74037: अश्वाघस्यात्¶
Padacheda: अश्वाघस्य | S | 6 | 1 |
आत् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
In the छन्दस् (Vedas) long आ is substituted for the final of 1. अश्व and 2. अघ before the Denominative क्यच् ।
Vasu English Translation¶
In the छन्दस् (Vedas) long आ is substituted for the final of 1. अश्व and 2. अघ before the Denominative क्यच् । As अश्वायन्तो मघवन् (Rig VII.32.23), मा त्वा वृका अघायवो विदन् ॥ This also indicates that other words do not lengthen their vowel in the Veda before क्यच्, as taught in (7.4.35). See Vartika to (3.1.8). The word अघायु occurs in Rig I.120.7.27; 3.
Bhashya¶
रीङृतः दीर्घोच्चारणं किमर्थं न रिङृत इत्येवोच्येत ? ॥ का रुपसिद्धिः - मात्रीयति पित्रीयति ? ॥ अकृत्सार्वधातुकयोरिति दीर्घत्वं भविष्यति ॥ एवं तर्हि सिद्धे सति यद्दीर्घोच्चारणं करोति तज्ज्ञापयत्याचार्यो भवत्येषा परिभाषा अङ्गवृत्ते पुनर्वत्तावविधिर्निष्ठितस्येति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? ॥ पिबेर्गुणप्रतिषेधश्चोदितः स न वक्तव्यो भवति ॥ ( रीङृतः )
Kashika¶
अश्व अघ इत्येतयोः क्यचि परतः छन्दसि विषये आकारादेशो भवति। अश्वायन्तो मघवन्। मा त्वा वृका अघायवो विदन्। एतदेव आत्ववचनं ज्ञापकं न च्छन्दस्यपुत्रस्य (7.4.35) इति दीर्घरतिषेधो भवतीति।
Siddhanta Kaumudi¶
अश्व अघ एतयो क्यचि आत्स्याच्छन्दसी । अश्वायन्तो मघवन् (अ॒श्वा॒यन्तो॑ मघवन्) । मात्वा वृका अघायवः । न च्छन्दसि-(SK3588) इति निषेधो नेत्वमात्रस्य किं तु दीर्घस्यापीति । अत्रेदमेव सूत्रं ज्ञापकम् ॥
Padamanjari¶
एतदेवेत्यादि । पूर्वमेवैतद्व्याख्यातम् ॥
Nyaas¶
एतदेवाद्ववचनं ज्ञापकम् इत्यादि। कथं कृत्वा ज्ञापकम्? यदि न च्छन्दसि (7.4.35) इत्यनन्तरस्यैवेत्वस्यायं प्रतिषेधः तदाऽद्वचनमनर्थकं स्यात्, अकृत्सार्वधातुकयोः (7.4.25) इत्यनेनैव सिद्धत्वात्, कृतञ्च, तस्मादेतज्ज्ञापयति - दीर्घस्याप्ययं प्रतिषेधो भवतीति॥
Prakriyasarvasvam¶
अश्वस्य अघस्य च क्यचि आत् स्यात् । अश्वायन्तो मघवन् । जहि यो नो अघायति ।