74061: शर्पूर्वाः खयः¶
Padacheda: शर्पूर्वाः | S | 1 | 3 |
खयः | S | 1 | 3 |
Sutrartha¶
अभ्यासे यदि शर्-वर्णात् परः खय्-वर्णाः सन्ति तर्हि ते सर्वे अवशिष्यन्ते, अन्ये हल्-वर्णाः लुप्यन्ते ।
हलादि शेषः (7.4.60) इत्यनेन अभ्यासे विद्यमानेभ्यः हल्-वर्णेभ्यः केवलं प्रथमस्थाने विद्यमानः हल्-वर्णः अवशिष्यते, अन्ये हल्-वर्णाः लुप्यन्ते । परन्तु यदि अभ्यासे शर्-वर्णस्य खय्-वर्णेन सह संयोगः अस्ति, तर्हि संयोगे विद्यमानः खय्-वर्णः एव अवशिष्यते, अन्ये हल्-वर्णाः लुप्यन्ते - अयमस्य सूत्रस्य अर्थः । यथा - 1. ‘स्पर्ध्’ अस्मिन् धातौ सकारात् परः पकारः अस्ति । अतः अस्य धातोः द्वित्वे कृते ‘स्पध् स्पर्ध्’ इति स्थिते हलादि शेषः (7.4.60) इत्यनेन पकारलोपे प्राप्ते अपवादत्वात् शर्पूर्वाः खयः (7.4.61) इत्यनेन पकारः अवशिष्यते, अन्ये हल्-वर्णाः लुप्यन्ते । अतः अत्र सकारलोपः धकारलोपः च भवति, पकारः अवशिष्यते । अतएव स्पर्ध्-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनम् ‘पस्पर्ध’ इति भवति । 2. ‘स्था’ इत्यस्य द्वित्वे ‘स्था स्था’ इति स्थिते अनेन सूत्रेण थकारः अवशिष्यते, अतः ‘था स्था’ इति स्थितिः भवति । अग्रे अन्यां प्रक्रियां कृत्वा ‘तस्थौ’ इति रूपम् जायते । 3. ‘श्च्युत्’ धातोः द्वित्वे ‘श्च्युत् श्च्युत्’ इति स्थिते अभ्यासे ‘श् + च् + य् =’ अयम् संयोगः अस्ति । अतः अनेन सूत्रेण अत्र चकारः अवशिष्यते, शकार-यकार-तकाराणाम् लोपः भवति । अत’ ‘चु श्चुत्’ इति स्थितिः जायते । अग्रे प्रक्रियां कृत्वा ‘चुश्च्योत’ इति रूपं सिद्ध्यति । ज्ञातव्यम् - 1. शर् प्रत्याहारे श्, ष्, स् एते वर्णाः आगच्छन्ति । खय्-प्रत्याहारे वर्गप्रथमाः वर्गद्वितीयाः च आगच्छन्ति । 2. अस्मिन् सूत्रे ‘शर्पूर्वाः खयः’ इति बहुवचनमस्ति । अतः यदि अभ्यासे द्वौ अधिकाः वा शर्-पूर्वाः खय्-वर्णाः सन्ति तर्हि ते सर्वे अवशिष्यन्ते । परन्तु अस्य उदाहरणानि न लभन्ते ।
Sutrartha (English)¶
For an अभ्यास, all खय् letters that follows शर् letters are retained, all other हल् letters are removed.
Vasu English Summary¶
Of a reduplicate, the hard compound (aspirate and un-aspirate) when preceded by a sibilant, are only retained, the other consonants are elided.
Vasu English Translation¶
Of a reduplicate, the hard compound (aspirate and un-aspirate) when preceded by a sibilant, are only retained, the other consonants are elided. As चुश्च्योतिषति, from schyutir ksharane, तिष्ठासति, पिस्पन्दिषते ॥ Why do we say ‘when preceded by a sibilant’? Observe पपाच ॥ Why do we say hard consonants? Observe सस्रौ ॥
Vart:- It should be said rather, a hard consonant preceded by a hard consonant or a sibilant is only retained : and the खर् consonants are elided : as in उचिच्छिषति, here उछ् becomes उच्छ् by the augment त् (तुक्); in the reduplicate the च् should be elided, and छ् retained out of च्छ; and not च् retained and छ् elided; for the च् represents त्, and if this were retained, it would be त् and not च् that would be heard : for by (8.2.1), the change of त् to च् is asiddha for the purposes of this rule.
Bhashya¶
शर्पूर्वाः खयः ॥ शर्पूर्वशेषे खर्पूर्वग्रहणम् ॥ शर्पूर्वशेषे खर्पूर्वग्रहणं कर्तव्यम् । खर्पूर्वाः खयः शिष्यन्ते खरो लुप्यन्त इति वक्तव्यम् ॥ किं प्रयोजनम् ? ॥ उचिच्छिषति । व्युचिच्छिषति(5) । तुकः श्रवणं मा भूदिति ॥ तत्तर्हि वक्तव्यम् ? ॥ न वक्तव्यं, चर्त्वे कृते तुग्न भविष्यति ॥ असिद्धं र्चत्वं तस्याऽसिद्धत्वात्तुक्प्राप्नोति ॥ सिद्धकाण्डे पठितम् - ॥ अभ्यासजश्त्वर्चत्वमेत्वतुकोः ॥ इति ॥ एवमप्यन्तरङ्गत्वात्प्राप्नोति ॥ तस्मात्खपूर्वग्रहणं कर्तव्यम् ॥ न कर्तव्यम् । एत्वतुग्ग्रहणं न करिष्यते अभ्यासजश्त्वर्चत्वं सिद्धमित्येव ॥ आदिशेषप्रसङ्गस्तु ॥ आदिशेषस्तु प्राप्नोति । तिष्ठासति ॥ ननु चाऽनादिशेष आदिशेषं बाधिष्यते ॥ कथमन्यस्योच्यमानमन्यस्य बाधकं स्यात् ? ॥ असति खल्वपि सम्भवे बाधनं भवतीति, अस्ति च सम्भवो यदुभयं स्यात् (इति) ॥ यद्यादिशेषोऽपि भवति शर्पूर्वचनमिदानीं किमर्थं स्यात् ? ॥ शर्पूर्ववचनं किमर्थमिति चेत्खयां लोपप्रतिषेधार्थम् ॥ शर्पूर्वचनं किमर्थमिति चेत्खयां (लोपप्रतिषेधार्थं, खयां) लोपो मा भूदिति ॥ व्यपकर्षविज्ञानात्सिद्धम् ॥ व्यपकर्षविज्ञानात्सिद्धमेतत् ॥ किमिदं व्यवकर्षविज्ञानादिति ? ॥ अपवाद विज्ञानात् । अपवादत्वादत्राऽनादिशेष आदिशेषं बाधिष्यते ॥ ननु चोक्तं - कथमन्यस्योच्यमानमन्यस्य बाधकं स्यादिति ॥ इदं तावदयं प्रष्टव्यः - यदि तन्नोच्यते किमिह स्यात् ? ॥ हलादिशेषः ॥ हलादिशेषश्चेन्नाऽप्राप्ते हलादिशेष इदमुच्यते तद्बाधकं भविष्यति ॥ यदप्युच्यते - असति खल्वपि सम्भवे बाधनं भवत्यस्ति च सम्भवो यदुभयं स्यादिति(1) । सत्यपि सम्भवे बाधनं भवति, तद्यथा दधि ब्राह्मणेभ्यो दीयतां तक्रं कौण्डिन्यायेति, सत्यपि सम्भवे दधिदानस्य तक्रदानं बाधकं भवति । एवमिहापि सत्यपि सम्भवे अनादिशेष आदिशेषं बाधिष्यते ॥ (शर्पूर्वाः खयः) ॥
Kashika¶
अभ्यासस्य शर्पूर्वाः खयः शिष्यन्ते, अन्ये हलो लुप्यन्ते। चुश्च्योतिषति। तिष्ठासति। पिस्पन्दिषते। शर्पूर्वाः इति किम्? पपाच। खयः इति किम्? सस्नौ। खर्पूर्वाः खय इति वक्तव्यम्। उचिच्छिषति इत्यत्र उच्छेः अन्तरङ्गत्वात् तुकि कृते द्विर्वचनम्, तत्र हलादिः शेषे सति अभ्यासे तकारः श्रूयेत।
Siddhanta Kaumudi¶
अभ्यासस्य शर्पूर्वाः खयः शिष्यन्ते । हलादिः शेषः (SK2179) इत्यस्यापवादः । पस्पर्धे । स्पर्धिता । स्पर्धिष्यते । स्पर्धताम् । अस्पर्धत । स्पर्धेत । स्पर्धिषीष्ट । अस्पर्धिष्ट । अस्पर्धिष्यत ।{$ {!4 गाधृ!} प्रतिष्ठालिप्सयोर्ग्रन्थे च$} । गाधते । जगाधे ।{$ {!5 बाधृ!} लोडने$} । लोडनं प्रतिघातः । बाधते ।{$ {!6 नाथृ!} {!7 नाधृ!} याच्ञोपतापैश्वर्याशीःषु$} ।<!आशिषि नाथ इति वाच्यम् !> (वार्तिकम्) ॥ अस्याशिष्येवात्मनेपदं स्यात् । नाथते । अन्यत्र नाथति । नाधते ।{$ {!8 दध!} धारणे$} । दधते ॥
Laghu Siddhanta Kaumudi¶
अभ्यासस्य शर्पूर्वाः खयः शिष्यन्तेऽन्ये हलो लुप्यन्ते। तस्तार। तस्तरतुः। तस्तरे। गुणोऽर्तीति गुणः। स्तर्यात्॥
Balamanorama¶
शर्पूर्वाः खयः - किन्तु लिटस्तादेशेलिटस्तझयो॑रिति तस्यैशिलिटि धातो॑रिति द्वित्वे ‘हलादिः शेषः’ इत्यभ्यासे प्रथमहल्व्यतिरिक्तहलां निवृत्तौ सस्पर्धे इति प्राप्ते — शूर्पर्वाः । अभ्यासस्येति ।अत्र लोपोऽभ्यासस्ये॑त्यतस्तदनुवृत्तेरिति भावः । ‘शर्पूर्वाः’ इत्यत्र शर्पूर्वो येभ्य इत्यतद्गुणसंविज्ञानो बहुव्रीहिः । तेन शर्न शिष्यते । शिष्यन्त इति । ‘हलादिः शेषः’ इत्यतः शेष इत्यनुवृत्तं कर्मणि घञन्तं बहुवचनान्ततया विपरिणम्यत इति भावः । तथा च प्रकृते अभ्यासे खय् पकारः शिष्यते ।न न्द्राः संयोगादय॑ इति रेफस्य द्वित्वनिषेधो न शङ्क्यः, द्वितीयैकाजवयवस्यैव तन्निषेधात् । तदाह — पस्पर्ध इति । नच व्रवश्चेत्यत्राभ्यासे चकार एव शिष्येतेति वाच्यं, हलादिः शेष इत्यतो हि आदिरित्यप्यनुरवर्तते । शव्र्यतिरिक्तवर्णापेक्षया धात्वादिभूता इत्यर्थः । पस्पर्धाते, पस्पर्धिरे, पस्पर्धिषे पस्पर्धाथे, पस्पधिंध्वे , पस्पर्धे पस्पर्धिवहे पस्पर्धिमहे इति लिटि रूपाणि सुगमानि । स्पर्धितेति । लुटि एध धातुवद्रूपाणि सुगमानीति भावः । स्पर्धिष्यत इति । लृटि एधदातुवद्रूपाणीति भावः । स्पर्धतामिति । लोटि एधवद्रूपाणीति भावः । अस्पर्धतेति । लङि एधिवद्रूपाणीति भावः । हलादित्वादडेव न त्वाडिति विशेषः । स्पर्धेतेति । विधिलिङि एधिवद्रूपाणि । अडागमः, न त्वाडिति विशेषः । अस्पर्धिष्यतेति । लृङि एधिवद्रूपाणि । अस्पर्धिष्टेति । लुङि एधिवद्रूपाणि । अडागमः, न त्वाडिति विशेषः । अस्पर्धिष्यतेति । लृङि एधिवद्रूपाणि । अडागमो विशेषः, न त्वाट् । गाधृ प्रतिष्ठेति । चतुर्थान्तो धातुः । ऋकारोनाग्लोपिशास्वृदिता॑मिति निषेधार्थः । अजगाधत् प्रतिष्ठा — आधारे स्थितिः । ग्रन्थः — ग्रन्थनं, रचनम् । जगाधे इति । लिटि द्वित्वादि । अभ्यासस्य ह्रस्वः । चुत्वम् । बाधृ इति । प्रतिघातः — पीडनम् । नाथृनाधृ इति । द्वितीयचतुर्थान्तौ धातू । उपतापः — ज्वरप्रयुक्ता पीडा । आशीः — आशासनम् । द्वितीयान्तस्य नाथृधातोर्विशेषमाह — आशिषि नाथ इति । अत्र ‘नाथ’ इति षष्ठी । ‘अनुदात्तङित’ इत्यत आत्मनेपदमित्यनुवर्तते । अनुदात्तेत्वादेव सिद्धे नियमार्थमिदं वार्तिकं तदाह — अस्याशिष्येवेति । आशासनार्थवृत्तेरेव नाथधातोरात्मनेपदम् । याच्ञाद्यर्थवृत्तेषुशेषात्कर्तरी॑ति परस्पैपदमेवेत्यर्थः । नाथत इति । आशास्ते इत्यर्थ- । अन्यत्रेति । याच्ञाद्यर्थे विद्यमानस्येत्यर्थः । अथ चतुर्थान्तस्य नाधधातोरुदाहरति — नाधते इति । दधेति । चतुर्थान्तोऽयम् ।
Tattvabodhini¶
शर्पूर्वाः खयः - शर्पूर्वाः । अतद्गुणसंविज्ञानोऽयं बहुव्रीहिः । तेन शरो न शेषः, कि #ं तु खयामेव । इह स्पर्ध इत्यत्र रेफस्यापि द्वित्वं भवति, द्वितीयस्यैकाचः संबन्धिरेफस्यैवनन्द्राः॑ इति निषेधादिति बोध्यम् । गाधृ । ऋकारोनाग्लोपिशास्वृदिता॑मिति निषेधार्थः । अजगाधत् । आस्पदं स्थापना अवस्थानं वा प्रतिष्ठा । एकत्र स्थापनं संदर्भो वा ग्रन्थः । नाथृ नाधृ । उपतापो रोगः । अनुदात्तेत्त्वादेव सिद्धे नियमार्थं वार्तिकमित्याह - आशिषि नाथ इति वाच्यम् । आशिष्येवेति । अत एकहल्मध्ये । एकशब्दोऽत्राऽसहायवचनः । एकयोर्हलोर्मध्ये इत्यर्थः । तद्व्याचष्टे — असंयुक्तेति । इष्टानुरोधेन लिटीत्यावत्र्य आदेशविशेषणमेत्वस्य नमित्तं च क्रियत इत्याह —
Padamanjari¶
पूर्वेण शरां शेषे प्राप्ते खयां शेषो विधीयते, नत्रैकाभ्यासविषयेणानादिशेषेणादिशेषो बाध्यते; सत्यपि सम्भवे बाधनं भवतीति न्यायात् । किञ्चासम्भवोऽप्यत्र शक्यते वक्तुम्, कथम् ? शेषशब्दोऽयं निवृत्तिमदवस्थानमाह, न चोबयोरवस्थाने निवृत्या विशिष्टमवस्थान सम्भवति । चुश्च्योतिषतीति ।’श्च्युतिर् क्षरणो’ । पिस्पन्दिषत इति ।’स्पदि किञ्चिच्चलने’ , अनुदातेत् । सस्नाविति ।’ष्णा शौचे’ । खर्पूर्वा इति । सूत्रे शर्ग्रहणमपनीय खर्ग्रहणं कर्तव्यमित्यर्थः । उचिच्छिषतीति । ठुच्छी विवासेऽ। अन्तरङ्गत्वादिति । उपदेशानन्तरमेव प्राप्तत्वादन्तरङ्गत्वातुकि कृते द्विवर्चनमिति । तच्च’पूर्वत्रासिद्धम्’ इति चुत्वस्यासिद्धत्वात् सतुक्क एव भवति, तत्र कृते यद्यत्र हलादिशेषः स्यात्, अभ्यासे तकारः श्रूयेत । एतच्च’पूर्वत्रासिद्धीयमद्विर्वचने’ इत्येतदनाश्रित्योक्तम् । तदाश्रयणे तु चुत्वे कृते तस्य सिद्धत्वात् च्छिस्शब्दस्य द्विर्वचने चकारशेषेणैव रूपं सिध्यति; न चेदमस्ति -‘निमिताभावे नैमितकस्याप्यभावः’ इति, येन चुत्वं निवर्तते ॥
Nyaas¶
पूर्वेण शरां सेषे प्राप्ते खयां शेष आरभ्यते। अनादिशेषश्चायमादिशेषं बाधते। न हि शरामवस्थाने खयां शेषशब्दो विशेषणमुपपद्यते। स हि निवृत्त्या विशिष्टमवस्थानमाह - इत्युक्तम्। न चोभयोरवस्थाने निवृत्त्या विशिष्टमवस्थानं भवति। तस्मादादिशेषस्यायमनादिशेषोऽपवादः। चुश्चोतिषति इति। श्चुतिक्र्षरणे (धातुपाठः-41), सन्, इट्। तिष्ठासति इति। षष्ठा गतिनिवृत्तौ (धातुपाठः-928)। पिस्पन्दिषते इति। स्पदि किञ्चिच्चलने (धातुपाठः-14), अनुदात्तेत्, इदित्वान्नुम्, पूर्ववत् सनः (1.3.62) इत्यात्मनेपदम्। सस्नौ इति। ष्णा शौचे (धातुपाठः-1052)। पूर्वेवण्णल औत्वम्। खर्पूर्वाः इत्यादि। उचिच्छिवति इति। उच्छी विवासे (धातुपाठः-216), सन्? उछिष्? इति स्थिते द्विर्वचनं प्राप्नोति, तुक्? च; तत्र वर्णाश्रयेणान्तरङ्गत्वात्? तुक्। तस्मान्? कृते, द्विर्वचनं प्राप्नोति, चुत्वञ्च, ततर परत्वात् द्विर्वचने कर्तव्ये चुत्वस्यासिद्धत्वाद्द्विर्वचनं प्राप्नोति छिष्शब्दस्य। तत्र छकारस्य शेषो न प्राप्नोति; अशर्पूर्वत्वात्। न ह्रं तकारः अर्भवति, ततश्च पूर्वेण हलादिशेषे कृते सत्यभासे तकारः श्रूर्यत। अथापीदमस्ति - पूर्वत्रासिद्धोयमद्विर्वचने (जै।प।वृ।70) इति चुत्वं पश्चाद्द्विर्वचनं क्रियते, तथापि हलादिशेषेण छकारे निवृत्ते निमित्तापाये नैमित्तिकस्याप्यपायः (व्या।प।47) इति चुत्वे निवृत्ते उचिच्छिषतीत्यतर तकार एवाभ्यासे श्रूयेत। तस्मात्? खर्पूर्वाः खय इति वक्तव्यन्। एवं हि सति च्छकारस्य शेषे कृते तकारो निवर्तत इति न भवत्यनिष्टप्रसङ्गः॥
Prakriyasarvasvam¶
अभ्यासस्य शर्पूर्वाः खयः शिष्यन्ते, अन्ये लुप्यन्ते । इति तकारशेषः । तुस्ताव । ‘धात्वादेः—’ इत्यादेशसत्वादभ्यासेणः परस्य षः । तुष्टाव । तुष्टुवतुः । अस्य क्रादित्वात् थल्यपि नेट् । तुष्टोथ । तुष्टुव । तुष्टाव, तुष्टव ; तुष्टुवे । तुष्टुवाते । तुष्टुवे । तुष्टुढ्वे । तुष्टुवे । तुष्टुवहे । स्तूयात्, स्तोषीष्ट । स्तोषीया- स्ताम् । स्तोषीढ्वम् । स्तोता । कौमुद्या तादावार्धधातुके भृस्तवादेर्वेडक्त्या स्तवितेत्यपि । स्तोष्यति, स्तोष्यते । कर्मणि चिण्वदिडूह्याः । ‘उपसर्गात् सुनोति—’ इति षः । अभिष्टौति । प्राक्सितादड्व्यवायेऽपि इति अभ्यष्टौत् । परिनिविभ्यस्तु षिवादिपाठादड्व्यवाये वा षः । पर्यष्टौत् पर्यस्तौत् । ष्णु स्तुतौ । ‘नुरुस्तुशम्यम—’ (७-३-९५) इति केषाञ्चित् पाठादीड्विकल्प इति कौमुदी । नवीति, नौति इत्यादि स्तुञः परस्मैपदवत् । लुङि सुरुनुदुवाम- लिटिड्वेटि कौमुदीमते वेट् । अनावीत्, अनौषीत् । लिटि नौतेः सेट्त्वात् थलि नित्यमिट् । नुनाव । नुनुवतुः । नुनुविथ । नुनुविव । नूयात् । नविता, नोता । नविष्यति, नोष्यति । कर्मणि अनावि । अनविषाताम्, अनोषाताम् । चिण्वदिटि अनाविषाताम् । नुनुवे । नुनुविषे । नविषीष्ट, नोषीष्ट; नाविषीष्ट इत्यादि । ब्रूञ् व्यक्तायां वाचि ।
Sutra Prayogas¶
पुस्फोर (भट्टिकाव्यम्): शर्पूर्वाः खयः इति ॥
तस्थौ (भट्टिकाव्यम्): शर्पूर्वाः खयः इति खयः शेषः।