽयमतन्त्रमित्येवं व्याख्यायते? इत्याह - तिप्यपि इत्यादि। फणतेः इति। फण गतौ (धातुपाठः-821) - इत्येतस्य। स्यन्देः इति। स्यन्दू प्ररुआवणे (धातुपाठः-761) - इत्येतस्य। किमर्थं पुनः सम्पूर्वस्यातन्त्रत्वं व्याख्यायते? इत्याह - अत्रापि हि इत्यादि। करिक्रत् इति। डुकृञ्? करणे (धातुपाठः-1472)। यणादेशे कृतेऽनृकारान्तत्वात्? ऋतश्च (7.4.92) इत्यभ्यासस्य रिगागमो न प्राप्नोति, स निपात्यते। क्रन्देः इति। कदि क्रदि क्लदि आह्वाने रोदने च (धातुपाठः-772,773,774) इत्येतस्य। कथं पुनज्र्ञायते लुङीत्येतन्निपातनम्? इत्याह - अस्य हि इत्यादि। यस्माल्लुङन्तेन क्रन्दतेरर्थो निर्दिश्यते, ततो ज्ञायते - लुङयेतन्निपातनमिति। अत्र चाभ्यासस्य रीगागमो निपात्यत एव। विभर्त्तेः इति। डुभृञ्? धारणपोषणयोः (धातुपाठः-1087) इत्यस्य। ध्वरतेः इति। ध्वृ हूच्र्छने (धातुपाठः-939)। द्युतेः इति। द्युत दीप्तौ (धातुपाठः-741) इत्यस्य। सम्प्रसारणाभावः इति। द्युतिस्वाप्योः सम्प्रसारणम् (7.4.67) इति सम्प्रसारणं प्राप्नोति, अतस्तदभावो निपात्यते। तरतेः इति। तृ? प्लवनतरणयोः (धातुपाठः-969) इत्यस्य। सृपेः इति। गम्लृ सृप्लृ गतौ (धातुपाठः-982,983) इत्यस्य। वृजेः इति। वृजो वर्जने (धातुपाठः-1812) इत्येतस्य। मर्मृज्य ति। मृजू शुद्धौ (धातुपाठः-1066) इत्येतस्य णलि रूपम्। आगनीगन्ति इति। एतदपि सटि तिपि। इतिकरणस्य प्रकारार्थतां दर्शयितुमाह - एवम्प्रकाराणाम् इत्यादि। दाधर्त्तिप्रभृतीनामिव येषां छन्दस्यलाक्षणिकं कार्यं दृश्यते त एवम्प्रकारा दाधर्त्तिसदृशा इत्यर्थः। के पुनस्ते? गलगर्तीत्येवमादयः। गृ? निगरणे (धातुपाठः-1410) इत्येतस्य यङ्लुकि श्लौ वा गलगर्तीति रूपम्, अभ्यासस्य चर्त्त्वामावः, हलादिशेषापवादः, रेफस्य लत्वं च निपात्यते॥
Prakriyasarvasvam¶
एषु लक्षणेऽनुपपन्नं सर्वं निपात्यते । आद्यास्त्रयो धारेर्धृञो वा श्लौ यङ्लुकि वा । भुवस्तिजश्च यङ्लुकि द्वयं (बोभूतु) तेतिक्ते इति । (ग्मा?) गत्यर्थस्य इयर्तेः सिपिअलर्षि युद्धम् । सिबन्तन्त्रम् । अलर्ति दक्षः । आङ् पूर्वस्य फणेः यङ्लुकि शतृ पयामङ्कास्यन्वापनीफणत् । स्यन्देर्यङ्लुकि संसनिष्यत् । संपूर्वत्वमतन्त्रम् । कृञो यङ् लुकि शतृ । करिक्रत् । क्रन्देर्लुङिः¹ कनिक्रदज्जनुषम् । ध्वृ हुर्छने भृजो ध्वरतेच्छर्देतेश्च यङ्लुकि श तृ । भरिभ्रत् । दविद्यवतो रश्मयः । दविद्युतत्या रुचा । तरतेः शतरि श्लुः ङसन्तम् । तरित्रतः । पुनः सृपेर्यङ्लुकि शतरिअम् सरीसृपतम् वृजेः शतरि श्लुः । वरीवृजत् । मृजेर्णलि मर्मृज्य । आगमेर्यङ्लुक् । आगनीगन्ति कर्णम् । इति करणादन्येऽप्येवंस्युः । दाधर्थ पृथिवीम् ।