74013: केऽणः¶
Padacheda: के | S | 7 | 1 |
अणः | S | 6 | 1 |
Sutrartha¶
Vasu English Summary¶
Before the affix क the preceding आ , ई and ऊ are shortened.
Vasu English Translation¶
Before the affix क the preceding आ , ई and ऊ are shortened. As ज्ञका, (7.3.47) कुमारिका, किशोरिका, ब्रह्मबन्धुका ॥ Why आ, ई and ऊ only? Observe गोका, नौका ॥ The words राका, धाका are irregular being formed by Unadi diversity, with the affix क added to रा and धा (Unadi Ill. 40). By the following sutra, the rule does not apply to the affix कप्; it therefore implies that कन् is governed by this rule, though it has the anubandha न् ॥ Katyayana would confine this rule to the Taddhita क, and not the krit क of the Unadi, as राका, धाका; but Unadi words are not derivatives (उणादयोऽव्युत्पन्नानि प्रातिपदिकानि), and hence no necessity of reading Taddhita into the sutra.
Bhashya¶
केऽणः ॥ केऽणो ह्रस्वत्वे तद्धितग्रहणं कृन्निवृत्त्यर्थम् ॥ केऽणो ह्रस्वत्वे तद्धितग्रहणं कर्तव्यम् ॥ किं प्रयोजनम्? ॥ कृन्निवृत्त्यर्थम्। कृति मा भूत् राका धाकेति ॥ तत्तर्हि वक्तव्यम्? ॥ न वक्तव्यम् ॥ उणादयोऽव्युत्पन्नानि प्रातिपदिकानि ॥ (केऽणः) ॥
Kashika¶
के प्रत्यये परतोऽणो ह्रस्वो भवति। ज्ञका कुमारिका। किशोरिका। अणः इति किम्? गोका। नौका। राका, धाका इत्यत्र उणादयो बहुलम् (3.3.1) इति ह्रस्वो न भवति। न कपि (7.4.14) इति प्रतिषेधसामर्थ्यात् कनोऽपि सानुबन्धकस्य ग्रहणम् इह भवति।
Siddhanta Kaumudi¶
के परेऽणो ह्रस्वः स्यात् । इति प्राप्ते ॥
Balamanorama¶
केऽणः - केऽणः । ह्रस्वः स्यादिति ।शृदृप्रा॑मित्यतस्तदनुवृत्तेरिति भावः ।
Padamanjari¶
ज्ञकेति ।’भस्त्रैषाजाज्ञा’ इतीत्वप्रतिषेधः । गोकेति । ठणिति पूर्वेण णकारेण प्रत्याहारःऽ इति’लण्’ इत्यत्र प्रतिपादितम् । राका, धाकेति,’कृदाधाराचिकलिभ्यः कः’ । कनोऽपीति । सानुबन्धकस्योपलक्षणमेतत्, ठोर्देअशे ठञ्ऽ, नैषादकर्षुकः ॥
Nyaas¶
अणिति पूर्वेम णकारेण प्रत्याहारग्रहणम्; अन्यथा केऽचः इत्येवं ब्राऊयात्। अथ वा - अच इत्येतदपि न ब्राऊयात्, अच एव हि हरस्वदीर्घल्पुता भवन्ति। ज्ञका इति। जानातीति ज्ञा, इगुपधज्ञाप्रीकिरः कः (3.1.135) , तदन्ताट्टाप। अज्ञाता ज्ञेति प्रागिवास्? कः (5.3.70) । अथ वा - अनुकम्पिता ज्ञेति अनुकम्पायाम् (5.3.76) इति कन्? कनि कृते तदन्ताट्टाप्। अथेह कस्मान्न भवति - कृदाधारार्चिकलभ्यः कन् (द।उ।3।18) इति रातेर्दधातेश्च कन्, तदन्ताट्टाप् - राका, धाका इत्यादि। सुबोधम्। निरनुबन्धस्येह ग्रहणान्निरनुबन्धकपरिभाषया कनो ग्रहणेन न [नास्ति - मुद्रिते] भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह - न कपि इत्यादि। यद्येषा परिभाषोपतिष्टते, तदा न कपि (7.4.14) इति प्रतिषेधोऽनर्थकः स्यात्। सानुबन्धकत्वादेव कपो ग्रहणं ग्रहणं न भविष्यतीत्यभिप्रायः॥
Prakriyasarvasvam¶
कप्रत्यये परेऽणो ह्रस्वः स्यात् । आनुसुकः । लाक्षिकः लाक्षणिकः । मौहूर्तिकश्चोक्थादिरिति स्वामी । ‘आख्यानाख्यायिकाभ्याम् ।’ एते कथाभेदौ । यवक्रीतेत्याख्यानम् । वासवदत्तेत्याख्यायिका । यावक्रीतिकः । वासवदत्तिकः । ‘इतिहासपुराणाभ्याम्’ ऐतिहासिकः । पौराणिकः । ‘लक्षणकल्पान्तात्’ । आश्व- लक्षणिकः । मान्त्रकल्पिकः । ‘विद्यान्तादनङ्गक्षत्रधर्मत्रिपूर्वात्’ शाब्दविद्यां विदन् शाब्दविद्यिकः । ‘अङ्गादिपूर्वात् त्वणेव’ । आङ्गविद्यः । क्षात्रविद्यः । धार्मविद्यः । त्रिभागा विद्या त्रिविद्या वेदत्रयं, तद्वित् त्रैविद्यः । द्विगुत्वे तु ‘द्विगोर्लुगि’त्यणो लुकि त्रिविध इत्येव । ‘पदोत्तरपदाठ्ठन्’ । प्रगृह्यपदिकः । शतषष्ट्यादेः ‘पथः ष्कन्’ । शतपथं ब्राह्मणभेदः । शतपथिकः । षष्टिपथिकः । भित्त्वाच्छतपथिकी । शातपथ इत्यणपीति दण्डनाथः । ‘सर्वसादेर्लुक् ।’ सर्ववेदानधीयन् सर्ववेदः । सशब्दादेस्तु, सवार्त्तिकमधीयन् सवार्त्तिकः ॥
Sutra Prayogas¶
वि-नासा (भट्टिकाव्यम्): केऽणः इति ह्रस्वत्वे रूपं तस्या नसादेशस्य विधीयमानत्वादत्र संभव एव नास्ति ।
अवीवदन् (भट्टिकाव्यम्): सन्वल्लघुनि इति सन्वद्भावादभ्यासस्येत्वम्।